वाजसनेयि माध्यन्दिन संहिता
अध्याय 1 दर्शपूर्णमासेष्टिः
VERSE: 1.1 इषे त्वा ऊर्जे त्वा । वायव स्थ । देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणऽ आ प्यायध्वम् अघ्न्या ऽइन्द्राय भागं प्रजावतीर् अनमीवा ऽअयक्ष्मा मा व स्तेनऽ ईशत माघशम्̐सो ध्रुवा ऽअस्मिन् गोपतौ स्यात बह्वीः । यजमानस्य पशून् पाहि ॥
VERSE: 1.2 वसोः पवित्रम् असि । द्यौर् असि पृथिव्यसि । मातरिश्वनो ऽघर्मो सि विश्वधा ऽअसि परमेण धाम्ना दृम्̐हस्व मा ह्वार् मा ते यज्ञपतिर् ह्वार्षीत् ॥
VERSE: 1.3 वसोः पवित्रम् असि शतधारं वसोः पवित्रम् असि सहस्रधारम् । देवस् त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्वा । काम् अधुक्षः ॥
VERSE: 1.4 सा विश्वायुः । सा विश्वकर्मा । सा विश्वधायाः । इन्द्रस्य त्वा भागम्̐ सोमेना तनच्मि । विष्णो हव्यम्̐ रक्ष ॥
VERSE: 1.5 अग्ने व्रतपते व्रतं चरिष्यामि तच् छकेयं तन् मे राध्यताम् । इदम् अहम् अनृतात् सत्यम् उपैमि ॥
VERSE: 1.6 कस् त्वा युनक्ति स त्वा युनक्ति कस्मै त्वा युनक्ति तस्मै त्वा युनक्ति । कर्मणे वां वेषाय वाम् ॥
VERSE: 1.7 प्रत्युष्टम्̐ रक्षः प्रत्युष्टा अरातयः । निष्टप्तम्̐ रक्षो निष्टप्ता ऽ अरातयः । उर्व् अन्तरिक्षम् अन्व् एमि ॥
VERSE: 1.8 धूर् असि धूर्व धूर्वन्तं धूर्व तं योऽ स्मान् धूर्वति तं धूर्व यं वयं धूर्वामः । देवानाम् असि वह्नितमम्̐ सम्नितमं पप्रितमं जुष्टतमं देवहूतमम् ॥
VERSE: 1.9 अह्रुतम् असि हविर्धानं दृम्̐हस्व मा ह्वार् मा यज्ञपतिर् ह्वार्षीत् । विष्णुस् त्वा क्रमताम् । उरु वाताय । अपहतम्̐ रक्षः । यच्छन्तां पञ्च ॥
VERSE: 1.10 देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । अग्नये जुष्टं गृह्णामि । अग्नीषोमाभ्यां जुष्टं गृह्णामि ॥
VERSE: 1.11 भूताय त्वा नारातये । स्वर् अभिवि ख्येषम् । दृम्̐हन्तां दुर्याः पृथिव्याम् । उर्व् अन्तरिक्षम् अन्व् एमि । पृथिव्यास् त्वा नाभौ सादयाम्य् अदित्या ऽउपस्थेऽ ग्ने हव्यम्̐ रक्ष ॥
VERSE: 1.12 पवित्रे स्थो वैष्णव्यौ । सवितुर् वः प्रसव उत् पुनाम्य् अच्छिद्रेन पवित्रेण सूर्यस्य रश्मिभिः । देवीर् आपो अग्रेगुवोऽ अग्रेपुवोऽग्र इमम् अद्य यज्ञं नयताग्रे यज्ञपतिम्̐ सुधातुं यज्ञपतिं देवयुवम् ॥
VERSE: 1.13 युष्मा ऽ इन्द्रोऽवृणीत वृत्रतूर्ये यूयम् इन्द्रम् अवृणीध्वं वृत्रतूर्ये । प्रोक्षिता स्थ । अग्नये त्वा जुष्टं प्रोक्षामि । अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि । दैव्याय कर्मणे शुन्धध्वं देवयज्यायै यद् वोऽशुद्धाः पराजघ्नुर् इदं वस् तच् छुन्धामि ॥
VERSE: 1.14 शर्मासि । अवधूतम्̐ रक्षोऽवधूता ऽ अरातयः । ऽअदित्यास् त्वग् असि प्रति त्वादितिर् वेत्तु । अद्रिर् असि वानस्पत्यः । ग्रावासि पृथुबुध्नः प्रति त्वादित्यास् त्वग् वेत्तु ॥
VERSE: 1.15 अग्नेस् तनूर् असि वाचो विसर्जनं देववीतये त्वा गृह्णामि । बृहद्ग्रावासि वानस्पत्यः । सऽइदं देवेभ्यो हविः शमीष्व सुशमि शमीष्व । हविष्कृद् एहि हविष्कृद् एहि हविष्कृद् एहि ॥
VERSE: 1.16 कुक्कुटोऽसि मधुजिह्वऽइषमूर्जम् आ वद त्वया वयम्̐ संघातम्̐-संघातं जेष्म । वर्षवृद्धम् असि । प्रति त्वा वर्षवृद्धं वेत्तु । परापूतम्̐ रक्षः परापूता अरातयः । ऽअपहतम्̐ रक्षः । वायुर् वो वि विनक्तु । देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्व् अच्छिद्रेण पाणिना ॥
VERSE: 1.17 धृष्टिर् असि । अपाऽग्ने ऽ अग्निम् आमादं जहि निष् क्रव्यादम्̐ सेध । आ देवयजं वह । ध्रुवम् असि पृथिवीं दृम्̐ह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय ॥
VERSE: 1.18 अग्ने ब्रह्म गृभ्णीष्व । धरुणम् अस्य् अन्तरिक्षं दृम्̐ह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय । धर्त्रम् असि दिवं दृम्̐ह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय । विश्वाभ्यस् त्वाशाभ्यऽ उप दधामि । चित स्थोर्ध्वचितः । भृगूणाम् अङ्गिरसां तपसा तप्यध्वम् ॥
VERSE: 1.19 शर्मासि । अवधूतम्̐ रक्षोऽवधूता ऽ अरातयः । ऽअदित्यास् त्वग् असि प्रति त्वादितिर् वेत्तु । धिषणासि पर्वती प्रति त्वादित्यास् त्वग् वेत्तु । दिव स्कम्भनीर् असि । धिषणासि पार्वतेयी प्रति त्वा पर्वती वेत्तु ॥
VERSE: 1.20 धान्यम् असि धिनुहि देवान् । प्राणाय त्वा । उदानाय त्वा । व्यानाय त्वा । दीर्घाम् अनु प्रसितिम् आयुषे धां देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्व् अच्छिद्रेण पाणिना । चक्षुषे त्वा । महीनां पयोऽसि ॥
VERSE: 1.21 देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । सं वपामि । सम् आपऽóषधीभिः सम् ओषधयो रसेन । सम्̐ रेवतीर् जगतीभिः पृच्यन्ताम्̐ सं मधुमतीर् मधुमतीभिः पृच्यन्ताम् ॥
VERSE: 1.22 जनयत्यै त्वा सं यौमि । इदम् अग्नेः । इदम् अग्नीषोमयोः । इषे त्वा । घर्मोऽसि विश्वायुः । उरुप्रथाऽ उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् । अग्निष्टे त्वचं मा हिम्̐सीत् । देवस् त्वा सविता श्रपयतु वर्षिष्ठेऽधि नाके ॥
VERSE: 1.23 मा भेर् मा संविक्थाः । ऽ अतमेरुर् यज्ञो ऽतमेरुर् यजमानस्य प्रजा भूयात् । त्रिताय त्वा । द्विताय त्वा । एकताय त्वा ॥
VERSE: 1.24 देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे ऽध्वरकृतं देवेभ्यः । ऽइन्द्रस्य बाहुर् असि दक्षिणः सहस्रभृष्टिः शततेजा वायुर् असि तिग्मतेजा द्विषतो वधः ॥
VERSE: 1.25 पृथिवि देवयजन्य् ओषध्यास् ते मूलं मा हिम्̐सिषम् । व्रजं गच्छ गोष्ठानम् । वर्षतु ते द्यौः । बधान देव सवितः परमस्यां पृथिव्याम्̐ शतेन पाशैर् यो स्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ॥
VERSE: 1.26 अपाररुं पृथिव्यै देवयजनाद् वध्यासम् । व्रजं गच्छ गोष्ठानम् । वर्षतु ते द्यौः । बधान देव सवितः परमस्यां पृथिव्याम्̐ शतेन पाशैर् योऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् । अररो दिवं मा पप्तः । द्रप्सस् ते द्यां मा स्कन् । व्रजं गच्छ गोष्ठानम् । वर्षतु ते द्यौः । बधान देव सवितः परमस्यां पृथिव्याम्̐ शतेन पाशैर् योऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ॥
VERSE: 1.27 गायत्रेण त्वा छन्दसा परि गृह्णामि । त्रैष्टुभेन त्वा छन्दसा परि गृह्णामि । जागतेन त्वा छन्दसा परि गृह्णामि । सुक्ष्मा चासि शिवा चासि । स्योना चासि सुषदा चासि । ऊर्जस्वती चासि पयस्वती च ॥
VERSE: 1.28 पुरा क्रूरस्य विसृपो विरप्शिन्न् उदादाय पृथिवीं जीवदानुम् । याम् ऐरयम्̐श् चन्द्रमसि स्वधाभिस् ताम् उ धीरासो ऽअनुदिश्य यजन्ते । प्रोक्षणीर् आ सादय । द्विषतो वधोऽ सि ॥
VERSE: 1.29 प्रत्युष्टम्̐ रक्षः प्रत्युष्टा ऽअरातयः । निष्टप्तम्̐ रक्षो निष्टप्ता ऽ अरातयः । अनिशितोऽ सि सपत्नक्षिद् वाजिनं त्वा वाजेध्यायै सं मार्ज्मि । प्रत्युष्टम्̐ रक्षः प्रत्युष्टाऽ अरातयः । निष्टप्तम्̐ रक्षो निष्टप्ताऽ अरातयः । अनिशिताऽसि सपत्नक्षिद् वाजिनीं त्वा वाजेध्यायै सं मार्ज्मि ॥
VERSE: 1.30 अदित्यै रास्नासि । विष्णोर् वेष्यो सि । ऊर्जे त्वा । ऽअदब्धेन त्वा चक्षुषाव पश्यामि । अग्नेर् जिह्वासि सुहूर् देवेभ्यो धाम्ने-धाम्ने मे भव यजुषे-यजुषे ॥
VERSE: 1.31 सवितुस् त्वा प्रसवऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । सवितुर् वः प्रसव ऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तेजो ऽसि शुक्रम् अस्य् अमृतम् असि । धाम नामासि प्रियं देवानाम् अनाधृष्टं देवयजनम् असि ॥

अध्याय 2 दर्शपूर्णमासयागः 2.1-2.28, पिण्डपितृयज्ञः 2.29-2.34
VERSE: 2.1 कृष्णोऽस्य् आखरेष्ठो ऽग्नये त्वा जुष्टं प्रोक्षामि । वेदिर् असि बर्हिषे त्वा जुष्टां प्रोक्षामि । बर्हिर् असि स्रुग्भ्यस् त्वा जुष्टं प्रोक्षामि ॥
VERSE: 2.2 अदित्यै व्युन्दनम् असि । विष्णो स्तुपो ऽसि । ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थां देवेभ्यः । भुवपतये स्वाहा । भुवनपतये स्वाहा । भूतानां पतये स्वाहा ॥
VERSE: 2.3 गन्धर्वस् त्वा विश्वावसुः परि दधातु विश्वस्यारिष्ट्यै यजमानस्य परिधिर् अस्य् अग्निर् इड ऽīडितः । इन्द्रस्य बाहुर् असि दक्षिणो विश्वस्यारिष्ट्यै यजमानस्य परिधिर् अस्य् अग्निर् इड ऽ ईडितः । मित्रावरुणौ त्वोत्तरतः परि धत्तां ध्रुवेण धर्मणा विश्वस्यारिष्ट्यै यजमानस्य परिधिर् अस्य् अग्निर् इड ऽ ईडितः ॥
VERSE: 2.4 वीतिहोत्रं त्वा कवे द्युमन्तम्̐ सम् इधीमहि । अग्ने बृहन्तम् अध्वरे ॥
VERSE: 2.5 समिद् असि । सूर्यस् त्वा पुरस्तात् पातु कस्याश् चिद् अभिशस्त्यै । सवितुर् बाहू स्थः । ऽ ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्यः । ऽ आ त्वा वसवो रुद्रा ऽ आदित्याः सदन्तु ॥
VERSE: 2.6 घृताच्य् असि जुहूर् नाम्ना सेदं प्रियेण धाम्ना प्रियम्̐ सद ऽ आ सीद । घृताच्य् अस्य् उपभृन् नाम्ना सेदं प्रियेण धाम्ना प्रियम्̐ सद ऽ आ सीद । घृताच्य् असि ध्रुवा नाम्ना सेदं प्रियेण धाम्ना प्रियम्̐ सदऽ आ सीद । प्रियेण धाम्ना प्रियम्̐ सद ऽआ सीद । ध्रुवा ऽ असदन्न् ऋतस्य योनौ ता विष्णो पाहि । पाहि यज्ञं । पाहि यज्ञपतिम् । पाहि मां यज्ञन्यम् ॥
VERSE: 2.7 अग्ने वाजजिद् वाजं त्वा सरिष्यन्तं वाजजितम्̐ सं मार्ज्मि । नमो देवेभ्यः । स्वधा पितृभ्यः । सुयमे मे भूयास्तम् ॥
VERSE: 2.8 अस्कन्नम् अद्य देवेभ्यऽ आज्यम्̐ सं भ्रियासम् । अङ्घ्रिणा विष्णो मा त्वाव क्रमिषम् । वसुमतीम् अग्ने ते छायाम् उप स्थेषं विष्णो स्थानम् असि । इत ऽ इन्द्रो वीर्यम् अकृणोद् ऊर्ध्वो ध्वर ऽआस्थात् ॥
VERSE: 2.9 अग्ने वेर् होत्रं वेर् दूत्यम् । अवतां त्वां द्यावापृथिवी । ऽअव त्वं द्यावापृथिवी स्विष्टकृद् देवेभ्यो इन्द्रऽ आज्येन हविषा भूत् स्वाहा । सं ज्योतिषा ज्योतिः ॥
VERSE: 2.10 मयीदम् इन्द्र ऽइन्द्रियं दधात्व् अस्मान् रायो मघवानः सचन्ताम् । अस्माकम्̐ सन्त्व् आशिषः सत्या नः सन्त्व् आशिषः । ऽउपहूता पृथिवी मातोप मां पृथिवी माता ह्वयताम् । अग्निर् आग्नीध्रात् स्वाहा ॥
VERSE: 2.11 उपहूतो द्यौष् पितोप मां द्यौष् पिता ह्वयताम् अग्निर् आग्नीध्रात् स्वाहा । देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । प्रति गृह्णामि । अग्नेष् ट्वास्येन प्राश्नामि ॥
VERSE: 2.12 एतं ते देव सवितर् यज्ञं प्राहुर् बृहस्पतये ब्रह्मणे । तेन यज्ञम् अव तेन यज्ञपतिं तेन माम् अव ॥
VERSE: 2.13 मनो जूतिर् जुषताम् आज्यस्य बृहस्पतिर् यज्ञम् इमं तनोतु । अरिष्टं यज्ञम्̐ सम् इमं दधातु विश्वे देवासऽ इह मादयन्ताम् ओ3ं प्र तिष्ठ ॥
VERSE: 2.14 एषा तेऽ अग्ने समित् तया वर्धस्व चा च प्यायस्व । वर्धिषीमहि च वयम् आ च प्यासिषीमहि । अग्ने वाजजिद् वाजं त्वा ससृवाम्̐सं वाजजितम्̐ सं मार्ज्मि ॥
VERSE: 2.15 अग्नीषोमयोर् उज्जितिम् अनूज्जेषं वाजस्य मा प्रसवेन प्रोहामि । अग्नीषोमौ तम् अपनुदतां योऽस्मान् द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामि । इन्द्राग्न्योर् उज्जितिम् अनूज्जेषं वाजस्य मा प्रसवेन प्रोहामि । इन्द्राग्नी तम् अप नुदतां यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामि ॥
VERSE: 2.16 वसुभ्यस् त्वा । रुद्रेभ्यस् त्वा । आदित्येभ्यस् त्वा । सं जानाथां द्यावापृथिवी । मित्रावरुणौ त्वा वृष्ट्यावताम् । व्यन्तु वयो क्तम्̐ रिहाणाः । मरुतां पृषतीर् गच्छ वशा पृश्निर् भूत्वा दिवं गच्छ ततो नो वृष्टिम् आ वह । चक्षुष्पा ऽअग्ने ऽसि चक्षुर् मे पाहि ॥
VERSE: 2.17 यं परिधिं पर्यधत्थाऽ अग्ने देव पणिभिर् गुह्यमानः । तं तऽ एतम् अनु जोषं भराम्य् नेत् त्वद् अपचेतयातै । ऽअग्नेः प्रियं पाथोऽपीतम् ॥
VERSE: 2.18 सम्̐स्रवभागा स्थेषा बृहन्तः प्रस्तरेष्ठाः परिधेयाश् च देवाः । इमां वाचम् अभि विश्वे गृणन्त ऽआसद्यास्मिन् बर्हिषि मादयध्वम् । स्वाहा वाट् ॥
VERSE: 2.19 घृताची स्थो धुर्यौ पातम्̐ सुम्ने स्थः सुम्ने मा धत्तम् । यज्ञ नमश् च तऽ उप च यज्ञस्य शिवे सं तिष्ठस्व स्विष्टे मे संतिष्ठस्व ॥
VERSE: 2.20 अग्नेऽ दब्धायो ऽशीतम पाहि मा दिद्योः । पाहि प्रसित्यै । पाहि दुरिष्ट्यै । पाहि दुरद्मन्याऽ अविषं नः पितुं कृणु । सुषदा योनौ स्वाहा वाट् । अग्नये संवेशपतये स्वाहा । सरस्वत्यै यशोभगिन्यै स्वाहा ॥
VERSE: 2.21 वेदो ऽसि येन त्वं देव वेद देवेभ्यो वेदोऽ भवस् तेन मह्यं वेदो भूयाः । देवा गातुविदो गातुं वित्त्वा गातुम् इत । मनसस् पतऽ इमं देव यज्ञम्̐ स्वाहा वाते धाः ॥
VERSE: 2.22 सं बर्हिर् अङ्क्ताम्̐ हविषा घृतेन सम् आदित्यैर् वसुभिः सं मरुद्भिः । सम् इन्द्रो विश्वदेवेभिर् अङ्क्तां दिव्यं नभो गच्छतु यत् स्वाहा ॥
VERSE: 2.23 कस् त्वा वि मुञ्चति स त्वा वि मुञ्चति कस्मै त्वा वि मुञ्चति तस्मै त्वा वि मुञ्चति । पोषाय । रक्षसां भागो ऽसि ॥
VERSE: 2.24 सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सम्̐ शिवेन । त्वष्टा सुदत्रो वि दधातु रायोऽ नुमार्ष्टु तन्वो यद् विलिष्टम् ॥
VERSE: 2.25 दिवि विष्णुर् व्यक्रम्̐स्त जागतेन छन्दसा ततो निर्भक्तो यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः । अन्तरिक्षे विष्णुर् व्यक्रम्̐स्त जागतेन छन्दसा ततो निर्भक्तो योऽ स्मान् द्वेष्टि यं च वयं द्विष्मः । पृथिव्यां विष्णुर् व्यक्रम्̐स्त जागतेन छन्दसा ततो निर्भक्तो यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः । अस्माद् ऽअन्नादस्यै प्रतिष्ठायै । ऽ अगन्म स्वः । सं ज्योतिषाभूम ॥
VERSE: 2.26 स्वयम्भूर् असि श्रेष्ठो रश्मिर् ऽवर्चोदा असि वर्चो मे देहि । सूर्यस्यावृतम् अन्व् आवर्ते ॥
VERSE: 2.27 अग्ने गृहपते सुगृहपतिस् त्वयाऽग्ने ऽहं गृहपतिना भूयासम्̐ सुगृहपतिस् त्वं मयाऽग्ने गृहपतिना भूयाः । अस्थूरि णौ गार्हपत्यानि सन्तु शतम्̐ हिमाः । सूर्यस्यावृतम् अन्व् आवर्ते ॥
VERSE: 2.28 अग्ने व्रतपते व्रतम् अचारिषं तद् अशकं तन् मेऽ राधि । इदम् अहं यऽ एवाऽस्मि सोऽस्मि ॥
VERSE: 2.29 अग्नये कव्यवाहनाय स्वाहा । सोमाय पितृमते स्वाहा । अपहता ऽ असुरा रक्षाम्̐सि वेदिषदः ॥
VERSE: 2.30 ये रूपाणि प्रतिमुञ्चमाना ऽ असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्य् अग्निष्टाँन् लोकात् प्र णुदात्य् अस्मात् ॥
VERSE: 2.31 अत्र पितरो मादयध्वं यथाभागम् आ वृषायध्वम् । अमीमदन्त पितरो यथाभागम् आ वृषायिषत ॥ VERSE 2.32 नमो वः पितरो रसाय नमो वः पितरः शोषाय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो घोराय नमो वः पितरो मन्यवे नमो वः पितरः पितरो नमो वो गृहान्नः पितरो दत्त सतो वः पितरो देष्मैतद्वः पितरो वासः॥
VERSE: 2.33 आ धत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषो ऽसत् ॥
VERSE: 2.34 ऊर्जं वहन्तीर् अमृतं घृतं पयः कीलालं परिस्रुतम् । स्वधा स्थ तर्पयत मे पितॄन् ॥

अध्याय 3 अग्न्याधानम्, अग्निहोत्रम्, अग्न्युपस्थानम्. चातुर्मास्यः
VERSE: 3.1 समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् । आस्मिन् हव्या जुहोतन ॥
VERSE: 3.2 सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन । अग्नये जातवेदसे ॥
VERSE: 3.3 तं त्वा समिद्भिर् अङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य ॥
VERSE: 3.4 उप त्वाग्ने हविष्मतीर् घृताचीर् यन्तु हर्यत । जुषस्व समिधो मम ॥
VERSE: 3.5 भूर् भुवः स्वः । द्यौर् इव भूम्ना पृथिवीव वरिम्णा । तस्यास् ते पृथिवि देवयजनि पृष्ठेऽ ग्निम् अन्नादम् अन्नाद्याया दधे ॥
VERSE: 3.6 आयं गौः पृश्निर् अक्रमीद् असदन् मातरं पुरः । पितरं च प्रयन्त्स्वः ॥
VERSE: 3.7 अन्तश् चरति रोचनास्य प्राणाद् अपानती । व्यख्यन् महिषो दिवम् ॥
VERSE: 3.8 त्रिम्̐शद् धाम वि राजति वाक् पतङ्गाय धीयते । प्रति वस्तोर् अह द्युभिः ॥
VERSE: 3.9 अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा । सूर्यो ज्योतिर् ज्योतिः सूर्यः स्वाहा । अग्निर् वर्चो ज्योतिर् वर्चः स्वाहा । सूर्यो वर्चो ज्योतिर् वर्चः स्वाहा । ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ॥
VERSE: 3.10 सजूर् देवेन सवित्रा सजू रात्र्येन्द्रवत्या । जुषाणो ऽअग्निर् वेतु स्वाहा । सजूर् देवेन सवित्रा सजू उषसेन्द्रवत्या । जुषाणः सूर्यो वेतु स्वाहा ॥
VERSE: 3.11 उपप्रयन्तो ऽ अध्वरं मन्त्रं वोचेमाग्नये । आरे ऽ अस्मे च शृण्वते ॥
VERSE: 3.12 अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् । अपाम्̐ रेताम्̐सि जिन्वति ॥
VERSE: 3.13 उभा वाम् इन्द्राग्नी ऽ आहुवध्या ऽ उभा राधसः सह मादयध्यै । उभा दाताराव् इषाम्̐ रयीणाम् उभा वाजस्य सातये हुवे वाम् ॥
VERSE: 3.14 अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः । तं जानन्न् अग्न ऽ आरोहाथा नो वर्धया रयिम् ॥
VERSE: 3.15 अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः । यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥
VERSE: 3.16 अस्य प्रत्नाम् अनु द्युतम्̐ शुक्रं दुदुह्रे ऽ अह्रयः । पयः सहस्रसाम् ऋषिम् ॥
VERSE: 3.17 तनूपा ऽ अग्ने ऽसि तन्वं मे पाहि । आयुर्दा ऽ अग्नेऽ स्य् आयुर् मे देहि । वर्चोदा ऽ अग्ने ऽसि वर्चो मे देहि । अग्ने यन् मे तन्वा ऽ ऊनं तन् मऽ आ पृण ॥
VERSE: 3.18 इन्धानास् त्वा शतम्̐ हिमा द्युमन्तम्̐ सम् इधीमहि । वयस्वन्तो वयस्कृतम्̐ सहस्वन्तः सहस्कृतम् । अग्ने सपत्नदम्भनम् अदब्धासो ऽ अदाभ्यम् । चित्रावसो स्वस्ति ते पारम् अशीय ॥
VERSE: 3.19 सं त्वम् अग्ने सूर्यस्य वर्चसागथाः सम् ऋषीणाम्̐ स्तुतेन । सं प्रियेण धाम्ना सम् अहम् आयुषा सं वर्चसा सं प्रजया सम्̐ रायस् पोषेण ग्मिषीय ॥
VERSE: 3.20 अन्ध स्थान्धो वो भक्षीय मह स्थ महो वो भक्षीयोर्ज स्थोर्जं वो भक्षीय रायस् पोष स्थ रायस् पोषं वो भक्षीय ॥
VERSE: 3.21 रेवती रमध्वम् अस्मिन् योनाव् अस्मिन् गोष्ठे ऽस्मिंल् लोके स्मिन् क्षये । इहैव स्त मापगात ॥
VERSE: 3.22 सम्̐हितासि विश्वरूप्य् ऊर्जा माविश गौपत्येन । उप त्वाग्ने दिवे-दिवे दोषावस्तर् धिया वयम् । नमो भरन्त ऽéमसि ॥
VERSE: 3.23 राजन्तम् अध्वराणां गोपाम् ऋतस्य दीदिविम् । वर्धमाणम्̐ स्वे दमे ॥
VERSE: 3.24 स नः पितेव सूनवे ऽग्ने सूपायनो भव । सचस्वा नः स्वस्तये ॥
VERSE: 3.25 अग्ने त्वं नोऽ अन्तमऽ उत त्राता शिवो भवा वरूथ्यः । वसुर् अग्निर् वसुश्रवाऽ अच्छानक्षि द्युमत्तमम्̐ रयिं दाः ॥
VERSE: 3.26 तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः । स नो बोधि श्रुधी हवम् उरुष्या णोऽ अघायतः समस्मात् ॥
VERSE: 3.27 इडऽ एह्य् अदित ऽ एहि । काम्या ऽ एत । मयि वः कामधरणं भूयात् ॥
VERSE: 3.28 सोमानम्̐ स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य ऽ औशिजः ॥
VERSE: 3.29 यो रेवान् यो ऽअमीवहा वसुवित् पुष्टिवर्धनः । स नः सिषक्तु यस् तुरः ॥
VERSE: 3.30 मा नः शम्̐सोऽ अररुषो धूर्तिः प्र णङ् मर्त्यस्य । रक्षा णो ब्रह्मणस्पते ॥
VERSE: 3.31 महि त्रीणाम् अवो ऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य ॥
VERSE: 3.32 नहि तेषाम् अमा चन नाध्वसु वारणेषु । ईशे रिपुर् अघशम्̐सः ॥
VERSE: 3.33 ते हि पुत्रासो ऽ अदितेः प्र जीवसे मर्त्याय । ज्योतिर् यच्छन्त्य् अजस्रम् ॥
VERSE: 3.34 कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । उपोपेन् नु मघवन् भूय ऽ इन् नु ते दानं देवस्य पृच्यते ॥
VERSE: 3.35 तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयत् ॥
VERSE: 3.36 परि ते दूडभो रथोऽस्माम्̐ अश्नोतु विश्वतः । येन रक्षसि दाशुषः ॥
VERSE: 3.37 भूर् भुवः स्वः सुप्रजाः प्रजाभि स्याम्̐ सुवीरो वीरैः सुपोषः पोषैः । नर्य प्रजां मे पाहि । शम्̐स्य पशून् मे पाहि । अथर्य पितुं मे पाहि ॥
VERSE: 3.38 आगन्म विश्ववेदसम् अस्मभ्यं वसुवित्तमम् । अग्ने सम्राड् अभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥
VERSE: 3.39 अयम् अग्निर् गृहपतिर् गार्हपत्यः प्रजाया वसुवित्तमः । अग्ने गृहपते ऽभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥
VERSE: 3.40 अयम् अग्निः पुरीष्यो रयिमान् पुष्टिवर्धनः । अग्ने पुरीष्याभि द्युम्नम् अभि सह ऽ आ यच्छस्व ॥
VERSE: 3.41 गृहा मा बिभीत मा वेपध्वमूर्जं बिभ्रत ऽ एमसि । ऊर्जं बिभ्रद् वः सुमनाः सुमेधा गृहान् ऐमि मनसा मोदमानः ॥
VERSE: 3.42 येषाम् अध्येति प्रवसन् येषु सौमनसो बहुः । गृहान् उप ह्वयामहे ते नो जानन्तु जानतः ॥
VERSE: 3.43 उपहूताऽ इह गावऽ उपहूताऽ अजावयः । अथो ऽअन्नस्य कीलाल ऽउपहूतो गृहेषु नः । क्षेमाय वः शान्त्यै प्र पद्ये शिवम्̐ शग्मम्̐ शंयोः शंयोः ॥
VERSE: 3.44 प्रघासिनो हवामहे मरुतश् च रिशादसः । करम्भेण सजोषसः ॥
VERSE: 3.45 यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये । यद् एनश् चकृमा वयम् इदं तद् अव यजामहे स्वाहा ॥
VERSE: 3.46 मो षू ण ऽ इन्द्रात्र पृत्सु देवैर् अस्ति हि ष्मा ते शुष्मिन्न् अवयाः । महश् चिद् यस्य मीढुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥
VERSE: 3.47 अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा । देवेभ्यः कर्म कृत्वास्तं प्रेत सचाभुवः ॥
VERSE: 3.48 अवभृथ निचुम्पुण निचेरुर् असि निचुम्पुणः । अव देवैर् देवकृतम् एनो यासिषम् अव मर्त्यैर् मर्त्यकृतम् । पुरुराव्णो देव रिषस् पाहि ॥
VERSE: 3.49 पूर्णा दर्वि परा पत सुपूर्णा पुनर् आ पत । वस्नेव वि क्रीणावहाऽ इषमूर्जम्̐ शतक्रतो ॥
VERSE: 3.50 देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारं च हरासि मे निहारं निहराणि ते स्वाहा ॥
VERSE: 3.51 अक्षन्न् अमीमदन्त ह्य् अव प्रियाऽ अधूषत । अस्तोषत स्वभानवो विप्रा निविष्ठया मती योजा न्व् ìन्द्र ते हरी ॥
VERSE: 3.52 सुसंदृशं त्वा वयं मघवन् वन्दिषीमहि । प्र नूनं पूर्णबन्धुर स्तुतो यासि वशाँ̐2ऽ अनु योजा न्व् ìन्द्र ते हरी ॥
VERSE: 3.53 मनो न्व् आह्वामहे नाराशम्̐सेन स्तोमेन । पितॄणां च मन्मभिः ॥
VERSE: 3.54 आ न ऽएतु मनः पुनः क्रत्वे दक्षाय हविषे । ज्योक् च सूर्यं दृशे ॥
VERSE: 3.55 पुनर् नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातम्̐ सचेमहि ॥
VERSE: 3.56 वयम्̐ सोम व्रते तव मनस् तनूषु बिभ्रतः । प्रजावन्तः सचेमहि ॥
VERSE: 3.57 एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व स्वाहा । एष ते रुद्र भागऽ आखुस् ते पशुः ॥
VERSE: 3.58 अव रुद्रमद् ईमह्य् अव देवं त्र्यम्बकम् । यथा नो वस्यसस् करद् यद् यथा नः श्रेयसस् करद् यद् यथा नो व्यवसाययात् ॥
VERSE: 3.59 भेषजम् असि भेषजं गवेऽश्वाय पुरुषाय भेषजम् । सुखं मेषाय मेष्यै ॥
VERSE: 3.60 त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय माऽमृतात् । त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् । उर्वारुकम् इव बन्धनाद् इतो मुक्षीय मामुतः ॥
VERSE: 3.61 एतत् ते रुद्रावसं तेन परो मूजवतोऽ तीहि । अवततधन्वा पिनाकावसः कृत्तिवासाऽ अहिम्̐सन् नः शिवोऽतीहि ॥
VERSE: 3.62 त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् । यद् देवेषु त्र्यायुषं तन् नो ऽअस्तु त्र्यायुषम् ॥
VERSE: 3.63 शिवो नामासि स्वधितिस् ते पिता नमस् ते ऽअस्तु मा मा हिम्̐सीः । नि वर्तयाम्य् उषेऽन्नाद्याय प्रजननाय रायस् पोषाय सुप्रजास्त्वाय सुवीर्याय ॥
अध्याय 4 अग्निष्टोमे ऋत्विग् यजमानस्य शाला प्रवेशमारभ्य क्रीतसोमस्य शालाप्रवेशान्त मन्त्राः
VERSE: 4.1 एदम् अगन्म देवयजनं पृथिव्या यत्र देवासो ऽ अजुषन्त विश्वे । ऋक् सामाभ्या संतरन्तो यजुर्भी रायस् पोषेण सम् इषा मदेम । इमा ऽ आपः शम् उ मे सन्तु देवीः । ओषधे त्रायस्व । स्वधिते मैनम्̐ हिम्̐सीः ॥
VERSE: 4.2 आपो ऽ अस्मान् मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । विश्वम्̐ हि रिप्रं प्रवहन्ति देवीः । उद् इदाभ्यः शुचिर् आ पूत ऽ एमि । दीक्षातपसोस् तनूर् असि तं त्वा शिवाम्̐ शग्मां परि दधे भद्रं वर्णं पुष्यन् ॥
VERSE: 4.3 महीनां पयो सि वर्चोदा ऽ असि वर्चो मे देहि । वृत्रस्यासि कनीनकश् चक्षुर्दा ऽ असि चक्षुर् मे देहि ॥
VERSE: 4.4 चित्पतिर् मा पुनातु । वाक्पतिर् मा पुनातु । देवो मा सविता पुनात्व् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच् छकेयम् ॥
VERSE: 4.5 आ वो देवास ऽ ईमहे वामं प्रयत्य् अध्वरे । आ वो देवास आशिषो ऽ यज्ञियासो हवामहे ॥
VERSE: 4.6 स्वाहा यज्ञं मनसः । स्वाहोरोर् अन्तरिक्षात् । स्वाहा द्यावापृथिवीभ्याम् । स्वाहा वाताद् आ रभे स्वाहा ॥
VERSE: 4.7 आकूत्यै प्रयुजे ऽग्नये स्वाहा मेधायै मनसे ऽग्नये स्वाहा दीक्षायै तपसे ऽग्नये स्वाहा सरस्वत्यै पूष्णे ऽग्नये स्वाहा आपो देवीर् बृहतीर् विश्वशम्भुवो द्यावापृथिवी ऽ उरो ऽ अन्तरिक्ष । बृहस्पतये हविषा विधेम स्वाहा ॥
VERSE: 4.8 विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् । विश्वो राय ऽ इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा ॥
VERSE: 4.9 ऋक्सामयोः शिल्पे स्थः ते वाम् आ रभे ते मा पातमास्य यज्ञस्योदृचः । शर्मासि शर्म मे यच्छ नमस् ते ऽ अस्तु मा मा हिम्̐सीः ॥
VERSE: 4.10 ऊर्ग् अस्य् आङ्गिरस्यूर्णम्रदा ऽ ऊर्जं मयि धेहि । सोमस्य नीविर् असि । विष्णोः शर्मासि शर्म यजमानस्य । इन्द्रस्य योनिर् असि । सुसस्याः कृषीस् कृधि । उच् छ्रयस्व वनस्पत ऽūर्ध्वो मा पाह्य् अम्̐हसऽ आस्य यज्ञस्योदृचः ॥
VERSE: 4.11 व्रतं कृणुताग्निर् ब्रह्माग्निर् यज्ञो वनस्पतिर् यज्ञियः । दैवीं धियं मनामहे सुमृडीकाम् अभिष्टये वर्चोधां यज्ञवाहसम्̐ सुतीर्था नो ऽअसद् वशे । ये देवा मनोजाता मनोयुजो दक्षक्रतवस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ॥
VERSE: 4.12 श्वात्राः पीता भवत यूयम् आपो ऽअस्माकम् अन्तर् उदरे सुशेवाः । ता ऽअस्मभ्यम् अयक्ष्माऽ अनमीवा ऽअनागसः स्वदन्तु देवीर् अमृता ऽ ऋतावृधः ॥
VERSE: 4.13 इयं ते यज्ञिया तनूः । अपो मुञ्चामि न प्रजाम् । अम्̐होमुचः स्वाहाकृताः पृथिवीम् आविशत । पृथिव्या संभव ॥
VERSE: 4.14 अग्ने त्वम्̐ सु जागृहि वयम्̐ सु मन्दिषीमहि । रक्षा णो ऽ अप्रयुच्छन् प्रबुधे नः पुनस् कृधि ॥
VERSE: 4.15 पुनर् मनः पुनर् आयुर् म ऽआगन् पुनः प्राणः पुनर् आत्मा मऽ आगन् पुनश् चक्षुः पुनः श्रोत्रं म ऽआगन् । वैश्वानरोऽ अदब्धस् तनूपा ऽअग्निर् नः पातु दुरिताद् अवद्यात् ॥
VERSE: 4.16 त्वम् अग्ने व्रतपा ऽ असि देव ऽ आ मर्त्येष्व् आ त्वं यज्ञेष्व् ईड्यः । रास्वेयत्सोमा भूयो भर देवो नः सविता वसोर् दाता वस्व् अदात् ॥
VERSE: 4.17 एषा ते शुक्र तनूर् एतद् वर्चस् तया सं भव भ्राजं गच्छ । जूर् असि धृता मनसा जुष्टा विष्णवे ॥
VERSE: 4.18 तस्यास् ते सत्यसवसः प्रसवे तन्वो यन्त्रम् अशीय स्वाहा । शुक्रम् असि चन्द्रम् अस्य् अमृतम् असि वैश्वदेवम् असि ॥
VERSE: 4.19 चिद् असि मनासि धीर् असि दक्षिणासि क्षत्रियासि यज्ञियास्य् अदितिर् अस्य् उभयतःशीर्ष्णी । सा नः सुप्राची सुप्रतीच्य् एधि मित्रस् त्वा पदि बध्नीतां पूषाऽध्वनस् पात्व् इन्द्रायाध्यक्षाय ॥
VERSE: 4.20 अनु त्वा माता मन्यताम् अनु पिताऽनु भ्राता सगर्भ्यो ऽनु सखा सयूथ्यः । सा देवि देवम् अच्छेहीन्द्राय सोमम्̐ रुद्रस् त्वा वर्तयतु स्वस्ति सोमसखा पुनर् एहि ॥
VERSE: 4.21 वस्व्य् अस्य् अदितिर् अस्यादित्यासि रुद्रासि चन्द्रासि । बृहस्पतिष् ट्वा सुम्ने रम्णातु रुद्रो वसुभिर् आ चके ॥
VERSE: 4.22 अदित्यास् त्वा मूर्धन्न् आ जिघर्मि देवयजने पृथिव्याऽ इडायास् पदम् असि घृतवत् स्वाहा । अस्मे रमस्व । अस्मे ते बन्धुः । त्वे रायः । मे रायः । मा वयम्̐ रायस्पोषेण वि यौष्म । तोतो रायः ॥
VERSE: 4.23 सम् अख्ये देव्या धिया सं दक्षिणयोरुचक्षसा । मा मऽ आयुः प्र मोषीर् मो ऽअहं तव । वीरं विदेय तव देवि संदृशि ॥
VERSE: 4.24 एष ते गायत्रो भागऽ इति मे सोमाय ब्रूताद् एष ते त्रैष्टुभो भागऽ इति मे सोमाय ब्रूताद् एष ते जागतो भागऽ इति मे सोमाय ब्रूताच् छन्दोनामानाम्̐ साम्राज्यं गच्छेति मे सोमाय ब्रूतात् । आस्माकोऽ सि शुक्रस् ते ग्रह्यो विचितस् त्वा वि चिन्वन्तु ॥
VERSE: 4.25 अभि त्यं देवम्̐ सवितारम् ओण्योः कविक्रतुम् अर्चामि सत्यसवम्̐ रत्नधाम् अभि प्रियं मतिं कविम् । ऊर्ध्वा यस्यामतिर् भा अदिद्युतत् सवीमनि हिरण्यपाणिर् अमिमीत सुक्रतुः कृपा स्वः । प्रजाभ्यस् त्वा । प्रजास् त्वाऽनुप्राणन्तु प्रजास् त्वम् अनुप्राणिहि ॥
VERSE: 4.26 शुक्रं त्वा शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतम् अमृतेन । सग्मे ते गोः । अस्मे ते चन्द्राणि । तपसस् तनूर् असि प्रजापतेर् वर्णः परमेण पशुना क्रीयसे सहस्रपोषं पुषेयम् ॥
VERSE: 4.27 मित्रो नऽ एहि सुमित्रधः । ऽ इन्द्रस्योरुम् आ विश दक्षिणम् उशन्न् उशन्तम्̐ स्योनः स्योनम् । स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानो । एते वः सोमक्रयणास् तान् रक्षध्वं मा वो दभन् ॥
VERSE: 4.28 परि माग्ने दुश्चरिताद् बाधस्वा मा सुचरिते भज । उद् आयुषा स्वायुषोदस्थाम् अमृताम्̐ ऽअनु ॥
VERSE: 4.29 प्रति पन्थाम् अपद्महि स्वस्तिगाम् अनेहसम् । येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥
VERSE: 4.30 अदित्यास् त्वग् असि । अदित्यै सद ऽआ सीद । अस्तभ्नाद् द्यां वृषभो ऽ अन्तरिक्षम् अमिमीत वरिमाणं पृथिव्याः । आसीदद् विश्वा भुवनानि सम्राड् विश्वेत् तानि वरुणस्य व्रतानि ॥
VERSE: 4.31 वनेषु व्यन्तरिक्षं ततान वाजम् अर्वत्सु पय ऽउस्रियासु । हृत्सु क्रतुं वरुणो विक्ष्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ ॥
VERSE: 4.32 सूर्यस्य चक्षुर् आरोहाग्नेर् अक्ष्णः कनीनकम् । यत्रैतशेभिर् ईयसे भ्राजमानो विपश्चिता ॥
VERSE: 4.33 उस्राव् एतं धूर्षाहौ युज्येथाम् अनश्रूऽ अवीरहणौ ब्रह्मचोदनौ । स्वस्ति यजमानस्य गृहान् गच्छतम् ॥
VERSE: 4.34 भद्रो मेऽ सि प्रच्यवस्व भुवस्पते विश्वान्य् अभि धामानि । मा त्वा परिपरिणो विदन् मा त्वा परिपन्थिनो विदन् मा वृकाऽ अघायवो विदन् । श्येनो भूत्वा परा पत यजमानस्य गृहान् गच्छ तन् नौ सँ̐स्कृतम् ॥
VERSE: 4.35 नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतम्̐ सपर्यत । दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय शम्̐सत ॥
VERSE: 4.36 वरुणस्योत्तम्भनम् असि । वरुणस्य स्कम्भसर्जनी स्थः । वरुणस्यऽ ऋतसदन्य् असि वरुणस्यऽ ऋतसदनम् असि । वरुणस्य ऽऋतसदनम् आ सीद ॥
VERSE: 4.37 या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूर् अस्तु यज्ञम् । गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्रचरा सोम दुर्यान् ॥
अध्याय 5 अग्निष्टोमे आतिथ्यमारभ्य यूपनिर्माणपर्यन्तम् मन्त्राः VERSE: 5.1 अग्नेस् तनूर् असि विष्णवे त्वा सोमस्य तनूर् असि विष्णवे त्वातिऽतिथेर् आतिथ्यम् असि विष्णवे श्येनाय त्वा सोमभृते विष्णवे त्वाऽग्नये त्वा रायस्पोषदे विष्णवे त्वा ॥
VERSE: 5.2 अग्नेर् जनित्रम् असि । वृषणौ स्थः । ऽउर्वश्य् असि । आयुर् असि । ऽ पुरूरवा असि । गायत्रेण त्वा छन्दसा मन्थामि । त्रैष्टुभेन त्वा छन्दसा मन्थामि । जागतेन त्वा छन्दसा मन्थामि ॥
VERSE: 5.3 भवतं नः समनसौ सचेतसाव् अरेपसौ । मा यज्ञम्̐ हिम्̐सिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥
VERSE: 5.4 अग्नाव् अग्निश् चरति प्रविष्ट ऽ ऋषीणां पुत्रो ऽअभिशस्तिपावा । स नः स्योनः सुयजा यजेह देवेभ्यो हव्यम्̐ सदम् अप्रयुच्छन्त् स्वाहा ॥
VERSE: 5.5 आपतये त्वा परिपतये गृह्णामि तनूनप्त्र्ये शाक्वराय शक्वन ऽ ओजिष्ठाय । अनाधृष्टम् अस्य् अनाधृष्यं देवानाम् ओजो ऽनभिशस्त्य् अभिशस्तिपा ऽ अनभिशस्तेन्यम् अञ्जसा सत्यम् उप गेषम्̐ स्विते मा धाः ॥
VERSE: 5.6 अग्ने व्रतपास् त्वे व्रतपा या तव तनूर् इयम्̐ सा मयि यो मम तनूर् एषा सा त्वयि । सह नौ व्रतपते व्रतान्य् अनु मे दीक्षां दीक्षापतिर् मन्यताम् अनु तपस् तपस्पतिः ॥
VERSE: 5.7 अम्̐शुर्-अम्̐शुष्टे देव सोमाप्यायताम् इन्द्रायैकधनविदे । आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्व । आ प्याययास्मान्त् सखीन्त् सन्या मेधया स्वस्ति ते देव सोम सुत्याम् अशीय । एष्टा रायः प्रेषे भगाय ऋतम् ऋतवादिभ्यो नमो द्यावापृथिवीभ्याम् ॥
VERSE: 5.8 या ते ऽ अग्ने ऽयःशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचोऽअपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा । या ते ऽ अग्ने रजःशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा । या ते अग्ने हरिशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ॥
VERSE: 5.9 तप्तायनी मे ऽसि । वित्तायनी मे ऽसि । अवतान् मा नाथितात् । अवतान् मा व्यथितात् । विदेद् अग्निर् नभो नाम । अग्ने ऽ अङ्गिर ऽ आयुना नाम्नेहि । योऽस्यां पृथिव्याम् असि यत् तेऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे । विदेद् अग्निर् नभो नाम । अग्ने ऽ अङ्गिर ऽ आयुना नाम्नेहि । यो द्वितीयस्यां पृथिव्याम् असि यत् तेऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे । विदेद् अग्निर् नभो नाम । अग्नेऽअङ्गिर ऽ आयुना नाम्नेहि । यस् तृतीयस्यां पृथिव्याम् असि यत् ते ऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे । अनु त्वा देववीतये ॥
VERSE: 5.10 सिम्̐ह्य् असि सपत्नसाही देवेभ्यः कल्पस्व । सिम्̐ह्य् असि सपत्नसाही देवेभ्यः शुन्धस्व । सिम्̐ह्य् असि सपत्नसाही देवेभ्यः शुम्भस्व ॥
VERSE: 5.11 इन्द्रघोषस् त्वा वसुभिः पुरस्तात् पातु । प्रचेतास् त्वा रुद्रैः पश्चात् पातु । मनोजवास् त्वा पितृभिर् दक्षिणतः पातु । विश्वकर्मा त्वादित्यैर् उत्तरतः पातु । इदम् अहं तप्तं वार् बहिर्धा यज्ञान् निः सृजामि ॥
VERSE: 5.12 सिम्̐ह्य् असि स्वाहा । सिम्̐ह्य् अस्य् आदित्यवनिः स्वाहा । सिम्̐ह्य् असि ब्रह्मवनिः क्षत्रवनिः स्वाहा । सिम्̐ह्य् असि सुप्रजावनी रायस्पोषवनिः स्वाहा । सिम्̐ह्य् अस्य् आवह देवान् यजमानाय स्वाहा । भूतेभ्यस् त्वा ॥
VERSE: 5.13 ध्रुवो ऽसि पृथिवीं दृम्̐ह । ध्रुवक्षिद् अस्य् अन्तरिक्षं दृम्̐ह । अच्युतक्षिद् असि दिवं दृम्̐ह । अग्नेः पुरीषम् असि ॥
VERSE: 5.14 युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविद् एक ऽइन् मही देवस्य सवितुः परिष्टुतिः स्वाहा ॥
VERSE: 5.15 इदं विष्णुर् विचक्रमे त्रेधा नि दधे पदम् । समूढम् अस्य पाम्̐सुरे स्वाहा ॥
VERSE: 5.16 इरावती धेनुमती हि भूतम्̐ सूयवसिनी मनवे दशस्या । व्यस्कभ्ना रोदसी विष्णव् एते दाधर्त्थ पृथिवीम् अभितो मयूखैः स्वाहा ॥
VERSE: 5.17 देवश्रुतौ देवेष्व् आ घोषतम् । प्राची प्रेतम् अध्वरं कल्पयन्ती ऽ ऊर्ध्वं यज्ञं नयतं मा जिह्वरतम् । स्वं गोष्ठम् आ वदतं देवी दुर्ये ऽ आयुर् मा निर्वादिष्टं प्रजां मा निर्वादिष्टम् । अत्र रमेथां वर्ष्मन् पृथिव्याः ॥
VERSE: 5.18 विष्णोर् नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजाम्̐सि । यो ऽ अस्कभायद् उत्तरम्̐ सधस्थं विचक्रमाणस् त्रेधोरुगायः । विष्णवे त्वा ॥
VERSE: 5.19 दिवो वा विष्ण ऽ उत वा पृथिव्या महो वा विष्णऽउरोरन्तरिक्षात् । उभा हि हस्ता वसुना पृणस्वा प्रयच्छ दक्षिणाद् ओत सव्यात् । विष्णवे त्वा ॥
VERSE: 5.20 प्र तद् विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि विश्वा ॥
VERSE: 5.21 विष्णो रराटम् असि । विष्णोः श्नप्त्रे स्थः । विष्णोः स्यूर् असि । विष्णोर् ध्रुवो सि । वैष्णवम् असि विष्णवे त्वा ॥
VERSE: 5.22 देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे नार्य् असि । इदम् अहम्̐ रक्षसां ग्रीवा ऽ अपिकृन्तामि । बृहन्न् असि बृहद्रवा बृहतीम् इन्द्राय वाचं वद ॥
VERSE: 5.23 रक्षोहणं वलगहनं वैष्णवीम् । इदम् अहं तं वलगम् उत् किरामि यं मे निष्ट्यो यम् अमात्यो निचखान । इदम् अहं तं वलगम् उत् किरामि यं मे समानो यम् असमानो निचखान । इदम् अहं तं वलगम् उत् किरामि यं मे सबन्धुर् यम् असबन्धुर् निचखान । इदम् अहं तं वलगम् उत् किरामि यं मे सजातो यम् असजातो निचखान । उत् कृत्यां किरामि ॥
VERSE: 5.24 स्वराड् असि सपत्नहा । सत्रराड् अस्य् अभिमातिहा । जनराड् असि रक्षोहा । सर्वराड् अस्य् अमित्रहा ॥
VERSE: 5.25 रक्षोहणो वो वलगहनः प्रोक्षामि वैष्णवान् । रक्षोहणो वो वलगहनो ऽव नयामि वैष्णवान् । रक्षोहणो वो वलगहनो ऽव स्तृणामि वैष्णवान् । रक्षोहणौ वां वलगहना ऽ उप दधामि वैष्णवी । रक्षोहणौ वां वलगहनौ पर्य् ऊहामि वैष्णवी । वैष्णवम् असि । वैष्णवा स्थ ॥
VERSE: 5.26 देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे नार्य् असि । इदम् अहम्̐ रक्षसां ग्रीवा ऽ अपि कृन्तामि । यवो ऽसि यवयास्मद् द्वेषो यवयारातीः । दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वा । शुन्धन्तां लोकाः पितृषदनाः । पितृषदनम् असि ॥
VERSE: 5.27 उद् दिवम्̐ स्तभानान्तरिक्षं पृण दृम्̐हस्व पृथिव्याम् । द्युतानास् त्वा मारुतो मिनोतु मित्रावरुणौ ध्रुवेण धर्मणा । ब्रह्मवनि त्वा क्षत्रवनि त्वा रायस्पोषवनि पर्य् ऊहामि । ब्रह्म दृम्̐ह क्षत्रं दृम्̐हायुर् दृम्̐ह प्रजां दृम्̐ह ॥
VERSE: 5.28 ध्रुवासि ध्रुवो ऽयं यजमानो ऽस्मिन्न् आयतने प्रजया पशुभिर् भूयात् । घृतेन द्यावापृथिवी पूर्येथाम् । इन्द्रस्य छदिर् असि विश्वजनस्य छाया ॥
VERSE: 5.29 परि त्वा गिर्वणो गिर ऽ इमा भवन्तु विश्वतः । वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥
VERSE: 5.30 इन्द्रस्य स्यूर् असि । इन्द्रस्य ध्रुवो ऽसि । ऐन्द्रम् असि । वैश्वदेवम् असि ॥
VERSE: 5.31 विभूर् असि प्रवाहणः । वह्निर् असि हव्यवाहनः । श्वात्रो ऽसि प्रचेताः । तुथो ऽसि विश्ववेदाः ॥
VERSE: 5.32 उशिग् असि कविः । अङ्घारिर् असि बम्भारिः । अवस्यूर् असि दुवस्वान् । शुन्ध्यूर् असि मार्जालीयः । सम्राड् असि कृशानुः । परिषद्योऽसि पवमानः । नभोऽसि प्रतक्वा । मृष्टो ऽसि हव्यसूदनः । ऽऋतधामासि स्वर्ज्योतिः ॥
VERSE: 5.33 समुद्रो ऽसि विश्वव्यचाः । ऽअजो ऽस्य् एकपात् । अहिर् असि बुध्न्यः । वाग् अस्य् ऐन्द्रम् असि सदो ऽसि । ऋतस्य द्वारौ मा मा संताप्तम् । अध्वनाम् अध्वपते प्र मा तिर स्वस्ति मे ऽस्मिन् पथि देवयाने भूयात् ॥
VERSE: 5.34 मित्रस्य मा चक्षुषेक्षध्वम् । अग्नयः सगराः सगरा स्थ सगरेण नाम्ना रुद्रेणानीकेन पात माग्नयः पिपृत माग्नयो गोपायत मा नमो वो स्तु मा मा हिम्̐सिष्ट ॥
VERSE: 5.35 ज्योतिर् असि विश्वरूपं विश्वेषां देवानाम्̐ समित् । त्वम्̐ सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्य ऽउरु यन्तासि वरूथम्̐ स्वाहा । जुषाणो ऽअप्तुर् आज्यस्य वेतु स्वाहा ॥
VERSE: 5.36 अग्ने नय सुपथा राये ऽअस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमऽउक्तिं विधेम ॥
VERSE: 5.37 अयं नो ऽ अग्निर् वरिवस् कृणोत्व् अयं मृधः पुर ऽएतु प्रभिन्दन् । अयं वाजान् जयतु वाजसाताव् अयम्̐ शत्रून् जयतु जर्हृषाणः स्वाहा ॥
VERSE: 5.38 उरु विष्णो वि क्रमस्वोरु क्षयाय नस् कृधि । घृतं घृतयोने पिब प्र-प्र यज्ञपतिं तिर स्वाहा ॥
VERSE: 5.39 देव सवितर् एष ते सोमस् तम्̐ रक्षस्व मा त्वा दभन् । एतत् त्वं देव सोम देवो देवाँ2 ऽ उपागा ऽ इदम् अहं मनुष्यान्त् सह रायस्पोषेण स्वाहा निर् वरुणस्य पाशान् मुच्ये ॥
VERSE: 5.40 अग्ने व्रतपास् त्वे व्रतपा या तव तनूर् मय्य् अभूद् एषा सा त्वयि यो मम तनूस् त्वय्य् अभूद् इयम्̐ सा मयि । यथायथं नौ व्रतपते व्रतान्य् अनु मे दीक्षां दीक्षापतिर् अमम्̐स्तानु तपस् तपस्पतिः ॥
VERSE: 5.41 उरु विष्णो वि क्रमस्वोरु क्षयाय नस् कृधि । घृतं घृतयोने पिब प्र-प्र यज्ञपतिं तिर स्वाहा ॥
VERSE: 5.42 अत्य् अन्याम्̐ ऽ अगां नान्याम्̐ ऽ उपागाम् अर्वाक् त्वा परेभ्यो ऽविदं परो ऽवरेभ्यः । तं त्वा जुषामहे देव वनस्पते देवयज्यायै देवास् त्वा देवयज्यायै जुषन्तां विष्णवे त्वा । ओषधे त्रायस्व । स्वधिते मैनम्̐ हिम्̐सीः ॥
VERSE: 5.43 द्यां मा लेखीर् अन्तरिक्षं मा हिम्̐सीः पृथिव्या सं भव । अयम्̐ हि त्वा स्वधितिस् तेतिजानः प्रणिनाय महते सौभगाय । अतस् त्वं देव वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयम्̐ रुहेम ॥


