Rigveda 1.39 Hymn
१,०३९.०१ प्र यदित्था परावतः शोचिर्न मानमस्यथ ।
१,०३९.०१ कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ॥
१,०३९.०२ स्थिरा वः सन्त्वायुधा पराणुदे वीळू उत प्रतिष्कभे ।
१,०३९.०२ युष्माकमस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ॥
१,०३९.०३ परा ह यत्स्थिरं हथ नरो वर्तयथा गुरु ।
१,०३९.०३ वि याथन वनिनः पृथिव्या व्याशाः पर्वतानाम् ॥
१,०३९.०४ नहि वः शत्रुर्विविदे अधि द्यवि न भूम्यां रिशादसः ।
१,०३९.०४ युष्माकमस्तु तविषी तना युजा रुद्रासो नू चिदाधृषे ॥
१,०३९.०५ प्र वेपयन्ति पर्वतान्वि विञ्चन्ति वनस्पतीन् ।
१,०३९.०५ प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ॥
१,०३९.०६ उपो रथेषु पृषतीरयुग्ध्वं प्रष्टिर्वहति रोहितः ।
१,०३९.०६ आ वो यामाय पृथिवी चिदश्रोदबीभयन्त मानुषाः ॥
१,०३९.०७ आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे ।
१,०३९.०७ गन्ता नूनं नोऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ॥
१,०३९.०८ युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते ।
१,०३९.०८ वि तं युयोत शवसा व्योजसा वि युष्माकाभिरूतिभिः ॥
१,०३९.०९ असामि हि प्रयज्यवः कण्वं दद प्रचेतसः ।
१,०३९.०९ असामिभिर्मरुत आ न ऊतिभिर्गन्ता वृष्टिं न विद्युतः ॥
१,०३९.१० असाम्योजो बिभृथा सुदानवोऽसामि धूतयः शवः ।
१,०३९.१० ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् ॥
Rigveda 1.39.1 >
Rigveda 1.39.2 >
Rigveda 1.39.3 >
Rigveda 1.39.4 >
Rigveda 1.39.5 >
Rigveda 1.39.6 >
Rigveda 1.39.7 >
Rigveda 1.39.8 >
Rigveda 1.39.9 >
Rigveda 1.39.10 >