अध्याय 6 अग्निष्टोमे अग्नीषोमीय पशु प्रधाने यूपसंस्कारमारभ्य सोमाभिषवान्ता मन्त्राः

VERSE: 6.1 देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे नार्य् असि । इदम् अहम्̐ रक्षसां ग्रीवा ऽ अपि कृन्तामि । यवो ऽसि यवयास्मद् द्वेषो यवयारातीः । दिवेऽत्वान्तरिक्षाय त्वा पृथिव्यै त्वा । शुन्धन्तां लोकाः पितृषदनाः । पितृषदनम् असि ॥
VERSE: 6.2 अग्रेणीर् असि स्वावेश ऽ उन्नेतॄणाम् एतस्य वित्ताद् अधि त्वा स्थास्यति । देवस् त्वा सविता मध्व् आनक्तु । सुपिप्पलाभ्यस् त्वौषधीभ्यः । द्याम् अग्रेणास्पृक्ष ऽ आन्तरिक्षं मध्येनाप्राः पृथिवीम् उपरेणादृम्̐हीः ॥
VERSE: 6.3 या ते धामान्य् उश्मसि गमध्यै यत्र गावो भूरिशृङ्गा ऽ अयासः । अत्राह तद् उरुगायस्य विष्णोः परमं पदम् अव भारि भूरि । ब्रह्मवनि त्वा क्षत्रवनि रायस्पोषवनि पर्य् ऊहामि । ब्रह्म दृम्̐ह क्षत्रं दृम्̐हायुर् दृम्̐ह प्रजां दृम्̐ह ॥
VERSE: 6.4 विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा ॥
VERSE: 6.5 तद् विष्णोः परमं पदम्̐ सदा पश्यन्ति सूरयो दिवीव चक्षुर् आततम् ॥
VERSE: 6.6 परिवीर् असि परि त्वा दैवीर् विशो व्ययन्तां परीमं यजमानम्̐ रायो मनुष्याणाम् । दिवः सूनुर् असि । एष ते पृथिव्यां लोक ऽ आरण्यस् ते पशुः ॥
VERSE: 6.7 उपावीर् असि । उप देवान् दैवीर् विशः प्रागुर् उशिजो वह्नितमान् । देव त्वष्टर् वसु रम हव्या ते स्वदन्ताम् ॥
VERSE: 6.8 रेवती रमध्वं बृहस्पते धारया वसूनि । ऋतस्य त्वा देवहविः पाशेन प्रति मुञ्चामि धर्षा मानुषः ॥
VERSE: 6.9 देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । अग्नीषोमाभ्यां जुष्टं नि युनज्मि । अद्भ्यस् त्वौषधीभ्योऽनु त्वा माता मन्यताम् अनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्यः । अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि ॥
VERSE: 6.10 अपां पेरुर् असि । आपो देवीः स्वदन्तु स्वात्तं चित् सद् देवहविः । सं ते प्राणो वातेन गच्छताम्̐ सम् अङ्गानि यजत्रैः सं यज्ञपतिर् आशिषा ॥
VERSE: 6.11 घृतेनाक्तौ पशूम्̐स् त्रायेथाम् । रेवति यजमाने प्रियं धा ऽ आ विश । उरोर् अन्तरिक्षात् सजूर् देवेन वातेनास्य हविषस् त्मना यज समस्य तन्वा भव । वर्षो वर्षीयसि यज्ञे यज्ञपतिं धाः । स्वाहा देवेभ्यः । देवेभ्यः स्वाहा ॥
VERSE: 6.12 माहिर् भूर् मा पृदाकुः । नमस् तऽ आतानानर्वा प्रेहि । घृतस्य कुल्याऽ उपऽ ऋतस्य पथ्याऽ अनु ॥
VERSE: 6.13 देवीर् आपः शुद्धा वोढ्वम्̐ सुपरिविष्टा देवेषु । सुपरिविष्टा वयं परिवेष्टारो भूयास्म ॥
VERSE: 6.14 वाचं ते शुन्धामि । प्राणं ते शुन्धामि । चक्षुस् ते शुन्धामि । श्रोत्रं ते शुन्धामि । नाभिं ते शुन्धामि । मेढ्रं ते शुन्धामि । पायुं ते शुन्धामि । चरित्राम्̐स् ते शुन्धामि ॥
VERSE: 6.15 मनस्तऽ आ प्यायताम् । वाक् तऽ आ प्यायताम् । प्राणस् तऽ आ प्यायताम् । चक्षुस्तऽ आ प्यायताम् । श्रोत्रं तऽ आ प्यायताम् । यत् ते क्रूरं यद् आस्थितं तत् त ऽआ प्यायतां निष्ट्यायतां तत् ते शुध्यतु । शम् अहोभ्यः । ओषधे त्रायस्व । स्वधिते मैनम्̐ हिम्̐सीः ॥
VERSE: 6.16 रक्षसां भागो ऽसि । निरस्तम्̐ रक्षः । ऽ इदम् अहम्̐ रक्षोऽ भितिष्ठामीदम् अहम्̐ रक्षोऽ व बाधऽ इदम् अहम्̐ रक्षो ऽधमं तमो नयामि । घृतेन द्यावापृथिवी प्रोर्णुवाथाम् । वायो वे स्तोकानाम् । अग्निर् आज्यस्य वेतु स्वाहा । स्वाहाकृते ऽ ऊर्ध्वनभसं मारुतं गच्छतम् ॥
VERSE: 6.17 इदम् आपः प्रवहतावद्यं च मलं च यत् । यच् चाभिदुद्रोहानृतं यच् च शेपे ऽ अभीरुणम् । आपो मा तस्माद् एनसः पवमानश् च मुञ्चतु ॥
VERSE: 6.18 सं ते मनो मनसा सं प्राणः प्राणेन गच्छताम् । रेड् अस्य् अग्निष् ट्वा श्रीणात्व् आपस् त्वा समरिणन् वातस्य त्वा ध्राज्यै पूष्णो रम्̐ह्या ऽ ऊष्मणो व्यथिषत् । प्रयुतं द्वेषः ॥
VERSE: 6.19 घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविर् असि स्वाहा । दिशः । प्रदिशः । ऽ आदिशः । विदिशः । ऽ उद्दिशः । दिग्भ्यः स्वाहा ॥
VERSE: 6.20 ऐन्द्रः प्राणो ऽ अङ्गे ऽ अङ्गे नि दीध्यद् ऐन्द्र ऽ उदानो ऽ अङ्गे ऽ अङ्गे निधीतः । देव त्वष्टर् भूरि ते सम्̐-समेतु सलक्ष्मा यद् विषुरूपं भवाति । देवत्रा यन्तम् अवसे सखायो ऽनु त्वा माता पितरो मदन्तु ॥
VERSE: 6.21 समुद्रं गच्छ स्वाहा । ऽ अन्तरिक्षं गच्छ स्वाहा । देवम्̐ सवितारं गच्छ स्वाहा । मित्रावरुणौ गच्छ स्वाहा । ऽ अहोरात्रे गच्छ स्वाहा । छन्दाम्̐सि गच्छ स्वाहा । द्यावापृथिवी गच्छ स्वाहा । यज्ञं गच्छ स्वाहा । सोमं गच्छ स्वाहा । दिव्यं नभो गच्छ स्वाहा । अग्निं वैश्वानरं गच्छ स्वाहा । मनो मे हार्दि यच्छ । दिवं ते धूमो गच्छतु स्वर् ज्योतिः पृथिवीं भस्मना पृण स्वाहा ॥
VERSE: 6.22 मापो मौषधीर् हिम्̐सीः । धाम्नो-धाम्नो राजम्̐स् ततो वरुण नो मुञ्च । यद् आहुर् अघ्न्या ऽ इति वरुणेति शपामहे ततो वरुण नो मुञ्च । सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु +दुर्मित्रियास् तस्मै सन्तु यो स्मान् द्वेष्टि यं च वयं द्विष्मः ॥
VERSE: 6.23 हविषीमतीर् इमा ऽ आपो हविष्माम्̐2 ऽ आ विवासति । हविष्मान् देवो ऽ अध्वरो हविष्माम्̐2 ऽ अस्तु सूर्यः ॥
VERSE: 6.24 अग्नेर्वोऽ पन्नगृहस्य सदसि सादयामि । इन्द्राग्न्योर् भागधेयी स्थ । मित्रावरुण्योर् भागधेयी स्थ । विश्वेषां देवानां भागधेयी स्थ । अमूर् या ऽ उप सूर्ये याभिर् वा सूर्यः सह । ता नो हिन्वन्त्व् अध्वरम् ॥
VERSE: 6.25 हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा । ऊर्ध्वम् इमम् अध्वरं दिवि देवेषु होत्रा यच्छ ॥
VERSE: 6.26 सोम राजन् विश्वास् त्वं प्रजा ऽ उपाव रोह । विश्वास् त्वां प्रजा उपाव रोहन्तु । शृणोत्व् अग्निः समिधा हवं मे शृण्वन्त्व् आपो धिषणाश् च देवीः । श्रोता ग्रावाणो विदुषो न यज्ञम्̐ शृणोतु देवः सविता हवं मे स्वाहा ॥
VERSE: 6.27 देवीर् आपो ऽ अपां नपाद् यो व ऽ ऊर्मिर् हविष्य ऽ इन्द्रियावान् मदिन्तमः । तं देवेभ्यो देवत्रा दत्त शुक्रपेभ्यो येषां भाग स्थ स्वाहा ॥
VERSE: 6.28 कार्षिर् असि । समुद्रस्य त्वाक्षित्या ऽ उन् नयामि । सम् आपो ऽ अद्भिर् अग्मत सम् ओषधीभिर् ओषधीः ॥
VERSE: 6.29 यम् अग्ने पृत्सु मर्त्यम् अवा वाजेषु यं जुनाः । स यन्ता शश्वतीर् इषः स्वाहा ॥
VERSE: 6.30 देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे रावासि गभीरम् इमम् अध्वरं कृधीन्द्राय सुषूतमम् । उत्तमेन पविनोर्जस्वन्तं मधुमन्तं पयस्वन्तम् । निग्राभ्या स्थ देवश्रुतस् तर्पयत मा ॥
VERSE: 6.31 मनो मे तर्पयत वाचं मे तर्पयत प्राणं मे तर्पयत चक्षुर् मे तर्पयत श्रोत्रं मे तर्पयतात्मानं मे तर्पयत प्रजां मे तर्पयत पशून् मे तर्पयत गणान् मे तर्पयत गणा मे मा वितृषन् ॥
VERSE: 6.32 इन्द्राय त्वा वसुमते रुद्रवते । ऽ इन्द्राय त्वादित्यवते । ऽ इन्द्राय त्वाभिमातिघ्ने । श्येनाय त्वा सोमभृते । ऽ अग्नये त्वा रायस्पोषदे ॥
VERSE: 6.33 यत् ते सोम दिवि ज्योतिर् यत् पृथिव्यां यद् उराव् अन्तरिक्षे । तेनास्मै यजमानायोरु राये कृध्य् अधि दात्रे वोचः ॥
VERSE: 6.34 श्वात्रा स्थ वृत्रतुरो राधोगूर्ता ऽ अमृतस्य पत्नीः । ता देवीर् देवत्रेमं यज्ञं नयतोपहूताः सोमस्य पिबत ॥
VERSE: 6.35 मा भेर् मा सं विक्था ऽ ऊर्जं धत्स्व धिषणे वीड्वी सती वीडयेथामूर्जं दधाथाम् । पाप्मा हतो न सोमः ॥
VERSE: 6.36 प्राग् अपाग् उदग् अधराक् सर्वतस् त्वा दिश ऽ आ धावन्तु । अम्ब नि ष्पर सम् अरीर् विदाम् ॥
VERSE: 6.37 त्वम् अङ्ग प्र शम्̐सिषो देवः शविष्ठ मर्त्यम् । न त्वद् अन्यो मघवन्न् अस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥


अध्याय 7 अग्निष्टोमे उपांशुग्रहादि सवनद्वयगता दक्षिणादानान्ता मन्त्राः
VERSE: 7.1 वाचस् पतये पवस्व वृष्णो अम्̐शुभ्यां गभस्तिपूतः । देवो देवेभ्यः पवस्व येषां भागो ऽसि ॥
VERSE: 7.2 मधुमतीर् न ऽ इषस् कृधि । यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा । स्वाहा । उर्व् अन्तरिक्षम् अन्व् एमि ॥
VERSE: 7.3 स्वांकृतो ऽसि विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस् त्वाष्टु स्वाहा त्वा सुभव सूर्याय । देवेभ्यस् त्वा मरीचिपेभ्यः । देवाम्̐शो यस्मै त्वेडे तत् सत्यम् उपरिप्रुता भङ्गेन हतो ऽसौ फट् । प्राणाय त्वा । व्यानाय त्वा ॥
VERSE: 7.4 उपयामगृहीतो ऽस्य् अन्तर्यच्छ मघवन् पाहि सोमम् । उरुष्य राय ऽएषो यजस्व ॥
VERSE: 7.5 अन्तस् ते द्यावापृथिवी दधाम्य् अन्तर्दधाम्य् उर्व् अन्तरिक्षम् । सजूर् देवेभिर् अवरैः परैश्चान्तर्यामे मघवन् मादयस्व ॥
VERSE: 7.6 स्वांकृतोऽसि विश्वेभ्य ऽ इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस् त्वाष्टु स्वाहा त्वा सुभव सूर्याय । देवेभ्यस् त्वा मरीचिपेभ्यः । ऽ उदानाय त्वा ॥
VERSE: 7.7 आ वायो भूष शुचिपा ऽ उप नः सहस्रं ते नियुतो विश्ववार । उपो तेऽअन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् । वायवे त्वा ॥
VERSE: 7.8 इन्द्रवायू ऽ इमे सुता ऽ उप प्रयोभिर् आगतम् । +इन्दवो वाम् उशन्ति हि । उपयामगृहीतोऽसि वायव ऽ इन्द्रवायुभ्यां त्वा । एष ते योनिः । सजोषोभ्यां त्वा ॥
VERSE: 7.9 अयं वां मित्रावरुणा सुतः सोम ऽ ऋतावृधा । ममेद् इह श्रुतम्̐ हवम् । उपयामगृहीतो ऽसि मित्रावरुणाभ्यां त्वा ॥
VERSE: 7.10 राया वयम्̐ ससवाम्̐सो मदेम हव्येन देवा यवसेन गावः । तां धेनुं मित्रावरुणा युवं नो विश्वाहा धत्तम् अनपस्फुरन्तीम् । एष ते योनिर् ऋतायुभ्यां त्वा ॥
VERSE: 7.11 या वां कशा मधुमत्याश्विना सूनृतावती । तया यज्ञं मिमिक्षतम् । उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा । एष ते योनिर् माध्वीभ्यां त्वा ॥
VERSE: 7.12 तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदम्̐ स्वर्विदम् । प्रतीचीनं वृजनं दोहसे धुनिम् आशुं जयन्तम् अनु यासु वर्धसे । उपयामगृहीतो ऽसि शण्डाय त्वा । एष ते योनिर् वीरतां पाहि । अपमृष्टः शण्डः । देवास् त्वा शुक्रपाः प्रणयन्तु । अनाधृष्टासि ॥
VERSE: 7.13 सुवीरो वीरान् प्रजनयन् परीह्य् अभि रायस्पोषेण यजमानम् । संजग्मानो दिवा पृथिव्या शुक्रः शुक्रशोचिषा । निरस्तः शण्डः । शुक्रस्याधिष्ठानम् असि ॥
VERSE: 7.14 अच्छिन्नस्य ते देव सोम सुवीर्यस्य रायस्पोषस्य ददितारः स्याम । सा प्रथमा सम्̐स्कृतिर् विश्ववारा स प्रथमो वरुणो मित्रो ऽ अग्निः ॥
VERSE: 7.15 स प्रथमो बृहस्पतिश् चिकित्वाम्̐स् तस्मा ऽ इन्द्राय सुतम् आ जुहोत स्वाहा । तृम्पन्तु होत्रा मध्वो याः स्विष्टा याः सुप्रीताः सुहुता यत् स्वाहा । अयाड् अग्नीत् ॥
VERSE: 7.16 अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । इमम् अपाम्̐ संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति । उपयामगृहीतो ऽसि मर्काय त्वा ॥
VERSE: 7.17 मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता । आ यः शर्याभिस् तुविनृम्णो ऽ अस्याश्रीणीतादिशं गभस्तौ । एष ते योनिः प्रजाः पाहि । अपमृष्टो मर्कः । देवास् त्वा मन्थिपाः प्रणयन्तु । अनाधृष्टासि ॥
VERSE: 7.18 सुप्रजाः प्रजाः प्रजनयन् परीह्य् अभि रायस्पोषेण यजमानम् । संजग्मानो दिवा पृथिव्या मन्थी मन्थिशोचिषा । निरस्तो मर्कः । मन्थिनो ऽधिष्ठानम् असि ॥
VERSE: 7.19 ये देवासो दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थ । अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञम् इमं जुषध्वम् ॥
VERSE: 7.20 उपयामगृहीतो ऽस्य् आग्रयणो ऽसि स्वाग्रयणः पाहि यज्ञं पाहि यज्ञपतिं विष्णुस् त्वाम् इन्द्रियेण पातु विष्णुं त्वं पाह्य् अभि सवनानि पाहि ॥
VERSE: 7.21 सोमः पवते सोमः पवते ऽस्मै ब्रह्मणे ऽस्मै क्षत्रायास्मै सुन्वते यजमानाय पवत ऽ इष ऽ ऊर्जे पवते ऽ द्भ्य ऽ ओषधीभ्यः पवते द्यावापृथिवीभ्यां पवते सुभूताय पवते विश्वेभ्यस् त्वा देवेभ्यः ऽ । एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥
VERSE: 7.22 उपयामगृहीतो ऽसीन्द्राय त्वा बृहद्वते वयस्वत ऽ उक्थाव्यं गृह्णामि । यत् त ऽ इन्द्र बृहद् वयस् तस्मै त्वा विष्णवे त्वा । एष ते योनिर् उक्थेभ्यस् त्वा । देवेभ्यस् त्वा देवाव्यं गृह्णामि यज्ञस्यायुषे गृह्णामि ॥
VERSE: 7.23 मित्रावरुणाभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि । इन्द्राय त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि । इन्द्राग्निभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि । इन्द्रावरुणाभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि । इन्द्राबृहस्पतिभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि । इन्द्राविष्णुभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ॥
VERSE: 7.24 मूर्धानं दिवो ऽ अरतिं पृथिव्या वैश्वानरम् ऋत ऽ आ जातम् अग्निम् । कविम्̐ सम्राजम् अतिथिं जनानाम् आसन्ना पात्रं जनयन्त देवाः ॥
VERSE: 7.25 उपयामगृहीतो ऽसि ध्रुवो ऽसि ध्रुवक्षितिर् ध्रुवाणां ध्रुवतमो ऽच्युतानाम् अच्युतक्षित्तमः । ऽ एष ते योनिर् वैश्वानराय त्वा । ध्रुवं ध्रुवेण मनसा वाचा सोमम् अव नयामि । अथा न ऽ इन्द्र ऽ इद् विशो ऽसपत्नाः समनसस् करत् ॥
VERSE: 7.26 यस् ते द्रप्स स्कन्दति यस् ते ऽ अम्̐शुर् ग्रावच्युतो धिषणयोर् उपस्थात् । अध्वर्योर् वा परि वा यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतम्̐ स्वाहा । देवानाम् उत्क्रमणम् असि ॥
VERSE: 7.27 प्राणाय मे वर्चोदा वर्चसे पवस्व । व्यानाय मे वर्चोदा वर्चसे पवस्व । उदानाय मे वर्चोदा वर्चसे पवस्व । वाचे मे वर्चोदा वर्चसे पवस्व । क्रतूदक्षाभ्यां मे वर्चोदा वर्चसे पवस्व । श्रोत्राय मे वर्चोदा वर्चसे पवस्व । चक्षुर्भ्यां मे वर्चोदसौ वर्चसे पवेथाम् ॥
VERSE: 7.28 आत्मने मे मे वर्चोदा वर्चसे पवस्व । ओजसे मे वर्चोदा वर्चसे पवस्व । आयुषे मे वर्चोदा वर्चसे पवस्व । विश्वाभ्यो मे प्रजाभ्यो वर्चोदसौ वर्चसे पवेथाम् ॥
VERSE: 7.29 को ऽसि कतमो ऽसि कस्यासि को नामासि । यस्य ते नामामन्महि यं त्वा सोमेनातीतृपाम । भूर् भुवः स्वः सुप्रजाः प्रजाभिः स्याम्̐ सुवीरो वीरैः सुपोषः पोषैः ॥
VERSE: 7.30 उपयामगृहीतो ऽसि मधवे त्वा । उपयामगृहीतो ऽसि माधवाय त्वा । उपयामगृहीतो ऽसि शुक्राय त्वा । उपयामगृहीतो ऽसि शुचये त्वा । उपयामगृहीतो ऽसि नभसे त्वा । उपयामगृहीतो ऽसि नभस्याय त्वा । उपयामगृहीतो ऽसीषे त्वा । उपयामगृहीतो ऽस्य् ऊर्जे त्वा । उपयामगृहीतो ऽसि सहसे त्वा । उपयामगृहीतो ऽसि सहस्याय त्वा । उपयामगृहीतो ऽसि तपसे त्वा । उपयामगृहीतो ऽसि तपस्याय त्वा । उपयामगृहीतो स्य् अम्̐हसस्पतये त्वा ॥
VERSE: 7.31 इन्द्राग्नी ऽ आ गतम्̐ सुतं गीर्भिर् नभो वरेण्यम् । अस्य पातं धियेषिता । उपयामगृहीतो ऽसीन्द्राग्निभ्यां त्वा । एष ते योनिर् इन्द्राग्निभ्यां त्वा ॥
VERSE: 7.32 आ घा ये ऽ अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक् । येषाम् इन्द्रो युवा सखा । उपयामगृहीतो ऽस्य् अग्नीन्द्राभ्यां त्वा । एष ते योनिर् अग्नीन्द्राभ्यां त्वा ॥
VERSE: 7.33 ओमासश् चर्षणीधृतो विश्वे देवास ऽ आ गत । दाश्वाम्̐सो दाशुषः सुतम् । उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्यः । एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥
VERSE: 7.34 विश्वे देवास ऽ आ गत शृणुता म इमम्̐ हवम् । एदं बर्हिर् नि षीदत । उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्यः । एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥
VERSE: 7.35 इन्द्र मरुत्व ऽ इह पाहि सोमं यथा शार्याते ऽ अपिबः सुतस्य । तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः सुयज्ञाः । उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते । ऽ एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥
VERSE: 7.36 मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यम्̐ शासम् इन्द्रम् । विश्वासाहम् अवसे नूतनायोग्रम्̐ सहोदाम् इह तम्̐ हुवेम । उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते । एष ते योनिर् इन्द्राय त्वा मरुत्वते । उपयामगृहीतो ऽसि मरुतां त्वौजसे ॥
VERSE: 7.37 सजोषा ऽ इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् । जहि शत्रूम्̐न्२ ऽ अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः । उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते । एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥
VERSE: 7.38 मरुत्वाम्̐२ ऽ इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधं मदाय । आसिञ्चस्व जठरे मध्व ऽ ऊर्मिं त्वम्̐ राजासि प्रतिपत्सुतानाम् । उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते । एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥
VERSE: 7.39 महाम्̐२ ऽ इन्द्रो नृवद् आ चर्षणिप्रा ऽ उत द्विबर्हा ऽ अमिनः सहोभिः । अस्मद्र्यग् वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर् भूत् । उपयामगृहीतो ऽसि महेन्द्राय त्वा । एष ते योनिर् महेन्द्राय त्वा ॥
VERSE: 7.40 महाम्̐२ ऽ इन्द्रो य ऽ ओजसा पर्जन्यो वृष्टिमाँ२ ऽ इव । स्तोमैर् वत्सस्य वावृधे । उपयामगृहीतो ऽसि महेन्द्राय त्वा । एष ते योनिर् महेन्द्राय त्वा ॥
VERSE: 7.41 उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम्̐ स्वाहा ॥
VERSE: 7.42 चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी ऽ अन्तरिक्षम्̐ सूर्य ऽ आत्मा जगतस् तस्थुषश् च स्वाहा ॥
VERSE: 7.43 अग्ने नय सुपथा राये ऽ अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमऽउक्तिं विधेम स्वाहा ॥
VERSE: 7.44 अयं नो ऽ अग्निर् वरिवस् कृणोत्व् अयं मृधः पुर ऽ एतु प्रभिन्दन् । अयं वाजान् जयतु वाजसाताव् अयम्̐ शत्रून् जयतु जर्हृषाणः स्वाहा ॥
VERSE: 7.45 रूपेण वो रूपम् अभ्यागां तुथो वो विश्ववेदा वि भजतु । ऋतस्य पथा प्रेत चन्द्रदक्षिणाः । वि स्वः पश्य व्यन्तरिक्षम् । यतस्व सदस्यैः ॥
VERSE: 7.46 ब्राह्मणम् अद्य विदेयं पितृमन्तं पैतृमत्यम् ऋषिम् आर्षेयम्̐ सुधातुदक्षिणम् । अस्मद्राता देवत्रा गच्छत प्रदातारम् आ विशत ॥
VERSE: 7.47 अग्नये त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीयायुर् दात्र ऽ एधि मयो मह्यं प्रतिग्रहीत्रे । रुद्राय त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीय प्राणो दात्र ऽ एधि वयो मह्यं प्रतिग्रहीत्रे । बृहस्पतये त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीय त्वग् दात्र ऽ एधि मयो मह्यं प्रतिग्रहीत्रे । यमाय त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीय हयो दात्र ऽ एधि वयो मह्यं प्रतिग्रहीत्रे ॥
VERSE: 7.48 को ऽदात् कस्मा अदात् कामो ऽदात् कामायादात् । कामो दाता कामः प्रतिग्रहीता कामैतत् ते ॥
अध्याय 8 अग्निष्टोमे तृतीयसवनगता आदित्यग्रहादि मन्त्राः – पाशुक अग्निष्टोमः 1-32, षोडशीयागः 33-37, द्वादशाहादि 38-63 VERSE: 8.1 उपयामगृहीतो ऽसि । आदित्येभ्यस् त्वा । विष्ण ऽ उरुगायैष ते सोमस् तम्̐ रक्षस्व मा त्वा दभन् ॥
VERSE: 8.2 कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । उपोपेन् नु मघवन् भूय ऽ इन् नु ते दानं देवस्य पृच्यते ऽ । आदित्येभ्यस् त्वा ॥
VERSE: 8.3 कदा चन प्र युच्छस्य् उभे नि पासि जन्मनी । तुरीयादित्य सवनं त ऽ इन्द्रियम् आ तस्थाव् अमृतं दिवि । आदित्येभ्यस् त्वा ॥
VERSE: 8.4 यज्ञो देवानां प्रत्य् एति सुम्नम् आदित्यासो भवता मृडयन्तः । आ वोऽर्वाची सुमतिर् ववृत्याद् अम्̐होश् चिद् या वरिवोवित्तरासत् । आदित्येभ्यस् त्वा ॥
VERSE: 8.5 विवस्वन्न् आदित्यैष ते सोमपीथस् तस्मिन् मत्स्व । श्रद् अस्मै नरो वचसे दधातन यद् आशीर्दा दम्पती वामम् अश्नुतः । पुमान् पुत्रो जायते विन्दते वस्व् अधा विश्वाहार् अप ऽ एधते गृहे ॥
VERSE: 8.6 वामम् अद्य सवितर् वामम् उ श्वो दिवे-दिवे वामम् अस्मभ्यम्̐ सावीः । वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥
VERSE: 8.7 उपयामगृहीतोऽसि सावित्रोऽसि चनोधाश् चनोधा ऽ असि चनो मयि धेहि । जिन्व यज्ञं जिन्व यज्ञपतिं भगाय देवाय त्वा सवित्रे ॥
VERSE: 8.8 उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठानो बृहदुक्षाय नमः । विश्वेभ्यस् त्वा देवेभ्यः ऽ। एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥
VERSE: 8.9 उपयामगृहीतो ऽसि बृहस्पतिसुतस्य देव सोम त ऽ इन्दोर् इन्द्रियावतं पत्नीवतो ग्रहाँ२ ऽ ऋध्यासम् । अहं परस्ताद् अहम् अवस्ताद् यद् अन्तरिक्षं तद् उ मे पिताभूत् । अहम्̐ सूर्यम् उभयतो ददर्शाहं देवानां परमं गुहा यत् ॥
VERSE: 8.10 अग्ना3इ पत्नीवन्त् सजूर् देवेन त्वष्ट्रा सोमं पिब स्वाहा । प्रजापतिर् वृषासि रेतोधा रेतो मयि धेहि प्रजापतेस् त वृष्णो रेतोधसो रेतोधाम् अशीय ॥
VERSE: 8.11 उपयामगृहीतो ऽसि हरिर् असि हारियोजनो हरिभ्यां त्वा । हर्योर् धाना स्थ सहसोमा ऽ इन्द्राय ॥
VERSE: 8.12 यस् ते ऽ अश्वसनिर् भक्षो यो गोसनिस् तस्य त ऽ इष्टयजुष स्तुतसोमस्य शस्तोक्थस्योपहूतस्योपहूतो भक्षयामि ॥
VERSE: 8.13 देवकृतस्यैनसो ऽवयजनम् असि । मनुष्यकृतस्यैनसो ऽवयजनम् असि । पितृकृतस्यैनसो ऽवयजनम् असि । आत्मकृतस्यैनसो ऽवयजनम् असि । एनसऽ-एनसो ऽवयजनम् असि । यच् चाहम् एनो विद्वाम्̐श् चकार यच् चाविद्वाम्̐स् तस्य सर्वस्यैनसो ऽवयजनम् असि ।
VERSE: 8.14 सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सम्̐ शिवेन । त्वष्टा सुदत्रो वि दधातु रायो ऽनु मार्ष्टु तन्वो यद् विलिष्टम् ॥
VERSE: 8.15 सम् इन्द्र णो मनसा नेषि गोभिः सम्̐ सूरिभिर् मघवन्त् सम्̐ स्वस्त्या । सं ब्रह्मणा देवकृतं यद् अस्ति सं देवानाम्̐ सुमतौ यज्ञियानाम्̐ स्वाहा ॥
VERSE: 8.16 सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सम्̐ शिवेन । त्वष्टा सुदत्रो विदधातु रायो ऽनु मार्ष्टु तन्वो यद् विलिष्टम् ॥
VERSE: 8.17 धाता रातिः सवितेदं जुषन्तां प्रजापतिर् निधिपा देवो ऽ अग्निः । त्वष्टा विष्णुः प्रजया सम्̐रराणा यजमानाय द्रविणं दधात स्वाहा ॥
VERSE: 8.18 सुगा वो देवाः सदना ऽ अकर्म य ऽ आजग्मेदम्̐ सवनं जुषाणाः । भरमाणा वहमाना हवीम्̐ष्य् अस्मे धत्त वसवो वसूनि स्वाहा ॥
VERSE: 8.19 याँ२ ऽ आवह ऽ उशतो देव देवाँस् तान् प्रेरय स्वे ऽ अग्ने सधस्थे । जक्षिवाम्̐सः पपिवाम्̐सश् च विश्वे ऽसुं घर्मम्̐ स्वरातिष्ठतानु स्वाहा ॥
VERSE: 8.20 वयम्̐ हि त्वा प्रयति ऽ यज्ञे अस्मिन्न् अग्ने होतारम् अवृणीमहीह । ऋधग् अया ऽ ऋधग् उताशमिष्ठाः प्रजानन् यज्ञम् उप याहि विद्वान्त् स्वाहा ॥
VERSE: 8.21 देवा गातुविदो गातुं वित्त्वा गातुम् इत । मनसस्पत ऽ इमं देव यज्ञम्̐ स्वाहा वाते धाः ॥
VERSE: 8.22 यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा । एष ते यज्ञो यज्ञपते सहसूक्तवाकः सर्ववीरस् तज् जुषस्व स्वाहा ॥
VERSE: 8.23 माहिर् भूर् मा पृदाकुः । उरुम्̐ हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा ऽ उ । अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् । नमो वरुणायाभिष्ठितो वरुणस्य पाशः ॥
VERSE: 8.24 अग्नेर् अनीकम् अप ऽ आ विवेशापां नपात् प्रतिरक्षन्न् असुर्यम् । दमे-दमे समिधं यक्ष्य् अग्ने प्रति ते जिह्वा घृतम् उच् चरण्यत् स्वाहा ॥
VERSE: 8.25 समुद्रे ते हृदयम् अप्स्व् अन्तः सं त्वा विशन्त्व् ओषधीर् उतापः । यज्ञस्य त्वा यज्ञपते सूक्तोक्तौ नमोवाके विधेम यत् स्वाहा ॥
VERSE: 8.26 देवीर् आप ऽ एष वो गर्भस् तम्̐ सुप्रीतम्̐ सुभृतं बिभृत । देव सोमैष ते लोकस् तस्मिञ् छं च वक्ष्व परि च वक्ष्व ॥
VERSE: 8.27 अवभृथ निचुम्पुण निचेरुर् असि निचुम्पुणः । अव देवैर् देवकृतम् एनो ऽयासिषम् अव मर्त्यैर् मर्त्यकृतं पुरुराव्णो देव रिषस् पाहि । देवानाम्̐ समिद् असि ॥
VERSE: 8.28 एजतु दशमास्यो गर्भो जरायुणा सह । यथायं वायुर् एजति यथा समुद्र ऽ एजति । एवायं दशमास्यो ऽ अस्रज् जरायुणा सह ॥
VERSE: 8.29 यस्यै ते यज्ञियो गर्भो यस्यै योनिर् हिरण्ययी । अङ्गान्य् अह्रुता यस्य तं मात्रा सम् अजीगमम्̐ स्वाहा ॥
VERSE: 8.30 पुरुदस्मो विषुरूप ऽ इन्दुर् अन्तर् महिमानम् आनञ्ज धीरः । एकपदीं द्विपदीं त्रिपदीं चतुष्पदीम् अष्टापदीं भुवनानु प्रथन्ताम्̐ स्वाहा ॥
VERSE: 8.31 मरुतो यस्य हि क्षये पाथा दिवो विमहसः । स सुगोपातमो जनः ॥
VERSE: 8.32 मही द्यौः पृथिवी च न ऽ इमं यज्ञं मिमिक्षताम् । पिपृतां नो भरीमभिः ॥
VERSE: 8.33 आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी । अर्वाचीनम्̐ सु ते मनो ग्रावा कृणोतु वग्नुना । उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने । ऽ एष ते योनिर् इन्द्राय त्वा षोडशिने ॥
VERSE: 8.34 युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । अथा न ऽ इन्द्र सोमपा गिराम् उपश्रुतिं चर । उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने । ऽ एष ते योनिर् इन्द्राय त्वा षोडशिने ॥
VERSE: 8.35 इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् । ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम् । उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने । ऽ एष ते योनिर् इन्द्राय त्वा षोडशिने ॥
VERSE: 8.36 यस्मान् न जातः परो ऽ अन्यो ऽ अस्ति य ऽ आविवेश भुवनानि विश्वा । प्रजापतिः प्रजया सम्̐रराणस् त्रीणि ज्योतीम्̐षि सचते स षोडशी ॥
VERSE: 8.37 इन्द्रश् च सम्राड् वरुणश् च राजा तौ ते भक्षं चक्रतुर् अग्र् ऽ एतम् । तयोर् अहम् अनु भक्षं भक्षयामि वाग् देवी जुषाणा सोमस्य तृप्यतु । सह प्राणेन स्वाहा ॥
VERSE: 8.38 अग्ने पवस्व स्वपा ऽ अस्मे वर्चः सुवीर्यम् । दधद् रयिं मयि पोषम् । उपयामगृहीतो ऽस्य् अग्नये त्वा वर्चसे । ऽ एष ते योनिर् अग्नये त्वा वर्चसे । अग्ने वर्चस्विन् वर्चस्वाम्̐स् त्वं देवेष्व् असि वर्चस्वान् अहं मनुष्येषु भूयासम् ॥
VERSE: 8.39 उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे ऽ अवेपयः । सोमम् इन्द्र चमू सुतम् । उपयामगृहीतो ऽसीन्द्राय त्वौजसे । ऽ एष ते योनिर् इन्द्राय त्वौजसे । इन्द्रौजिष्ठौजिष्ठस् त्वं देवेष्व् अस्य् ओजिष्ठो ऽहं मनुष्येषु भूयासम् ॥
VERSE: 8.40 अदृश्रम् अस्य केतवो वि रश्मयो जनाम्̐ ऽ अनु । भ्राजन्तो अग्नयो यथा । उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजाय । एष ते योनिः सूर्याय त्वा भ्राजाय । सूर्य भ्राजिष्ठ भ्राजिष्ठस् त्वं देवेष्व् असि भ्राजिष्ठो ऽहं मनुष्येषु भूयासम् ॥
VERSE: 8.41 उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् । उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजाय । एष ते योनिः सूर्याय त्वा भ्राजाय । (सूर्य भ्राजिष्ठ भ्राजिष्ठस् त्वं देवेष्व् असि भ्राजिष्ठो ऽहं मनुष्येषु भूयासम् )॥ ?
VERSE: 8.42 सहस्रं धुक्ष्वोरुधारा पयस्वती पुनर् माविशताद् रयिः ॥
VERSE: 8.43 इडे रन्ते हव्ये काम्ये चन्द्रे ज्योते ऽदिते सरस्वति महि विश्रुति । एता ते ऽ अघ्न्ये नामानि देवेभ्यो मा सुकृतं ब्रूतात् ॥
VERSE: 8.44 वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो ऽ अस्माँ२ ऽ अभिदासत्य् अधरं गमया तमः । उपयामगृहीतो ऽसीन्द्राय त्वा विमृधे । ऽ एष ते योनिर् इन्द्राय त्वा विमृधे ॥
VERSE: 8.45 वाचस् पतिं विश्वकर्माणमूतये मनोजुवं वाजे ऽ अद्या हुवेम । स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा । उपयामगृहीतो ऽसीन्द्राय त्वा विश्वकर्मणे । ऽ एष ते योनिर् इन्द्राय त्वा विश्वकर्मणे ॥
VERSE: 8.46 विश्वकर्मन् हविषा वर्धनेन त्रातारम् इन्द्रम् अकृणोर् अवध्यम् । तस्मै विशः समनमन्त पूर्वीर् अयम् उग्रो विहव्यो यथासत् । उपयामगृहीतो ऽसीन्द्राय त्वा विश्वकर्मणे । ऽ एष ते योनिर् इन्द्राय त्वा विश्वकर्मणे ॥
VERSE: 8.47 उपयामगृहीतो ऽस्य् अग्नये त्वा गायत्रच्छन्दसं गृह्णामि । इन्द्राय त्वा त्रिष्टुप्छन्दसं गृह्णामि । विश्वेभ्यस् त्वा देवेभ्यो जगच्छन्दसं गृह्णामि । अनुष्टुप् ते ऽभिगरः ॥
VERSE: 8.48 व्रेशीनां त्वा पत्मन्न् आ धूनोमि कुकूननानां त्वा पत्मन्न् आ धूनोमि भन्दनानां त्वा पत्मन्न् आ धूनोमि मदिन्तमानां त्वा पत्मन्न् आ धूनोमि मधुन्तमानां त्वा पत्मन्न् आ धूनोमि शुक्रं त्वा शुक्र ऽ आ धूनोम्य् अह्नो रूपे सूर्यस्य रश्मिषु ॥
VERSE: 8.49 ककुभम्̐ रूपं वृषभस्य रोचते बृहच् छुक्रः शुक्रस्य पुरोगाः सोमः सोमस्य पुरोगाः । यत् ते सोमादाभ्यं नाम जागृवि तस्मै त्वा गृह्णामि तस्मै ते सोम सोमाय स्वाहा ॥
VERSE: 8.50 उशिक् त्वं देव सोमाग्नेः प्रियं पाथो ऽपीहि । वशी त्वं देव सोमेन्द्रस्य प्रियं पाथो ऽपीहि । अस्मत्सखा त्वं देव सोम विश्वेषां देवानां प्रियं पाथो ऽपीहि ॥
VERSE: 8.51 इह रतिर् इह रमध्वम् इह धृतिर् इह स्वधृतिः स्वाहा । उपसृजन् धरुणं मात्रे धरुणो मातरं धयन् । रायस्पोषम् अस्मासु दीधरत् स्वाहा ॥
VERSE: 8.52 सत्रस्य ऽ ऋद्धिर् अस्य् अगन्म ज्योतिर् अमृता ऽ अभूम दिवं पृथिव्या ऽ अध्य् आरुहामाविदाम देवान्त् स्वर् ज्योतिः ॥
VERSE: 8.53 युवं तम् इन्द्रापर्वता पुरोयुधा यो नः पृतन्याद् अप तं-तम् इद् धतं वज्रेण तं-तम् इद् धतम् । दूरे चत्ताय छन्त्सद् गहनं यद् इनक्षत् । अस्माकम्̐ शत्रून् परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः । भूर् भुवः स्वः सुप्रजाः प्रजाभिः स्याम सुवीरा वीरैः सुपोषाः पोषैः ॥
VERSE: 8.54 परमेष्ठ्य् अभिधीतः । प्रजापतिर् वाचि व्याहृतायाम् । अन्धो ऽ अच्छेतः । सविता सन्याम् । विश्वकर्मा दीक्षायाम् । पूषा सोमक्रयण्याम् ॥
VERSE: 8.55 इन्द्रश् च मरुतश् च क्रयायोपोत्थितः । ऽ असुरः पण्यमानः । मित्रः क्रीतः । विष्णुः शिपिविष्ट ऽ ऊराव् आसन्नः । विष्णुर् नरन्धिषः प्रोह्यमाणः ॥
VERSE: 8.56 सोम ऽ आगतः । वरुण ऽ आसन्द्याम् आसन्नः । ऽ अग्निर् आग्नीध्रे । ऽ इन्द्रो हविर्धाने । ऽ अथर्वोपावह्रियमाणः ॥
VERSE: 8.57 विश्वे देवा ऽ अम्̐शुषु न्युप्तः । विष्णुर् आप्रीतपा ऽ आप्याय्यमानः । यमः सूयमानः । विष्णुः संभ्रियमाणः । वायुः पूयमानः । शुक्रः पूतः । शुक्रं क्षीरश्रीः । मन्थी सक्तुश्रीः ॥
VERSE: 8.58 विश्वे देवाश् चमसेषून्नीतः । ऽ असुर् होमायोद्यतः । रुद्रो हूयमानः । वातो ऽभ्यावृत्तः । नृचक्षाः प्रतिख्यातः । भक्षो भक्ष्यमाणः । पितरो नाराशम्̐साः सन्नः ॥
VERSE: 8.59 सिन्धुर् अवभृथायोद्यतः । समुद्रो ऽभ्यवह्रियमाणः । सलिलः प्रप्लुतः । ययोर् ओजसा स्कभिता रजाम्̐सि वीर्येभिर् वीरतमा शविष्ठा । या पत्येते ऽ अप्रतीता सहोभिर् विष्णू ऽ अगन् वरुणा पूर्वहूतौ ॥
VERSE: 8.60 देवान् दिवम् अगन् यज्ञस् ततो मा द्रविणम् अष्टु मनुष्यान् अन्तरिक्षम् अगन् यज्ञस् ततो मा द्रविणम् अष्टु पितॄन् पृथिवीम् अगन् यज्ञस् ततो मा द्रविणम् अष्टु यं कं च लोकम् अगन् यज्ञस् ततो मे भद्रं अभूत् ॥
VERSE: 8.61 चतुस्त्रिम्̐शत् तन्तवो ये वितत्निरे य ऽ इमं यज्ञम्̐ स्वधया ददन्ते । तेषां छिन्नम्̐ सम् व् एतद् दधामि स्वाहा घर्मो ऽ अप्य् एतु देवान् ॥
VERSE: 8.62 यज्ञस्य दोहो विततः पुरुत्रा सो ऽ अष्टधा दिवम् अन्वा ततान । स यज्ञ धुक्ष्व महि मे प्रजयाम्̐ रायस्पोषं विश्वम् आयुर् अशीय स्वाहा ॥
VERSE: 8.63 आ पवस्व हिरण्यवद् अश्ववत् सोम वीरवत् । वाजं गोमन्तम् आ भर स्वाहा ॥
अध्याय 9 वाजपेय राजसूय यज्ञाङ्गमन्त्राः। वाजपेयः 1-34, राजसूयः 35-40
VERSE: 9.1 देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय । दिव्यो गन्धर्वः केतुपूः केतं नः पुनातु वाचस्पतिर् वाजं नः स्वदतु स्वाहा ॥
VERSE: 9.2 ध्रुवसदं त्वा नृषदं मनःसदम् । उपयामगृहीतो ऽसीन्द्राय त्वा जुष्टं गृह्णामि । एष ते योनिर् इन्द्राय त्वा जुष्टतमम् । अप्सुषदं त्वा घृतसदं व्योमसदम् । उपयामगृहीतो सीन्द्राय त्वा जुष्टं गृह्णामि । एष ते योनिर् इन्द्राय त्वा जुष्टतमम् । पृथिवीसदं त्वा ऽन्तरिक्षसदं दिविसदं देवसदं नाकसदम् । उपयामगृहीतो सीन्द्राय त्वा जुष्टं गृह्णामि । एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ॥
VERSE: 9.3 अपाम्̐ रसम् उद्वयसम्̐ सूर्ये सन्तम्̐ समाहितम् । अपाम्̐ रसस्य यो रसस् तं वो गृह्णाम्य् उत्तमम् । उपयामगृहीतो सीन्द्राय त्वा जुष्टं गृह्णामि । एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ॥
VERSE: 9.4 ग्रहा ऽ ऊर्जाहुतयो व्यन्तो विप्राय मतिम् । तेषां विशिप्रियाणां वो ऽ हम् इषमूर्जम्̐ सम् अग्रभम् । उपयामगृहीतो ऽसीन्द्राय त्वा जुष्टं गृह्णामि । एष ते योनिर् इन्द्राय त्वा जुष्टतमम् । सम्पृचौ स्थः सं मा भद्रेण पृङ्क्तम् । विपृचौ स्थो वि मा पाप्मना पृङ्क्तम् ॥
VERSE: 9.5 इन्द्रस्य वज्रो ऽसि वाजसास् त्वयाऽयम् वाजम्̐ सेत् । वाजस्य नु प्रसवे मातरं महीम् अदितिं नाम वचसा करामहे । यस्याम् इदं विश्वं भुवनम् आविवेश तस्यां नो देवः सविता धर्म साविषत् ॥
VERSE: 9.6 अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तिष्व् अश्वा भवत वाजिनः । देवीर् आपो यो व ऽ ऊर्मिः प्रतूर्तिः ककुन्मान् वाजसास् तेनायं वाजम्̐ सेत् ॥
VERSE: 9.7 वातो वा मनो वा गन्धर्वाः सप्तविम्̐शतिः । ते ऽ अग्रेऽ श्वम् अयुञ्जम्̐स् ते ऽ अस्मिन् जवम् आदधुः ॥
VERSE: 9.8 वातरम्̐हा भव वाजिन् युज्यमान ऽ इन्द्रस्येव दक्षिणः श्रियैधि । युञ्जन्तु त्वा मरुतो विश्ववेदस ऽ आ ते त्वष्टा पत्सु जवं दधातु ॥
VERSE: 9.9 जवो यस् ते वाजिन् निहितो गुहा यः श्येने परीत्तो ऽ अचरच् च वाते । तेन नो वाजिन् बलवान् बलेन वाजजिच् च भव समने च पारयिष्णुः । वाजिनो वाजजितो वाजम्̐ सरिष्यन्तो बृहस्पतेर् भागम् अव जिघ्रत ॥
VERSE: 9.10 देवस्याहम्̐ सवितुः सवे सत्यसवसो बृहस्पतेर् उत्तमं नाकम्̐ रुहेयम् । देवस्याहम्̐ सवितुः सवे सत्यसवस इन्द्रस्योत्तमं नाकम्̐ रुहेयम् । देवस्याहम्̐ सवितुः सवे सत्यप्रसवसो बृहस्पतेर् उत्तमं नाकम् अरुहम् । देवस्याहम्̐ सवितुः सवे सत्यप्रसवस ऽ इन्द्रस्योत्तमं नाकम् अरुहम् ॥
VERSE: 9.11 बृहस्पते वाजं जय बृहस्पतये वाचं वदत बृहस्पतिं वाजं जापयत । इन्द्र वाजं जयेन्द्राय वाचं वदतेन्द्रं वाजं जापयत ॥
VERSE: 9.12 एषा वः सा सत्या संवाग् अभूद् यया बृहस्पतिं वाजम् अजीजपताजीजपत बृहस्पतिं वाजं वनस्पतयो वि मुच्यध्वम् । एषा वः सा सत्या संवाग् अभूद् ययेन्द्रं वाजम् अजीजपताजीजपतेन्द्रं वाजं वनस्पतयो वि मुच्यध्वम् ॥
VERSE: 9.13 देवस्याहम्̐ सवितुः सवे सत्यप्रसवसो बृहस्पतेर् वाजजितो वाजं जेषम् । वाजिनो वाजजितोऽध्वन स्कभ्नुवन्तो योजना मिमानाः काष्ठां गच्छत ॥
VERSE: 9.14 एष स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो ऽ अपिकक्ष आसनि । क्रतुं दधिक्रा ऽ अनु सम्̐सनिष्यदत् पथाम् अङ्काम्̐स्य् अन्व् आपनीफणत् स्वाहा ॥
VERSE: 9.15 उत स्मास्य द्रवतस् तुरणयतः पर्णं न वेर् अनु वाति प्रगर्धिनः । श्येनस्येव ध्रजतो ऽ अङ्कसं परि दधिक्राव्णः स होर्जा तरित्रः स्वाहा ॥
VERSE: 9.16 शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । जम्भयन्तो हिं वृकम्̐ रक्षाम्̐सि सनेम्य् अस्मद् युयवन्न् अमीवाः ॥
VERSE: 9.17 ते नो ऽ अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः । सहस्रसा मेधसाता सनिष्यवो महो ये धनम्̐ समिथेषु जभ्रिरे ॥
VERSE: 9.18 वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा ऽ अमृता ऽ ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥
VERSE: 9.19 आ मा वाजस्य प्रसवो जगम्याद् एमे द्यावापृथिवी विश्वरूपे । आ मा गन्तां पितरा मातरा चा मा सोमो ऽ अमृतत्वेन गम्यात् । वाजिनो वाजजितो वाजम्̐ ससृवाम्̐सो बृहस्पतेर् भागम् अव जिघ्रत निमृजानाः ॥
VERSE: 9.20 आपये स्वाहा । स्वापये स्वाहा । ऽअपिजाय स्वाहा । क्रतवे स्वाहा । वसवे स्वाहा । ऽअहर्पतये स्वाहा । ऽअह्ने मुग्धाय स्वाहा । मुग्धाय वैनम्̐शिनाय स्वाहा । विनम्̐शिन ऽ आन्त्यायनाय स्वाहा । ऽऽअन्त्याय भौवनाय स्वाहा । भुवनस्य पतये स्वाहा । ऽअधिपतये स्वाहा ॥
VERSE: 9.21 आयुर् यज्ञेन कल्पताम् । प्राणो यज्ञेन कल्पताम् । चक्षुर् यज्ञेन कल्पताम् । श्रोत्रं यज्ञेन कल्पताम् । पृष्ठं यज्ञेन कल्पताम् । यज्ञो यज्ञेन कल्पताम् । प्रजापतेः प्रजा ऽ अभूम । स्वर्देवा ऽ अगन्म । अमृता ऽ अभूम ॥
VERSE: 9.22 अस्मे वो ऽ अस्त्व् इन्द्रियम् अस्मे नृम्णम् उत क्रतुर् अस्मे वर्चाम्̐सि सन्तु वः । नमो मात्रे पृथिव्यै नमो मात्रे पृथिव्यै । ऽइयं ते राट् । यन्तासि यमनो ध्रुवो ऽसि धरुणः कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा ॥
VERSE: 9.23 वाजस्येमं प्रसवः सुषुवे ऽग्रे सोमम्̐ राजानम् ओषधीष्व् अप्सु । ता ऽ अस्मभ्यं मधुमतीर् भवन्तु वयम्̐ राष्ट्रे जागृयाम पुरोहिताः स्वाहा ॥
VERSE: 9.24 वाजस्येमां प्रसवः शिश्रिये दिवम् इमा च विश्वा भुवनानि सम्राट् । अदित्सन्तं दापयति प्रजानन् स नो रयिम्̐ सर्ववीरं नि यच्छतु स्वाहा ॥
VERSE: 9.25 वाजस्य नु प्रसव आबभूवेमा च विश्वा भुवनानि सर्वतः । सनेमि राजा परियाति विद्वान् प्रजां पुष्टिं वर्धयमानो ऽ अस्मे स्वाहा ॥
VERSE: 9.26 सोमम्̐ राजानमवसेऽग्निमन्वारभामहे। आदित्यान् विष्णुम्̐ सूर्यं ब्रह्माणं च बृहस्पतिम्̐ स्वाहा ॥
VERSE: 9.27 अर्यमणं बृहस्पतिम् इन्द्रं दानाय चोदय । वाचं विष्णुम्̐ सरस्वतीम्̐ सवितारं च वाजिनम्̐ स्वाहा ॥
VERSE: 9.28 अग्ने ऽ अच्छावदेह नः प्रति नः सुमना भव । प्र नो यच्छ सहस्रजित्त्वम्̐ हि धनदा ऽ असि स्वाहा ॥
VERSE: 9.29 प्र नो यच्छत्व् अर्यमा प्र पूषा प्र बृहस्पतिः । प्र वाग् देवी ददातु नः स्वाहा ॥
VERSE: 9.30 देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । सरस्वत्यै वाचो यन्तुर् यन्त्रिये दधामि बृहस्पतेष् ट्वा साम्राज्येनाभि षिञ्चाम्य् असौ ॥
VERSE: 9.31 अग्निर् एकाक्षरेण प्राणम् उद् अजयत् तम् उज् जेषम् । अश्विनौ द्व्यक्षरेण द्विपदो मनुष्यान् उद् अजयतां तान् उज् जेषम् । विष्णुस् त्र्यक्षरेण त्रीम्̐ल् लोकान् उद् अजयत् तान् उज् जेषम् । सोमश् चतुरक्षरेण चतुष्पदः पशून् उद् अजयत् तान् उज् जेषम् ॥
VERSE: 9.32 पूषा पञ्चाक्षरेण पञ्च दिश ऽ उद् अजयत् ता ऽ उज् जेषम् । सविता षडक्षरेण षड् ऋतून् उद् अजयत् तान् उज् जेषम् । मरुतः सप्ताक्षरेण सप्त ग्राम्यान् पशून् उद् अजयम्̐स् तान् उज् जेषम् । बृहस्पतिर् अष्टाक्षरेण गायत्रीम् उद् अजयत् ताम् उज् जेषम् ॥
VERSE: 9.33 मित्रो नवाक्षरेण त्रिवृतम्̐ स्तोमम् उद् अजयत् तम् उज् जेषम् । वरुणो दशाक्षरेण विराजम् उद् अजयत् ताम् उज् जेषम् । इन्द्र ऽ एकादशाक्षरेण त्रिष्टुभम् उद् अजयत् ताम् उज् जेषम् । विश्वे देवा द्वादशाक्षरेण जगतीम् उद् अजयम्̐स् ताम् उज् जेषम् ॥
VERSE: 9.34 वसवस् त्रयोदशाक्षरेण त्रयोदशम्̐ स्तोमम् उद् अजयम्̐स् तम् उज् जेषम् । रुद्राश् चतुर्दशाक्षरेण चतुर्दशम्̐ स्तोमम् उद् अजयम्̐स् तम् उज् जेषम् । आदित्याः पञ्चदशाक्षरेण पञ्चदशम्̐ स्तोमम् उद् अजयम्̐स् तम् उज् जेषम् । अदितिः षोडशाक्षरेण षोडशम्̐ स्तोमम् उद् अजयत् तम् उज् जेषम् । प्रजापतिः सप्तदशाक्षरेण सप्तदशम्̐ स्तोमम् उद् अजयत् तम् उज् जेषम् ॥
VERSE: 9.35 एष ते निर्ऋते भागस् तं जुषस्व स्वाहा । ऽअग्निनेत्रेभ्यो देवेभ्यः पुरःसद्भ्यः स्वाहा । यमनेत्रेभ्यो देवेभ्यो दक्षिणासद्भ्यः स्वाहा । विश्वदेवनेत्रेभ्यो देवेभ्यो पश्चात्सद्भ्यः स्वाहा । मित्रावरुणनेत्रेभ्यो वा मरुन्नेत्रेभ्यो वा देवेभ्य ऽ उत्तरासद्भ्यः स्वाहा । सोमनेत्रेभ्यो देवेभ्यो ऽ उपरिसद्भ्यो दुवस्वद्भ्यः स्वाहा ॥
VERSE: 9.36 ये देवा ऽ अग्निनेत्राः पुरःसदस् तेभ्यः स्वाहा । ये देवा यमनेत्रा दक्षिणासदस् तेभ्यः स्वाहा । ये देवा विश्वदेवनेत्राः पश्चात्सदस् तेभ्यः स्वाहा । ये देवा मित्रावरुणनेत्रा वा मरुन्नेत्रा वोत्तरासदस् तेभ्यः स्वाहा । ये देवाः सोमनेत्रा ऽ उपरिसदो दुवस्वन्तस् तेभ्यः स्वाहा ॥
VERSE: 9.37 अग्ने सहस्व पृतना ऽ अभिमातीर् अपास्य । दुष्टरस् तरन्न् अरातीर् वर्चो धा यज्ञवाहसि ॥
VERSE: 9.38 देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । उपाम्̐शोर् वीर्येण जुहोमि हतम्̐ रक्षः स्वाहा । रक्षसां त्वा वधाय । अवधिष्म रक्षोऽ वधिष्मामुम् असौ हतः ॥
VERSE: 9.39 सविता त्वा सवानाम्̐ सुवताम् अग्निर् गृहपतीनाम्̐ सोमो वनस्पतीनाम् । बृहस्पतिर् वाच ऽ इन्द्रो ज्यैष्ठ्याय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम् ॥
VERSE: 9.40 इमं देवा ऽअसपत्नम्̐ सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय । इमम् अमुष्य पुत्रम् अमुष्यै पुत्रम् अस्यै विश ऽ एष वो ऽमी राजा सोमो स्माकं ब्राह्मणानाम्̐ राजा ॥
अध्याय 10 अभिषेकार्थ जल आदानादि राजसूयशेष चरकसौत्रामणी। राजसूयः 1-30, चरकसौत्रामणी 31-34
VERSE: 10.1 अपो देवा मधुमतीर् अगृभ्णन्न् ऊर्जस्वती राजस्वश् चितानाः । याभिर् मित्रावरुणाव् अभ्यषिञ्चन् याभिर् इन्द्रम् अनयन्न् अत्य् अरातीः ॥
VERSE: 10.2 वृष्ण ऽ ऊर्मिर् असि राष्ट्रदा राष्ट्रं मे देहि स्वाहा । वृष्ण ऽ ऊर्मिर् असि राष्ट्रदा राष्ट्रम् अमुष्मै देहि । वृषसेनो ऽ सि राष्ट्रदा राष्ट्रं मे देहि स्वाहा । वृषसेनो ऽ सि राष्ट्रदा राष्ट्रम् अमुष्मै देहि ॥
VERSE: 10.3 अर्थेत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । अर्थेत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । ओजस्वती स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । ओजस्वती स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । आपः परिवाहिणी स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । आपः परिवाहिणी स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । अपां पतिर् असि राष्ट्रदा राष्ट्रं मे देहि स्वाहा । अपां पतिर् असि राष्ट्रदा राष्ट्रम् अमुष्मै देहि । अपां गर्भो ऽ सि राष्ट्रदा राष्ट्रं मे देहि स्वाहा । ऽ अपां गर्भो ऽ सि राष्ट्रदा राष्ट्रम् अमुष्मै देहि ॥
VERSE: 10.4 सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । मान्दा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । मान्दा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । व्रजक्षित स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । व्रजक्षित स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । वाशा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । वाशा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । शविष्ठा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । शविष्ठा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । शक्वरी स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । शक्वरी स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । जनभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । जनभृत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । विश्वभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । विश्वभृत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । आपः स्वराज स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । मधुमतीर् मधुमतीभिः पृच्यन्तां महि क्षत्रं क्षत्रियाय वन्वानाः । ऽ अनाधृष्टाः सीदत सहौजसो महि क्षत्रं क्षत्रियाय दधतीः ॥
VERSE: 10.5 सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् । अग्नये स्वाहा । सोमाय स्वाहा । सवित्रे स्वाहा । सरस्वत्यै स्वाहा । पूष्णे स्वाहा । बृहस्पतये स्वाहा । इन्द्राय स्वाहा । घोषाय स्वाहा । श्लोकाय स्वाहा । अम्̐शाय स्वाहा । भगाय स्वाहा । अर्यम्णे स्वाहा ॥
VERSE: 10.6 पवित्रे स्थो वैष्णव्यौ । सवितुर् वः प्रसव ऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । अनिभृष्टम् असि वाचो बन्धुस् तपोजाः सोमस्य दात्रम् असि स्वाहा राजस्वः ॥
VERSE: 10.7 सधमादो द्युम्न्íनीर् आप ऽ एता अनाधृष्टा ऽ अपस्यो वसानाः । पस्त्यासु चक्रे वरुणः सधस्थम् अपाम्̐ शिशुर् मातृतमास्व् अन्तः ॥
VERSE: 10.8 क्षत्रस्योल्वम् असि । क्षत्रस्य जराय्व् असि । क्षत्रस्य योनिर् असि । क्षत्रस्य नाभिर् असि । इन्द्रस्य वात्रघ्नम् । मित्रस्यासि वरुणस्यासि । त्वयायं वृत्रं वधेत् । दृवासि । रुजासि । क्षुमासि । पातैनं प्राञ्चम् । पातैनं प्रत्यञ्चम् । पातैनं तिर्यञ्चं दिग्भ्यः पात ॥
VERSE: 10.9 आविर्मर्याः । ऽ आवित्तो ऽ अग्निर् गृहपतिः । आवित्त ऽ इन्द्रो वृद्धश्रवाः । ऽ आवित्तौ मित्रावरुणौ धृतव्रतौ । आवित्तः पूषा विश्ववेदाः । ऽ आवित्ते द्यावापृथिवी विश्वशम्भुवौ । आवित्तादितिर् उरुशर्मा ॥
VERSE: 10 अवेष्टा दन्दशूकाः । प्राचीम् आ रोह गायत्री त्वावतु रथन्तरम्̐ साम त्रिवृत् स्तोमो वसन्त ऽ ऋतुर् ब्रह्म द्रविणम् ॥
VERSE: 10.11 दक्षिणाम् आ रोह त्रिष्टुप् त्वावतु बृहत् साम पञ्चदश स्तोमो ग्रीष्म ऽ ऋतुः क्षत्रं द्रविणम् ॥
VERSE: 10.12 प्रतीचीम् आ रोह जगती त्वावतु वैरूपम्̐ साम सप्तदश स्तोमो वर्षा ऽ ऋतुः विड् द्रविणम् ॥
VERSE: 10.13 उदीचीम् आ रोहानुष्टुप् त्वावतु वैराजम्̐ सामैकविम्̐श स्तोमः शरद् ऋतुः फलं द्रविणम् ॥
VERSE: 10.14 ऊर्ध्वाम् आ रोह पङ्क्तिस् त्वावतु शाक्वररैवते सामनी त्रिणवत्रयस्त्रिम्̐शौ स्तोमौ हेमन्तशिशिराव् ऋतू वर्चो द्रविणम् । प्रत्यस्तं नमुचेः शिरः ॥
VERSE: 10.15 सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् । मृत्योः पाहि । ओजो ऽसि सहो ऽस्य् अमृतम् असि ॥
VERSE: 10.16 हिरण्यरूपा ऽउषसो विरोक ऽउभाव् इन्द्रा ऽउदिथः सूर्यश् च । आ रोहतं वरुण मित्र गर्तं ततश् चक्षाथाम् अदितिं दितिं च । मित्रो ऽसि वरुणो ऽसि ॥
VERSE: 10.17 सोमस्य त्वा द्युम्नेनाभिषिञ्चाम्य् अग्नेर् भ्राजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण । क्षत्राणां क्षत्रपतिर् एध्य् अति दिद्यून् पाहि ॥
VERSE: 10.18 इमं देवा ऽअसपत्नम्̐ सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय । इमम् अमुष्य पुत्रम् अमुष्यै पुत्रम् अस्यै विश ऽएष वो मी राजा सोमो स्माकं ब्राह्मणानाम्̐ राजा ॥
VERSE: 10.19 प्र पर्वतस्य वृषभस्य पृष्ठान् नावश् चरन्ति स्वसिच ऽइयानाः । ता ऽ आववृत्रन्न् अधराग् उदक्ता ऽ अहिं बुध्न्यम् अनु रीयमाणाः । विष्णोर् विकर्मणम् असि । विष्णोर् विक्रान्तम् असि । विष्णोः क्रान्तम् असि ॥
VERSE: 10.20 प्रजापते न त्वद् एतान्य् अन्यो विश्वा रूपाणि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो ऽ अस्तु । अयम् अमुष्य पिताऽसाव् अस्य पिता । वयम्̐ स्याम पतयो रयीणाम्̐ स्वाहा । रुद्र यत् ते क्रिवि परं नाम तस्मिन् हुतम् अस्य् अमेष्टम् असि स्वाहा ॥
VERSE: 10.21 इन्द्रस्य वज्रो ऽसि । मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि । अव्यथायै त्वा स्वधायै त्वाऽरिष्टो अर्जुनः । मरुतां प्रसवेन जय । आपाम मनसा । सम् इन्द्रियेण ॥
VERSE: 10.22 मा त ऽ इन्द्र ते वयं तुराषाड् अयुक्तासो ऽ अब्रह्मता विदसाम । तिष्ठा रथम् अधि यं वज्रहस्ता रश्मीन् देव युवसे स्वश्वान् ॥
VERSE: 10.23 अग्नये गृहपतये स्वाहा । सोमाय वनस्पतये स्वाहा । मरुताम् ओजसे स्वाहा । इन्द्रस्येन्द्रियाय स्वाहा । पृथिवि मातर् मा मा हिम्̐सीर् मो ऽ अहं त्वाम् ॥
VERSE: 10.24 हम्̐सः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऽ ऋतजा ऽ अद्रिजा ऽ ऋतं बृहत् ॥
VERSE: 10.25 इयद् अस्यायुर् अस्यायुर् मयि धेहि युङ्ङ् असि वर्चो ऽसि वर्चो मयि धेहि । ऊर्ग् अस्य् ऊर्जं मयि धेहि । इन्द्रस्य वां वीर्यकृतो बाहू ऽअभ्युपाव हरामि ॥
VERSE: 10.26 स्योनासि सुषदासि । क्षत्रस्य योनिर् असि । स्योनाम् आ सीद सुषदाम् आ सीद क्षत्रस्य योनिम् आ सीद ॥
VERSE: 10.27 नि षसाद घृतव्रतो वरुणः पस्त्यास्व् आ । साम्राज्याय सुक्रतुः ॥
VERSE: 10.28 अभिभूर् अस्य् एतास् ते पञ्च दिशः कल्पन्ताम् । ब्रह्मम्̐स् त्वं ब्रह्मासि सवितासि सत्यप्रसवः । वरुणो ऽसि सत्यौजाः । ऽ इन्द्रो ऽसि विशौजाः । रुद्रोऽ सि सुशेवः । बहुकार श्रेयस्कर भूयस्कर । इन्द्रस्य वज्रो ऽसि तेन मे रध्य ॥
VERSE: 10.29 अग्निः पृथुर् धर्मणस् पतिर् जुषाणो अग्निः पृथुर् धर्मणस् पतिर् आज्यस्य वेतु स्वाहा । स्वाहाकृताः सूर्यस्य रश्मिभिर् यतध्वम्̐ सजातानां मध्यमेष्ठ्याय ॥
VERSE: 10.30 सवित्रा प्रसवित्रा सरस्वत्या वाचा त्वष्ट्रा रूपैः पूष्णा पशुभिर् इन्द्रेणास्मे बृहस्पतिना ब्रह्मणा वरुणेनौजसाग्निना तेजसा सोमेन राज्ञा विष्णुना दशम्या देवतया प्रसूतः प्र सर्पामि ॥
VERSE: 10.31 अश्विभ्यां पच्यस्व । सरस्वत्यै पच्यस्व । इन्द्राय सुत्राम्णे पच्यस्व । वायुः पूतः पवित्रेण प्रत्यङ्क् सोमो अतिस्रुतः । इन्द्रस्य युज्यः सखा ॥
VERSE: 10.32 कुविद् अङ्ग यवमन्तो वयं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति । उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ॥
VERSE: 10.33 वयम्̐ सुरामम् अश्विना नमुचाव् आसुरे सचा । विपिपाना शुभस् पती इन्द्रं कर्मस्व् आवतम् ॥
VERSE: 10.34 पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दम्̐सनाभिः । यत् सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥

अध्याय 11 अग्निचयने उखादि समिदाध्यन्त मन्त्राः
VERSE: 11.1 युञ्जानः प्रथमं मनस् तत्वाय सविता धियम् । अग्नेर् ज्योतिर् निचाय्य पृथिव्या ऽ अध्य् आभरत् ॥

VERSE: 11.2 युक्तेन मनसा वयं देवस्य सवितुः सवे । स्वर्ग्याय शक्त्या ॥
VERSE: 11.3 युक्त्वाय सविता देवान्त् स्वर्यतो धिया दिवम् । बृहज् ज्योतिः करिष्यतः सविता प्र सुवाति तान् ॥
VERSE: 11.4 युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविद् एक ऽ इन् मही देवस्य सवितुः परिष्टुतिः ॥
VERSE: 11.5 युजे वां ब्रह्म पूर्व्यं नमोभिर् वि श्लोक ऽ एतु पथ्येव सूरेः । शृण्वन्तु विश्वे ऽ अमृतस्य पुत्रा ऽ आ ये धामानि दिव्यानि तस्थुः ॥
VERSE: 11.6 यस्य प्रयाणम् अन्व् अन्य ऽ इद् ययुर् देवा देवस्य महिमानम् ओजसा । यः पार्थिवानि विममे स ऽ एतशो रजाम्̐सि देवः सविता महित्वना ॥
VERSE: 11.7 देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय । दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस् पतिर् वाचं नः स्वदतु ॥
VERSE: 11.8 इमं नो देव सवितर् यज्ञं प्र णय देवाव्यम्̐ सखिविदम्̐ सत्राजितं धनजितम्̐ स्वर्जितम् । ऋचा स्तोमम्̐ समर्धय गायत्रेण रथन्तरं बृहद् गायत्रवर्तनि स्वाहा ॥
VERSE: 11.9 देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे गायत्रेण छन्दसाङ्गिरस्वत् पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वद् आ भर त्रैष्टुभेन छन्दसाङ्गिरस्वत् ॥
VERSE: 11.10 अभ्रिर् असि नार्य् असि त्वया वयम् अग्निम्̐ शकेम खनितुम्̐ सधस्थ आ जागतेन छन्दसाङ्गिरस्वत् ॥
VERSE: 11.11 हस्त ऽ आधाय सविता बिभ्रद् अभ्रिम्̐ हिरण्ययीम् । अग्नेर् ज्योतिर् निचाय्य पृथिव्या ऽ अध्य् आ भर । आनुष्टुभेन छन्दसाङ्गिरस्वत् ॥
VERSE: 11.12 प्रतूर्तं वाजिन्न् आ द्रव वरिष्ठाम् अनु सम्वतम् । दिवि ते जन्म परमम् अन्तरिक्षे तव नाभिः पृथिव्याम् अधि योनिर् इत् ॥
VERSE: 11.13 युञ्जाथाम्̐ रासभं युवम् अस्मिन् यामे वृषण्वसू । अग्निं भरन्तम् अस्मयुम् ॥
VERSE: 11.14 योगे-योगे तवस्तरं वाजे-वाजे हवामहे । सखाय ऽ इन्द्रमूतये ॥
VERSE: 11.15 प्रतूर्वन्न् एह्य् अवक्रामन्न् अशस्तो रुद्रस्य गाणपत्यं मयोभूर् एहि । उर्व् अन्तरिक्षं वीहि । स्वस्तिगव्यूतिर् अभयानि कृण्वन् पूष्णा सयुजा सह ॥
VERSE: 11.16 पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वद् आ भर । अग्निं पुरीष्यम् अङ्गिरस्वद् अच्छेमः । ऽ अग्निं पुरीष्यम् अङ्गिरस्वद् भरिष्यामः ॥
VERSE: 11.17 अन्व् अग्निर् उषसाम् अग्रम् अख्यद् अन्व् अहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीन् अनु द्यावापृथिवी ऽ आ ततन्थ ॥
VERSE: 11.18 आगत्य वाज्य् अध्वानम्̐ सर्वा मृधो विधूनुते । अग्निम्̐ सधस्थे महति चक्षुषा नि चिकीषते ॥
VERSE: 11.19 आक्रम्य वाजिन् पृथिवीम् अग्निम् इच्छ रुचा त्वम् । भूम्या वृक्त्वाय नो ब्रूहि यतः खनेम तं वयम् ॥
VERSE: 11.20 द्यौस् ते पृष्ठं पृथिवी सधस्थम् आत्मान्तरिक्षम्̐ समुद्रो योनिः । विख्याय चक्षुषा त्वम् अभि तिष्ठ पृतन्यतः ॥
VERSE: 11.21 उत् क्राम महते सौभगायास्माद् आस्थानाद् द्रविणोदा वाजिन् । वयम्̐ स्याम सुमतौ पृथिव्या ऽ अग्निं खनन्त ऽ उपस्थे ऽ अस्याः ॥
VERSE: 11.22 उद् अक्रमीद् द्रविणोदा वाज्य् अर्वाकः सु लोकम्̐ सुकृतं पृथिव्याम् । ततः खनेम सुप्रतीकम् अग्निम्̐ स्वो रुहाणा ऽ अधि नाकम् उत्तमम् ॥
VERSE: 11.23 आ त्वा जिघर्मि मनसा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा । पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नै रभसं दृशानम् ॥
VERSE: 11.24 आ विश्वतः प्रत्यञ्चं जिघर्म्य् अरक्षसा मनसा तज् जुषेत । मर्यश्री स्पृहयद्वर्णो ऽ अग्निर् नाभिमृशे तन्वा जर्भुराणः ॥
VERSE: 11.25 परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् । दधद् रत्नानि दाशुषे ॥
VERSE: 11.26 परि त्वाग्ने पुरं वयं विप्रम्̐ सहस्य धीमहि । धृषद्वर्णं दिवे-दिवे हन्तारं भङ्गुरावताम् ॥
VERSE: 11.27 त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि । त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः ॥
VERSE: 11.28 देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वत् खनामि । ज्योतिष्मन्तं त्वाग्ने सुप्रतीकम् अजस्रेण भानुना दीद्यतम् । शिवं प्रजाभ्यो ऽहिम्̐सन्तं पृथिव्या सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वत् खनामः ॥
VERSE: 11.29 अपां पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् । वर्धमानो महाम्̐२ऽ आ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व ॥
VERSE: 11.30 शर्म च स्थो वर्म च स्थो ऽच्छिद्रे बहुले ऽ उभे । व्यचस्वती सं वसाथां भृतम् अग्निं पुरीष्यम् ॥
VERSE: 11.31 संवसाथाम्̐ स्वर्विदा समीची ऽ उरसा त्मना । अग्निम् अन्तर् भरिष्यन्ती ज्योतिष्मन्तम् अजस्रम् इत् ॥
VERSE: 11.32 पुरीष्यो सि विश्वभरा ऽ अथर्वा त्वा प्रथमो निर् अमन्थद् अग्ने । त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥
VERSE: 11.33 तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ऽ ईधे अथर्वणः । वृत्रहणं पुरंदरम् ॥
VERSE: 11.34 तम् उ त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । धनंजयम्̐ रणे-रणे ॥
VERSE: 11.35 सीद होतः स्व ऽ उ लोके चिकित्वान् सादया यज्ञम्̐ सुकृतस्य योनौ । देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥
VERSE: 11.36 नि होता होतृषदने विदानस् त्वेषो दीदिवाम्̐२ ऽ असदत् सुदक्षः । अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो ऽ अग्निः ॥
VERSE: 11.37 सम्̐ सीदस्व महाम्̐२ ऽ असि शोचस्व देववीतमः । वि धूमम् ऽ अग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम् ॥
VERSE: 11.38 अपो देवीर् उपसृज मधुमतीर् अयक्ष्माय प्रजाभ्यः । तासाम् आस्थानाद् उज् जिहताम् ओषधयः सुपिप्पलाः ॥
VERSE: 11.39 सं ते वायुर् मातरिश्वा दधातूत्तानाया हृदयं यद् विकस्तम् । यो देवानां चरसि प्राणथेन कस्मै देव वषड् अस्तु तुभ्यम् ॥
VERSE: 11.40 सुजातो ज्योतिषा सह शर्म वरूथम् आसदत् स्वः । वासो ऽ अग्ने विश्वरूपम्̐ संव्ययस्व विभावसो ॥
VERSE: 11.41 उद् उ तिष्ठ स्वध्वरावा नो देव्या धिया । दृशे च भासा बृहता शुशुक्वनिर् आग्ने याहि सुशस्तिभिः ॥
VERSE: 11.42 ऊर्ध्व ऽ ऊ षु ण ऽ ऊतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघद्भिर् विह्वयामहे ॥
VERSE: 11.43 स जातो गर्भो ऽ असि रोदस्योर् अग्ने चारुर् विभृत ऽ ओषधीषु । चित्रः शिशुः परि तमाम्̐स्य् अक्तून् प्र मातृभ्यो ऽ अधि कनिक्रदद् गाः ॥
VERSE: 11.44 स्थिरो भव वीड्व् अङ्ग ऽ आशुर् भव वाज्य् अर्वन् । पृथुर् भव सुषदस् त्वम् अग्नेः पुरीषवाहणः ॥
VERSE: 11.45 शिवो भव प्रजाभ्यो मानुषीभ्यस् त्वम् अङ्गिरः । मा द्यावापृथिवी ऽ अभि शोचीर् मान्तरिक्षं मा वनस्पतीन् ॥
VERSE: 11.46 प्रैतु वाजी कनिक्रदन् नानदद् रासभः पत्वा । भरन्न् अग्निं पुरीष्यं मा पाद्य् आयुषः पुरा । वृषाग्निं वृषणं भरन्न् अपां गर्भम्̐ समुद्रियम् । अग्न ऽ आयाहि वीतये ॥
VERSE: 11.47 ऋतम्̐ सत्यम् ऋतम्̐ सत्यम् । अग्निं पुरीष्यम् अङ्गिरस्वद् भरामः । ओषधयः प्रति मोदध्वम् अग्निम् एतम्̐ शिवम् आयन्तम् अभ्य् अत्र युष्माः । व्यस्यन् विश्वा ऽ अनिरा ऽ अमीवा निषीदन् नो ऽ अप दुर्मतिं जहि ॥
VERSE: 11.48 ओषधयः प्रति गृभ्णीत पुष्पवतीः सुपिप्पलाः । अयं वो गर्भ ऽ ऋत्वियः प्रत्नम्̐ सधस्थम् आसदत् ॥
VERSE: 11.49 वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो ऽ अमीवाः । सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहम्̐ सुहवस्य प्रणीतौ ॥
VERSE: 11.50 आपो हि ष्ठा मयोभुवस् ता न ऽ ऊर्जे दधातन । महे रणाय चक्षसे ॥
VERSE: 11.51 यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः ॥
VERSE: 11.52 तस्मा ऽ अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥
VERSE: 11.53 मित्रः सम्̐सृज्य पृथिवीं भूमिं च ज्योतिषा सह । सुजातं जातवेदसम् अयक्ष्माय त्वा सम्̐ सृजामि प्रजाभ्यः ॥
VERSE: 11.54 रुद्राः सम्̐सृज्य पृथिवीं बृहज् ज्योतिः सम् ईधिरे । तेषां भानुर् अजस्र ऽ इच् छुक्रो देवेषु रोचते ॥
VERSE: 11.55 सम्̐सृष्टा वसुभी रुद्रैर् धीरैः कर्मण्यां मृदम् । हस्ताभ्यां मृद्वीं कृत्वा सिनीवाली कृणोतु ताम् ॥
VERSE: 11.56 सिनीवाली सुकपर्दा सुकुरीरा स्वौपशा । सा तुभ्यम् अदिते मह्योखां दधातु हस्तयोः ॥
VERSE: 11.57 उखां कृणोतु शक्त्या बाहुभ्याम् अदितिर् धिया । माता पुत्रं यथोपस्थे साग्निं बिभर्तु गर्भ ऽ आ । मखस्य शिरोऽसि ॥
VERSE: 11.58 वसवस् त्वा कृण्वन्तु गायत्रेण छन्दसाऽङ्गिरस्वद् ध्रुवासि पृथिव्यसि । धारया मयि प्रजाम्̐ रायस्पोषं गौपत्यम्̐ सुवीर्यम्̐ सजातान् यजमानाय । रुद्रास् त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् ध्रुवास्य् अन्तरिक्षम् असि । धारया मयि प्रजाम्̐ रायस्पोषं गौपत्यम्̐ सुवीर्यम्̐ सजातान् यजमानाय । आदित्यास् त्वा कृण्वन्तु जागतेन छन्दसाऽङ्गिरस्वद् ध्रुवासि द्यौर् असि । धारया मयि प्रजाम्̐ रायस्पोषं गौपत्यम्̐ सुवीर्यम्̐ सजातान् यजमानाय । विश्वे त्वा देवा वैश्वानराः कृण्वन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वद् ध्रुवासि दिशोऽसि । धारया मयि प्रजाम्̐ रायस्पोषं गौपत्यम्̐ सुवीर्यम्̐ सजातान् यजमानाय ॥
VERSE: 11.59 अदित्यै राम्नासि । अदितिष् टे बिलं गृभ्णातु । कृत्वाय सा महीम् उखां मृन्मयीं योनिम् अग्नये । पुत्रेभ्यः प्रायच्छद् अदितिः श्रपयान् इति ॥
VERSE: 11.60 वसवस् त्वा धूपयन्तु गायत्रेण छन्दसाङ्गिरस्वत् । रुद्रास् त्वा धूपयन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत् । आदित्यास् त्वा धूपयन्तु जागतेन छन्दसाङ्गिरस्वत् । विश्वे त्वा देवा वैश्वानरा धूपयन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वत् । इन्द्रस् त्वा धूपयतु । वरुणस् त्वा धूपयतु । विष्णु त्वा धूपयतु ॥
VERSE: 11.61 अदितिष् ट्वा देवी विश्वदेव्यावती पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् खनत्व् अवट । देवानाम् त्वा पत्नीर् देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वद् दधतूखे । धिषणास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वद् अभीन्धताम् उखे । वरूत्रीष् ट्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वच् छ्रपयन्तूखे । ग्नास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् पचन्तूखे । जनयस् त्वाच्छिन्नपत्रा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् पचन्तूखे ॥
VERSE: 11.62 मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि । द्युम्नं चित्रश्रवस्तमम् ॥
VERSE: 11.63 देवस् त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः सुबाहुर् उत शक्त्या । अव्यथमाना पृथिव्याम् आशा दिश ऽ आ पृण ॥
VERSE: 11.64 उत्थाय बृहती भवोद् उ तिष्ठ ध्रुवा त्वम् । मित्रैतां तऽउखां परि ददाम्य् अभित्त्या ऽएषा मा भेदि ॥
VERSE: 11.65 वसवस् त्वा छृन्दन्तु गायत्रेण छन्दसाङ्गिरस्वत् । रुद्रास् त्वा छृन्दन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत् । आदित्यास् त्वा छृन्दन्तु जागतेन छन्दसाङ्गिरस्वत् । विश्वे त्वा देवा वैश्वानरा ऽ आ छृन्दन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वत् ॥
VERSE: 11.66 आकूतिम् अग्निं प्रयुजम्̐ स्वाहा । मनो मेधाम् अग्निं प्रयुजम्̐ स्वाहा । चित्तं विज्ञातम् अग्निं प्रयुजम्̐ स्वाहा । वाचो विधृतिम् अग्निं प्रयुजम्̐ स्वाहा । प्रजापतये मनवे स्वाहा । ऽ अग्नये वैश्वानराय स्वाहा ॥
VERSE: 11.67 विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् । विश्वो राय ऽ इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा ॥
VERSE: 11.68 मा सु भित्था मा सु रिषो ऽम्ब धृष्णु वीरयस्व सु । अग्निश् चेदं करिष्यथः ॥
VERSE: 11.69 दृम्̐हस्व देवि पृथिवि स्वस्तय ऽ आसुरी माया स्वधया कृतासि । जुष्टं देवेभ्य ऽ इदम् अस्तु हव्यम् अरिष्टा त्वम् उद् इहि यज्ञे ऽ अस्मिन् ॥
VERSE: 11.70 द्र्वन्न सर्पिरासुतिः प्रत्नो होता वरेण्यः । सहसस् पुत्रो ऽ अद्भुतः ॥
VERSE: 11.71 परस्या ऽ अधि संवतो वराम्̐ ऽ अभ्य् आतर । यत्राहम् अस्मि ताम्̐ ऽ अव ॥
VERSE: 11.72 परमस्याः परावतो रोहिद् अश्व ऽ इहा गहि । पुरीष्यः पुरुप्रियोऽग्ने त्वं तरा मृधः ॥
VERSE: 11.73 यद् अग्ने कानि कानि चिद् आ ते दारूणि दध्मसि । सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥
VERSE: 11.74 यद् अत्त्य् उपजिह्विका यद् वम्रो ऽ अतिसर्पति । सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥
VERSE: 11.75 अहर्-अहर् अप्रयावं भरन्तोऽश्वायेव तिष्ठते घासम् अस्मै । रायस्पोषेण सम् इषा मदन्तो ऽग्ने मा ते प्रतिवेशा रिषाम ॥
VERSE: 11.76 नाभा पृथिव्याः समिधाने ऽ अग्नौ रायस्पोषाय बृहते हवामहे । इरंमदं बृहदुक्थ्यं यजत्रं जेतारम् अग्निं पृतनासु सासहिम् ॥
VERSE: 11.77 याः सेना ऽ अभीत्वरीर् आव्याधिनीर् उगणा ऽ उत । ये स्तेना ये च तस्करास् ताम्̐स् ते ऽ अग्ने ऽपि दधाम्य् आस्ये ॥
VERSE: 11.78 दम्̐ष्ट्राभ्यां मलिम्लून् जम्भ्यैस् तस्कराम्̐ ऽउत । हनुभ्याम्̐ स्तेनान् भगवस् ताम्̐स् त्वं खाद सुखादितान् ॥
VERSE: 11.79 ये जनेषु मलिम्लव स्तेनासस् तस्करा वने । ये कक्षेष्व् अघायवस् ताम्̐स् ते दधामि जम्भयोः ॥
VERSE: 11.80 यो ऽ अस्मभ्यम् अरातीयाद् यश् च नो द्वेषते जनः । निन्दाद् यो ऽ अस्मान् धिप्साच् च सर्वं तं भस्मसा कुरु ॥
VERSE: 11.81 सम्̐शितं मे ब्रह्म सम्̐शितं वीर्यं बलम् । सम्̐शितं क्षत्रं जिष्णु यस्याहम् अस्मि पुरोहितः ॥
VERSE: 11.82 उद् एषां बाहू ऽ अतिरम् उद् वर्चो ऽ अथो बलम् । क्षिणोमि ब्रह्मणामित्रान् उन् नयामि स्वाम्̐ अहम् ॥
VERSE: 11.83 अन्नपते ऽन्नस्य नो देह्य् अनमीवस्य शुष्मिणः । प्र-प्र दातारं तारिष ऽऊर्जं नो धेहि द्विपदे चतुष्पदे ॥
अध्याय 12 अग्निचयने उखाधारणादि मन्त्राः
VERSE: 12.1 दृशानो रुक्म ऽ उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । अग्निर् अमृतो ऽ अभवद् वयोभिर् यद् एनं द्यौर् जनयत् सुरेताः ॥
VERSE: 12.2 नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकम्̐ समीची । द्यावाक्षामा रुक्मो ऽ अन्तर् वि भाति देवा ऽ अग्निं धारयन् द्रविणोदाः ॥
VERSE: 12.3 विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे । वि नाकम् अख्यत् सविता वरेण्योऽनु प्रयाणम् उषसो वि राजति ॥
VERSE: 12.4 सुपर्णोऽसि गरुत्माम्̐स् त्रिवृत् ते शिरो गायत्रं चक्षुर् बृहद्रथन्तरे पक्षौ । स्तोम ऽ आत्मा छन्दाम्̐स्य् अङ्गानि यजूम्̐षि नाम । साम ते तनूर् वामदेव्यं यज्ञायज्ञियं पुच्छं धिष्ण्याः शफाः । सुपर्णो ऽसि गरुत्मान् दिवं गच्छ स्वः पत ॥
VERSE: 12.5 विष्णोः क्रमोऽसि सपत्नहा गायत्रं छन्द ऽ आ रोह पृथिवीम् अनु वि क्रमस्व । विष्णोः क्रमोऽस्य् अभिमातिहा त्रैष्टुभं छन्द ऽ आ रोहान्तरिक्षम् अनु वि क्रमस्व । विष्णोः क्रमोऽस्य् अरातीयतो हन्ता जागतं छन्द ऽ आ रोह दिवम् अनु वि क्रमस्व । विष्णोः क्रमोऽसि शत्रूयतो हन्ताऽऽनुष्टुभं छन्द ऽ आ रोह दिशोऽनु वि क्रमस्व ॥
VERSE: 12.6 अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धोऽ अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥
VERSE: 12.7 अग्नेऽभ्यावर्तिन्न् अभि मा नि वर्तस्वायुषा वर्चसा प्रजया धनेन । सन्या मेधया रय्या पोषेण ॥
VERSE: 12.8 अग्ने ऽ अङ्गिरः शतं ते सन्त्वावृतः सहस्रं त ऽ उपावृतः । अधा पोषस्य पोषेण पुनर् नो नष्टम् आ कृधि पुनर् नो रयिम् आ कृधि ॥
VERSE: 12.9 पुनर् ऊर्जा नि वर्तस्व पुनर् अग्न ऽ इषायुषा । पुनर् नः पाह्य् अम्̐हसः ॥
VERSE: 12.10 सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्न्या विश्वतस् परि ॥
VERSE: 12.11 आ त्वाहार्षम् अन्तर् अभूर् ध्रुवस् तिष्ठाविचाचलिः । विशस् त्वा सर्वा वाञ्छन्तु मा त्वद् राष्ट्रम् अधि भ्रशत् ॥
VERSE: 12.12 उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमम्̐ श्रथाय । अथा वयम् आदित्य व्रते तवानागसो ऽ अदितये स्याम ॥
VERSE: 12.13 अग्रे बृहन्न् उषसामूर्ध्वो ऽ अस्थान् निर्जगन्वान् तमसो ज्योतिषागात् । अग्निर् भानुना रुशता स्वङ्ग ऽ आ जातो विश्वा सद्मान्य् अप्राः ॥
VERSE: 12.14 हम्̐सः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऽ ऋतजा अद्रिजा ऽ ऋतम् बृहत् ॥
VERSE: 12.15 सीद त्वं मातुर् अस्या ऽ उपस्थे विश्वान्य् अग्ने वयुनानि विद्वान् । मैनां तपसा मार्चिषाऽभिशोचीर् अन्तर् अस्याम्̐ शुक्रज्योतिर् वि भाहि ॥
VERSE: 12.16 अन्तर् अग्ने रुचा त्वम् उखायाः सदने स्वे । तस्यास् त्वम्̐ हरसा तपन् जातवेदः शिवो भव ॥
VERSE: 12.17 शिवो भूत्वा मह्यम् अग्नेऽ अथो सीद शिवस् त्वम् । शिवः कृत्वा दिशः सर्वाः स्वं योनिम् इहासदः ॥
VERSE: 12.18 दिवस् परि प्रथमं जज्ञे ऽ अग्निर् अस्माद् द्वितीयं परि जातवेदाः । तृतीयम् अप्सु नृमणा ऽ अजस्रम् इन्धान ऽ एनं जरते स्वाधीः ॥
VERSE: 12.19 विद्मा ते ऽ अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा । विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत ऽ आजगन्थ ॥
VERSE: 12.20 समुद्रे त्वा नृमणा ऽ अप्स्व् अन्तर् नृचक्षा ऽ ईधे दिवो अग्न ऽ ऊधन् । तृतीये त्वा रजसि तस्थिवाम्̐सम् अपाम् उपस्थे महिषा ऽ अवर्धन् ॥
VERSE: 12.21 अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धो ऽ अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥
VERSE: 12.22 श्रीणाम् उदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः । वसुः सूनुः सहसो ऽ अप्सु राजा वि भात्य् अग्र ऽ उषसाम् इधानः ॥
VERSE: 12.23 विश्वस्य केतुर् भुवनस्य गर्भऽ आ रोदसी ऽ अपृणाज् जायमानः । वीडुं चिद् अद्रिम् अभिनत् परायञ् जना यद् अग्निम् अयजन्त पञ्च ॥
VERSE: 12.24 उशिक् पावको अरतिः सुमेधा मर्त्येष्व् अग्निर् अमृतो नि धायि । इयर्ति धूमम् अरुषं भरिभ्रद् उच् छुक्रेण शोचिषा द्याम् इनक्षन् ॥
VERSE: 12.25 दृशानो रुक्म ऽ उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । अग्निर् अमृतो ऽ अभवद् वयोभिर् यद् एनं द्यौर् जनयत् सुरेताः ॥
VERSE: 12.26 यस् ते अद्य कृणवद् भद्रशोचेऽपूपं देव घृतवन्तम् अग्ने । प्र तं नय प्रतरं वस्यो ऽ अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥
VERSE: 12.27 आ तं भज सौश्रवसेष्व् अग्न ऽ उक्थ ऽ उक्थ ऽ आ भज शस्यमाने । प्रियः सूर्ये प्रियो ऽ अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः ॥
VERSE: 12.28 त्वाम् अग्ने यजमाना ऽ अनु द्यून् विश्वा वसु दधिरे वार्याणि । त्वया सह द्रविणम् इच्छमाना व्रजं गोमन्तम् उशिजो वि वव्रुः ॥
VERSE: 12.29 अस्ताव्य् अग्निर् नराम्̐ सुशेवो वैश्वानर ऽ ऋषिभिः सोमगोपाः । अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम् ॥
VERSE: 12.30 समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् । आस्मिन् हव्या जुहोतन ॥
VERSE: 12.31 उद् उ त्वा विश्वे देवा ऽ अग्ने भरन्तु चित्तिभिः । स नो भव शिवस् त्वम्̐ सुप्रतीको विभावसुः ॥
VERSE: 12.32 प्रेद् अग्ने ज्योतिष्मान् याहि शिवेभिर् अर्चिभिष् ट्वम् । बृहद्भिर् भानुभिर् भासन् मा हिम्̐सीस् तन्वा प्रजाः ॥
VERSE: 12.33 अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धो ऽ अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥
VERSE: 12.34 प्र-प्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः । अभि यः पूरुं पृतनासु तस्थउ दीदाय दैव्यो ऽ अतिथिः शिवो नः ॥
VERSE: 12.35 आपो देवीः प्रति गृभ्णीत भस्मैतत् स्योने कृणुध्वम्̐ सुरभा ऽ उ लोके । तस्मै नमन्तां जनयः सुपत्नीर् मातेव पुत्रं बिभृताप्स्व् एनत् ॥
VERSE: 12.36 अप्स्व् अग्ने सधिष् टव सौषधीर् अनु रुध्यसे । गर्भै सन् जायसे पुनः ॥
VERSE: 12.37 गर्भोऽअस्य् ओषधीनां गर्भो वनस्पतीनाम् । गर्भो विश्वस्य भूतस्याग्ने गर्भोऽअपाम् असि ॥
VERSE: 12.38 प्रसद्य भस्मना योनिम् अपश् च पृथिवीम् अग्ने । सम्̐सृज्य मातृभिष् ट्वं ज्योतिष्मान् पुनर् आसदः ॥
VERSE: 12.39 पुनर् आसद्य सदनम् अपश् च पृथिवीम् अग्ने । शेषे मातुर् यथोपस्थे ऽन्तर् अस्याम्̐ शिवतमः ॥
VERSE: 12.40 पुनर् ऊर्जा निवर्तस्व पुनर् अग्न ऽ इषायुषा । पुनर् नः पाह्य् अम्̐हसः ॥
VERSE: 12.41 सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्न्या विश्वतस् परि ॥
VERSE: 12.42 बोधा मे ऽ अस्य वचसो यविष्ठ मम्̐हिष्ठस्य प्रभृतस्य स्वधावः । पीयति त्वो ऽ अनु त्वो गृणाति वन्दारुष् टे तन्वं वन्दे ऽ अग्ने ॥
VERSE: 12.43 स बोधि सूरिर् मघवा वसुपते वसुदावन् । युयोध्य् अस्मद् द्वेषाम्̐सि । विश्वकर्मणे स्वाहा ॥
VERSE: 12.44 पुनस् त्वाऽऽदित्या रुद्रा वसवः सम् इन्धतां पुनर् ब्रह्माणो वसुनीथ यज्ञैः । घृतेन त्वं तन्वं वर्धयस्व सत्याः सन्तु यजमानस्य कामाः ॥
VERSE: 12.45 अपेत वीत वि च सर्पतातो ये ऽत्र स्थ पुराणा ये च नूतनाः । अदाद् यमो ऽवसानं पृथिव्या ऽ अक्रन्न् इमं पितरो लोकम् अस्मै ॥
VERSE: 12.46 संज्ञानम् असि । कामधरणम् । मयि ते कामधरणं भूयात् । अग्नेर् भस्मास्य् अग्नेः पुरीषम् असि । चित स्थ परिचित ऽ ऊर्ध्वचितः श्रयध्वम् ॥
VERSE: 12.47 अयम्̐ सो ऽ अग्निर् यस्मिन्त् सोमम् इन्द्रः सुतं दधे जठरे वावशानः । सहस्रिणं वाजम् अत्यं न सप्तिम्̐ ससवान्त् सन्त् स्तूयसे जातवेदः ॥
VERSE: 12.48 अग्ने यत् ते दिवि वर्चः पृथिव्यां यद् ओषधीष्व् अप्स्व् आ यजत्र । येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षाः ॥
VERSE: 12.49 अग्ने दिवोऽ अर्णम् अच्छा जिगास्य् अच्छा देवाम्̐ ऽ ऊचिषे धिष्ण्या ये । या रोचने परस्तात् सूर्यस्य याश् चावस्ताद् उपतिष्ठन्त ऽ आपः ॥
VERSE: 12.50 पुरीष्यासो ऽ अग्नयः प्रावणेभिः सजोषसः । जुषन्तां यज्ञम् अद्रुहोऽनमीवा ऽइषो महीः ॥
VERSE: 12.51 इडाम् अग्ने पुरुदम्̐सम्̐ सनिं गोः शश्वत्तमम्̐ हवमानाय साध । स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥
VERSE: 12.52 अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः । तं जानन्न् अग्न ऽ आ रोहाथा नो वर्धया रयिम् ॥
VERSE: 12.53 चिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद । परिचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
VERSE: 12.54 लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ॥
VERSE: 12.55 ता अस्य सूददोहसः सोमम्̐ श्रीणन्ति पृश्नयः । जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ॥
VERSE: 12.56 इन्द्रं विश्वा ऽ अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमम्̐ रथीनां वाजानाम्̐ सत्पतिं पतिम् ॥
VERSE: 12.57 समितम्̐ सं कल्पेथाम्̐ सम्प्रियौ रोचिष्णू सुमनस्यमानौ । इषमूर्जम् अभि संवसानौ ॥
VERSE: 12.58 सं वां मनाम्̐सि सं व्रता सम् उ चित्तान्य् आकरम् । अग्ने पुरीष्याधिपा भव त्वं न ऽ इषमूर्जं यजमानाय धेहि ॥
VERSE: 12.59 अग्ने त्वं पुरीष्यो रयिमान् पुष्टिमाम्̐२ ऽ असि । शिवाः कृत्वा दिशः सर्वाः स्वं योनिम् इहासदः ॥
VERSE: 12.60 भवतं नः समनसौ सचेतसाव् अरेपसौ । मा यज्ञम्̐ हिम्̐सिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥
VERSE: 12.61 मातेव पुत्रं पृथिवी पुरीष्यम् अग्निम्̐ स्वे योनाव् अभार् उखा । तां विश्वैर् देवैर् ऋतुभिः संविदानः प्रजापतिर् विश्वकर्मा वि मुञ्चतु ॥
VERSE: 12.62 असुन्वन्तम् अयजमानम् इच्छ स्तेनस्येत्याम् अन्व् इहि तस्करस्य । अन्यम् अस्मद् इच्छ सा त इत्या नमो देवि निर्ऋते तुभ्यम् अस्तु ॥
VERSE: 12.63 नमः सु ते निर्ऋते तिग्मतेजो ऽयस्मयं वि चृता बन्धम् एतम् । यमेन त्वं यम्या संविदानोत्तमे नाके ऽ अधि रोहयैनम् ॥
VERSE: 12.64 यस्यास् ते घोर ऽ आसन् जुहोम्य् एषां बन्धानाम् अवसर्जनाय । यां त्वा जनो भूमिर् इति प्रमन्दते निर्ऋतिं त्वाहं परि वेद विश्वतः ॥
VERSE: 12.65 यं ते देवी निर्ऋतिर् आबबन्ध पाशं ग्रीवास्व् अविचृत्यम् । तं ते वि ष्याम्य् आयुषो न मध्याद् अथैतं पितुम् अद्धि प्रसूतः । नमो भूत्यै येदं चकार ॥
VERSE: 12.66 निवेशनः संगमनो वसूनां विश्वा रूपाऽभि चष्टे शचीभिः । देव ऽ इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनाम् ॥
VERSE: 12.67 सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् । धीरा देवेषु सुम्नया ॥
VERSE: 12.68 युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् । गिरा च श्रुष्टिः सभरा असन् नो नेदीयऽ इत् सृण्यः पक्वम् एयात् ॥
VERSE: 12.69 शुनम्̐ सु फाला वि कृषन्तु भूमिम्̐ शुनं कीनाशा ऽ अभि यन्तु वाहैः । शुनासीरा हविषा तोशमाना सुपिप्पला ऽ ओषधीः कर्तनास्मे ॥
VERSE: 12.70 घृतेन सीता मधुना सम् अज्यतां विश्वैर् देवैर् अनुमता मरुद्भिः । ऊर्जस्वती पयसा पिन्वमानास्मान्त् सीते पयसाभ्या ववृत्स्व ॥
VERSE: 12.71 लाङ्गलं पवीरवत् सुशेवम्̐ सोमपित्सरु । तद् उद् वपति गाम् अविं प्रफर्व्यं च पीवरीं प्रस्थावद् रथवाहनम् ॥
VERSE: 12.72 कामं कामदुघे धुक्ष्व मित्राय वरुणाय च । इन्द्रायाश्विभ्यां पूष्णे प्रजाभ्य ऽ ओषधीभ्यः ॥
VERSE: 12.73 वि मुच्यध्वम् अघ्न्या देवयाना ऽ अगन्म तमसस् पारम् अस्य ज्योतिर् आपाम ॥
VERSE: 12.74 सजूर् अब्दो ऽ अयवोभिः सजूर् उषा ऽ अरुणीभिः सजोषसाव् अश्विना दम्̐सोभिः सजूः सूर ऽ एतशेन सजूर् वैश्वानर ऽ इडया घृतेन स्वाहा ॥
VERSE: 12.75 या ओषधीः पूर्वा जाता देवेभ्यस् त्रियुगं पुरा । मनै नु बभ्रूणाम् अहम्̐ शतं धामानि सप्त च ॥
VERSE: 12.76 शतं वो ऽ अम्ब धामानि सहस्रम् उत वो रुहः । अधा शतक्रत्वो यूयम् इमं मे ऽ अगदं कृत ॥
VERSE: 12.77 ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः । अश्वा ऽ इव सजित्वरीर् वीरुधः पारयिष्ण्वः ॥
VERSE: 12.78 ओषधीर् इति मातरस् तद् वो देवीर् उप ब्रुवे । सनेयम् अश्वं गां वास ऽ आत्मानं तव पूरुष ॥
VERSE: 12.79 अश्वत्थे वो निषदनं पर्णे वो वसतिष् कृता । गोभाज ऽ इत् किलासथ यत् सनवथ पूरुषम् ॥
VERSE: 12.80 यत्रौषधीः समग्मत राजानः समिताव् इव । विप्रः स ऽ उच्यते भिषग् रक्षोहामीवचातनः ॥
VERSE: 12.81 अश्वावतीम्̐ सोमावतीमूर्जयन्तीम् उदोजसम् । आवित्सि सर्वा ऽ ओषधीर् अस्मा अरिष्टतातये ॥
VERSE: 12.82 उच् छुष्मा ऽ ओषधीनां गावो गोष्ठाद् इवेरते । धनम्̐ सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥
VERSE: 12. 83 इष्कृतिर् नाम वो माताथो यूयम्̐ स्थ निष्कृतीः । सीराः पतत्रिणी स्थन यद् आमयति निष्कृथ ॥
VERSE: 12.84 अति विश्वाः परिष्ठा स्तेन इव ऽ व्रजम् अक्रमुः । ओषधीः प्राचुच्यवुर् यत् किं च तन्वो रपः ॥
VERSE: 12.85 यद् इमा वाजयन्न् अहम् ओषधीर् हस्त ऽ आदधे । आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥
VERSE: 12.86 यस्यौषधीः प्रसर्पथाङ्गम्-अङ्गं परुष्-परुः । ततो यक्ष्मं वि बाधध्व ऽ उग्रो मध्यमशीर् इव ॥
VERSE: 12.87 साकं यक्ष्म प्रपत चाषेण किकिदीविना । साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥
VERSE: 12.88 अन्या वो ऽ अन्याम् अवत्व् अन्यान्यस्या ऽ उपावत । ताः सर्वाः संविदाना ऽ इदं मे प्रावता वचः ॥
VERSE: 12.89 याः फलिनीर् या ऽ अफला ऽ अपुष्पा याश् च पुष्पिणीः । बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अम्̐हसः ॥
VERSE: 12.90 मुञ्चन्तु मा शपथ्याद् अथो वरुण्याद् उत । अथो यमस्य पड्वीशात् सर्वस्माद् देवकिल्विषात् ॥
VERSE: 12.91 अवपतन्तीर् अवदन् दिव ऽ ओषधयस् परि । यं जीवम् अश्नवामहै न स रिष्याति पूरुषः ॥
VERSE: 12.92 या ऽ ओषधीः सोमराज्ञीर् बह्वीः शतविचक्षणाः । तासाम् असि त्वम् उत्तमारं कामाय शम्̐ हृदे ॥
VERSE: 12.93 या ऽ ओषधीः सोमराज्ञीर् विष्ठिताः पृथिवीम् अनु । बृहस्पतिप्रसूता ऽ अस्यै सं दत्त वीर्यम् ॥
VERSE: 12.94 याश् चेदम् उपशृण्वन्ति याश् च दूरं परागताः । सर्वाः संगत्य वीरुधो ऽस्यै सं दत्त वीर्यम् ॥
VERSE: 12.95 मा वो रिषत् खनिता यस्मै चाहं खनामि वः । द्विपाच् चतुष्पाद् अस्माकम्̐ सर्वम् अस्त्व् अनातुरम् ॥
VERSE: 12.96 ओषधयः सम् अवदन्त सोमेन सह राज्ञा । यस्मै कृणोति ब्राह्मणस् तम्̐ राजन् पारयामसि ॥
VERSE: 12.97 नाशयित्री बलासस्यार्शस ऽउपचिताम् असि । अथो शतस्य यक्ष्माणां पाकारोर् असि नाशनी ॥
VERSE: 12.98 त्वां गन्धर्वा ऽअखनम्̐स् त्वाम् इन्द्रस् त्वां बृहस्पतिः । त्वाम् ओषधे सोमो राजा विद्वान् यक्ष्माद् अमुच्यत ॥
VERSE: 12.99 सहस्व मे ऽ अरातीः सहस्व पृतनायतः । सहस्व सर्वं पाप्मानम्̐ सहमानास्य् ओषधे ॥
VERSE: 12.100 दीर्घायुस्त ऽ ओषधे खनिता यस्मै च त्वा खनाम्य् अहम् । अथो त्वं दीर्घायुर् भूत्वा शतवल्शा वि रोहतात् ॥
VERSE: 12.101 त्वम् उत्तमास्य् ओषधे तव वृक्षा ऽ उपस्तयः । उपस्तिर् अस्तु सो स्माकं योऽअस्माम्̐२ऽ अभिदासति ॥
VERSE: 12.102 मा मा हिम्̐सीज् जनिता यः पृथिव्या यो वा दिवम्̐ सत्यधर्मा व्यानट् । यश् चापश् चन्द्राः प्रथमो जजान कस्मै देवाय हविषा विधेम ॥
VERSE: 12.103 अभ्या वर्तस्व पृथिवि यज्ञेन पयसा सह । वपां ते अग्निर् ऽ इषितो ऽ अरोहत् ॥
VERSE: 12.104 अग्ने यत् ते शुक्रं यच् चन्द्रं यत् पूतं यच् च यज्ञियम् । तद् देवेभ्यो भरामसि ॥
VERSE: 12.105 इषमूर्जम् अहम् इत ऽ आदम् ऋतस्य योनिं महिषस्य धाराम् । आ मा गोषु विशत्वा तनूषु जहामि सेदिम् अनिराम् अमीवाम् ॥
VERSE: 12.106 अग्ने तव श्रवो वयो महि भ्राजन्ते ऽ अर्चयो विभावसो । बृहद्भानो शवसा वाजम् उक्थ्यं दधासि दाशुषे कवे ॥
VERSE: 12.107 पावकवर्चाः शुक्रवर्चा ऽ अनूनवर्चा ऽ उद् इयर्षि भानुना । पुत्रो मातरा विचरन्न् उपावसि पृणक्षि रोदसी ऽ उभे ॥
VERSE: 12.108 ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व धीतिभिर् हितः । त्वे ऽ इषः सं दधुर् भूरिवर्पसश् चित्रोतयो वामजाताः ॥
VERSE: 12.109 इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो ऽ अमर्त्य । स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम् ॥
VERSE: 12.110 इष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तम्̐ राधसो महः । रातिं वामस्य सुभगां महीम् इषं दधासि सानसिम्̐ रयिम् ॥
VERSE: 12.111 ऋतावानं महिषं विश्वदर्शतम् अग्निम्̐ सुम्नाय दधिरे पुरो जनाः । श्रुत्कर्णम्̐ सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥
VERSE: 12.112 आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य संगथे ॥
VERSE: 12.113 सं ते पयाम्̐सि सम् उ यन्तु वाजाः सं वृष्ण्यान्य् अभिमातिषाहः । आप्यायमानो ऽ अमृताय सोम दिवि श्रवाम्̐स्य् उत्तमानि धिष्व ॥
VERSE: 12.114 आ प्यायस्व मदिन्तम सोम विश्वेभिर् अम्̐शुभिः । भवा नः सुश्रवस्तमः सखा वृधे ॥
VERSE: 12.115 आ ते वत्सो मनो यमत् परमाच् चित् सधस्थात् । अग्ने त्वां कामया गिरा ॥
VERSE: 12.116 तुभ्यं ता ऽ अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् । अग्ने कामाय येमिरे ॥
VERSE: 12.117 अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य । सम्राड् एको वि राजति ॥
अध्याय 13 अग्निचयने चिति पुष्करपर्णादि उपधान मन्त्राः
VERSE: 13.1 मयि गृह्णाम्य् अग्रे ऽ अग्निम्̐ रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय । माम् उ देवताः सचन्ताम् ॥
VERSE: 13.2 अपां पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् । वर्धमानो महाँ२ ऽ आ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व ॥
VERSE: 13.3 ब्रह्म जज्ञानं प्रथमं पुरस्ताद् वि सीमतः सुरुचो वेन ऽ आवः । स बुध्न्या ऽ उपमा ऽ अस्य विष्ठाः सतश् च योनिम् असतश् च वि वः ॥
VERSE: 13.4 हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् । स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥
VERSE: 13.5 द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इमं च योनिम् अनु यश् च पूर्वः । समानं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥
VERSE: 13.6 नमोऽस्तु सर्पेभ्यो ये के च पृथिवीम् अनु । ये ऽ अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥
VERSE: 13.7 या ऽ इषवो यातुधानानां ये वा वनस्पतीम्̐१ ऽरनु । ये वावटषु शेरते तेभ्यः सर्पेभ्यो नमः ॥
VERSE: 13.8 ये वामी रोचने दिवो ये वा सूर्यस्य रश्मिषु । येषाम् अप्सु सदस् कृतं तेभ्यः सर्पेभ्यो नमः ॥
VERSE: 13.9 कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाँ२ ऽ इभेन । तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः ॥
VERSE: 13.10 तव भ्रमास ऽ आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः । तपूम्̐ष्य् अग्ने जुह्वा पतङ्गान् असंदितो वि सृज विष्वग् उल्काः ॥
VERSE: 13.11 प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो ऽ अस्या अदब्धः । यो नो दूरे ऽ अघशम्̐सो यो ऽ अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत् ॥
VERSE: 13.12 उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्राँ२ ऽ ओषतात् तिग्महेते । यो नो ऽ अरातिम्̐ समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ॥
VERSE: 13.13 ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने । अव स्थिरा तनुहि यातुजूनां जामिम् अजामिं प्र मृणीहि शत्रून् । अग्नेष् ट्वा तेजसा सादयामि ॥
VERSE: 13.14 अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् । अपाम्̐ रेताम्̐सि जिन्वति । इन्द्रस्य त्वौजसा सादयामि ॥
VERSE: 13.15 भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः । दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चक्रिषे हव्यवाहम् ॥
VERSE: 13.16 ध्रुवासि धरुणास्तृता विश्वकर्मणा । मा त्वा समुद्रऽउद् वधीन् मा सुपर्णोऽव्यथमाना पृथिवीं दृम्̐ह ॥
VERSE: 13.17 प्रजापतिष् ट्वा सादयत्व् अपा पृष्ठे समुद्रस्येमन् । व्यचस्वतीं प्रथस्वतीं प्रथस्व पृथिव्यसि ॥
VERSE: 13.18 भूर् असि भूमिर् अस्य् अदितिर् असि विश्वधाया विश्वस्य भुवनस्य धर्त्री । पृथिवीं यच्छ पृथिवीं दृम्̐ह पृथिवीं मा हिम्̐सीः ॥
VERSE: 13.19 विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय । अग्निष् ट्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
VERSE: 13.20 काण्डात्-काण्डात् प्ररोहन्ती परुषः-परुषस् परि । एवा नो दूर्वे प्र तनु सहस्रेण शतेन च ॥
VERSE: 13.21 या शतेन प्रतनोषि सहस्रेण विरोहसि । तस्यास् ते देवीष्टके विधेम हविषा वयम् ॥
VERSE: 13.22 यास् ते ऽ अग्ने सूर्ये रुचो दिवम् आतन्वन्ति रश्मिभिः । ताभिर् नो ऽ अद्य सर्वाभी रुचे जनाय नस् कृधि ॥
VERSE: 13.23 या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः । इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥
VERSE: 13.24 विराड् ज्योतिर् अधारयत् । स्वराड् ज्योतिर् अधारयत् । प्रजापतिष् ट्वा सादयतु पृष्ठे पृथिव्या ज्योतिष्मतीम् । विश्वस्मै प्राणायापानाय व्यानाय विश्वं ज्योतिर् यच्छ । अग्निष्टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
VERSE: 13.25 मधुश् च माधवश् च वासन्तिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषोऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः । ये ऽ अग्नयः समनसो ऽन्तरा द्यावापृथिवी ऽ इमे वासन्तिकाव् ऋतू ऽअभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसंविशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
VERSE: 13.26 अषाढासि सहमाना सहस्वारातीः सहस्व पृतनायतः । सहस्रवीर्यासि सा मा जिन्व ॥
VERSE: 27 मधु वाता ऽ ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर् नः सन्त्व् ओषधीः ॥
VERSE: 13.28 मधु नक्तम् उतोषसो मधुमत् पार्थिवम्̐ रजः । मधु द्यौर् अस्तु नः पिता ॥
VERSE: 13.29 मधुमान् नो वनस्पतिर् मधुमाँ२ऽ अस्तु सूर्यः । माध्वीर् गावो भवन्तु नः ॥
VERSE: 13.30 अपां गम्भन्त् सीद मा त्वा सूर्योऽभि ताप्सीन् माग्निर् वैश्वानरः । अच्छिन्नपत्राः प्रजा ऽ अनुवीक्षस्वानु त्वा दिव्या वृष्टिः सचताम् ॥
VERSE: 13.31 त्रीन्त् समुद्रान्त् सम् असृपत् स्वर्गान् अपां पतिर् वृषभ ऽ इष्टकानाम् । पुरीषं वसानः सुकृतस्य लोके तत्र गच्छ यत्र पूर्वे परेताः ॥
VERSE: 13.32 मही द्यौः पृथिवी च न ऽ इमं यज्ञं मिमिक्षताम् । पिपृतां नो भरीमभिः ॥
VERSE: 13.33 विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा ॥
VERSE: 13.34 ध्रुवासि धरुणेतो जज्ञे प्रथमम् एभ्यो योनिभ्यो ऽ अधि जातवेदाः । स गायत्र्या त्रिष्टुभानुष्टुभा च देवेभ्यो हव्यं वहतु प्रजानन् ॥
VERSE: 13.35 इषे राये रमस्व सहसे द्युम्न ऽ ऊर्जेऽ अपत्याय । सम्राड् असि स्वराड् असि सारस्वतौ त्वोत्सौ प्रावताम् ॥
VERSE: 13.36 अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्ति मन्यवे ॥
VERSE: 13.37 युक्ष्वा हि देवहूतमाँ२ऽ अश्वाँ२ऽ अग्ने रथीर् इव । नि होता पूर्व्यः सदः ॥
VERSE: 13.38 सम्यक् स्रवन्ति सरितो न धेना ऽ अन्तर् हृदा मनसा पूयमानाः । घृतस्य धारा ऽ अभि चाकशीमि हिरण्ययो वेतसो मध्ये ऽ अग्नेः ॥
VERSE: 13.39 ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वा । अभूद् इदं विश्वस्य भुवनस्य वाजिनम् अग्नेर् वैश्वानरस्य च ॥
VERSE: 13.40 अग्निर् ज्योतिषा ज्योतिष्मान् रुक्मो वर्चसा वर्चस्वान् । सहस्रदा ऽ असि सहस्राय त्वा ॥
VERSE: 13.41 आदित्यं गर्भं पयसा सम् अङ्धि सहस्रस्य प्रतिमां विश्वरूपम् । परि वृङ्धि हरसा माभि मम्̐स्थाः शतायुषं कृणुहि चीयमानः ॥
VERSE: 13.42 वातस्य जूतिं वरुणस्य नाभिम् अश्वं जज्ञानम्̐ सरिरस्य मध्ये । शिशुं नदीनाम्̐ हरिम् अद्रिबुध्नम् अग्ने मा हिम्̐सीः परमे व्योमन् ॥
VERSE: 13.43 अजस्रम् इन्दुम् अरुषं भुरण्युम् अग्निम् ईडे पूर्वचित्तिं नमोभिः । स पर्वभिर् ऋतुशः कल्पमानो गां मा हिम्̐सीर् अदितिं विराजम् ॥
VERSE: 13.44 वरूत्रीं त्वष्टुर् वरुणस्य नाभिम् अविं जज्ञानाम्̐ रजसः परस्मात् । महीम्̐ साहस्रीम् असुरस्य मायाम् अग्ने मा हिम्̐सीः परमे व्योमन् ॥
VERSE: 13.45 यो ऽ अग्निर् अग्नेर् अधिय् अजायत शोकात् पृथिव्या ऽ उत वा दिवस् परि । येन प्रजा विश्वकर्मा जजान तम् अग्ने हेडः परि ते वृणक्तु ॥
VERSE: 13.46 चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी ऽ अन्तरिक्षम्̐ सूर्य ऽ आत्मा जगतस् तस्थुषश् च ॥
VERSE: 13.47 इमं मा हिम्̐सीर् द्विपादं पशुम्̐ सहस्राक्षो मेधाय चीयमानः । मयुं पशुं मेधम् अग्ने जुषस्व तेन चिन्वानस् तन्वो नि षीद । मयुं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥
VERSE: 13.48 इमं मा हिम्̐सीर् एकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु । गौरम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद । गौरं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥
VERSE: 13.49 इमम्̐ साहस्रम्̐ शतधारम् उत्सं व्यच्यमानम्̐ सरिरस्य मध्ये । घृतं दुहानाम् अदितिं जनायाग्ने मा हिम्̐सीः परमे व्योमन् । गवयम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद । गवयं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥
VERSE: 13.50 इममूर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदांचतुष्पदाम् । त्वष्टुः प्रजानां प्रथमं जनित्रम् अग्ने मा हिम्̐सीः परमे व्योमन् । उष्ट्रम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद । उष्ट्रं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥
VERSE: 13.51 अजो ह्य् अग्नेर् अजनिष्ट शोकात् सो ऽ अपश्यज् जनितारम् अग्रे । तेन देवा देवताम् अग्रम् आयम्̐स् तेन रोहम् आयन्न् उप मेध्यासः । शरभम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद । शरभं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥
VERSE: 13.52 त्वं यविष्ठ दाशुषो नॄम्̐ः पाहि शृणुधी गिरः । रक्षा तोकम् उत त्मना ॥
VERSE: 13.53 अपां त्वेमन्त् सादयामि । अपां त्वोद्मन्त् सादयामि । अपां त्वा भस्मन्त् सादयामि । अपां त्वा ज्योतिषि सादयामि । अपां त्वायने सादयामि । अर्णवे त्वा सदने सादयामि । समुद्रे त्वा सदने सादयामि । सरिरे त्वा सदने सादयामि । अपां त्वा क्षये सादयामि । अपां त्वा सधिषि सादयामि । अपां त्वा सदने सादयामि । अपां त्वा सधस्थे सादयामि । अपां त्वा योनौ सादयामि । अपां त्वा पुरीषे सादयामि । अपां त्वा पाथसि सादयामि । गायत्रेण त्वा छन्दसा सादयामि । त्रैष्टुभेन त्वा छन्दसा सादयामि । जागतेन त्वा छन्दसा सादयामि । आनुष्टुभेन त्वा छन्दसा सादयामि । पाश्रून त्वा छन्दसा सादयामि ॥
VERSE: 13.54 अयं पुरो भुवः । तस्य प्राणो भौवनायः । वसन्तः प्राणायनः । गायत्री वासन्ती । गायत्र्यै गायत्रम् । गायत्राद् उपाम्̐शुः । उपाम्̐शोस् त्रिवृत् । त्रिवृतो रथन्तरम् । वसिष्ठ ऽ ऋषिः । प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्यः ॥
VERSE: 13.55 अयं दक्षिणा विश्वकर्मा । तस्य मनो वैश्वकर्मणम् । ग्रीष्मो मानसः । त्रिष्टुब् ग्रैष्मी । त्रिष्टुभः स्वारम् । स्वाराद् अन्तर्यामः । ऽअन्तर्यामात् पञ्चदशः । पञ्चदशाद् बृहत् । भरद्वाज ऽ ऋषिः । प्रजापतिगृहीतया त्वया मनो गृह्णामि प्रजाभ्यः ॥
VERSE: 13.56 अयं पश्चाद् विश्वव्यचाः । तस्य चक्षुर् वैश्वव्यचसम् । वर्षाश् चाक्षुष्यः । जगती वार्षी । जगत्या ऽ ऋक्समम् । ऋक्समाच् छुक्रः । शुक्रात् सप्तदशः । सप्तदशाद् वैरूपम् । जमदग्निर् ऋषिः । प्रजापतिगृहीतया त्वया चक्षुर् गृह्णामि प्रजाभ्यः ॥
VERSE: 13.57 इदं उत्तरात् स्वः । तस्य श्रोत्रम्̐ सौवम् । शरच् छ्रौत्री । अनुष्टुप् शारदी । अनुष्टुभ ऽ ऐडम् । ऐडान् मन्थी । मन्थिन ऽ एकविम्̐शः ऽ । एकविम्̐शाद् वैराजम् । विश्वामित्र ऽ ऋषिः । प्रजापतिगृहीतया त्वया श्रोत्रं गृह्णामि प्रजाभ्यः ॥
VERSE: 13.58 इयं उपरि मतिः । तस्यै वाङ् मात्या । हेमन्तो वाच्यः । पङ्क्तिर् हैमन्ती । पङ्क्त्यै निधनवत् । निधनवत ऽ आग्रयणः । आग्रयणात् त्रिणवत्रयस्त्रिम्̐शौ । त्रिणवत्रयस्त्रिम्̐शाभ्याम्̐ शाक्वररैवते । विश्वकर्म ऽ ऋषिः । प्रजापतिगृहीतया त्वया वाचं गृह्णामि प्रजाभ्यः । [ लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् । ता अस्य सूददोहसः सोमम्̐ श्रीणन्ति पृश्नयः । जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः । इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमम्̐ रथीनां वाजानाम्̐ सत्पतिं पतिम् ॥ ]???

अध्याय 14 अग्निचयने द्वितीय तृतीय चतुर्थी चिति मन्त्राः

VERSE: 14.1 ध्रुवक्षितिर् ध्रुवयोनिर् ध्रुवासि ध्रुवं योनिम् आ सीद साधुया । उख्यस्य केतुं प्रथमं जुषाणा । अश्विनाध्वर्यू सादयताम् इह त्वा ॥
VERSE: 14.2 कुलायिनी घृतवती पुरंधिः स्योने सीद सदने पृथिव्याः । अभि त्वा रुद्रा वसवो गृणन्त्व् इमा ब्रह्म पीपिहि सौभगाय । अश्विनाध्वर्यू सादयताम् इह त्वा ॥
VERSE: 14.3 स्वैर् दक्षैर् दक्षपितेह सीद देवानाम्̐ सुम्ने बृहते रणाय । पितेवैधि सूनव ऽ आ सुशेवा स्वावेशा तन्वा सं विशस्व । अश्विनाध्वर्यू सादयताम् इह त्वा ॥
VERSE: 14.4 पृथिव्याः पुरीषम् अस्य् अप्सो नाम तां त्वा विश्वे ऽ अभि गृणन्तु देवाः । स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणा यजस्व । अश्विनाध्वर्यू सादयताम् इह त्वा ॥
VERSE: 14.5 अदित्यास् त्वा पृष्ठे सादयाम्य् अन्तरिक्षस्य धर्त्रीं विष्टम्भनीं दिशामधिपत्नीं भुवनानामूर्मिर् द्रप्सो ऽ अपाम् असि विश्वकर्मा त ऽ ऋषिः । अश्विनाध्वर्यू सादयताम् इह त्वा ॥
VERSE: 14.6 शुक्रश् च शुचिश् च ग्रीष्माव् ऋतू ऽ अग्नेर् अन्तःश्लेषो ऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः । ये ऽ अग्नयः समनसो ऽन्तरा द्यावापृथिवी ऽ इमे ग्रैष्माव् ऋतू ऽ अभिकल्पमानाऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
VERSE: 14.7 सजूर् ऋतुभिः सजूर् विधाभिः सजूर् देवैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा । सजूर् ऋतुभिः सजूर् विधाभिः सजूर् वसुभिः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा । सजूर् ऋतुभिः सजूर् विधाभिः सजू रुद्रैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा । सजूर् ऋतुभिः सजूर् विधाभिः सजूर् आदित्यैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा । सजूर् ऋतुभिः सजूर् विधाभिः सजूर् विश्वैर् देवैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ॥
VERSE: 14.8 प्राणं मे पाहि । अपानं मे पाहि । व्यानं मे पाहि । चक्षुर् म ऽ उर्व्या वि भाहि । श्रोत्रं मे श्लोकय । अपः पिन्व । ओषधीर् जिन्व । द्विपाद् अव । चतुष्पात् पाहि । दिवो वृष्टिम् एरय ॥
VERSE: 14.9 मूर्धा वयः प्रजापतिश् छन्दः । क्षत्रं वयो मयंदं छन्दः । विष्टम्भो वयो ऽधिपतिश् छन्दः । विश्वकर्मा वयः परमेष्ठी छन्दः । वस्तो वयो विवलं छन्दः । वृष्णिर् वयो विशालं छन्दः । पुरुषो वयस् तन्द्रं छन्दः । व्याघ्रो वयो ऽनाधृष्टं छन्दः । सिम्̐हो वयश् छदिश् छन्दः । पष्ठवाड् वयो बृहती छन्दः । ऽ उक्षा वयः ककुप् छन्दः । ऽ ऋषभो वयः सतोबृहती छन्दः ॥
VERSE: 14.10 अनड्वान् वयः पङ्क्तिश् छन्दः । धेनुर् वयो जगती छन्दः । त्र्यविर् वयस् त्रिष्टुप् छन्दः । दित्यवाड् वयो विराट् छन्दः । पञ्चाविर् वयो गायत्री छन्दः । त्रिवत्सो वय ऽ उष्णिक् छन्दः । तुर्यवाड् वयो ऽनुष्टुप् छन्दः । [ लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् । ता अस्य सूददोहसः सोमम्̐ श्रीणन्ति पृश्नयः । जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः । इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमम्̐ रथीनां वाजानाम्̐ सत्पतिं पतिम् ॥ ]???
VERSE: 14.11 इन्द्राग्नी ऽ अव्यथमानाम् इष्टकां दृम्̐हतं युवम् । पृष्ठेन द्यावापृथिवी ऽ अन्तरिक्षं च विबाधसे ॥
VERSE: 14.12 विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे व्यचस्वतीं प्रथस्वतीम् अन्तरिक्षं यच्छान्तरिक्षं दृम्̐हान्तरिक्षं मा हिम्̐सीः । विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय । वायुष् ट्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
VERSE: 14.13 राज्ञ्य् असि प्राची दिक् । विराड् असि दक्षिणा दिक् । सम्राड् असि प्रतीची दिक् । स्वराड् अस्य् उदीची दिक् । अधिपत्न्य् असि बृहती दिक् ॥
VERSE: 14.14 विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे ज्योतिष्मतीम् । विश्वस्मै प्राणायापानाय व्यानाय विश्वं ज्योतिर् यच्छ । वायुष्टे ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
VERSE: 14.15 नभश् च नभस्यश् च वार्षिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः । ये ऽ अग्नयः समनसोऽन्तरा द्यावापृथिवी ऽ इमे वार्षिकाव् ऋतू ऽ अभिकल्पमानाऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
VERSE: 14.16 इषश् चोर्जश् च शारदाव् ऋतू ऽ अग्नेर् अन्तःश्लेषोऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः । ये ऽ अग्नयः समनसोऽन्तरा द्यावापृथिवी ऽ इमे शारदाव् ऋतू ऽ अभिकल्पमाना ऽइन्द्रम् इव देवाऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
VERSE: 14.17 आयुर् मे पाहि । प्राणं मे पाहि । अपानं मे पाहि । व्यानं मे पाहि । चक्षुर् मे पाहि । श्रोत्रं मे पाहि । वाचं मे पिन्व । मनो मे जिन्व । आत्मानं मे पाहि । ज्योतिर् मे यच्छ ॥
VERSE: 14.18 मा छन्दः । प्रमा छन्दः । प्रतिमा छन्दः । ऽ अस्रीवयश् छन्दः । पङ्क्तिश् छन्दः । ऽ उष्णिक् छन्दः । बृहती छन्दः । ऽअनुष्टुप् छन्दः । विराट् छन्दः । गायत्री छन्दः । त्रिष्टुप् छन्दः । जगती छन्दः ॥
VERSE: 14.19 पृथिवी छन्दः । ऽअन्तरिक्षं छन्दः । द्यौश् छन्दः । समाश् छन्दः । नक्षत्राणि छन्दः । वाक् छन्दः । मनश् छन्दः । कृषिश् छन्दः । हिरण्यं छन्दः । गौश् छन्दः । ऽअजा छन्दः । ऽअश्वश् छन्दः ॥
VERSE: 14.20 अग्निर् देवता । वातो देवता । सूर्यो देवता । चन्द्रमा देवता । वसवो देवता । रुद्रा देवता । ऽऽआदित्या देवता । मरुतो देवता । विश्वे देवा देवता । बृहस्पतिर् देवता । इन्द्रो देवता । वरुणो देवता ॥
VERSE: 14.21 मूर्धासि राड् ध्रुवासि धरुणा धर्त्र्य् असि धरणी । आयुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वा ॥
VERSE: 14.22 यन्त्री राड् यन्त्र्य् असि यमनी ध्रुवासि धरित्री । इषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा । लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् । ता अस्य सूददोहसः सोमम्̐ श्रीणन्ति पृश्नयः । जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः । इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमम्̐ रथीनां वाजानाम्̐ सत्पतिं पतिम् ॥
VERSE: 14.23 आशुर् त्रिवृत् । भान्तः पञ्चदशः । व्योमा सप्तदशः । धरुण ऽ एकविम्̐शः । प्रतूर्तिर् अष्टादशः । तपो नवदशः । ऽअभीवर्तः सविम्̐शः । वर्चो द्वाविम्̐शः । संभरणस् त्रयोविम्̐शः । योनिश् चतुर्विम्̐शः । गर्भाः पञ्चविम्̐शः । ऽ ओजस् त्रिणवः । क्रतुर् एकत्रिम्̐शः । प्रतिष्ठा त्रयस्त्रिम्̐शः । ब्रध्नस्य विष्टपं चतुस्त्रिम्̐शः । नाकः षट्त्रिम्̐शः । विवर्तो ष्टाचत्वारिम्̐शः । धर्त्रं चतुष्टोमः ॥
VERSE: 14.24 अग्नेर् भागो ऽसि दीक्षाया ऽ आधिपत्यं ब्रह्म स्पृतं त्रिवृत् स्तोमः । इन्द्रस्य भागो ऽसि विष्णोर् आधिपत्यं क्षत्रम्̐ स्पृतं पञ्चदशः स्तोमः । नृचक्षसां भागो ऽसि धातुर् आधिपत्यं जनित्रम्̐ स्पृतम्̐ सप्तदशः स्तोमः । मित्रस्य भागो ऽसि वरुणस्याधिपत्यं दिवो वृष्टिर् वात स्पृत ऽएकविम्̐श स्तोमः ॥
VERSE: 14.25 वसूनां भागो ऽसि रुद्राणाम् आधिपत्यं चतुष्पात् स्पृतं चतुर्विम्̐श स्तोमः । आदित्यानां भागो ऽसि मरुताम् आधिपत्यं गर्भा स्पृताः पञ्चविम्̐श स्तोमः । अदित्यै भागो ऽसि पूष्ण ऽ आधिपत्यम् ओज स्पृतं त्रिणव स्तोमः । देवस्य सवितुर् भागो ऽसि बृहस्पतेर् आधिपत्यम्̐ समीचीर् दिश स्पृताश् चतुष्टोम स्तोमः ॥
VERSE: 14.26 यवानां भागो ऽस्य् अयवानाम् आधिपत्यं प्रजा स्पृताश् चतुश्चत्वारिम्̐श स्तोमः । ऋभूणां भागो ऽसि विश्वेषां देवानाम् आधिपत्यं भूतम्̐ स्पृतं त्रयस्त्रिम्̐श स्तोमः ॥
VERSE: 14.27 सहश् च सहस्यश् च हैमन्तिकाव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः । ये ऽ अग्नयः समनसो न्तरा द्यावापृथिवी ऽ इमे हैमन्तिकाव् ऋतू ऽ अभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसंविशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
VERSE: 14.28 एकयास्तुवत प्रजा ऽ अधीयन्त प्रजापतिर् अधिपतिर् आसीत् । तिसृभिर् अस्तुवत ब्रह्मासृज्यत ब्रह्मणस्पतिर् अधिपतिर् आसीत् । पञ्चभिर् अस्तुवत भूतान्य् असृज्यन्त भूतानां पतिर् अधिपतिर् आसीत् । सप्तभिर् अस्तुवत सप्त ऋषयो ऽसृज्यन्त धाताधिपतिर् आसीत् ॥
VERSE: 14.29 नवभिर् अस्तुवत पितरो ऽसृज्यन्तादितिर् अध्निपत्न्य् आसीत् । एकादशभिर् अस्तुवत ऽ ऋतवो ऽसृज्यन्तार्तवा ऽ अधिपतय ऽ आसन् । त्रयोदशभिर् अस्तुवत मासा ऽ असृज्यन्त संवत्सरो ऽधिपतिर् आसीत् । पञ्चदशभिर् अस्तुवत क्षत्रम् असृज्यतेन्द्रो ऽधिपतिर् आसीत् । सप्तदशभिर् अस्तुवत ग्राम्याः पशवो ऽसृज्यन्त बृहस्पतिर् अधिपतिर् आसीत् ॥
VERSE: 14.30 नवदशभिर् अस्तुवत शूद्रार्याव् असृज्येताम् अहोरात्रे ऽ अधिपत्नी आस्ताम् । एकविम्̐शत्यास्तुवतैकशफाः पशवो सृज्यन्त वरुणो ऽधिपतिर् आसीत् । त्रयोविम्̐शत्यास्तुवत क्षुद्रां पशवो ऽसृज्यन्त पूषाधिपतिर् आसीत् । पञ्चविम्̐शत्यास्तुवताऽऽरण्याः पशवो ऽसृज्यन्त वायुर् अधिपतिर् आसीत् । सप्तविम्̐शत्यास्तुवत द्यावापृथिवी व्यैतां वसवो रुद्राऽ आदित्याऽ अनुव्य् आयम्̐स् त ऽ एवाधिपतय ऽ आसन् ॥
VERSE: 14.31 नवविम्̐शत्यास्तुवत वनस्पतयोऽसृज्यन्त सोमो ऽधिपतिर् आसीत् । एकत्रिम्̐शतास्तुवत प्रजा ऽ असृज्यन्त यवाश् चायवाश् चाधिपतय ऽ आसन् । त्रयस्त्रिम्̐शतास्तुवत भूतान्य् अशाम्यन् प्रजापतिः परमेष्ठ्य् अधिपतिर् आसीत् । [लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् । ता अस्य सूददोहसः सोमम्̐ श्रीणन्ति पृश्नयः । जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः । इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमम्̐ रथीनां वाजानाम्̐ सत्पतिं पतिम् ॥ ]???

अध्याय 15 पञ्चम चिति मन्त्राः, चयन मन्त्राश्च

VERSE: 15.1 अग्ने जातान् प्र णुद नः सपत्नान् प्रत्य् अजातान् नुद जातवेदः । अधि नो ब्रूहि सुमना ऽ अहेडम्̐स् तव स्याम शर्मम्̐स् त्रिवरूथ ऽ उद्भौ ॥
VERSE: 15.2 सहसा जातान् प्र णुदा नः सपत्नान् प्रत्य् अजातान् जातवेदो नुदस्व । अधि नो ब्रूहि सुमनस्यमानो वयम्̐ स्याम प्र णुदा नः सपत्नान् ॥
VERSE: 15.3 षोडशी स्तोम ऽ ओजो द्रविणम् । चतुश्चत्वारिम्̐श स्तोमो वर्चो द्रविणम् । अग्नेः पुरीषम् अस्य अप्सो नाम तां त्वा विश्वे ऽ अभि गृणन्तु देवाः । स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणा यजस्व ॥
VERSE: 15.4 एवश् छन्दः । वरिवश् छन्दः । शंभूश् छन्दः । परिभूश् छन्दः । ऽ आच्छच् छन्दः । मनश् छन्दः । व्यचश् छन्दः । सिन्धुश् छन्दः । समुद्रश् छन्दः । सरिरं छन्दः । ककुप् छन्दः । त्रिककुप् छन्दः । काव्यं छन्दः । ऽ अङ्कुपं छन्दः । अक्षरपङ्क्तिश् छन्दः । पदपङ्क्तिश् छन्दः । विष्टारपङ्क्तिश् छन्दः । क्षुरो भ्राजश् छन्दः ॥
VERSE: 15.5 आच्छच् छन्दः । प्रच्छच् छन्दः । संयच् छन्दः । वियच् छन्दः । बृहच् छन्दः । रथन्तरं छन्दः । निकायश् छन्दः । विवधश् छन्दः । गिरश् छन्दः । भ्रजश् छन्दः । सम्̐स्तुप् छन्दः । ऽ अनुष्टुप् छन्दः । ऽ एवश् छन्दः । वरिवश् छन्दः । वयश् छन्दः । वयस्कृच् छन्दः । विष्पर्धाश् छन्दः । विशालं छन्दः । छदिश् छन्दः । दूरोहणं छन्दः । तन्द्रं छन्दः । ऽ अङ्काङ्कं छन्दः ॥
VERSE: 15.6 रश्मिना सत्याय सत्यं जिन्व । प्रेतिना धर्मणा धर्मं जिन्व । अन्वित्या दिवा दिवं जिन्व । संधिनान्तरिक्षेणान्तरिक्षं जिन्व । प्रतिधिना पृथिव्या पृथिवीं जिन्व । विष्टम्भेन वृष्ट्या वृष्टिं जिन्व । प्रवया ऽह्नाहर् जिन्व । अनुया रात्र्या रात्रीं जिन्व । उशिजा वसुभ्यो वसून् जिन्व । प्रकेतेनादित्येभ्य ऽ आदित्यान् जिन्व ॥
VERSE: 15.7 तन्तुना रायस्पोषेण रायस्पोषं जिन्व । सम्̐सर्पेण श्रुताय श्रुतं जिन्व । ऐडेनौषधीभिर् ओषधीर् जिन्व । उत्तमेन तनूभिस् तनूर् जिन्व । वयोधसाधीतेनाधीतं जिन्व । अभिजिता तेजसा तेजो जिन्व ॥
VERSE: 15.8 प्रतिपद् असि प्रतिपदे त्वा । अनुपद् अस्य् अनुपदे त्वा । सम्पद् असि सम्पदे त्वा । तेजो ऽसि तेजसे त्वा ॥
VERSE: 15.9 त्रिवृद् असि त्रिवृते त्वा । प्रवृद् असि प्रवृते त्वा । विवृद् असि विवृते त्वा । सवृद् असि सवृते त्वा । ऽऽआक्रमो ऽस्य् आक्रमाय त्वा । संक्रमो ऽसि संक्रमाय त्वा । उत्क्रमो ऽस्य् उत्क्रमाय त्वा । उत्क्रान्तिर् अस्य् उत्क्रान्त्यै त्वा । अधिपतिनोर्जोर्जं जिन्व ॥
VERSE: 15.10 राज्ञ्य् असि प्राची दिग् वसवस् ते देवा ऽ अधिपतयो ऽग्निर् हेतीनां प्रतिधर्ता त्रिवृत् त्वा स्तोमः पृथिव्याम्̐ श्रयत्व् आज्यम् उक्थम् अव्यथायै स्तभ्नातु रथन्तरम्̐ साम प्रतिष्ठित्याऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥
VERSE: 15.11 विराड् असि दक्षिणा दिग् रुद्रास् ते देवा ऽ अधिपतय ऽ इन्द्रो हेतीनां प्रतिधर्ता पञ्चदशस् त्वा स्तोमः पृथिव्याम्̐ श्रयतु प्रौगम् उक्थम् अव्यथायै स्तभ्नातु बृहत् साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥
VERSE: 15.12 सम्राड् असि प्रतीची दिग् आदित्यास् ते देवा ऽ अधिपतयो वरुणो हेतीनां प्रतिधर्ता सप्तदशस् त्वा स्तोमः पृथिव्याम्̐ श्रयतु मरुत्वतीयम् उक्थम् अव्यथायै स्तभ्नातु वैरूपम्̐ साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥
VERSE: 15.13 स्वराड् अस्य् उदीच्य् दिङ् मरुतस् ते देवा ऽ अधिपतयः सोमो हेतीनां प्रतिधर्तैकविम्̐शस् त्वा स्तोमः पृथिव्याम्̐ श्रयतु निष्केवल्यम् उक्थम् अव्यथायै स्तभ्नातु वैराजम्̐ साम प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥
VERSE: 15.14 अधिपत्न्य् असि बृहती दिग् विश्वे ते देवा ऽ अधिपतयो बृहस्पतिर् हेतीनां प्रतिधर्ता त्रिणवत्रयस्त्रिम्̐शौ त्वा स्तोमौ पृथिव्याम्̐ श्रयतां वैश्वदेवाग्निमारुते ऽ उक्थे ऽ अव्यथायै स्तभ्नीताम्̐ शाक्वररैवते सामनी प्रतिष्ठित्या ऽ अन्तरिक्ष ऽ ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिम्णा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥
VERSE: 15.15 अयं पुरो हरिकेशः सूर्यरश्मिस् तस्य रथगृत्सश् च रथौजाश् च सेनानीग्रामण्यौ । पुञ्जिकस्थला च क्रतुस्थला चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
VERSE: 15.16 अयं दक्षिणा विश्वकर्मा तस्य रथस्वनश् च रथेचित्रश् च सेनानीग्रामण्यौ । मेनका च सहजन्या चाप्सरसौ यातुधाना हेती रक्षाम्̐सि प्रहेतिस् तेभ्यो नमो ऽअस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
VERSE: 15.17 अयं पश्चाद् विश्वव्यचास् तस्य रथप्रोतश् चासमरथश् च सेनानीग्रामण्यौ । प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसौ व्याघ्रा हेतिः सर्पा प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
VERSE: 15.18 अयम् उत्तरात् संयद्वसुस् तस्य तार्क्ष्यश् चारिष्टनेमिश् च सेनानीग्रामण्यौ । विश्वाची च घृताची चाप्सरसाव् आपो हेतिर् वातः प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
VERSE: 15.19 अयम् उपर्य् अर्वाग्वसुस् तस्य सेनजिच् च सुषेणश् च सेनानीग्रामण्यौ । उर्वशी च पूर्वचित्तिश् चाप्सरसाव् अवस्फूर्जन् हेतिर् विद्युत् प्रहेतिस् तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
VERSE: 15.20 अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या ऽ अयम् । अपाम्̐ रेताम्̐सि जिन्वति ॥
VERSE: 15.21 अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः । मूर्धा कवी रयीणाम् ॥
VERSE: 15.22 त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥
VERSE: 15.23 भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः । दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चकृषे हव्यवाहम् ॥
VERSE: 15.24 अबोध्य् अग्निः समिधा जनानां प्रति धेनुम् इवायतीम् उषासम् । यह्वा ऽ इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अच्छ ॥
VERSE: 15.25 अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उरुव्यञ्चम् अश्रेत् ॥
VERSE: 15.26 अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः । यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥
VERSE: 15.27 जनस्य गोपा ऽ अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे । घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति भरतेभ्यः शुचिः ॥
VERSE: 15.28 त्वाम् अग्ने ऽ अङ्गिरसो गुहा हितम् अन्व् अविन्दञ् छिश्रियाणं वने-वने । स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः ॥
VERSE: 15.29 सखायः सं वः सम्यञ्चम् इषम्̐ स्तोमं चाग्नये । वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥
VERSE: 15.30 सम्̐-सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य ऽ आ । इडस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥
VERSE: 15.31 त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः । शोचिष्केशं पुरुप्रियाग्ने हव्याय वोढवे ॥
VERSE: 15.32 एना वो ऽ अग्निं नमसोर्जो नपातम् आ हुवे । प्रियं चेतिष्ठम् अरतिम्̐ स्वध्वरं विश्वस्य दूतम् अमृतम् ॥
VERSE: 15.33 विश्वस्य दूतम् अमृतं विश्वस्य दूतम् अमृतम् । स योजते ऽ अरुषा विश्वभोजसा स दुद्रवत् स्वाहुतः ॥
VERSE: 15.34 स दुद्रवत् स्वाहुतः स दुद्रवत् स्वाहुतः । सुब्रह्मा यज्ञः सुशमी वसूनां देवम्̐ राधो जनानाम् ॥
VERSE: 15.35 अग्ने वाजस्य गोमत ऽ ईशानः सहसो यहो । अस्मे धेहि जातवेदो महि श्रवः ॥
VERSE: 15.36 स ऽ इधानो वसुष् कविर् अग्निर् ईडेन्यो गिरा । रेवद् अस्मभ्यं पुर्वणीक दीदिहि ॥
VERSE: 15.37 क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः । स तिग्मजम्भ रक्षसो दह प्रति ॥
VERSE: 15.38 भद्रो नोऽअग्निर् आहुतो भद्रा रातिः सुभग भद्रो ऽअध्वरः । भद्राऽ उत प्रशस्तयः ॥
VERSE: 15.39 भद्रा ऽ उत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये । येना समत्सु सासहः ॥
VERSE: 15.40 येना समत्सु सासहो ऽव स्थिरा तनुहि भूरि शर्धताम् । वनेमा ते ऽ अभिष्टिभिः ॥
VERSE: 15.41 अग्निं तं मन्ये यो वसुर् अस्तं यं यन्ति धेनवः । अस्तम् अर्वन्त ऽ आशवो ऽस्तं नित्यासो वाजिन ऽ इषम्̐ स्तोतृभ्य ऽ आ भर ॥
VERSE: 15.42 सो अग्निर् यो वसुर् गृणे सं यम् आयन्ति धेनवः । सम् अर्वन्तो रघुद्रुवः सम्̐ सुजातासः सूरय ऽ इषम्̐ स्तोतृभ्य ऽ आ भर ॥
VERSE: 15.43 उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष ऽ आसनि । उतो न ऽ उत् पुपूर्या ऽ उक्थेषु शवसस् पत ऽ इषम्̐ स्तोतृभ्य ऽ आ भर ॥
VERSE: 15.44 अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रम्̐ हृदिस्पृशम् । ऋध्यामा त ऽ ओहैः ॥
VERSE: 15.45 अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः । रथीर् ऋतस्य बृहतो बभूथ ॥
VERSE: 15.46 एभिर् नो ऽ अर्कैर् भवा नो अर्वाङ् स्वर्ण ज्योतिः । अग्ने विश्वेभिः सुमना ऽ अनीकैः ॥
VERSE: 15.47 अग्निम्̐ होतारं मन्ये दास्वन्तं वसुम्̐ सूनुम्̐ सहसो जातवेदसं विप्रं न जातवेदसम् । य ऽ ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिम् अनु वष्टि शोचिषाऽऽजुह्वानस्य सर्पिषः ॥
VERSE: 15.48 अग्ने त्वं नो ऽ अन्तम उत त्राता शिवो भवा वरूथ्यः । वसुर् अग्निर् वसुश्रवा ऽ अच्छा नक्षि द्युमत्तमम्̐ रयिं दाः । तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥
VERSE: 15.49 येन ऽ ऋषयस् तपसा सत्रम् आयन्न् इन्धाना ऽ अग्निम्̐ स्वर् आभरन्तः । तस्मिन्न् अहं नि दधे नाके ऽ अग्निं यम् आहुर् मनव स्तीर्णबर्हिषम् ॥
VERSE: 15.50 तं पत्नीभिर् अनु गच्छेम देवाः पुत्रैर् भ्रातृभिर् उत वा हिरण्यैः । नाकं गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे ऽ अधि रोचने दिवः ॥
VERSE: 15.51 आ वाचो मध्यम् अरुहद् भुरण्युर् अयम् अग्निः सत्पतिश् चेकितानः । पृष्ठे पृथिव्या निहितो दविद्युतद् अधस् पदं कृणुतां ये पृतन्यवः ॥
VERSE: 15.52 अयम् अग्निर् वीरतमो वयोधाः सहस्रियो द्योतताम् अप्रयुच्छन् । विभ्राजमानः सरिरस्य मध्य ऽ उप प्र याहि दिव्यानि धाम ॥
VERSE: 15.53 सम्प्रच्यवध्वम् उप सम्प्रयाताग्ने पथो देवयानान् कृणुध्वम् । पुनः कृण्वाना पितरा युवानान्वा ताम्̐सीत् त्वयि तन्तुम् एतम् ॥
VERSE: 15.54 उद् बुध्यस्वाग्ने प्रति जागृहि त्वम् इष्टापूर्ते सम्̐ सृजेथाम् अयं च । अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विशवे देवा यजमानश् च सीदत ॥
VERSE: 15.55 येन वहसि सहस्रं येनाग्ने सर्ववेदसम् । तेनेमं यज्ञं नो नय स्वर् देवेषु गन्तवे ॥
VERSE: 15.56 अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः । तं जानन्न् अग्न ऽ आरोहाथा नो वर्धया रयिम् ॥
VERSE: 15.57 तपश् च तपस्यश् च शैशिराव् ऋतू ऽ अग्नेर् अन्तःश्लेषो सि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ऽ ओषधयः कल्पन्ताम् अग्नयः पृथङ् नम ज्यैष्ठ्याय सव्रताः । ये ऽ अग्नयः समनसो न्तरा द्यावापृथिवी ऽ इमे शैशिराव् ऋतू ऽ अभिकल्पमाना ऽ इन्द्रम् इव देवा ऽ अभिसं विशन्तु तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
VERSE: 15.58 परमेष्ठी त्वा सादयतु दिवस् पृष्ठे ज्योतिष्मतीम् । विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय । सूर्यस् ते ऽधिपतिस् तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद ॥
VERSE: 15.59 लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ॥
VERSE: 15.60 ता ऽ अस्य सूददोहसः सोमम्̐ श्रीणन्ति पृश्नयः । जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ॥
VERSE: 15.61 इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमम्̐ रथीनां वाजानाम्̐ सत्पतिं पतिम् ॥
VERSE: 15.62 प्रोथद् अश्वो न यवसे विष्यन् यदा महः संवरणाद् व्य् अस्थात् । आद् अस्य वातो ऽ अनु वाति शोचिर् अध स्म ते व्रजनं कृष्णम् अस्ति ॥
VERSE: 15.63 आयोष् ट्वा सदने सादयाम्य् अवतश् छायायाम्̐ समुद्रस्य हृदये । रश्मीवतीं भास्वतीम् आ या द्यां भास्य् आ पृथिवीम् ओर्व् अन्तरिक्षम् ॥
VERSE: 15.64 परमेष्ठी त्वा सादयतु दिवस् पृष्ठे व्यचस्वतीं प्रथस्वतीम् दिवं यच्छ दिवं दृम्̐ह दिवं मा हिम्̐सीः । विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय । सूर्यस् त्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवे सीदतम् ॥
VERSE: 15.65 सहस्रस्य प्रमासि । सहस्रस्य प्रतिमासि । सहस्रस्योन्मासि । साहस्रो ऽसि । सहस्राय त्वा ॥


अध्याय 16 अग्निचयने रुद्रः
VERSE: 16.1 नमस् ते रुद्र मन्यव ऽ उतो त ऽ इषवे नमः । बाहुभ्याम् उत ते नमः ॥
VERSE: 16.2 या ते रुद्र शिवा तनूर् अघोरापापकाशिनी । तया नस् तन्वा शंतमया गिरिशन्ताभि चाकशीहि ॥
VERSE: 16.3 याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे । शिवां गिरित्र तां कुरु मा हिम्̐सीः पुरुषं जगत् ॥
VERSE: 16.4 शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मम्̐ सुमना ऽ असत् ॥
VERSE: 16.5 अध्य् अवोचद् अधिवक्ता प्रथमो दैव्यो भिषक् । अहीम्̐श् च सर्वान् जम्भयन्त् सर्वाश् च यातुधान्यो ऽधराचीः परा सुव ॥
VERSE: 16.6 असौ यस् ताम्रो ऽ अरुण ऽ उत बभ्रुः सुमङ्गलः । ये चैनम्̐ रुद्रा ऽ अभितो दिक्षु श्रिताः सहस्रशो वैषाम्̐ हेड ऽ ईमहे ॥
VERSE: 16.7 असौ यो ऽवसर्पति नीलग्रीवो विलोहितः । उतैनं गोपा ऽ अदृश्रन्न् अदृश्रन्न् उदहार्यः स दृष्टो मृडयाति नः ॥
VERSE: 16.8 नमो ऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो ये ऽ अस्य सत्वानो ऽहं तेभ्यो ऽकरं नमः ॥
VERSE: 16.9 प्र मुञ्च धन्वनस् त्वम् उभयोर् आर्त्न्योर् ज्याम् । याश् च ते हस्त ऽ इषवः ऽ परा ता भगवो वप ॥
VERSE: 16.10 विज्यं धनुः कपर्दिनो विशल्यो वाणवाम्̐२ऽ उत । अनेशन्न् अस्य याऽइषव ऽआभुर् अस्य निषङ्गधिः ॥
VERSE: 16.11 या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः । तयास्मान् विश्वतस् त्वम् अयक्ष्मया परि भुज ॥
VERSE: 16.12 परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः । अथो य ऽइषुधिस् तवारे ऽ अस्मन् नि धेहि तम् ॥
VERSE: 16.13 अवतत्य धनुष् ट्वम्̐ सहस्राक्ष शतेषुधे । निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥
VERSE: 16.14 नमस् त ऽ आयुधायानातताय धृष्णवे । उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥
VERSE: 16.15 मा नो महान्तम् उत मा नो ऽ अर्भकं मा न ऽ उक्षन्तम् उत मा न ऽ उक्षितम् । मा नो वधीः पितरं मोत मातरं मा नः प्रियास् तन्वो रुद्र रीरिषः ॥
VERSE: 16.16 मा नस् तोके तनये मा न ऽ आयुषि मा नो गोषु मा नो ऽ अश्वेषु रीरिषः । मा नो वीरान् रुद्र भामिनो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे ॥
VERSE: 16.17 नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमः ॥
VERSE: 16.18 नमो बभ्लुशाय व्याधिने ऽन्नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यै वनानां पतये नमः ॥
VERSE: 16.19 नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नम ऽ उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमः ॥
VERSE: 16.20 नमः कृत्स्नायतया धावते सत्वनां पतये नमो नमः सहमानाय निव्याधिनऽ आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमः ॥
VERSE: 16.21 नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्गिण ऽ इषुधिमते तस्कराणां पतये नमो नमः सृकायिभ्यो जिघाम्̐सद्भ्यो मुष्णतां पतये नमो नमो ऽसिमद्भ्यो नक्तं चरद्भ्यो विकृन्तानां पतये नमः ॥
VERSE: 16.22 नम ऽ उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम ऽ इषुमध्भ्यो धन्वायिभ्यश् च वो नमो नम ऽ आतन्वानेभ्यः प्रतिदधानेभ्यश् च वो नमो नम ऽ आयच्छद्भ्यो स्यद्भ्यश् च वो नमः ॥
VERSE: 16.23 नमो विसृजद्भ्यो विध्यद्भ्यश् च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश् च वो नमो नमः शयानेभ्य ऽ आसीनेभ्यश् च वो नमो नमस् तिष्ठद्भ्यो धावद्भ्यश् च वो नमः ॥
VERSE: 16.24 नमः सभाभ्यः सभापतिभ्यश् च वो नमो नमो ऽश्वेभ्यो ऽश्वपतिभ्यश् च वो नमो नम ऽ आव्याधिनीभ्यो विविध्यन्तीभ्यश् च वो नमो नम ऽ उगणाभ्यस् तृम्̐हतीभ्यश् च वो नमः ॥
VERSE: 16.25 नमो गणेभ्यो गणपतिभ्यश् च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश् च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश् च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश् च वो नमः ॥
VERSE: 16.26 नमः सेनाभ्यः सेनानिभ्यश् च वो नमो नमो रथिभ्यो ऽ अरथेभ्यश् च वो नमो नमः क्षत्तृभ्यः संग्रहीतृभ्यश् च वो नमो नमो महद्भ्यो ऽ अर्भकेभ्यश् च वो नमः ॥
VERSE: 16.27 नमस् तक्षभ्यो रथकारेभ्यश् च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश् च वो नमो नमो निषादेभ्यः पुञ्जिष्ठेभ्यश् च वो नमो नमः श्वनिभ्यो मृगयुभ्यश् च वो नमः ॥
VERSE: 16.28 नमः श्वभ्यः श्वपतिभ्यश् च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च ॥
VERSE: 16.29 नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च ॥
VERSE: 16.30 नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमो ऽग्र्याय च प्रथमाय च ॥
VERSE: 16.31 नम ऽ आशवे चाजिराय च नमः शीघ्र्याय च शीभ्याय च नम ऽ ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ॥
VERSE: 16.32 नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च ॥
VERSE: 16.33 नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय चावसान्याय च नम ऽ उर्वर्याय च खल्याय च ॥
VERSE: 16.34 नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम ऽ आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च ॥
VERSE: 16.35 नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥
VERSE: 16.36 नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस् तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥
VERSE: 16.37 नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ॥
VERSE: 16.38 नमः कूप्याय चावट्याय च नमो वीध्र्याय चातप्याय च नमो मेध्याय च च विद्युत्याय नमो वर्ष्याय चावर्ष्याय च ॥
VERSE: 16.39 नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस् ताम्राय चारुणाय च ॥
VERSE: 16.40 नमः शंगवे च पशुपतये च नम ऽ उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस् ताराय ॥
VERSE: 16.41 नमः शम्भवाय च मयोभवाय च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥
VERSE: 16.42 नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस् तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च ॥
VERSE: 16.43 नमः सिकत्याय च प्रवाह्याय च नमः किम्̐शिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नम ऽ इरिण्याय च प्रपथ्याय च ॥
VERSE: 16.44 नमो व्रज्याय च गोष्ठ्याय च नमस् तल्प्याय च गेह्याय च नमो हृदय्याय च निवेष्याय च नमः काट्याय च गह्वरेष्ठाय च ॥
VERSE: 16.45 नमः शुष्क्याय च हरित्याय च नमः पाम्̐सव्याय च रजस्याय च नमो लोप्याय चोलप्याय च नम ऽ ऊर्व्याय च सूर्व्याय च ॥
VERSE: 16.46 नमः पर्णाय च पर्णशदाय च नम ऽ उद्गुरमाणाय चाभिघ्नते च नम ऽ आखिदते च प्रखिदते च नम ऽ इषुकृद्भ्यो धनुष्कृद्भ्यस् च वो नमो नमो वः किरिकेभ्यो देवानाम्̐ हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम ऽ आनिर्हतेभ्यः ॥
VERSE: 16.47 द्रापे ऽ अन्धसस् पते दरिद्र नीललोहित । आसां प्रजानाम् एषां पशूनां मा भेर् मा रोङ् मो च नः किं चनाममत् ॥
VERSE: 16.48 इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः । यथा शम् असद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे ऽ अस्मिन्न् अनातुरम् ॥
VERSE: 16.49 या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी । शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥
VERSE: 16.50 परि नो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः । अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृड ॥
VERSE: 16.51 मीढुष्टम शिवतम शिवो नः सुमना भव । परमे वृक्ष ऽ आयुधं निधाय कृत्तिं वसान ऽ आ चर पिनाकं बिभ्रद् आ गहि ॥
VERSE: 16.52 विकिरिद्र विलोहित नमस् ते ऽ अस्तु भगवः । यास् ते सहस्रम्̐ हेतयो ऽन्यम् अस्मन् नि वपन्तु ताः ॥
VERSE: 16.53 सहस्राणि सहस्रशो बाह्वोस् तव हेतयः । तासाम् ईशानो भगवः पराचीना मुखा कृधि ॥
VERSE: 16.54 असंख्याता सहस्राणि ये रुद्रा ऽ अधि भूम्याम् । तेषाम्̐ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
VERSE: 16.55 अस्मिन् महत्य् अर्णवे ऽन्तरिक्षे भवा ऽ अधि । तेषाम्̐ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
VERSE: 16.56 नीलग्रीवाः शितिकण्ठा दिवम्̐ रुद्रा ऽ उपश्रिताः । तेषाम्̐ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
VERSE: 16.57 नीलग्रीवाः शितिकण्ठाः शर्वा ऽ अधः क्षमाचराः । तेषाम्̐ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
VERSE: 16.58 ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः । तेषाम्̐ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
VERSE: 16.59 ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः । तेषाम्̐ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
VERSE: 16.60 ये पथां पथिरक्षस ऽ ऐलबृदा ऽ आयुर्युधः । तेषाम्̐ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
VERSE: 16.61 ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः । तेषाम्̐ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
VERSE: 16.62 ये ऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् । तेषाम्̐ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
VERSE: 16.63 ये एतावन्तश् च भूयाम्̐सश् च दिशो रुद्रा वितस्थिरे । तेषाम्̐ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
VERSE: 16.64 नमो ऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षम् इषवः । तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः । तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
VERSE: 16.65 नमो ऽस्तु रुद्रेभ्यो ये ऽन्तरिक्षे येषां वात ऽ इषवः । तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः । तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
VERSE: 16.66 नमो ऽस्तु रुद्रेभ्यो ये पृथिव्यां येषाम् अन्नम् इषवः । तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः । तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥

अध्याय 17 अग्निचयने चित्यपरिषेकादि जपपर्यन्ता मन्त्राः
VERSE: 17.1 अश्मन्न् ऊर्जं पर्वते शिश्रियाणाम् ऽ अद्भ्य ओषधीभ्यो वनस्पतिभ्यो ऽधि सम्भृतं पयः । तां न ऽ इषमूर्जं धत्त मरुतः सम्̐रराणाः । ऽ अश्मम्̐स् ते क्षुत् । मयि त ऊर्क् । यं द्विष्मस् तं ते शुग् ऋच्छतु ॥
VERSE: 17.2 इमा मे ऽ अग्न ऽ इष्टका धेनवः सन्त्व् एका च दश च दश च शतं च शतं च सहस्रं च सहस्रं चायुतं चायुतं च नियुतं च नियुतं च प्रयुतं चार्बुदं च न्यर्बुदम्̐ समुद्रश् च मध्यं चान्तश् च परार्धश् चैता मे ऽ अग्न इष्टका धेनवः सन्त्व् अमुत्रामुष्मिंल् लोके ॥
VERSE: 17.3 ऋतव स्थ ऽ ऋतावृध ऽ ऋतुष्ठा स्थ ऽ ऋतावृधः । घृतश्च्युतो मधुश्च्युतो विराजो नाम कामदुघा ऽ अक्षीयमाणाः ॥
VERSE: 17.4 समुद्रस्य त्वावकयाग्ने परि व्ययामसि । पावको ऽ अस्मभ्यम्̐ शिवो भव ॥
VERSE: 17.5 हिमस्य त्वा जरायुणाग्ने परि व्ययामसि । पावको ऽ अस्मभ्यम्̐ शिवो भव ॥
VERSE: 17.6 उप ज्मन्न् उप वेतसेऽव तर नदीष्व् आ । अग्ने पित्तम् अपाम् असि । मण्डूकि ताभिर् आ गहि सेमं नो यज्ञं पावकवर्णम्̐ शिवं कृधि ॥
VERSE: 17.7 अपाम् इदं न्ययनम्̐ समुद्रस्य निवेशनम् । अन्याम्̐स् ऽ ते अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यम्̐ शिवो भव ॥
VERSE: 17.8 अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान् वक्षि यक्षि च ॥
VERSE: 17.9 स नः पावक दीदिवो ग्ने देवाम्̐ ऽ इहा वह । उप यज्ञम्̐ हविश् च नः ॥
VERSE: 17.10 पावकया यश् चितयन्त्या कृपा क्षामन् रुरुच ऽ उषसो न भानुना । तूर्वन् न यामन्न् एतशस्य नू रण ऽ आ यो घृणे न ततृषाणो ऽ अजरः ॥
VERSE: 17.11 नमस् ते हरसे शोचिषे नमस् ते ऽ अस्त्व् अर्चिषे । अन्याम्̐स् ते अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यम्̐ शिवो भव ॥
VERSE: 17.12 नृषदे वेट् । अप्सुषदे वेट् । बर्हिषदे वेट् । वनसदे वेट् । स्वर्विदे वेट् ॥
VERSE: 17.13 ये देवा देवानां यज्ञिया यज्ञियानाम्̐ संवत्सरीणम् उप भागम् आसते । अहुतादो हविषो यज्ञे ऽ अस्मिन्त् स्वयं पिबन्तु मधुनो घृतस्य ॥
VERSE: 17.14 ये देवा देवेष्व् अधि देवत्वम् आयन् ये ब्रह्मणः पुरएतारो ऽ अस्य । येभ्यो न ऽ ऋते पवते धाम किं चन न ते दिवो न पृथिव्या ऽ अधि स्नुषु ॥
VERSE: 17.15 प्राणदा ऽ अपानदा व्यानदा वर्चोदा वरिवोदाः । अन्याम्̐स् ऽ ते अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यम्̐ शिवो भव ॥
VERSE: 17.16 अग्निस् तिग्मेन शोचिषा यासद् विश्वं न्य् अत्रिणम् । अग्निर् नो वनते रयिम् ॥
VERSE: 17.17 य ऽ इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता न्य् असीदत् पिता नः । स ऽ आशिषा द्रविणम् इच्छमानः प्रथमच्छद् अवराम्̐ ऽ आ विवेश ॥
VERSE: 17.18 किम्̐ स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमत् स्वित् कथासीत् । यतो भूमिं जनयन् विश्वकर्मा वि द्याम् और्णोन् महिना विश्वचक्षाः ॥
VERSE: 17.19 विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोबाहुर् उत विश्वतस्पात् । सं बाहुभ्यां धमति सं पतत्रैर् द्यावाभूमी जनयन् देव ऽ एकः ॥
VERSE: 17.20 किम्̐ स्विद् वनं क ऽ उ स वृक्ष ऽ आस यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन् ॥
VERSE: 17.21 या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न् उतेमा । शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥
VERSE: 17.22 विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीम् उत द्याम् । मुह्यन्त्व् अन्ये ऽ अभितो सपत्ना ऽ इहास्माकं मघवा सूरिर् अस्तु ॥
VERSE: 17.23 वाचस् पतिं विश्वकर्माणमूतये मनोजुवं वाजे ऽ अद्या हुवेम । स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा ॥
VERSE: 17.24 विश्वकर्मन् हविषा वर्धनेन त्रातारम् इन्द्रम् अकृणोर् अवध्यम् । तस्मै विशः समनमन्त पूर्वीर् अयम् उग्रो विहव्यो यथासत् ॥
VERSE: 17.25 चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन् नम्नमाने । यदेद् अन्ता ऽ अददृहन्त पूर्व ऽ आद् इद् द्यावापृथिवी ऽ अप्रथेताम् ॥
VERSE: 17.26 विश्वकर्मा विमना ऽ आद् विहाया धाता विधाता परमोत संदृक् । तेषाम् इष्टानि सम् इषा मदन्ति यत्रा सप्तऋषीन् पर ऽ एकम् आहुः ॥
VERSE: 17.27 यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । यो देवानां नामधा ऽ एक ऽ एव तम्̐ संप्रश्नं भुवना यन्त्य् अन्या ॥
VERSE: 17.28 त ऽ आयजन्त द्रविणम्̐ सम् अस्मा ऽ ऋषयः पूर्वे जरितारो न भूना । असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्न् इमानि ॥
VERSE: 17.29 परो दिवा पर ऽ एना पृथिव्या परो देवेभिर् असुरैर् यद् अस्ति । कम्̐ स्विद् गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यन्त पूर्वे ॥
VERSE: 17.30 तम् इद् गर्भं प्रथमं दध्र ऽ आपो यत्र देवाः समगच्छन्त विश्वे । अजस्य नाभाव् अध्य् एकम् अर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः ॥
VERSE: 17.31 न तं विदाथ य ऽ इमा जजानान्यद् युष्माकम् अन्तरं बभूव । नीहारेण प्रावृता जल्प्या चासुतृप ऽ उक्थशासश् चरन्ति ॥
VERSE: 17.32 विश्वकर्मा ह्य् अजनिष्ट देव ऽ आद् इद् गन्धर्वो ऽ अभवद् द्वितीयः । तृतीयः पिता जनितौषधीनाम् अपां गर्भं व्यदधात् पुरुत्रा ॥
VERSE: 17.33 आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश् चर्षणीनाम् । संक्रन्दनो निमिष ऽ एकवीरः शतम्̐ सेना ऽ अजयत् साकम् इन्द्रः ॥
VERSE: 17.34 संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा ॥
VERSE: 17.35 स ऽ इषुहस्तैः स निषङ्गिभिर् वशी सम्̐स्रष्टा स युध ऽ इन्द्रो गणेन । सम्̐सृष्टजित् सोमपा बाहुशर्ध्य् उग्रधन्वा प्रतिहिताभिर् अस्ता ॥
VERSE: 17.36 बृहस्पते परि दीया रथेन रक्षोहामित्राँ२ऽ अपबाधमानः । प्रभञ्जन्त् सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता रथानाम् ॥
VERSE: 17.37 बलविज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमान ऽ उग्रः । अभिवीरो ऽ अभिसत्वा सहोजा जैत्रम् इन्द्र रथम् आ तिष्ठ गोवित् ॥
VERSE: 17.38 गोत्रभिदं गोविदं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा । इमम्̐ सजाता ऽ अनु वीरयध्वम् इन्द्रम्̐ सखायो ऽ अनु सम्̐ रभध्वम् ॥
VERSE: 17.39 अभि गोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्युर् इन्द्रः । दुश्च्यवनः पृतनाषाड् अयुध्यो ऽस्माकम्̐ सेना अवतु प्र युत्सु ॥
VERSE: 17.40 इन्द्र ऽ आसां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर ऽ एतु सोमः । देवसेनानाम् अभिभञ्जतीनां जयन्तीनां मरुतो यन्त्व् अग्रम् ॥
VERSE: 17.41 इन्द्रस्य वृष्णो वरुणस्य राज्ञ ऽ आदित्यानां मरुताम्̐ शर्ध ऽ उग्रम् । महामनसां भुवनच्यवानां घोषो देवानां जयताम् उद् अस्थात् ॥
VERSE: 17.42 उद् धर्षय मघवन्न् आयुधान्य् उत् सत्वनां मामकानां मनाम्̐सि । उद् वृत्रहन् वाजिनां वाजिनान्य् उद् रथानां जयतां यन्तु घोषाः ॥
VERSE: 17.43 अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या ऽ इषवस् ता जयन्तु । अस्माकं वीरा ऽ उत्तरे भवन्त्व् अस्माम्̐ऽ उ देवा ऽ अवता हवेषु ॥
VERSE: 17.44 अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्य् अप्वे परेहि । अभि प्रेहि निर् दह हृत्सु शोकैर् अन्धेनामित्रास् तमसा सचन्ताम् ॥
VERSE: 17.45 अवसृष्टा परा पत शरव्ये ब्रह्मसम्̐शिते । गच्छामित्रान् प्र पद्यस्व मामीषां कं चनोच् छिषः ॥
VERSE: 17.46 प्रेता जयता नर ऽ इन्द्रो वः शर्म यच्छतु । उग्रा वः सन्तु बाहवो ऽनाधृष्या यथासथ ॥
VERSE: 17.47 असौ या सेना मरुतः परेषाम् अभ्येति न ऽ ओजसा स्पर्धमाना । तां गूहत तमसापव्रतेन यथामी ऽ अन्यो ऽ अन्यं न जानन् ॥
VERSE: 17.48 यत्र वाणाः सम्पतन्ति कुमारा विशिखाऽइव । तन्न ऽ इन्द्रो बृहस्पतिर् अदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥
VERSE: 17.49 मर्माणि ते वर्मणा छादयामि सोमस् त्वा राजामृतेनानु वस्ताम् । उरोर् वरीयो वरुणस् ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥
VERSE: 17.50 उद् एनम् उत्तरां नयाग्ने घृतेनाहुत । रायस्पोषेण सम्̐ सृज प्रजया च बहुं कृधि ॥
VERSE: 17.51 इन्द्रेमं प्रतरां नय सजातानाम् असद्वशी । सम् एनं वर्चसा सृज देवानां भागदा ऽ असत् ॥
VERSE: 17.52 यस्य कुर्मो गृहे हविस् तम् अग्ने वर्धया त्वम् । तस्मै देवा ऽ अधि ब्रुवन्न् अयं च ब्रह्मणस्पतिः ॥
VERSE: 17.53 उद् उ त्वा विश्वे देवा ऽ अग्ने भरन्तु चित्तिभिः । स नो बह्व शिवस् त्वम्̐ सुप्रतीको विभावसुः ॥
VERSE: 17.54 पञ्च दिशो दैवीर् यज्ञम् अवन्तु देवीर् अपामतिं दुर्मतिं बाधमानाः । रायस्पोषे यज्ञपतिम् आभजन्ती रायस्पोषे ऽ अधि यज्ञो ऽ अस्थात् ॥
VERSE: 17.55 समिद्धे ऽ अग्नाव् अधि मामहान ऽ उक्थपत्र ऽ ईड्यो गृभीतः । तप्तं घर्मं परिगृह्यायजन्तोर्जा यद् यज्ञम् अयजन्त देवाः ॥
VERSE: 17.56 दैव्याय धर्त्रे जोष्ट्रे देवश्रीः श्रीमनाः शतपयाः । परिगृह्य देवा यज्ञम् आयन् देवा देवेभ्यो ऽ अध्वर्यन्तो ऽ अस्थुः ॥
VERSE: 17.57 वीतम्̐ हविः शमितम्̐ शमिता यजध्यै तुरीयो यज्ञो यत्र हव्यम् एति । ततो वाका ऽ आशिषो नो जुषन्ताम् ॥
VERSE: 17.58 सूर्यरश्मिर् हरिकेशः पुरस्तात् सविता ज्योतिर् उद् अयाम्̐ऽ अजस्रम् । तस्य पूषा प्रसवे याति विद्वान्त् सम्पश्यन् विश्वा भुवनानि गोपाः ॥
VERSE: 17.59 विमान ऽ एष दिवो मध्य ऽ आस्त ऽ आपप्रिवान् रोदसी ऽ अन्तरिक्षम् । स विश्वाचीर् अभि चष्टे घृताचीर् अन्तरा पूर्वम् अपरं च केतुम् ॥
VERSE: 17.60 उक्षा समुद्रो ऽ अरुणः सुपर्णः पूर्वस्य योनिं पितुर् आ विवेश । मध्ये दिवो निहितः पृश्निर् अश्मा वि चक्रमे रजसस् पात्य् अन्तौ ॥
VERSE: 17.61 इन्द्रं विश्वा ऽ अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमम्̐ रथीनां वाजानाम्̐ सत्पतिं पतिम् ॥
VERSE: 17.62 देवहूर् यज्ञ ऽ आ च वक्षत् सुम्नहूर् यज्ञ ऽ आ च वक्षत् । यक्षद् अग्निर् देवो देवाम्̐ऽ आ च वक्षत् ॥
VERSE: 17.63 वाजस्य मा प्रसव ऽ उद्ग्राभेणोद् अग्रभीत् । अध सपत्नान् इन्द्रो मे निग्राभेणाधराम्̐ऽ अकः ॥
VERSE: 17.64 उद्ग्राभं च निग्राभं च ब्रह्म देवा ऽ अवीवृधन् । अधा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥
VERSE: 17.65 क्रमध्वम् अग्निना नाकम् उख्यम्̐ हस्तेषु बिभ्रतः । दिवस् पृष्ठम्̐ स्वर् गत्वा मिश्रा देवेभिर् आध्वम् ॥
VERSE: 17.66 प्राचीम् अनु प्रदिशं प्रेहि विद्वान् अग्नेर् अग्ने पुरो ऽ अग्निर् भवेह । विश्वा ऽ आशा दीद्यानो वि भाह्य् ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥
VERSE: 17.67 पृथिव्या ऽ अहम् उद् अन्तरिक्षम् आरुहम् अन्तरिक्षाद् दिवम् आरुहम् । दिवो नाकस्य पृष्ठात् स्वर् ज्योतिर् अगाम् अहम् ॥
VERSE: 17.68 स्वर् यन्तो नापेक्षन्त ऽ आ द्याम्̐ रोहन्ति रोदसी । यज्ञं ये विश्वतोधारम्̐ सुविद्वाम्̐सो वितेनिरे ॥
VERSE: 17.69 अग्ने प्रेहि प्रथमो देवयतां चक्षुर् देवानाम् उत मर्त्यानाम् । इयक्षमाणा भृगुभिः सजोषाः स्वर् यन्तु यजमानाः स्वस्ति ॥
VERSE: 17.70 नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकम्̐ समीची । द्यावाक्षामा रुक्मो ऽ अन्तर् वि भाति देवा ऽ अग्निं धारयन् द्रविणोदाः ॥
VERSE: 17.71 अग्ने सहस्राक्ष शतमूर्धञ् छतं ते प्राणाः सहस्रं व्यानाः । त्वम्̐ साहस्रस्य राय ऽ ईशिषे तस्मै ते विधेम वाजाय स्वाहा ॥
VERSE: 17.72 सुपर्णो ऽसि गरुत्मान् पृष्ठे पृथिव्याः सीद । भासान्तरिक्षम् आ पृण ज्योतिषा दिवम् उत् तभान तेजसा दिश ऽ उद् दृम्̐ह ॥
VERSE: 17.73 आजुह्वानः सुप्रतीकः पुरस्ताद् अग्ने योनिम् आ सीद साधुया । अस्मिन्त्सधस्थे ऽ अध्य् उत्तरस्मिन् विश्वे देवा यजमानश् च सीदत ॥
VERSE: 17.74 तम्̐ सवितुर् वरेण्यस्य चित्राम् आहं वृणे सुमतिं विश्वजन्याम् । याम् अस्य कण्वो अदुहत् प्रपीनाम्̐ सहस्रधारां पयसा महीं गाम् ॥
VERSE: 17.75 विधेम ते परमे जन्मन्न् अग्ने विधेम स्तोमैर् अवरे सधस्थे । यस्माद् योनेर् उदारिथा यजे तं प्र त्वे हवीम्̐षि जुहुरे समिद्धे ॥
VERSE: 17.76 प्रेद्धो ऽ अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ । त्वाम्̐ शश्वन्त ऽ उप यन्ति वाजाः ॥
VERSE: 17.77 अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रम्̐ हृदिस्पृशम् । ऋध्यामा त ऽ ओहैः ॥
VERSE: 17.78 चित्तिं जुहोमि मनसा घृतेन यथा देवा ऽ इहागमन् वीतिहोत्रा ऽ ऋतावृधः । पत्ये विश्वस्य भूमनो जुहोमि विश्वकर्मणे विश्वाहादाभ्यम्̐ हवि ॥
VERSE: 17.79 सप्त ते ऽ अग्ने समिधः सप्त जिह्वाः सप्त ऽ ऋषयः सप्त धाम प्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीर् आ पृणस्व घृतेन स्वाहा ॥
VERSE: 17.80 शुक्रज्योतिश् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माम्̐श् च । शुक्रश् च ऽ ऋतपाश् चात्यम्̐हाः ॥
VERSE: 17.81 ईदृङ् चान्यदृङ् च सदृङ् च प्रतिसदृङ् च । मितश् च संमितश् च सभराः ॥
VERSE: 17.82 ऋतश् च सत्यश् च ध्रुवश् च धरुणश् च । धर्ता च विधर्ता च विधारयः ॥
VERSE: 17.83 ऋतजिच् च सत्यजिच् च सेनजिच् च सुषेणश् च । अन्तिमित्रश् च दूरेऽअमित्रश् च गणः ॥
VERSE: 17.84 ईदृक्षास ऽ एतादृक्षास ऽ ऊ षु णः सदृक्षासः प्रतिसदृक्षास ऽ एतन । मितासश् च संमितासो नो ऽ अद्य सभरसो मरुतो यज्ञे ऽ अस्मिन् ॥
VERSE: 17.85 स्वतवाम्̐श् च प्रघासी च सांतपनश् च गृहमेधी च । क्रीडी च शाकी चोज्जेषी ॥
VERSE: 17.86 उग्रश् च भीमश् च ध्वान्तश् च धुनिश् च । सासह्वाम्̐श् चाभियुग्वा च विक्षिपः स्वाहा । इन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो ऽभवन् यथेन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो ऽभवन् । एवम् इमं यजमानं दैवीश् च विशो मानुषीश् चानुवर्त्मानो भवन्तु ॥
VERSE: 17.87 इमम्̐ स्तनमूर्जस्वन्तं धयापां प्रपीनम् अग्ने सरिरस्य मध्ये । उत्सं जुषस्व मधुमन्तम् अर्वन्त् समुद्रियम्̐ सदनम् आ विशस्व ॥
VERSE: 17.88 घृतं मिमिक्षे घृतम् अस्य योनिर् घृते श्रितो घृतम् व् अस्य धाम । अनुष्वधम् आ वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥
VERSE: 17.89 समुद्राद् ऊर्मिर् मधुमाम्̐ऽ उद् आरद् उपाम्̐शुना सम् अमृतत्वम् आनट् । घृतस्य नाम गुह्यं यद् अस्ति जिह्वा देवानाम् अमृतस्य नाभिः ॥
VERSE: 17.90 वयं नाम प्र ब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः । उप ब्रह्मा शृणवच् छस्यमानं चतुःशृङ्गो ऽवमीद् गौर एतत् ॥
VERSE: 17.91 चत्वारि शृङ्गा त्रयो ऽ अस्य पादा द्वे शीर्षे सप्त हस्तासो ऽ अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याम्̐ ऽ आ विवेश ॥
VERSE: 17.92 त्रिधा हितं पणिभिर् गुह्यमानं गवि देवासो घृतम् अन्व् अविन्दन् । इन्द्र ऽ एकम्̐ सूर्य ऽ एकं जजान वेनाद् एकम्̐ स्वधया निष्टतक्षुः ॥
VERSE: 17.93 एता ऽअर्षन्ति हृद्यात् समुद्राच् छतव्रजा रिपुणा नावचक्षे । घृतस्य धारा ऽ अभि चाकशीमि हिरण्ययो वेतसो मध्य ऽ आसाम् ॥
VERSE: 17.94 सम्यक् स्रवन्ति सरितो न धेना ऽ अन्तर् हृदा मनसा पूयमानाः । एते ऽ अर्षन्त्य् ऊर्मयो घृतस्य मृगा ऽइव क्षिपणोर् ईषमाणाः ॥
VERSE: 17.95 सिन्धोर् इव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः । घृतस्य धारा ऽ अरुषो न वाजी काष्ठा भिन्दन्न् ऊर्मिभिः पिन्वमानः ॥
VERSE: 17.96 अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो ऽ अग्निम् । घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥
VERSE: 17.97 कन्या ऽइव वहतुम् एतवा ऽ उ ऽ अञ्ज्य् अञ्जाना ऽ अभि चाकशीमि । यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा ऽ अभि तत् पवन्ते ॥
VERSE: 17.98 अभ्य् अर्षत सुष्टुतिं गव्यम् आजिम् अस्मासु भद्रा द्रविणानि धत्त । इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ते ॥
VERSE: 17.99 धामन् ते विश्वं भुवनम् अधि श्रितम् अन्तः समुद्रे हृद्यन्तर् आयुषि । अपाम् अनीके समिथे य ऽ आभृतस् तम् अश्याम मधुमन्तं त ऽ ऊर्मिम् ॥

अध्याय 18 वसोर्धारादि मन्त्राः
VERSE: 18.1 वाजश् च मे प्रसवश् च मे प्रयतिश् च मे प्रसितिश् च मे धीतिश् च मे क्रतुश् च मे स्वरश् च मे श्लोकश् च मे श्रवश् च मे श्रुतिश् च मे ज्योतिश् च मे स्वश् च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.2 प्राणश् च मे ऽपानश् च मे व्यानश् च मे ऽसुश् च मे चित्तं च म ऽ आधीतं च मे वाक् च मे मनश् च मे चक्षुश् च मे श्रोत्रं च मे दक्षश् च मे बलं च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.3 ओजस् च मे सहश् च म ऽ आत्मा च मे तनूश् च मे शर्म च मे वर्म च मे ऽङ्गानि च मे ऽस्थीनि च मे परूम्̐षि च मे शरीराणि च म ऽ आयुश् च मे जरा च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.4 ज्यैष्ठ्यं च मे ऽ आधिपत्यं च मे मन्युश् च मे भामश् च मे ऽमश् च मे ऽम्भश् च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्षिमा च मे द्राघिमा च मे वृद्धं च मे वृद्धिश् च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.5 सत्यं च मे श्रद्धा च मे जगच् च मे धनं च मे विश्वं च मे महश् च मे क्रीडा च मे मोदश् च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.6 ऋतं च मे ऽमृतं च मे ऽयक्ष्मं च मे ऽनामयच् च मे जीवातुश् च मे दीर्घायुत्वं च मे ऽनमित्रं च मे ऽभयं च मे सुखं च मे शयनं च मे सूषाश् च मे सुदिनं च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.7 यन्ता च मे धर्ता च मे क्षेमश् च मे धृतिश् च मे विश्वं च मे महश् च मे संविच् च मे ज्ञात्रं च मे सूश् च मे प्रसूश् च मे सीरं च मे लयश् च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.8 शं च मे मयश् च मे प्रियं च मे ऽनुकामश् च मे कामश् च मे सौमनसश् च मे भगश् च मे द्रविणं च मे भद्रं च मे श्रेयश् च मे वसीयश् च मे यशश् च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.9 ऊर्क् च मे सूनृता च मे पयश् च मे रसश् च मे घृतं च मे मधु च मे सग्धिश् च मे सपीतिश् च मे कृषिश् च मे वृष्टिश् च मे जैत्रं च म ऽ औद्भिद्यं च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.10 रयिश् च मे रायश् च मे पुष्टं च मे पुष्टिश् च मे विभु च मे प्रभु च मे पूर्णं च मे पूर्णतरं च मे कुयवं च मे ऽक्षितं च मे ऽन्नं च मे ऽक्षुच् च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.11 वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच् च मे सुगं च मे सुपथ्यं च म ऽ ऋद्धं च म ऽ ऋद्धिश् च मे क्लृप्तं च मे क्लृप्तिश् च मे मतिश् च मे सुमतिश् च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.12 व्रीहयश् च मे यवाश् च मे माषाश् च मे तिलाश् च मे मुद्गाश् च मे खल्वाश् च मे प्रियङ्गवश् च मे ऽणवश् च मे श्यामाकाश् च मे नीवाराश् च मे गोधूमाश् च मे मसूराश् च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.13 अश्मा च मे मृत्तिका च मे गिरयश् च मे पर्वताश् च मे सिकताश् च मे वनस्पतयश् च मे हिरण्यं च मे यश् च मे श्यामं च मे लोहं च मे सीसं च मे त्रपु च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.14 अग्निश् च म ऽ आपश् च मे वीरुधश् च म ऽ ओषधयश् च मे कृष्टपच्याश् च मे ऽकृष्टपच्याश् च मे ग्राम्याश् च मे पशव ऽ आरण्याश् च मे वित्तं च मे वित्तिश् च मे भूतं च मे भूतिश् च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.15 वसु च मे वसतिश् च मे कर्म च मे शक्तिश् च मे ऽर्थश् च म ऽ एमश् च म ऽ इत्या च मे गतिश् च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.16 अग्निश् च म ऽ इन्द्रश् च मे सोमश् च म ऽ इन्द्रश् च मे सविता च म इन्द्रश् च मे सरस्वती च म ऽ इन्द्रश् च मे पूषा च म ऽ इन्द्रश् च मे बृहस्पतिश् च म इन्द्रश् च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.17 मित्रश् च म ऽ इन्द्रश् च मे वरुणश् च म ऽ इन्द्रश् च मे धाता च म ऽ इन्द्रश् च मे त्वष्टा च म ऽ इन्द्रश् च मे मरुतश् च म ऽ इन्द्रश् च मे विश्वे च मे देवा ऽ इन्द्रश् च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.18 पृथिवी च म ऽ इन्द्रश् च मे ऽन्तरिक्षं च म ऽइन्द्रश् च मे द्यौश् च ऽ म इन्द्रश् च मे समाश् च म ऽ इन्द्रश् च मे नक्षत्राणि च म ऽ इन्द्रश् च मे दिशश् च म ऽ इन्द्रश् च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.19 अम्̐शुश् च मे रश्मिश् च मे ऽदाभ्यश् च मे ऽधिपतिश् च म उपाम्̐शुश् च मे ऽन्तर्यामश् च म ऽ ऐन्द्रवायवश् च मे मैत्रावरुणश् च म ऽ आश्विनश् च मे प्रतिप्रस्थानश् च मे शुक्रश् च मे मन्थी च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.20 आग्रयणश् च मे वैश्वदेवश् च मे ध्रुवश् च मे वैश्वानरश् च म ऽ ऐन्द्राग्नश् च मे महावैश्वदेवश् च मे मरुत्वतीयाश् च मे निष्केवल्यश् च मे सावित्रश् च मे सारस्वतश् च मे पत्नीवतश् च मे हारियोजनश् च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.21 स्रुचश् च मे चमसाश् च मे वायव्यानि च मे द्रोणकलशश् च मे ग्रावाणश् च मे ऽधिषवणे च मे पूतभृच् च म ऽ आधवनीयश् च मे वेदिश् च मे बर्हिश् च मे ऽवभृथश् च मे स्वगाकारश् च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.22 अग्निश् च मे घर्मश् च मे ऽर्कश् च मे सूर्यश् च मे प्राणश् च मे ऽश्वमेधश् च मे पृथिवी च मे ऽदितिश् च मे दितिश् च मे द्यौश् च मे ऽङ्गुलयः शक्वरयो दिशश् च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.23 व्रतं च म ऽ ऋतवश् च मे तपश् च मे संवत्सरश् च मे ऽहोरात्रे ऊर्वष्ठीवे बृहद्रथन्तरे च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.24 एका च मे तिस्रश् च मे तिस्रश् च मे पञ्च च मे पञ्च च मे सप्त च मे सप्त च मे नव च मे नव च म ऽ एकादश च म ऽ एकादश च मे त्रयोदश च मे त्रयोदश च मे पञ्चदश च मे पञ्चदश च मे सप्तदश च मे सप्तदश च मे नवदश च मे नवदश च म ऽ एकविम्̐शतिश् च म ऽ एकविम्̐शतिश् च मे त्रयोविम्̐शतिश् च मे त्रयोविम्̐शतिश् च मे पञ्चविम्̐शतिश् च मे पञ्चविम्̐शतिश् च मे सप्तविम्̐शतिश् च मे सप्तविम्̐शतिश् च मे नवविम्̐शतिश् च मे नवविम्̐शतिश् च म ऽ एकत्रिम्̐शच् च म ऽ एकत्रिम्̐शच् च मे त्रयस्त्रिम्̐शच् च मे त्रयस्त्रिम्̐शच् च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.25 चतस्रश् च मे ऽष्टौ च मे ऽष्टौ च मे द्वादश च मे द्वादश च मे षोडश च मे षोडश च मे विम्̐शतिश् च मे विम्̐शतिश् च मे चतुर्विम्̐शतिश् च मे चतुर्विम्̐शतिश् च मे ऽष्टाविम्̐शतिश् च मे ऽष्टाविम्̐शतिश् च मे द्वात्रिम्̐शच् च मे द्वात्रिम्̐शच् च मे षट्त्रिम्̐शच् च मे षट्त्रिम्̐शच् च मे चत्वारिम्̐शच् च मे चत्वारिम्̐शच् च मे चतुश्चत्वारिम्̐शच् च मे चतुश्चत्वारिम्̐शच् च मे ष्टाचत्वारिम्̐शच् च मे ष्टाचत्वारिम्̐शच् च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.26 त्र्यविश् च मे त्र्यवी च मे दित्यवाट् च मे दित्यौही च मे पञ्चाविश् च मे पञ्चावी च मे त्रिवत्सश् च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौही च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.27 पष्ठवाट् च मे पष्ठौही च म ऽ उक्षा च मे वशा च म ऽ ऋषभश् च मे वेहच् च मे ऽनड्वाम्̐श् च मे धेनुश् च मे यज्ञेन कल्पन्ताम् ॥
VERSE: 18.28 वाजाय स्वाहा प्रसवाय स्वाहापिजाय स्वाहा क्रतवे स्वाहा वसवे स्वाहा ऽहर्पतये स्वाहाह्ने स्वाहा मुग्धाय स्वाहा मुग्धाय वैनम्̐शिनाय स्वाहा विनम्̐शिन ऽ आन्त्यायनाय स्वाहान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाधिपतये स्वाहा प्रजापतये स्वाहा । इयं ते राण् मित्राय यन्तासि यमन ऽ ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां त्वाधिपत्याय ॥
VERSE: 18.29 आयुर् यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतां चक्षुर् यज्ञेन कल्पताम्̐ श्रोत्रं यज्ञेन कल्पतां वाग् यज्ञेन कल्पतां मनो यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पतां ब्रह्मा यज्ञेन कल्पतां ज्योतिर् यज्ञेन कल्पताम्̐ स्वर् यज्ञेन कल्पतां पृष्ठं यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम् । स्तोमश् च यजुश् च ऽ ऋक् च साम च बृहच् च रथन्तरं च । स्वर् देवा ऽ अगन्मामृता ऽ अभूम प्रजापतेः प्रजा ऽ अभूम वेट् स्वाहा ॥
VERSE: 18.30 वाजस्य नु प्रसवे मातरं महीम् अदितिं नाम वचसा करामहे । यस्याम् इदं विश्वं भुवनम् आविवेश तस्यां नो देवः सविता धर्म साविषत् ॥
VERSE: 18.31 विश्वे ऽ अद्य मरुतो विश्व ऽ ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः । विश्वे नो देवा ऽ अवसा गमन्तु विश्वम् अस्तु द्रविणं वाजो ऽ अस्मे ॥
VERSE: 18.32 वाजो नः सप्त प्रदिशश् चतस्रो वा परावतः । वाजो नो विश्वैर् देवैर् धनसाताव् इहावतु ॥
VERSE: 18.33 वाजो नो ऽ अद्य प्र सुवाति दानं वाजो देवाम्̐ऽ ऋतुभिः कल्पयाति । वाजो हि मा सर्ववीरं जजान विश्वा ऽ आशा वाजपतिर् जयेयम् ॥
VERSE: 18.34 वाजः पुरस्ताद् उत मध्यतो नो वाजो देवान् हविषा वर्धयाति । वाजो हि मा सर्ववीरं चकार सर्वा ऽ आशा वाजपतिर् भवेयम् ॥
VERSE: 18.35 सं मा सृजामि पयसा पृथिव्याः सं मा सृजाम्य् अद्भिर् ओषधीभिः । सो ऽहं वाजम्̐ सनेयम् अग्ने ॥
VERSE: 18.36 पयः पृथिव्यां पय ऽ ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः । पयस्वतीः प्रदिशः सन्तु मह्यम् ॥
VERSE: 18.37 देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । सरस्वत्यै वाचो यन्तुर् यन्त्रेणाग्नेः साम्राज्येनाभि षिञ्चामि ॥
VERSE: 18.38 ऋताषाड् ऋतधामाग्निर् गन्धर्वस् तस्यौऽषधयो प्सरसो मुदो नाम । स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥
VERSE: 18.39 सम्̐हितो विश्वसामा सूर्यो गन्धर्वस् तस्य मरीचयो ऽप्सरस आयुवो नाम । स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥
VERSE: 18.40 सुषुम्णः सूर्यरश्मिश् चन्द्रमा गन्धर्वस् तस्य नक्षत्राण्य् अप्सरसो भेकुरयो नाम । स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥
VERSE: 18.41 इषिरो विश्वव्यचा वातो गन्धर्वस् तस्यापो ऽ अप्सरस ऽ ऊर्जो नाम । स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥
VERSE: 18.42 भुज्युः सुपर्णो यज्ञो गन्धर्वस् तस्य दक्षिणा ऽ अप्सरस स्तावा नाम । स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥
VERSE: 18.43 प्रजापतिर् विश्वकर्मा मनो गन्धर्वस् तस्य ऽ ऋक्सामान्य् अप्सरस ऽ एष्टयो नाम । स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥
VERSE: 18.44 स नो भुवनस्य पते प्रजापते यस्य त ऽ उपरि गृहा यस्य वेह । अस्मै ब्रह्मणे ऽस्मै क्षत्राय महि शर्म यच्छ स्वाहा ॥
VERSE: 18.45 समुद्रो ऽसि नभस्वान् आर्द्रदानुः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा । मारुतो ऽसि मरुतां गणः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा । अवस्यूर् असि दुवस्वाञ् छम्भूर् मयोभूर् अभि मा वाहि स्वाहा ॥
VERSE: 18.46 यास् ते ऽ अग्ने सूर्ये रुचो दिवम् आतन्वन्ति रश्मिभिः । ताभिर् नो ऽ अद्य सर्वाभी रुचे जनाय नस् कृधि ॥
VERSE: 18.47 या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः । इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥
VERSE: 18.48 रुचं नो धेहि ब्राह्मणेषु रुचम्̐ राजसु नस् कृधि । रुचं विश्येषु शूद्रेषु मयि धेहि रुचा रुचम् ॥
VERSE: 18.49 तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्य् उरुशम्̐स मा न ऽ आयुः प्र मोषीः ॥
VERSE: 18.50 स्वर् ण घर्मः स्वाहा । स्वर् णार्कः स्वाहा । स्वर् ण शुक्रः स्वाहा । स्वर् ण ज्योतिः स्वाहा । स्वर् ण सूर्यः स्वाहा ॥
VERSE: 18.51 अग्निं युनज्मि शवसा घृतेन दिव्यम्̐ सुपर्णं वयसा बृहन्तम् । तेन वयं गमेम ब्रध्नस्य विष्टपम्̐ स्वो रुहाणा ऽ अधि नाकम् उत्तमम् ॥
VERSE: 18.52 इमौ ते पक्षाव् अजरौ पतत्रिणौ याभ्याम्̐ रक्षाम्̐स्य् अपहम्̐स्य् अग्ने । ताभ्यां पतेम सुकृताम् उ लोकं यत्र ऽ ऋषयो जग्मुः प्रथमजाः पुराणाः ॥
VERSE: 18.53 इन्दुर् दक्षः श्येन ऽ ऋतावा हिरण्यपक्षः शकुनो भुरण्युः । महान्त् सधस्थे ध्रुव ऽ आ निषत्तो नमस् ते अस्तु मा मा हिम्̐सीः ॥
VERSE: 18.54 दिवो मूर्धासि पृथिव्या नाभिर् ऊर्ग् अपाम् ओषधीनाम् । विश्वायुः शर्म सप्रथा नमस् पथे ॥
VERSE: 18.55 विश्वस्य मूर्धन्न् अधि तिष्ठसि श्रितः समुद्रे ते हृदयम् अप्स्व् आयुर् अपो दत्तोदधिं भिन्त्त । दिवस् पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्याव ॥
VERSE: 18.56 इष्टो यज्ञो भृगुभिर् आशीर्दा वसुभिः । तस्य न ऽ इष्टस्य प्रीतस्य द्रविणेहागमेः ॥
VERSE: 18.57 इष्टो ऽ अग्निर् आहुतः पिपर्तु न ऽ इष्टम्̐ हविः । स्वगेदं देवेभ्यो नमः ॥
VERSE: 18.58 यद् आकूतात् समसुस्रोद् हृदो वा मनसो वा सम्भृतं चक्षुषो वा । तद् अनु प्रेत सुकृताम् उ लोकं यत्र ऽ ऋषयो जग्मुः प्रथमजाः पुराणाः ॥
VERSE: 18.59 एतम्̐ सधस्थ परि ते ददामि यम् आवहाच् शेवधिं जातवेदाः । अन्वागन्ता यज्ञपतिर् वो ऽ अत्र तम्̐ स्म जानीत परमे व्योमन् ॥
VERSE: 18.60 एतं जानाथ परमे व्योमन् देवाः सधस्था विद रूपम् अस्य । यद् आगच्छात् पथिभिर् देवयानैर् इष्टापूर्ते कृणवाथाविर् अस्मै ॥
VERSE: 18.61 उद् बुध्यस्वाग्ने प्रति जागृहि त्वम् इष्टापूर्ते सम्̐ सृजेथाम् अयं च । अस्मिन्त् सधस्थे ऽ अध्य् उत्तरस्मिन् विश्वे देवा यजमानाश् च सीदत ॥
VERSE: 18.62 येन वहसि सहस्रं येनाग्ने सर्ववेदसम् । तेनेमं यज्ञं नो नय स्वर् देवेषु गन्तवे ॥
VERSE: 18. 63 प्रस्तरेण परिधिना स्रुचा वेद्या च बर्हिषा । ऋचेमं यज्ञं नो नय स्वर् देवेषु गन्तवे ॥
VERSE: 18.64 यद् दत्तं यत् परादानं यत् पूर्तं याश् च दक्षिणाः । तद् अग्निर् वैश्वकर्मणः स्वर् देवेषु नो दधत् ॥
VERSE: 18.65 यत्र धारा ऽ अनपेता मधोर् घृतस्य च याः । तद् अग्निर् वैश्वकर्मणः स्वर् देवेषु नो दधत् ॥
VERSE: 18.66 अग्निर् अस्मि जन्मना जातवेदा घृतं मे चक्षुर् अमृतं म ऽ आसन् । अर्कस् त्रिधातू रजसो विमानो ऽजस्रो घर्मो हविर् अस्मि नाम ॥
VERSE: 18.67 ऋचो नामास्मि यजूम्̐षि नामास्मि सामानि नामास्मि । ये ऽ अग्नयः प्राञ्चजन्या ऽ अस्यां पृथिव्याम् अधि । तेषाम् असि त्वम् उत्तमः प्र नो जीवतवे सुव ॥
VERSE: 18.68 वार्त्रहत्याय शवसे पृतनाषाह्याय च । इन्द्र त्वा वर्तयामसि ॥
VERSE: 18.69 सहदानुं पुरुहूत क्षियन्तम् अहस्तम् इन्द्र सं पिणक् कुणारुम् । अभि वृत्रं वर्धमानं पियारुम् अपादम् इन्द्र तवसा जघन्थ ॥
VERSE: 18.70 वि न ऽ इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो ऽ अस्माम्̐ऽ अभिदासत्य् अधरं गमया तमः ॥
VERSE: 18.71 मृगो न भीमः कुचरो गिरिष्ठाः परावत ऽ आ जगन्था परस्याः । सृकम्̐ सम्̐शाय पविम् इन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥
VERSE: 18.72 वैश्वानरो न ऽ ऊतय ऽ आ प्र यातु परावतः । अग्निर् नः सुष्टुतीर् उप ॥
VERSE: 18.73 पृष्टो दिवि पृष्टो ऽ अग्निः पृथिव्यां पृष्टो विश्वा ऽ ओषधीर् आ विवेश । वैश्वानरः सहसा पृष्टो ऽ अग्निः स नो दिवा स रिषस् पातु नक्तम् ॥
VERSE: 18.74 अश्याम तं कामम् अग्ने तवोती ऽ अश्याम रयिम्̐ रयिवः सुवीरम् । अश्याम वाजम् अभि वाजयन्तो ऽश्याम द्युम्नम् अजराजरं ते ॥
VERSE: 18.75 वयं ते ऽ अद्य ररिमा हि कामम् उत्तानहस्ता नमसोपसद्य । यजिष्ठेन मनसा यक्षि देवान् अस्रेधता मन्मना विप्रो ऽ अग्ने ॥
VERSE: 18.76 धामच्छद् अग्निर् इन्द्रो ब्रह्मा देवो बृहस्पतिः । सचेतसो विश्वे देवा यज्ञं प्रावन्तु नः शुभे ॥
VERSE: 18.77 त्वं यविष्ठ दाशुषो नॄँः पाहि शृणुधी गिरः । रक्षा तोकम् उत त्मना ॥

अध्याय 19 सौत्रामणी। सुरादीन्द्राभिषेकान्ता मन्त्राः
VERSE: 19.1 स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताम् अमृतेन । मधुमतीं मधुमता सृजामि सम्̐ सोमेन । सोमो सि । अश्विभ्यां पच्यस्व । सरस्वत्यै पच्यस्व । इन्द्राय सुत्राम्णे पच्यस्व ॥
VERSE: 19.2 परीतो षिञ्चता सुतम्̐ सोमो य ऽ उत्तमम्̐ हविः । दधन्वान् यो नर्यो अप्स्व् अन्तर् आ सुषाव सोमम् अद्रिभिः ॥
VERSE: 19.3 वायोः पूतः पवित्रेण प्रत्यङ्क् सोमो ऽ अतिद्रुतः । इन्द्रस्य युज्यः सखा । वायोः पूतः पवित्रेण प्राङ् सोमो ऽ अतिद्रुतः । इन्द्रस्य युज्यः सखा ॥
VERSE: 19.4 पुनाति ते परिस्रुतम्̐ सोमम्̐ सूर्यस्य दुहिता । वारेण शश्वता तना ॥
VERSE: 19.5 ब्रह्म क्षत्रं पवते तेज ऽ इन्द्रियम्̐ सुरया सोमः सुत ऽ आसुतो मदाय । शुक्रेण देव देवताः पिपृग्धि रसेनान्नं यजमानाय धेहि ॥
VERSE: 19.6 कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति । उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे । ऽ एष ते योनिस् तेजसे त्वा वीर्याय त्वा बलाय त्वा ॥
VERSE: 19.7 नाना हि वां देवहितम्̐ सदस् कृतं मा सम्̐ सृक्षाथां परमे व्योमन् । सुरा त्वम् असि शुष्मिणी सोम ऽ एष मा मा हिम्̐सीः स्वां योनिम् आविशन्ती ॥
VERSE: 19.8 उपयामगृहीतो ऽस्य् आश्विनं तेजः सारस्वतं वीर्यम् ऐन्द्रं बलम् । एष ते योनिर् मोदाय त्वानन्दाय त्वा महसे त्वा ॥
VERSE: 19.9 तेजो ऽसि तेजो मयि धेहि । वीर्यम् असि वीर्यं मयि धेहि । बलम् असि बलं मयि धेहि । ओजो ऽस्य् ओजो मयि धेहि । मन्युर् असि मन्युं मयि धेहि । सहो ऽसि सहो मयि धेहि ॥
VERSE: 19.10 या व्याघ्रं विषूचिकोभौ वृकं च रक्षति । श्येनं पतत्रिणम्̐ सिम्̐हम्̐ सेमं पात्व् अम्̐हसः ॥
VERSE: 19.11 यद् आपिपेष मातरं पुत्रः प्रमुदितो धयन् । एतत् तद् अग्ने ऽ अनृणो भवाम्य् अहतौ पितरौ मया । सम्पृच स्थ सं मा भद्रेण पृङ्क्त । विपृच स्थ वि मा पाप्मना पृङ्क्त ॥
VERSE: 19.12 देवा यज्ञम् अतन्वत भेषजं भिषजाश्विना । वाचा सरस्वती भिषग् इन्द्रायेन्द्रियाणि दधतः ॥
VERSE: 19.13 दीक्षायै रूपम्̐ शष्पाणि प्रायणीयस्य तोक्मानि । क्रयस्य रूपम्̐ सोमस्य लाजाः सोमाम्̐शवो मधु ॥
VERSE: 19.14 आतिथ्यरूपं मासरं महावीरस्य नग्नहुः । रूपम् उपसदाम् एतत् तिस्रो रात्रीः सुरासुता ॥
VERSE: 19.15 सोमस्य रूप क्रीतस्य परिस्रुत् परि षिच्यते । अश्विभ्यां दुग्धं भेषजम् इन्द्रायैन्द्रम्̐ सरस्वत्या ॥
VERSE: 19.16 आसन्दी रूपम्̐ राजासन्द्यै वेद्यै कुम्भी सुराधानी । अन्तर ऽ उत्तरवेद्या रूपं कारोतरो भिषक् ॥
VERSE: 19.17 वेद्या वेदिः सम् आप्यते बर्हिषा बर्हिर् इन्द्रियम् । यूपेन यूप ऽ आप्यते प्रणीतो ऽ अग्निर् अग्निना ॥
VERSE: 19.18 हविर्धानं यद् अश्विनाग्नीध्रं यत् सरस्वती । इन्द्रायैन्द्रम्̐ सदस् कृतं पत्नीशालं गार्हपत्यः ॥
VERSE: 19.19 प्रैषेभिः प्रैषान् आप्नोत्य् आप्रीभिर् आप्रीर् यज्ञस्य । प्रयाजेभिर् अनुयाजान् वषट्कारेभिर् आहुतीः ॥
VERSE: 19.20 पशुभिः पशून् आप्नोति पुरोडाशैर् हवीम्̐ष्य् आ । छन्दोभिः सामिधेनीर् याज्याभिर् वषट्कारान् ॥
VERSE: 19.21 धानाः करम्भः सक्तवः परीवापः पयो दधि । सोमस्य रूपम्̐ हविष आमिक्षा वाजिनं मधु ॥
VERSE: 19.22 धानानाम्̐ रूपं कुवलं परीवापस्य गोधूमाः । सक्तूनाम्̐ रूपं बदरम् उपवाकाः करम्भस्य ॥
VERSE: 19.23 पयसो रूपं यद् यवा दध्नो रूपं कर्कन्धूनि । सोमस्य रूपं वाजिनम्̐ सौम्यस्य रूपम् आमिक्षा ॥
VERSE: 19.24 आ श्रावयेति स्तोत्रियाः प्रत्याश्रावो ऽ अनुरूपः । यजेति धाय्यारूपं प्रगाथा येयजामहाः ॥
VERSE: 19.25 अर्धऽऋचैर् उक्थानाम्̐ रूपं पदैर् आप्नोति निविदः । प्रणवैः शस्त्राणाम्̐ रूपं पयसा सोम आप्यते ॥
VERSE: 19.26 अश्विभ्यां प्रातःसवनम् इन्द्रेणैन्द्रं माध्यन्दिनम् । वैश्वदेवम्̐ सरस्वत्या तृतीयम् आप्तम्̐ सवनम् ॥
VERSE: 19.27 वायव्यैर् वायव्यान् आप्नोति सतेन द्रोणकलशम् । कुम्भीभ्याम् अम्भृणौ सुते स्थालीभि स्थालीर् आप्नोति ॥
VERSE: 19.28 यजुर्भिर् आप्यन्ते ग्रहा ग्रहै स्तोमाश् च विष्टुतीः । छन्दोभिर् उक्थाशस्त्राणि साम्नावभृथऽआप्यते ॥
VERSE: 19.29 इडाभिर् भक्षान् आप्नोति सूक्तवाकेनाशिषः । शंयुना पत्नीसंयाजान्त् समिष्टयजुषा सम्̐स्थाम् ॥
VERSE: 19.30 व्रतेन दीक्षाम् आप्नोति दीक्षयाप्नोति दक्षिणाम् । दक्षिणा श्रद्धाम् आप्नोति श्रद्धया सत्यम् आप्यते ॥
VERSE: 19.31 एतावद् रूपं यज्ञस्य यद् देवैर् ब्रह्मणा कृतम् । तद् एतत् सर्वम् आप्नोति यज्ञे सौत्रामणी सुते ॥
VERSE: 19.32 सुरावन्तं बर्हिषदम्̐ सुवीरं यज्ञम्̐ हिन्वन्ति महिषा नमोभिः । दधानाः सोमं दिवि देवतासु मदेमेन्द्रं यजमानाः स्वर्काः ॥
VERSE: 19.33 यस् ते रसः सम्भृत ऽ ओषधीषु सोमस्य शुष्मः सुरया सुतस्य । तेन जिन्व यजमानं मदेन सरस्वतीम् अश्विनाव् इन्द्रम् अग्निम् ॥
VERSE: 19.34 यम् अश्विना नमुचेर् आसुराद् अधि सरस्वत्य् असुनोद् इन्द्रियाय । इमं तम्̐ शुक्रं मधुमन्तम् इन्दुम्̐ सोमम्̐ राजानम् इह भक्षयामि ॥
{K21,1,34}
VERSE: 19.35 यद् अत्र रिप्तम्̐ रसिनः सुतस्य यद् इन्द्रो ऽ अपिबच्छचीभिः । अहं तद् अस्य मनसा शिवेन सोमम्̐ राजानम् इह भक्षयामि ॥
VERSE: 19.36 पितृभ्यः स्वधायिभ्यः स्वधा नमः । पितामहेभ्यः स्वधायिभ्यः स्वधा नमः । प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः । अक्षन् पितरः । ऽअमीमदन्त पितरः । ऽअतीतृपन्त पितरः । पितरः शुन्धध्वम् ॥
VERSE: 19.37 पुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः । पुनन्तु प्रपितामहाः पवित्रेण शतायुषा । पुनन्तु मा पितामहाः सोम्यासः पुनन्तु प्रपितामहाः । पवित्रेण शतायुषा विश्वम् आयुर् व्यश्नवै ॥
VERSE: 19.38 अग्न ऽ आयूम्̐षि पवस ऽ आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम् ॥
VERSE: 19.39 पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ॥
VERSE: 19.40 पवित्रेण पुनीहि मा शुक्रेण देव दीद्यत् । अग्ने क्रत्वा क्रतूँ२ऽर् अनु ॥
VERSE: 19.41 यत् ते पवित्रम् अर्चिष्य् अग्ने विततम् अन्तरा । ब्रह्म तेन पुनातु मा ॥
VERSE: 19.42 पवमानः सो ऽ अद्य नः पवित्रेण विचर्षणिः । यः पोता स पुनातु मा ॥
VERSE: 19.43 उभाभ्यां देव सवितः पवित्रेण सवेन च । मां पुनीहि विश्वतः ॥
VERSE: 19.44 वैश्वदेवी पुनती देव्य् आगाद् यस्याम् इमा बह्व्यस् तन्वो वीतपृष्ठाः । तया मदन्तः सधमादेषु वयम्̐ स्याम पतयो रयीणाम् ॥
VERSE: 19.45 ये समानाः समनसः पितरो यमराज्ये । तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् ॥
VERSE: 19.46 ये समानाः समनसो जीवा जीवेषु मामकाः । तेषाम्̐ श्रीर् मयि कल्पताम् अस्मिँल्लोके शतम्̐ समाः ॥
VERSE: 19.47 द्वे सृती ऽ अशृणवं पितॄणाम् अहं देवानाम् उत मर्त्यानाम् । ताभ्याम् इदं विश्वम् एजत् सम् एति यद् अन्तरा पितरं मातरं च ॥
VERSE: 19.48 इदम्̐ हविः प्रजननं मे ऽ अस्तु दशवीरम्̐ सर्वगणम्̐ स्वस्तये । आत्मसनि प्रजासनि पशुसनि लोकसन्य् अभयसनि । अग्निः प्रजां बहुलां मे करोत्व् अन्नं पयो रेतो ऽ अस्मासु धत्त ॥
VERSE: 19.49 उद् ईरताम् ऽ अवर उत् परास ऽ उन् मध्यमाः पितरः सोम्यासः । असुं य ऽ ईयुर् अवृका ऽ ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु ॥
VERSE: 19.50 अङ्गिरसो नः पितरो नवग्वा ऽ अथर्वाणो भृगवः सोम्यासः । तेषां वयम्̐ सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम ॥
VERSE: 19.51 ये नः पूर्वे पितरः सोम्यासो ऽनूहिरे सोमपीथं वसिष्ठाः । तेभिर् यमः सम्̐रराणो हवीम्̐ष्य् उशन्न् उशद्भिः प्रतिकामम् अत्तु ॥
VERSE: 19.52 त्वम्̐ सोम प्र चिकितो मनीषा त्वम्̐ रजिष्ठम् अनु नेषि पन्थाम् । तव प्रणीती पितरो न ऽ इन्दो देवेषु रत्नम् अभजन्त धीराः ॥
VERSE: 19.53 त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः । वन्वन्न् अवातः परिधीँ२ऽर् अपोर्णु वीरेभिर् अश्वैर् मघवा भवा नः ॥
VERSE: 19.54 त्वम्̐ सोम पितृभिः संविदानो ऽनु द्यावापृथिवी ऽ आ ततन्थ । तस्मै त ऽ इन्दो हविषा विधेम वयम्̐ स्याम पतयो रयीणाम् ॥
VERSE: 19.55 बर्हिषदः पितर ऽ ऊत्य् अर्वाग् इमा वो हव्या चकृमा जुषध्वम् । त ऽ आ गतावसा शंतमेनाथा नः शं योर् अरपो दधात ॥
VERSE: 19.56 आहं पितॄन् सुविदत्राम्̐२ऽ अवित्सि नपातं च विक्रमणं च विष्णोः । बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त ऽ इहागमिष्ठाः ॥
VERSE: 19.57 उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । त ऽ आ गमन्तु त ऽ इह श्रुवन्त्व् अधि ब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥
VERSE: 19.58 आ यन्तु नः पितरः सोम्यासो ग्निष्वात्ताः पथिभिर् देवयानैः । अस्मिन् यज्ञे स्वधया मदन्तो ऽधि ब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥
VERSE: 19.59 अग्निष्वात्ताः पितर ऽ एह गच्छत सदः-सदः सदत सुप्रणीतयः । अत्ता हवीम्̐षि प्रयतानि बर्हिष्य् अथा रयिम्̐ सर्ववीरं दधातन ॥
VERSE: 19.60 ये ऽ अग्निष्वात्ता ये ऽ अनग्निष्वात्ता मध्ये दिवः स्वधया मादयन्ते । तेभ्यः स्वराड् असुनीतिम् एतां यथावशं तन्वं कल्पयाति ॥
VERSE: 19.61 अग्निष्वात्ताम्̐ ऋतुमतो हवामहे नाराशम्̐से सोमपीथं य ऽ आशुः । ते नो विप्रासः सुहवा भवन्तु वयम्̐ स्याम पतयो रयीणाम् ॥
VERSE: 19.62 आच्या जानु दक्षिणतो निषद्येमं यज्ञम् अभि गृणीत विश्वे । मा हिम्̐सिष्ट पितरः केन चिन् नो यद्व ऽ आगः पुरुषता कराम ॥
VERSE: 19.63 आसीनासो ऽ अरुणीनाम् उपस्थे रयिं धत्त दाशुषे मर्त्याय । पुत्रेभ्यः पितरस् तस्य वस्वः प्र यच्छत त ऽ इहोर्जं दधात ॥
VERSE: 19.64 यम् अग्ने कव्यवाहन त्वं चिन् मन्यसे रयिम् । तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ॥
{K21,1,64}
VERSE: 19.65 यो ऽ अग्निः कव्यवाहनः पितॄन् यक्षद् ऋतावृधः । प्रेद् उ हव्यानि वोचति देवेभ्यश् च पितृभ्य ऽ आ ॥
VERSE: 19.66 त्वम् अग्न ऽ ईडितः कव्यवाहनावाड् हव्यानि सुरभीणि कृत्वी । प्रादाः पितृभ्यः स्वधया ते ऽ अक्षन्न् अद्धि त्वं देव प्रयता हवीम्̐षि ॥
VERSE: 19.67 ये चेह पितरो ये च नेह याम्̐श् च विद्म याम्̐२ऽ उ च न प्रविद्म । त्वं वेत्थ यति ते जातवेदः स्वधाभिर् यज्ञम्̐ सुकृतं जुषस्व ॥
VERSE: 19.68 इदं पितृभ्यो नमो ऽ अस्त्व् अद्य ये पूर्वासो य ऽ उपरास ईयुः । ये पार्थिवे रजस्य् आ निषत्ता ये वा नूनम्̐ सुवृजनासु विक्षु ॥
VERSE: 19.69 अधा यथा नः पितरः परासः प्रत्नासो ऽ अग्न ऽ ऋतम् आशुषाणाः । शुचीदयन् दीधितिम् उक्थशासः क्षामा भिन्दन्तो ऽ अरुणीर् अप व्रन् ॥
VERSE: 19.70 उशन्तस् त्वा नि धीमह्य् उशन्तः सम् इधीमहि । उशन्न् उशत ऽ आ वह पितॄन् हविषे ऽ अत्तवे ॥
VERSE: 19.71 अपां फेनेन नमुचेः शिर ऽ इन्द्रोद् अवर्तयः । विश्वा यद् अजय स्पृधः ॥
VERSE: 19.72 सोमो राजामृतम्̐ सुत ऽ ऋजीषेणाजहान् मृत्युम् । ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
VERSE: 19.73 अद्भ्यः क्षीरं व्यपिबत् क्रुङ्ङ् आङ्गिरसो धिया । ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
VERSE: 19.74 सोमम् अद्भ्यो व्यपिबच् छन्दसा हम्̐सः शुचिषत् । ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
VERSE: 19.75 अन्नात् परिस्रुतो रसं ब्रह्मणा व्यपिबत् क्षत्रं पयः सोमं प्रजापतिः । ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
VERSE: 19.76 रेतो मूत्रं वि जहाति योनिं प्रविशद् इन्द्रियम् । गर्भो जरायुणावृत ऽ उल्वं जहाति जन्मना । ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
VERSE: 19.77 दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः । अश्रद्धाम् अनृते ऽदधाच् छ्रद्धाम्̐ सत्ये प्रजापतिः । ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
VERSE: 19.78 वेदेन रूपे व्यपिबत् सुतासुतौ प्रजापतिः । ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
VERSE: 19.79 दृष्ट्वा परिस्रुतो रसम्̐ शुक्रेण शुक्रं व्यपिबत् । पयः सोमं प्रजापतिः । ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥
VERSE: 19.80 सीसेन तन्त्रं मनसा मनीषिण ऽ ऊर्णासूत्रेण कवयो वयन्ति । अश्विना यज्ञम्̐ सविता सरस्वतीन्द्रस्य रूपं वरुणो भिषज्यन् ॥
VERSE: 19.81 तद् अस्य रूपम् अमृतम्̐ शचीभिस् तिस्रो दधुर् देवताः सम्̐रराणाः । लोमानि शष्पैर् बहुधा न तोक्मभिस् त्वग् अस्य माम्̐सम् अभवन् न लाजाः ॥
VERSE: 19.82 तद् अश्विना भिषजा रुद्रवर्तनी सरस्वती वयति पेशो ऽ अन्तरम् । अस्थि मज्जानं मासरैः कारोतरेण दधतो गवां त्वचि ॥
VERSE: 19.83 सरस्वती मनसा पेशलं वसु नासत्याभ्यां वयति दर्शतं वपुः । रसं परिस्रुता न रोहितं नग्नहुर् धीरस् तसरं न वेम ॥
VERSE: 19.84 पयसा शुक्रम् अमृतं जनित्रम्̐ सुरया मूत्राज् जनयन्त रेतः । अपामतिं दुर्मतिं बाधमाना ऽ ऊवध्यं वातम्̐ सब्वं तद् आरात् ॥
VERSE: 19.85 इन्द्रः सुत्रामा हृदयेण सत्यं पुरोडाशेन सविता जजान । यकृत् क्लोमानं वरुणो भिषज्यन् मतस्ने वायव्यैर् न मिनाति पित्तम् ॥
VERSE: 19.86 आन्त्राणि स्थालीर् मधु पिन्वमाना गुदाः पात्राणि सुदुघा न धेनुः । श्येनस्य पत्रं न प्लीहा शचीभिर् आसन्दी नाभिर् उदरं न माता ॥
VERSE: 19.87 कुम्भो वनिष्ठुर् जनिता शचीभिर् यस्मिन्न् अग्रे योन्यां गर्भो ऽ अन्तः । प्लाशिर् व्यक्तः शतधार ऽ उत्सो दुहे न कुम्भी स्वधां पितृभ्यः ॥
VERSE: 19.88 मुखम्̐ सद् अस्य शिर ऽ इत् सतेन जिह्वा पवित्रम् अश्विनासन्त् सरस्वती । चप्यं न पायुर् भिषग् अस्य वालो वस्तिर् न शेपो हरसा तरस्वी ॥
VERSE: 19.89 अश्विभ्यां चक्षुर् अमृतं ग्रहाभ्यां छागेन तेजो हविषा शृतेन । पक्ष्माणि गोधूमैः कुवलैर् उतानि पेशो न शुक्रम् असितं वसाते ॥
VERSE: 19.90 अविर् न मेषो नसि वीर्याय प्राणस्य पन्था ऽ अमृतो ग्रहाभ्याम् । सरस्वत्य् उपवाकैर् व्यानं नस्यानि बर्हिर् बदरैर् जजान ॥
VERSE: 19.91 इन्द्रस्य रूपं वृषभो बलाय कर्णाभ्याम्̐ श्रोत्रम् अमृतं ग्रहाभ्यां । यवा न बर्हिर् भ्रुवि केसराणि कर्कन्धु जज्ञे मधु सारघं मुखात् ॥
VERSE: 19.92 आत्मन्न् उपस्थे न वृकस्य लोम मुखे श्मश्रूणि न व्याघ्रलोम । केशा न शीर्षन् यशसे श्रियै शिखा सिम्̐हस्य लोम त्विषिर् इन्द्रियाणि ॥
VERSE: 19.93 अङ्गान्य् आत्मन् भिषजा तद् अश्विनात्मानम् अङ्गैः सम् अधात् सरस्वती । इन्द्रस्य रूपम्̐ शतमानम् आयुश् चन्द्रेण ज्योतिर् अमृतं दधानाः ॥
VERSE: 19.94 सरस्वती योन्यां गर्भम् अन्तर् अश्विभ्यां पत्नी सुकृतं बिभर्ति । अपाम्̐ रसेन वरुणो न साम्नेन्द्रम्̐ श्रियै जनयन्न् अप्सु राजा ॥
VERSE: 19.95 तेजः पशूनाम्̐ हविर् इन्द्रियावत् परिस्रुता पयसा सारघं मधु । अश्विभ्यां दुग्धं भिषजा सरस्वत्या सुतासुताभ्याम् अमृतः सोम ऽ इन्दुः ॥

अध्याय 20 सौत्रामणी यागे सेकाद्यासन्दीहौत्रान्ता मन्त्राः
VERSE: 20.1 क्षत्रस्य योनिर् असि क्षत्रस्य नाभिर् असि । मा त्वा हिम्̐सीन् मा मा हिम्̐सीः ॥
VERSE: 20.2 नि षसाद घृतव्रतो वरुणः पस्त्यास्व् आ । साम्राज्याय सुक्रतुः । मृत्योः पाहि । विद्योत् पाहि ॥
VERSE: 20.3 देवस्य त्वा सवितुः प्रसवे श्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । अश्विनोर् भैषज्येन तेजसे ब्रह्मवर्चसायाभि षिञ्चामि । सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभि षिञ्चामि । इन्द्रस्येन्द्रियेण बलाय श्रियै यशसेऽभि षिञ्चामि ॥
VERSE: 20.4 को ऽसि कतमो ऽसि कस्मै त्वा काय त्वा । सुश्लोक सुमङ्गल सत्यराजन् ॥
VERSE: 20.5 शिरो मे श्रीर् यशो मुखं त्विषिः केशाश् च श्मश्रूणि । राजा मे प्राणो ऽ अमृतम्̐ सम्राट् चक्षुर् विराट् श्रोत्रम् ॥
VERSE: 20.6 जिह्वा मे भद्रं वाङ् महो मनो मन्युः स्वराड् भामः । मोदाः प्रमोदा ऽ अङ्गुलीर् अङ्गानि मित्रं मे सहः ॥
VERSE: 20.7 बाहू मे बलम् इन्द्रियम्̐ हस्तौ मे कर्म वीर्यम् । आत्मा क्षत्रम् उरो मम ॥
VERSE: 20.8 पृष्टीर् मे राष्ट्रम् उदरम् अम्̐सौ ग्रीवाश् च श्रोणी । ऊरू ऽ अरत्नी जानुनी विशो मे ऽङ्गानि सर्वतः ॥
VERSE: 20.9 नाभिर् मे चित्तं विज्ञानं पायुर् मे ऽपचितिर् भसत् । आनन्दनन्दाव् आण्डौ मे भगः सौभाग्यं पसः । जङ्घाभ्यां पाद्भ्यां धर्मो ऽस्मि विशि राजा प्रतिष्ठितः ॥
VERSE: 20.10 प्रति क्षत्रे प्रति तिष्ठामि राष्ट्रे प्रत्य् अश्वेषु प्रति तिष्ठामि गोषु । प्रत्य् अङ्गेषु प्रति तिष्ठाम्य् आत्मन् प्रति प्राणेषु क्षत्रे प्रति तिष्ठामि पुष्टे प्रति द्यावापृथिव्योः प्रति तिष्ठामि ॥
VERSE: 20.11 त्रया देवा ऽ एकादश त्रयस्त्रिम्̐शाः सुराधसः । बृहस्पतिपुरोहिता देवस्य सवितुः सवे । देवा देवैर् अवन्तु मा ॥
VERSE: 20.12 प्रथमा द्वितीयैर् द्वितीयास् तृतीयैस् तृतीयाः सत्येन सत्यं यज्ञेन यज्ञो यजुर्भिर् यजूम्̐षि सामभिः सामान्य् ऋग्भिर् ऋचः पुरोनुऽवाक्याभिः पुरोऽनुवाक्या याज्याभिर् याज्या वषट्कारैर् वषट्कारा ऽ आहुतिभिर् आहुतयो मे कामान्त् सम् अर्धयन्तु भूः स्वाहा ॥
VERSE: 20.13 लोमानि प्रयतिर् मम त्वङ् म ऽ आनतिर् आगतिः । माम्̐सं म ऽ उपनतिर् वस्व् अस्थि मज्जा म ऽ आनतिः ॥
VERSE: 20.14 यद् देवा देवहेडनं देवासश् चकृमा वयम् । अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अम्̐हसः ॥
VERSE: 20.15 यदि दिवा यदि नक्तम् एनाम्̐सि चकृमा वयम् । वायुर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अम्̐हसः ॥
VERSE: 20.16 यदि जाग्रद् यदि स्वप्न ऽ एनाम्̐सि चकृमा वयम् । सूर्यो मा तस्माद् एनसो विश्वान् मुञ्चत्व् अम्̐हसः ॥
VERSE: 20.17 यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये । यच्छूद्रे यद् अर्ये यद् एनश् चकृमा वयं यद् एकस्याधि धर्मणि तस्यावयजनम् असि ॥
VERSE: 20.18 यद् आपो ऽ अघ्न्या ऽ इति वरुणेति शपामहे ततो वरुण नो मुञ्च । अवभृथ निचुम्पुण निचेरुर् असि निचुम्पुणः । अव देवैर् देवकृतम् एनो ऽयक्ष्य् अव मर्त्यैर् मर्त्यकृतम् । पुरुराव्णो देव रिषस् पाहि ॥
VERSE: 20.19 समुद्रे ते हृदयम् अप्स्व् अन्तः सं त्वा विशन्त्व् ओषधीर् उतापः । सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
VERSE: 20.20 द्रुपदाद् इव मुमुचानः स्विन्नः स्नातो मलाद् इव । पूतं पवित्रेणेवाज्यम् आपः शुन्धन्तु मैनसः ॥
VERSE: 20.21 उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् । देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥
VERSE: 20.22 अपो ऽ अद्यान्व् अचारिषम्̐ रसेन सम् असृक्ष्महि । पयस्वान् अग्न ऽ आगमं तं मा सम्̐ सृज वर्चसा प्रजया च धनेन च ॥
VERSE: 20.23 एधोऽस्य् एधिषीमहि । समिद् असि तेजो ऽसि तेजो मयि धेहि । समाववर्ति पृथिवी सम् उषाः सम् उ सूर्यः । सम् उ विश्वम् इदं जगत् । वैश्वानरज्योतिर् भूयासं विभून् कामान् व्यश्नवै भूः स्वाहा ॥
VERSE: 20.24 अभ्यादधामि समिधम् अग्ने व्रतपते त्वयि । व्रतं च श्रद्धां चोपैमीन्धे त्वा दीक्षितोऽअहम् ॥
VERSE: 20.25 यत्र ब्रह्म च क्षत्रं च सम्यञ्चो चरतः सह । तं लोकं पुण्यं प्रज्ञेषं यत्र देवाः सहाग्निना ॥
VERSE: 20.26 यत्रेन्द्रश् च वायुश् च सम्यञ्चो चरतः सह । तं लोकं पुण्यं प्रज्ञेषं यत्र सेदिर् न विद्यते ॥
VERSE: 20.27 अम्̐शुना ते अम्̐शुः पृच्यतां परुषा परुः । गन्धस् ते सोमम् अवतु मदाय रसोऽअच्युतः ॥
VERSE: 20.28 सिञ्चन्ति परि षिञ्चन्त्य् उत् सिञ्चन्ति पुनन्ति च । सुरायै बभ्र्वै मदे किंत्वो वदति किंत्वः ॥
VERSE: 20.29 धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम् । इन्द्र प्रातर् जुषस्व नः ॥
VERSE: 20.30 बृहद् इन्द्राय गायत मरुतो वृत्रहन्तमम् । येन ज्योतिर् अजनयन्न् ऋतावृधो देवं देवाय जागृवि ॥
VERSE: 20.31 अध्वर्यो ऽ अद्रिभिः सुतम्̐ सोमं पवित्र ऽ आ नय । पुनीहीन्द्राय पातवे ॥
VERSE: 20.32 यो भूतानाम् अधिपतिर् यस्मिंल्लोका ऽ अधि श्रिताः । य ऽ ईशे महतो महाम्̐स् तेन गृह्णामि त्वाम् अहं मयि गृह्णामि त्वाम् अहम् ॥
VERSE: 20.33 उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णेऽ । एष ते योनिर् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ॥
VERSE: 20.34 प्राणपा मे ऽअपानपाश् चक्षुष्पाः श्रोत्रपाश् च मे । वाचो मे विश्वभेषजो मनसो ऽसि विलायकः ॥
VERSE: 20.35 अश्विनकृतस्य ते सरस्वतिकृतस्येन्द्रेण सुत्राम्णा कृतस्य । उपहूत ऽउपहूतस्य भक्षयामि ॥
VERSE: 20.36 समिद्ध ऽ इन्द्र ऽ उषसाम् अनीके पुरोरुचा पूर्वकृद् वावृधानः । त्रिभिर् देवैस् त्रिम्̐शता वज्रबाहुर् जघान वृत्रं वि दुरो ववार ॥
VERSE: 20.37 नराशम्̐सः प्रति शूरो मिमानस् तनूनपात् प्रति यज्ञस्य धाम । गोभिर् वपावान् मधुना समञ्जन् हिरण्यैश् चन्द्री यजति प्रचेताः ॥
VERSE: 20.38 ईडितो देवैर् हरिवाम्̐२ऽ अभिष्टिर् आजुह्वानो हविषा शर्धमानः । पुरंदरो गोत्रभिद् वज्रबाहुर् आ यातु यज्ञम् उप नो जुषाणः ॥
VERSE: 20.39 जुषाणो बर्हिर् हरिवान् न ऽ इन्द्रः प्राचीनम्̐ सीदत् प्रदिशा पृथिव्याः । उरुप्रथाः प्रथमानम्̐ स्योनम् आदित्यैर् अक्तं वसुभिः सजोषाः ॥
VERSE: 20.40 इन्द्रं दुरः कवष्यो धावमाना वृषाणं यन्तु जनयः सुपत्नीः । द्वारो देवीर् अभितो वि श्रयन्ताम्̐ सुवीरा वीरं प्रथमाना महोभिः ॥
VERSE: 20.41 उषासानक्ता बृहती बृहन्तं पयस्वती सुदुघे शूरम् इन्द्रम् । तन्तुं ततं पेशसा संवयन्ती देवानां देवं यजतः सुरुक्मे ॥
VERSE: 20.42 दैव्या मिमाना मनुषः पुरुत्रा होताराव् इन्द्रं प्रथमा सुवाचा । मूर्द्धन् यज्ञस्य मधुना दधाना प्राचीनं ज्योतिर् हविषा वृधातः ॥
VERSE: 20.43 तिस्रो देवीर् हविषा वर्धमाना ऽ इन्द्रं जुषाणा जनयो न पत्नीः । अच्छिन्नं तन्तुं पयसा सरस्वतीडा देवी भारती विश्वतूर्तिः ॥
VERSE: 20.44 त्वष्टा दधच्छुष्मम् इन्द्राय वृष्णे ऽपाको ऽचिष्टुर् यशसे पुरूणि । वृषा यजन् वृषणं भूरिरेता मूर्धन् यज्ञस्य सम् अनक्तु देवान् ॥
VERSE: 20.45 वनस्पतिर् अवसृष्टो न पाशैस् त्मन्या समञ्जञ्छमिता न देवः । इन्द्रस्य हव्यैर् जठरं पृणानः स्वदाति यज्ञं मधुना घृतेन ॥
VERSE: 20.46 स्तोकानां इन्दुं प्रति शूर ऽ इन्द्रो वृषायमाणो वृषभस् तुराषाट् । घृतप्रुषा मनसा मोदमानाः स्वाहा देवा ऽ अमृता मादयन्ताम् ॥
VERSE: 20.47 आ यात्व् इन्द्रो ऽवस ऽ उप न ऽ इह स्तुतः सधमादस्तु शूरः । वावृधानस् तविषीर् यस्य पूर्वीर् द्यौर् न क्षत्रम् अभिभूति पुष्यात् ॥
VERSE: 20.48 आ न ऽ इन्द्रो दूराद् आ न ऽ आसाद् अभिष्टिकृद् अवसे यासद् उग्रः । ओजिष्ठेभिर् नृपतिर् वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून् ॥
VERSE: 20.49 आ न इन्द्रो हरिभिर् यात्व् अच्छार्वाचीनो ऽवसे राधसे च । तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम् अनु नो वाजसातौ ॥
VERSE: 20.50 त्रातारम् इन्द्रम् अवितारम् इन्द्रम्̐ हवे-हवे सुहवम्̐ शूरम् इन्द्रम् । ह्वयामि शक्रं पुरुहूतम् इन्द्रम्̐ स्वस्ति नो मघवा धात्व् इन्द्रः ॥
VERSE: 20.51 इन्द्रः सुत्रामा स्ववाम्̐२ऽ अवोभिः सुमृडीको भवतु विश्ववेदाः । बाधतां द्वेषो ऽ अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥
VERSE: 20.52 तस्य वयम्̐ सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । स सुत्रामा स्ववाम्̐२ऽ इन्द्रो ऽ अस्मे आराच्चिद् द्वेषः सनुतर् युयोतु ॥
VERSE: 20.53 आ मन्द्रैर् इन्द्र हरिभिर् याहि मयूररोमभिः । मा त्वा के चिन् नि यमन् विं ना पाशिनो ऽति धन्वेव ताम्̐२ऽ इहि ॥
VERSE: 20.54 एवेद् इन्द्रं वृषणं वज्रबाहुं वसिष्ठासो ऽ अभ्य् अर्चन्त्य् अर्कैः । स न स्तुतो वीरवद् धातु गोमद् यूयं पात स्वस्तिभिः सदा नः ॥
VERSE: 20.55 समिद्धो ऽ अग्निर् अश्विना तप्तो घर्मो विराट् सुतः । दुहे धेनुः सरस्वती सोमम्̐ शुक्रम् इहेन्द्रियम् ॥
VERSE: 20.56 तनूपा भिषजा सुते ऽश्विनोभा सरस्वती । अध्वा रजाम्̐सीन्द्रियम् इन्द्राय पथिभिर् वहान् ॥
VERSE: 20.57 इन्द्रायेन्दुम्̐ सरस्वती नराशम्̐सेन नग्नहुम् । अधाताम् अश्विना मधु भेषजं भिषजा सुते ॥
VERSE: 20.58 आजुह्वाना सरस्वतीन्द्रायेन्द्रियाणि वीर्यम् । इडाभिर् अश्विनाव् इषम्̐ समूर्जम्̐ सम्̐ रयिं दधुः ॥
VERSE: 20.59 अश्विना नमुचेः सुतम्̐ सोमम्̐ शुक्रं परिस्रुता । सरस्वती ताम् आभरद् बर्हिषेन्द्राय पातवे ॥
VERSE: 20.60 कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिशः । इन्द्रो न रोदसी ऽ उभे दुहे कामान्त् सरस्वती ॥
VERSE: 20.61 उषासानक्ताश्विना दिवेन्द्रम्̐ सायम् इन्द्रियैः । संजानाने सुपेशसा सम् अञ्जाते सरस्वत्या ॥
VERSE: 20.62 पातं नो ऽ अश्विना दिवा पाहि नक्तम्̐ सरस्वति । दैव्या होतारा भिषजा पाताम् इन्द्रम्̐ सचा सुते ॥
VERSE: 20.63 तिस्रस् त्रेधा सरस्वत्य् अश्विना भारतीडा । तीव्रं परिस्रुता सोमम् इन्द्राय सुषुवुर् मदम् ॥
VERSE: 20.64 अश्विना भेषजं मधु भेषजं नः सरस्वती । इन्द्रे त्वष्टा यशः श्रियम्̐ रूपम्̐-रूपम् अधुः सुते ॥
VERSE: 20.65 ऋतुथेन्द्रो वनस्पतिः शशमानः परिस्रुता । कीलालम् अश्विभ्यां मधु दुहे धेनुः सरस्वती ॥
VERSE: 20.66 गोभिर् न सोमम् अश्विना मासरेण परिस्रुता । सम् अधातम्̐ सरस्वत्या स्वाहेन्द्रे सुतं मधु ॥
VERSE: 20.67 अश्विना हविर् इन्द्रियं नमुचेर् धिया सरस्वती । आ शुक्रम् आसुराद् वसु मघम् इन्द्राय जभ्रिरे ॥
VERSE: 20.68 यम् अश्विना सरस्वती हविषेन्द्रम् अवर्धयन् । स बिभेद वलं मघं नमुचाव् आसुरे सचा ॥
VERSE: 20.69 तम् इन्द्रम्̐ सचाश्विनोभा सरस्वती । दधाना ऽ अभ्य् अनूषत हविषा यज्ञ ऽ इन्द्रियैः ॥
VERSE: 20.70 य ऽ इन्द्र ऽ इन्द्रियं दधुः सविता वरुणो भगः । स सुत्रामा हविष्पतिर् यजमानाय सश्चत ॥
VERSE: 20.71 सविता वरुणो दधद् यजमानाय दाशुषे । आदत्त नमुचेर् वसु सुत्रामा बलम् इन्द्रियम् ॥
VERSE: 20.72 वरुणः क्षत्रम् इन्द्रियं भगेन सविता श्रियम् । सुत्रामा यशसा बलं दधाना यज्ञम् आशत ॥
VERSE: 20.73 अश्विना गोभिर् इन्द्रियम् अश्वेभिर् वीर्यं बलम् । हविषेन्द्रम्̐ सरस्वती यजमानम् अवर्द्धयन् ॥
VERSE: 20.74 ता नासत्या सुपेशसा हिरण्यवर्तनी नरा । सरस्वती हविष्मतीन्द्र कर्मसु नो ऽवत ॥
VERSE: 20.75 ता भिषजा सुकर्मणा सा सुदुघा सरस्वती । स वृत्रहा शतक्रतुर् इन्द्राय दधुर् इन्द्रियम् ॥
VERSE: 20.76 युवम्̐ सुरामम् अश्विना नमुचाव् आसुरे सचा । विपिपानाः सरस्वतीन्द्रं कर्मस्व् आवत ॥
VERSE: 20.77 पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दम्̐सनाभिः । यत् सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥
VERSE: 20.78 यस्मिन्न् अश्वास ऽ ऋषभास ऽ उक्षणो वशा मेषा ऽ अवसृष्टास ऽ आहुताः । कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुम् अग्नये ॥
VERSE: 20.79 अहाव्य् अग्ने हविर् आस्ये ते स्रुचीव घृतं चम्वीव सोमः । वाजसनिम्̐ रयिम् अस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥
VERSE: 20.80 अश्विना तेजसा चक्षुः प्राणेन सरस्वती वीर्यम् । वाचेन्द्रो बलेनेन्द्राय दधुर् इन्द्रियम् ॥
VERSE: 20.81 गोमद् ऊ षु णासत्या अश्वावद् यातम् अश्विना । वर्ती रुद्रा नृपाय्यम् ॥
VERSE: 20.82 न यत् परो नान्तरऽ आदधर्षद् वृषण्वसू । दुःशम्̐सो मर्त्यो रिपुः ॥
VERSE: 20.83 ता न ऽ आ वोढम् अश्विना रयिं पिशङ्गसंदृशम् । धिष्ण्या वरिवोविदम् ॥
VERSE: 20.84 पावका नः सरस्वती वाजेभिर् वाजिनीवती । यज्ञं वष्टु धियावसुः ॥
VERSE: 20.85 चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वती ॥
VERSE: 20.86 महो ऽ अर्णः सरस्वती प्र चेतयति केतुना । धियो विश्वा वि राजति ॥
VERSE: 20.87 इन्द्रा याहि चित्रभानो सुता ऽ इमे त्वायवः । अण्वीभिस् तना पूतासः ॥
VERSE: 20.88 इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः । उप ब्रह्माणि वाघतः ॥
VERSE: 20.89 इन्द्रा याहि तूतुजान ऽ उप ब्रह्माणि हरिवः । सुते दधिष्व नश् चनः ॥
VERSE: 20.90 अश्विना पिबतां मधु सरस्वत्या सजोषसा । इन्द्रः सुत्रामा वृत्रहा जुषन्ताम्̐ सोम्यं मधु ॥
अध्याय 21 सौत्रामणी यागे आज्यादिप्रेषण मन्त्राः
VERSE: 21.1 इमं मे वरुण श्रुधी हवम् अद्या च मृडय । त्वाम् अस्वस्युर् आ चके ॥
VERSE: 21.2 तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्य् उरुशम्̐स मा न ऽ आयुः प्र मोषीः ॥
VERSE: 21.3 त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडो ऽ अव यासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाम्̐सि प्र मुमुग्ध्य् अस्मत् ॥
VERSE: 21.4 स त्वं नो ऽ अग्ने ऽवमो भवोती नेदिष्ठो ऽ अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणम्̐ रराणो वीहि मृडीकम्̐ सुहवो न ऽ एधि ॥
VERSE: 21.5 महीमू षु मातरम्̐ सुव्रतानाम् ऋतस्य पत्नीम् अवसे हुवेम । तुविक्षत्राम् अजरन्तीम् उरूचीम्̐ सुशर्माणम् अदितिम्̐ सुप्रणीतिम् ॥
VERSE: 21.6 सुत्रामाणं पृथिवीं द्याम् अनेहसम्̐ सुशर्माणम् अदितिम्̐ सुप्रणीतिम् । दैवीं नावम्̐ स्वरित्राम् अनागसम् अस्रवन्तीम् आ रुहेमा स्वस्तये ॥
VERSE: 21.7 सुनावम् आ रुहेयम् अस्रवन्तीम् अनागसम् । शतारित्राम्̐ स्वस्तये ॥
VERSE: 21.8 आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् । मध्वा रजाम्̐सि सुक्रतू ॥
VERSE: 21.9 प्र बाहवा सिसृतं जीवसे न ऽ आ नो गव्यूतिम् उक्षतं घृतेन । आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ॥
VERSE: 21.10 शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । जम्भयन्तो ऽहिं वृकम्̐ रक्षाम्̐सि सनेम्य् अस्मद् युयवन्न् अमीवाः ॥
VERSE: 21.11 वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा ऽ अमृता ऽ ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥
VERSE: 21.12 समिद्धो ऽ अग्निः समिधा सुसमिद्धो वरेण्यः । गायत्री छन्द ऽ इन्द्रियं त्र्यविर् गौर् वयो दधुः ॥
VERSE: 21.13 तनूनपाच्छुचिव्रतस् तनूपाश् च सरस्वती । उष्णिहा छन्द ऽ इन्द्रियं दित्यवाड् गौर् वयो दधुः ॥
VERSE: 21.14 इडाभिर् अग्निर् ईड्यः सोमो देवो ऽ अमर्त्यः । अनुष्टुप् छन्द ऽइन्द्रियं पञ्चाविर् गौर् वयो दधुः ॥
VERSE: 21.15 सुबर्हिर् अग्निः पूषण्वान्त् स्तीर्णबर्हिर् अमर्त्यः । बृहती छन्द ऽ इन्द्रियं त्रिवत्सो गौर् वयो दधुः ॥
VERSE: 21.16 दुरो देवीर् दिशो महीर् ब्रह्मा देवो बृहस्पतिः । पङ्क्तिश् छन्द ऽ इहेन्द्रियं तुर्यवाड् गौर् वयो दधुः ॥
VERSE: 21.17 उषे यह्वी सुपेशसा विश्वे देवा ऽ अमर्त्याः । त्रिष्टुप् छन्द ऽ इहेन्द्रियं पष्ठवाड् गौर् वयो दधुः ॥
VERSE: 21.18 दैव्या होतारा भिषजेन्द्रेण सयुजा युजा । जगती छन्द ऽ इन्द्रियम् अनड्वान् गौर् वयो दधुः ॥
VERSE: 21.19 तिस्र ऽ इडा सरस्वती भारती मरुतो विशः । विराट् छन्द ऽ इहेन्द्रियं धेनुर् गौर् न वयो दधुः ॥
VERSE: 21.20 त्वष्टा तुरीपो ऽ अद्भुत ऽ इन्द्राग्नी पुष्टिवर्धना । द्विपदा छन्द ऽ इन्द्रियम् उक्षा गौर् न वयो दधुः ॥
VERSE: 21.21 शमिता नो वनस्पतिः सविता प्रसुवन् भगम् । ककुप् छन्द ऽ इहेन्द्रियं वशा वेहद् वयो दधुः ॥
VERSE: 21.22 स्वाहा यज्ञं वरुणः सुक्षत्रो भेषजं करत् । अतिच्छन्दा ऽइन्द्रियं बृहद् ऋषभो गौर् वयो दधुः ॥
VERSE: 21.23 वसन्तेन ऽ ऋतुना देवा वसवस् त्रिवृता स्तुताः । रथन्तरेण तेजसा हविर् इन्द्रे वयो दधुः ॥
VERSE: 21.24 ग्रीष्मेण ऽ ऋतुना देवा रुद्राः पञ्चदशे स्तुताः । बृहता यशसा बलम्̐ हविर् इन्द्रे वयो दधुः ॥
VERSE: 21.25 वर्षाभिर् ऋतुनादित्या स्तोमे सप्तदशे स्तुताः । वैरूपेण विशौजसा हविर् इन्द्रे वयो दधुः ॥
VERSE: 21.26 शारदेन ऽ ऋतुना देवा ऽ एकविम्̐श ऽ ऋभव स्तुताः । वैराजेन श्रिया श्रियम्̐ हविर् इन्द्रे वयो दधुः ॥
VERSE: 21.27 हेमन्तेन ऽ ऋतुना देवास् त्रिणवे मरुत स्तुताः । बलेन शक्वरीः सहो हविर् इन्द्रे वयो दधुः ॥
VERSE: 21.28 शैशिरेण ऽ ऋतुना देवास् त्रयस्त्रिम्̐शे ऽमृता स्तुताः । सत्येन रेवतीः क्षत्रम्̐ हविर् इन्द्रे वयो दधुः ॥
VERSE: 21.29 होता यक्षत् समिधाग्निम् इडस् पदे ऽश्विनेन्द्रम्̐ सरस्वतीम् अजो धूम्रो न गोधूमैः कुवलैर् भेषजं मधु शष्पैर् न तेज ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
VERSE: 21.30 होता यक्षत् तनूनपात् सरस्वती अविर् मेषो न भेषजं पथा मधुमता भरन्न् अश्विनेन्द्राय वीर्यं बदरैर् उपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
VERSE: 21.31 होता यक्षन्नराशम्̐सं न नग्नहुं पतिम्̐ सुरया भेषजं मेषः सरस्वती भिषग् रथो न चन्द्र्य् अश्विनोर् वपा ऽ इन्द्रस्य वीर्यं बदरैर् उपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
VERSE: 21.32 होता यक्षद् इडेडित ऽ आजुह्वानः सरस्वतीम् इन्द्रं बलेन वर्धयन्न् ऋषभेण गवेन्द्रियम् अश्विनेन्द्राय भेषजं यवैर् कर्कन्धुभिर् मधु लाजैर् न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
VERSE: 21.33 होता यक्षद् बर्हिर् ऊर्णम्रदा भिषङ् नासत्या भिषजाश्विनाश्वा शिशुमती भिषग् धेनुः सरस्वती भिषग् दुह ऽ इन्द्राय भेषजं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
VERSE: 21.34 होता यक्षद् दुरो दिशः कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिश ऽ इन्द्रो न रोदसी दुघे दुहे धेनुः सरस्वत्य् अश्विनेन्द्राय भेषजम्̐ शुक्रं न ज्योतिर् इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
VERSE: 21.35 होता यक्षत् सुपेशसोषे नक्तं दिवाश्विना समञ्जति सरस्वत्या त्विषिम् इन्द्रे न भेषजम्̐ श्येनो न रजसा हृदा श्रिया न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
VERSE: 21.36 होता यक्षद् दैव्या होतारा भिषजाश्विनेन्द्रं न जागृवि दिवा नक्तं न भेषजैः शूषम्̐ सरस्वती भिषक् सीसेन दुह ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
VERSE: 21.37 होता यक्षत् तिस्रो देवीर् न भेषजं त्रयस्त्रिधातवो पसो रूपम् इन्द्रे हिरण्ययम् अश्विनेडा न भारती वाचा सरस्वती मह ऽ इन्द्राय दुह ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
VERSE: 21.38 होता यक्षत् सुरेरसम् ऋषभं नर्यापसं त्वष्टारम् इन्द्रम् अश्विना भेषजं न सरस्वतीम् ओजो न हूतिर् इन्द्रियं वृको न रभसो भिषग् यशः सुरया भेषजम्̐ श्रिया न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
VERSE: 21.39 होता यक्षद् वनस्पतिम्̐ शमितारम्̐ शतक्रतुं भीमं न मन्युम्̐ राजानं व्याघ्रं नमसाश्विना भामम्̐ सरस्वती भिषग् इन्द्राय दुह ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
VERSE: 21.40 होता यक्षद् अग्निम्̐ स्वाहाज्यस्य स्तोकानाम्̐ स्वाहा मेदसां पृथक् स्वाहा छागम् अश्विभ्याम्̐ स्वाहा मेषम्̐ सरस्वत्यै स्वाह ऽ ऋषभम् इन्द्राय सिम्̐हाय सहस ऽ इन्द्रियम्̐ स्वाहाग्निं न भेषजम्̐ स्वाहा सोमम् इन्द्रियम्̐ स्वाहेन्द्रम्̐ सुत्रामाणम्̐ सवितारं वरुणं भिषजां पतिम्̐ स्वाहा वनस्पतिं प्रियं पाथो न भेषजम्̐ स्वाहा देवा ऽ आज्यपा जुषाणो ऽ अग्निर् भेषजं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
VERSE: 21.41 होता यक्षद् अश्विनौ छागस्य वपाया मेदसो जुषेताम्̐ हविर् होतर् यज । होता यक्षत् सरस्वतीं मेषस्य वपाया मेदसो जुषताम्̐ हविर् होतर् यज । होता यक्षद् इन्द्रम् ऋषभस्य वपाया मेदसो जुषताम्̐ हविर् होतर् यज ॥
VERSE: 21.42 होता यक्षद् अश्विनौ सरस्वतीम् इन्द्रम्̐ सुत्रामाणम् इमे सोमाः सुरामाणश् छागैर् न मेषैर् ऋषभैः सुताः शष्पैर् न तोक्मभिर् लाजैर् महस्वन्तो मदा मासरेण परिष्कृताः शुक्राः पयस्वन्तो ऽमृताः प्रस्थिता वो मधुश्चुतस् तान् अश्विना सरस्वतीन्द्रः सुत्रामा वृत्रहा जुषन्ताम्̐ सोम्यं मधु पिबन्तु व्यन्तु होतर् यज ॥
VERSE: 21.43 होता यक्षद् अश्विनौ छागस्य हविष ऽ आत्ताम् अद्य मध्यतो मेद ऽ उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घस्तां नूनं घासे ऽ अज्राणां यवसप्रथमानाम्̐ सुमत्क्षराणाम्̐ शतरुद्रियाणाम् अग्निष्वात्तानां पीवोपवसानां पार्श्वतः श्रोणितः शितामत ऽ उत्सादतो ङ्गाद्-अङ्गाद् अवत्तानां करत एवाश्विना जुषेताम्̐ हविर् होतर् यज ॥
VERSE: 21.44 होता यक्षत् सरस्वतीं मेषस्य हविष ऽ आवयद् अद्य मध्यतो मेद ऽ उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घसन् नूनं घासे ऽ अज्राणां यवसप्रथमानाम्̐ सुमत्क्षराणाम्̐ शतरुद्रियाणाम् अग्निष्वात्तानां पीवोपवसानां पार्श्वतः श्रोणितः शितामत ऽ उत्सादतो ऽङ्गाद्-अङ्गाद् अवत्तानां करद् एवम्̐ सरस्वती जुषताम्̐ हविर् होतर् यज ॥
VERSE: 21.45 होता यक्षद् इन्द्रम् ऋषभस्य हविष ऽ आवयद् अद्य मध्यतो मेद ऽ उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घसन् नूनं घासे ऽ अज्राणां यवसप्रथमानाम्̐ सुमत्क्षराणाम्̐ शतरुद्रियाणाम् अग्निष्वात्तानां पीवोपवसानां पार्श्वतः श्रोणितः शितामत ऽ उत्सादतो ऽङ्गाद्-अङ्गाद् अवत्तानां करद् एवम् इन्द्रो जुषताम्̐ हविर् होतर् यज ॥
VERSE: 21.46 होता यक्षद् वनस्पतिम् अभि हि पिष्टतमया रभिष्ठया रशनयाधित । यत्राश्विनोश् छागस्य हविषः प्रिया धामानि यत्र सरस्वत्या मेषस्य हविषः प्रिया धामानि यत्रेन्द्रस्य ऽऋषभस्य हविषः प्रिया धामानि यत्राग्नेः प्रिया धामानि यत्र सोमस्य प्रिया धामानि यत्रेन्द्रस्य सुत्राम्णः प्रिया धामानि यत्र सवितुः प्रिया धामानि यत्र वरुणस्य प्रिया धामानि यत्र वनस्पतेः प्रिया पाथाम्̐सि यत्र देवानाम् आज्यपानां प्रिया धामानि यत्राग्नेर् होतुः प्रिया धामानि तत्रैतान् प्रस्तुत्येवोपस्तुत्येवोपाव स्रक्षद् रभीयस ऽइव कृत्वी करद् एवं देवो वनस्पतिर् जुषताम्̐ हविर् होतर् यज ॥
VERSE: 21.47 होता यक्षद् अग्निम्̐ स्विष्टकृतम् अयाड् अग्निर् अश्विनोश् छागस्य हविषः प्रिया धामान्य् अयाट् सरस्वत्या मेषस्य हविषः प्रिया धामान्य् अयाड् इन्द्रस्य ऽ ऋषभस्य हविषः प्रिया धामान्य् अयाड् अग्नेः प्रिया धामान्य् अयाट् सोमस्य प्रिया धामान्य् अयाड् इन्द्रस्य सुत्राम्णः प्रिया धामान्य् अयाट् सवितुः प्रिया धामान्य् अयाड् वरुणस्य प्रिया धामान्य् अयाड् वनस्पतेः प्रिया पाथाम्̐स्य् अयाड् देवानाम् आज्यपानां प्रिया धामानि यक्षद् अग्नेर् होतुः प्रिया धामानि यक्षत् स्वं महिमानम् आ यजताम् एज्या ऽ इषः कृणोतु सो ऽ अध्वरा जातवेदा जुषताम्̐ हविर् होतर् यज ॥
VERSE: 21.48 देवं बर्हिः सरस्वती सुदेवम् इन्द्रे ऽ अश्विना । तेजो न चक्षुर् अक्ष्योर् बर्हिषा दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
VERSE: 21.49 देवीर् द्वारो ऽ अश्विना भिषजेन्द्रे सरस्वती । प्राणं न वीर्यं नसि द्वारो दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
VERSE: 21.50 देवी ऽ उषासाव् अश्विना सुत्रामेन्द्रे सरस्वती । बलं न वाचम् आस्य ऽ उषाभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
VERSE: 21.51 देवी जोष्ट्री सरस्वत्य् अश्विनेन्द्रम् अवर्धयन् । श्रोत्रं न कर्णयोर् यशो जोष्ट्रीभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
VERSE: 21.52 देवी ऽ ऊर्जाहुती दुघे सुदुघेन्द्रे सरस्वत्य् अश्विना भिषजावतः । शुक्रं न ज्योति स्तनयोर् आहुती धत्त ऽ इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
VERSE: 21.53 देवा देवानां भिषजा होताराव् इन्द्रम् अश्विना । वषट्कारैः सरस्वती त्विषिं न हृदये मतिम्̐ होतृभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
VERSE: 21.54 देवीस् तिस्रस् तिस्रो देवीर् अश्विनेडा सरस्वती । शूषं न मध्ये नाभ्याम् इन्द्राय दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
VERSE: 21.55 देव ऽ इन्द्रो नराशम्̐सस् त्रिवरूथः सरस्वत्याश्विभ्याम् ईयते रथः । रेतो न रूपम् अमृतं जनित्रम् इन्द्राय त्वष्टा दधद् इन्द्रियाणि वसुवने वसुधेयस्य व्यन्तु यज ॥
VERSE: 21.56 देवो देवैर् वनस्पतिर् हिरण्यपर्णो ऽ अश्विभ्याम्̐ सरस्वत्या सुपिप्पल ऽ इन्द्राय पच्यते मधु । ओजो न जूतिर् ऋषभो न भामं वनस्पतिर् नो दधद् इन्द्रियाणि वसुवने वसुधेयस्य व्यन्तु यज ॥
VERSE: 21.57 देवं बर्हिर् वारितीनाम् अध्वरे स्तीर्णम् अश्विभ्यामूर्णम्रदाः सरस्वत्या स्योनम् इन्द्र ते सदः । ईशायै मन्युम्̐ राजानं बर्हिषा दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
VERSE: 21.58 देवो ऽ अग्निः स्विष्टकृद् देवान् यक्षद् यथायथम्̐ होताराव् इन्द्रम् अश्विना वाचा वाचम्̐ सरस्वतीम् अग्निम्̐ सोमम्̐ स्विष्टकृत् स्विष्ट इन्द्रः सुत्रामा सविता वरुणो भिषग् इष्टो देवोवनस्पतिः स्विष्टा देवा ऽ आज्यपाः स्विष्टो ऽ अग्निर् अग्निना होता होत्रे स्विष्टकृद् यशो न दधद् इन्द्रियमूर्जम् अपचितिम्̐ स्वधां वसुवने वसुधेयस्य व्यन्तु यज ॥
VERSE: 21.59 अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशान् बध्नन्न् अश्विभ्यां छागम्̐ सरस्वत्यै मेषम् इन्द्राय ऽ ऋषभम्̐ सुन्वन्न् अश्विभ्याम्̐ सरस्वत्या ऽइन्द्राय सुत्राम्णे सुरासोमान् ॥
VERSE: 21.60 सूपस्था ऽ अद्य देवो वनस्पतिर् अभवद् अश्विभ्यां छागेन सरस्वत्यै मेषेणेन्द्राय ऽऋषभेणाक्षम्̐स् तान् मेदस्तः प्रति पचतागृभीषतावीवृधन्त पुरोडाशैर् अपुर् अश्विना सरस्वतीन्द्रः सुत्रामा सुरासोमान् ॥
VERSE: 21.61 त्वाम् अद्य ऽ ऋष ऽ आर्षेय ऽ ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्य ऽ आ संगतेभ्य ऽ एष मे देवेषु वसु वार्यायक्ष्यत ऽ इति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा ऽ आ च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ॥


अध्याय 22 आश्वमेधिका मन्त्राः
VERSE: 22.1 तेजोऽसि शुक्रम् अमृतम् आयुष्पा ऽ आयुर् मे पाहि । देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे ॥
VERSE: 22.2 इमाम् अगृभ्णन् रशनाम् ऋतस्य पूर्व ऽ आयुषि विदथेषु कव्या । सा नो ऽ अस्मिन्त् सुत ऽ आ बभूव ऽ ऋतस्य सामन्त् सरमारपन्ती ॥
VERSE: 22.3 अभिधा ऽ असि भुवनम् असि यन्तासि धर्ता । स त्वम् अग्निं वैश्वानरम्̐ सप्रथसं गच्छ स्वाहाकृतः ॥
VERSE: 22.4 स्वगा त्वा देवेभ्यः प्रजापतये ब्रह्मन्न् अश्वं भन्त्स्यामि देवेभ्यः प्रजापतये तेन राध्यासम् । तं बधान देवेभ्यः प्रजापतये तेन राध्नुहि ॥
VERSE: 22.5 प्रजापतये त्वा जुष्टं प्रोक्षामि । इन्द्राग्निभ्यां त्वा जुष्टं प्रोक्षामि । वायवे त्वा जुष्टं प्रोक्षामि । विश्वेभ्यस् त्वा देवेभ्यो जुष्टं प्रोक्षामि । सर्वेभ्यस् त्वा देवेभ्यो जुष्टं प्रोक्षामि । यो ऽ अर्वन्तं जिघाम्̐सति तम् अभ्य् अमीति वरुणः परो मर्तः परः श्वा ॥
VERSE: 22.6 अग्नये स्वाहा । सोमाय स्वाहा । अपां मोदाय स्वाहा । सवित्रे स्वाहा । वायवे स्वाहा । विष्णवे स्वाहा । इन्द्राय स्वाहा । बृहस्पतये स्वाहा । मित्राय स्वाहा । वरुणाय स्वाहा ॥
VERSE: 22.7 हिङ्काराय स्वाहा हिङ्कृताय स्वाहा क्रन्दते स्वाहावक्रन्दाय स्वाहा प्रोथते स्वाहा प्रप्रोथाय स्वाहा गन्धाय स्वाहा घ्राताय स्वाहा निविष्टाय स्वाहोपविष्टाय स्वाहा संदिताय स्वाहा वल्गते स्वाहासीनाय स्वाहा शयानाय स्वाहा स्वपते स्वाहा जाग्रते स्वाहा कूजते स्वाहा प्रबुद्धाय स्वाहा विजृम्भमाणाय स्वाहा विचृताय स्वाहा सम्̐हानाय स्वाहोपस्थिताय स्वाहाऽयनाय स्वाहा प्रायणाय स्वाहा ॥
VERSE: 22.8 यते स्वाहा धावते स्वाहोद्द्रावाय स्वाहोद्द्रुताय स्वाहा शूकाराय स्वाहा शूकृताय स्वाहा निषणाय स्वाहोत्थिताय स्वाहा जवाय स्वाहा बलाय स्वाहा विवर्तमानाय स्वाहा विवृत्ताय स्वाहा विधून्वानाय स्वाहा विधूताय स्वाहा शुश्रूषमाणाय स्वाहा शृण्वते स्वाहेक्षमाणाय स्वाहेक्षिताय स्वाहा वीक्षिताय स्वाहा निमेषाय स्वाहा यद् अत्ति तस्मै स्वाहा यत् पिबति तस्मै स्वाहा यन् मूत्रं करोति तस्मै स्वाहा कुर्वते स्वाहा कृताय स्वाहा ॥
VERSE: 22.9 तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयत् ॥
VERSE: 22.10 हिरण्यपाणिमूतये सवितारम् उप ह्वये । स चेत्ता देवता पदम् ॥
VERSE: 22.11 देवस्य चेततो महीं प्र सवितुर् हवामहे । सुमतिम्̐ सत्यराधसम् ॥
VERSE: 22.12 सुष्टुतिम्̐ सुमतीवृधो रातिम्̐ सवितुर् ईमहे । प्र देवाय मतीविदे ॥
VERSE: 22.13 रातिम्̐ सत्पतिं महे सवितारम् उप ह्वये । आसवं देववीतये ॥
VERSE: 22.14 देवस्य सवितुर् मतिम् आसवं विश्वदेव्यम् । धिया भगं मनामहे ॥
VERSE: 22.15 अग्निम्̐ स्तोमेन बोधय समिधानो ऽ अमर्त्यम् । हव्या देवेषु नो दधत् ॥
VERSE: 22.16 स हव्यवाड् अमर्त्य ऽ उशिग् दूतश् चनोहितः । अग्निर् धिया सम् ऋण्वति ॥
VERSE: 22.17 अग्निं दूतं पुरो दधे हव्यवाहम् उप ब्रुवे । देवाम्̐ऽ आ सादयाद् इह ॥
VERSE: 22.18 अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः । गोजीरया रम्̐हमाणः पुरन्ध्या ॥
VERSE: 22.19 विभूर् मात्रा प्रभूः पित्राश्वो ऽसि हयो ऽस्य् अत्यो ऽसि मयो ऽस्य् अर्वासि सप्तिर् असि वाज्य् असि वृषासि नृमणा ऽ असि । ययुर् नामासि शिशुर् नामास्य् आदित्यानां पत्वान्व् इहि । देवा ऽ आशापाला एतं देवेभ्यो ऽश्वं मेधाय प्रोक्षितम्̐ रक्षत् । इह रन्तिः । इह रमताम् । इह धृतिः । इह स्वधृतिः स्वाहा ॥
VERSE: 22.20 काय स्वाहा कस्मै स्वाहा कतमस्मै स्वाहा स्वाहाधिम् आधीताय स्वाहा मनः प्रजापतये स्वाहाचित्तं विज्ञातायादित्यै स्वाहादित्यै मह्यै स्वाहादित्यै सुमृडीकायै स्वाहा सरस्वत्यै स्वाहा सरस्वत्यै पावकायै स्वाहा सरस्वत्यै बृहत्यै स्वाहा पूष्णे स्वाहा पूष्णे प्रपथ्याय स्वाहा पूष्णे नरंधिषाय स्वाहा त्वष्ट्रे स्वाहा त्वष्ट्रे तुरीपाय स्वाहा त्वष्ट्रे पुरुरूपाय स्वाहा विष्णवे स्वाहा विष्णवे निभूयपाय स्वाहा विष्णवे शिपिविष्टाय स्वाहा ॥
VERSE: 22.21 विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् । विश्वो राय ऽ इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा ॥
VERSE: 22.22 आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम् आ राष्ट्रे राजन्यः शूर ऽ इषव्यो ऽतिव्याधी महारथो जायतां दोग्ध्री धेनुर् वोढानड्वान् आशुः सप्तिः पुरंधिर् योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायतां निकामे-निकामे नः पर्जन्यो वर्षतु फलवत्यो न ऽ ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥
VERSE: 22.23 प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहा चक्षुषे स्वाहा श्रोत्राय स्वाहा वाचे स्वाहा मनसे स्वाहा ॥
VERSE: 22.24 प्राच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहा दक्षिणायै दिशे स्वाहार्वाच्यै दिशे स्वाहा प्रतीच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहोदीच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहोर्ध्वायै दिशे स्वाहार्वाच्यै दिशे स्वाहावाच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहा ॥
VERSE: 22.25 अद्भ्यः स्वाहा वार्भ्यः स्वाहोदकाय स्वाहा तिष्ठन्तीभ्यः स्वाहा स्रवन्तीभ्यः स्वाहा स्यन्दमानाभ्यः स्वाहा कूप्याभ्यः स्वाहा सूद्याभ्यः स्वाहा धार्याभ्यः स्वाहार्णवाय स्वाहा समुद्राय स्वाहा सरिराय स्वाहा ॥
VERSE: 22.26 वाताय स्वाहा धूमाय स्वाहाभ्राय स्वाहा मेघाय स्वाहा विद्योतमानाय स्वाहा स्तनयते स्वाहावस्फूर्जते स्वाहा वर्षते स्वाहाववर्षते स्वाहोग्रं वर्षते स्वाहा शीघ्रं वर्षते स्वाहोद्ग्रृह्णते स्वाहोद्ग्रृहीताय स्वाहा प्रुष्णते स्वाहा शीकायते स्वाहा प्रुष्वाभ्यः स्वाहा ह्रादुनीभ्यः स्वाहा नीहाराय स्वाहा ॥
VERSE: 22.27 अग्नये स्वाहा सोमाय स्वाहेन्द्राय स्वाहा पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा दिग्भ्यः स्वाहाशाभ्यः स्वाहोर्व्यै दिशे स्वाहार्वाच्यै दिशे स्वाहा ॥
VERSE: 22.28 नक्षत्रेभ्यः स्वाहा नक्षत्रियेभ्यः स्वाहाहोरात्रेभ्यः स्वाहार्धमासेभ्यः स्वाहा मासेभ्यः स्वाहा ऽ ऋतुभ्यः स्वाहार्तवेभ्यः स्वाहा संवत्सराय स्वाहा द्यावापृथिवीभ्याम्̐ स्वाहा चन्द्राय स्वाहा सूर्याय स्वाहा रश्मिभ्यः स्वाहा वसुभ्यः स्वाहा रुद्रेभ्यः स्वाहादित्येभ्यः स्वाहा मरुद्भ्यः स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा मूलेभ्यः स्वाहा शाखाभ्यः स्वाहा वनस्पतिभ्यः स्वाहा पुष्पेभ्यः स्वाहा फलेभ्यः स्वाहौषधीभ्यः स्वाहा ॥
VERSE: 22.29 पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्राय स्वाहा नक्षत्रेभ्यः स्वाहाद्भ्यः स्वाहौषधीभ्यः स्वाहा वनस्पतिभ्यः स्वाहा परिप्लवेभ्यः स्वाहा चराचरेभ्यः स्वाहा सरीसृपेभ्यः स्वाहा ॥
VERSE: 22.30 असवे स्वाहा वसवे स्वाहा विभुवे स्वाहा विवस्वते स्वाहा गणश्रिये स्वाहा गणपतये स्वाहाभिभुवे स्वाहाधिपतये स्वाहा शूषाय स्वाहा सम्̐सर्पाय स्वाहा चन्द्राय स्वाहा ज्योतिषे स्वाहा मलिम्लुचाय स्वाहा दिवा पतयते स्वाहा ॥
VERSE: 22.31 मधवे स्वाहा माधवाय स्वाहा शुक्राय स्वाहा शुचये स्वाहा नभसे स्वाहा नभस्याय स्वाहाहेषाय स्वाहोर्जाय स्वाहा सहसे स्वाहा सहस्याय स्वाहा तपसे स्वाहा तपस्याय स्वाहाम्̐हसस्पतये स्वाहा ॥
VERSE: 22.32 वाजाय स्वाहा प्रसवाय स्वाहापिजाय स्वाहा क्रतवे स्वाहा स्वः स्वाहा मूर्ध्ने स्वाहा व्यश्नुविने स्वाहान्त्याय स्वाहान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाधिपतये स्वाहा प्रजापतये स्वाहा ॥
VERSE: 22.33 आयुर् यज्ञेन कल्पताम्̐ स्वाहा प्राणो यज्ञेन कल्पताम्̐ स्वाहापानो यज्ञेन कल्पताम्̐ स्वाहा व्यानो यज्ञेन कल्पताम्̐ स्वाहोदानो यज्ञेन कल्पताम्̐ स्वाहा समानो यज्ञेन कल्पताम्̐ स्वाहा चक्षुर् यज्ञेन कल्पताम्̐ स्वाहा श्रोत्रं यज्ञेन कल्पताम्̐ स्वाहा वाग् यज्ञेन कल्पताम्̐ स्वाहा मनो यज्ञेन कल्पताम्̐ स्वाहात्मा यज्ञेन कल्पताम्̐ स्वाहा ब्रह्मा यज्ञेन कल्पताम्̐ स्वाहा ज्योतिर् यज्ञेन कल्पताम्̐ स्वाहा स्वर् यज्ञेन कल्पताम्̐ स्वाहा पृष्ठं यज्ञेन कल्पताम्̐ स्वाहा यज्ञो यज्ञेन कल्पताम्̐ स्वाहा ॥
VERSE: 22.34 एकस्मै स्वाहा द्वाभ्याम्̐ स्वाहा शताय स्वाहैकशताय स्वाहा व्युष्ट्यै स्वाहा स्वर्गाय स्वाहा ॥

अध्याय 23 आश्वमेधिकाहुति मन्त्राः
VERSE: 23.1 हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् । स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥
VERSE: 23.2 उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि । एष ते योनिः सूर्यस् ते महिमा । यस् ते ऽहन्त् संवत्सरे महिमा संबभूव यस् ते वायाव् अन्तरिक्षे महिमा संबभूव यस् ते दिवि सूर्ये महिमा संबभूव तस्मै ते महिम्ने प्रजापतये स्वाहा देवेभ्यः ॥
VERSE: 23.3 यः प्राणतो निमिषतो महित्वैक ऽ इद् राजा जगतो बभूव । य ऽ ईशे ऽ अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥
VERSE: 23.4 उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि । एष ते योनिश् चन्द्रस् ते महिमा । यस् ते रात्रौ संवत्सरे महिमा संबभूव यस् ते पृथिव्याम् अग्नौ महिमा संबभूव यस् ते नक्षत्रेषु चन्द्रमसि महिमा संबभूव तस्मै ते महिम्ने प्रजापतये देवेभ्यः स्वाहा ॥
VERSE: 23.5 युञ्जन्ति ब्रध्नम् अरुषं चरन्तं परि तस्थुषः । रोचन्ते रोचना दिवि ॥
VERSE: 23.6 युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे । शोणा धृष्णू नृवाहसा ॥
VERSE: 23.7 यद् वातो ऽ अपो ऽ अगनीगन् प्रियाम् इन्द्रस्य तन्वम् । एतम्̐ स्तोतर् अनेन पथा पुनर् अश्वम् आ वर्तयासि नः ॥
VERSE: 23.8 वसवस् त्वाञ्जन्तु गायत्रेण छन्दसा । रुद्रास् त्वाञ्जन्तु त्रैष्टुभेन छन्दसा । आदित्यास् त्वाञ्जन्तु जागतेन छन्दसा । भूर् भुवः स्वर् लाजी3ञ् छाची3न् यव्ये गव्यऽ एतद् अन्नम् अत्त देवा ऽ एतद् अन्नम् अद्धि प्रजापते ॥
VERSE: 23.9 कः स्विद् एकाकी चरति क ऽ उ स्विज् जायते पुनः । किम्̐ स्विद्धिमस्य भेषजं किम् व् आवपनं महत् ॥
VERSE: 23.10 सूर्य ऽ एकाकी चरति चन्द्रमा जायते पुनः । अग्निर् हिमस्य भेषजं भूमिर् आवपनं महत् ॥
VERSE: 23.11 का स्विद् आसीत् पूर्वचित्तिः किम्̐ स्विद् आसीद् बृहद् वयः । का स्विद् आसीत् पिलिप्पिला का स्विद् आसीत् पिशङ्गिला ॥
VERSE: 23.12 द्यौर् आसीत् पूर्वचित्तिः अश्व ऽ आसीद् बृहद् वयः । अविर् आसीत् पिलिप्पिला रात्रिर् आसीत् पिशङ्गिला ॥
VERSE: 23.13 वायुष् ट्वा पचतैर् अवतु । असितग्रीवश् छागैः । न्यग्रोधश् चमसैः । शल्मलिर् वृद्ध्या । एष स्य राथ्यो वृषा । पड्भिश् चतुर्भिर् एद् अगन् । ब्रह्माकृष्णश् च नो ऽवतु । नमो ऽग्नये ॥
VERSE: 23.14 सम्̐शितो रश्मिना रथः सम्̐शितो रश्मिना हयः । सम्̐शितो अप्स्व् अप्सुजा ब्रह्मा सोमपुरोगवः ॥
VERSE: 23.15 स्वयं वाजिम्̐स् तन्वं कल्पयस्व स्वयं यजस्व स्वयं जुषस्व । महिमा ते ऽन्येन न संनशे ॥
VERSE: 23.16 न वा ऽ उ ऽ एतन् म्रियसे न रिष्यसि देवाम्̐२ऽ इद् एषि पथिभिः सुगेभिः । यत्रासते सुकृतो यत्र ते ययुस् तत्र त्वा देवः सविता दधातु ॥
VERSE: 23.17 अग्निः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन्न् अग्निः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः । वायुः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन् वायुः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः । सूर्यः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन्त् सूर्यः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः ॥
VERSE: 23.18 प्राणाय स्वाहा । अपानाय स्वाहा । व्यानाय स्वाहा अम्बे ऽ अम्बिके ऽम्बालिके न मा नयति कश् चन । ससस्त्य् अश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥
VERSE: 23.19 गणानां त्वा गणपतिम्̐ हवामहे प्रियाणां त्वा प्रियपतिम्̐ हवामहे निधीनां त्वा निधिपतिम्̐ हवामहे वसो मम । आहम् अजानि गर्भधम् आ त्वम् अजासि गर्भधम् ॥
VERSE: 23.20 ता ऽ उभौ चतुरः पदः सम्प्र सारयाव स्वर्गे लोके प्रोर्णुवाथां वृषा वाजी रेतोधा रेतो दधातु ॥
VERSE: 23.21 उत्सक्थ्या ऽ अव गुदं धेहि सम् अञ्जिं चारया वृषन् । य स्त्रीणां जीवभोजनः ॥
VERSE: 23.22 यकासकौ शकुन्तिकाहलग् इति वञ्चति । आ हन्ति गभे पसो निगल्गलीति धारका ॥
VERSE: 23.23 यको ऽसकौ शकुन्तक ऽ आहलग् इति वञ्चति । विवक्षत ऽ इव ते मुखम् अध्वर्यो मा नस् त्वम् अभि भाषथाः ॥
VERSE: 23.24 माता च ते पिता च ते ऽग्रं वृक्षस्य रोहतः । प्रतिलामीति ते पिता गभे मुष्टिम् अतम्̐सयत् ॥
VERSE: 23.25 माता च ते पिता च ते ऽग्रे वृक्षस्य क्रीडतः । विवक्षत ऽइव ते मुखं ब्रह्मन् मा नस् त्वं वदो बहु ॥
VERSE: 23.26 ऊर्ध्वम् एनाम् उच्छ्रापय गिरौ भारम्̐ हरन्न् इव । अथास्यै मध्यम् एधताम्̐ शीते वाते पुनन्न् इव ॥
VERSE: 23.27 ऊर्ध्वम् एनम् उच्छ्रापय गिरौ भारम्̐ हरन्न् इव । अथास्य मध्यम् एजतु शीते वाते पुनन्न् इव ॥
VERSE: 23.28 यद् अस्या ऽ अम्̐हुभेद्याः कृधु स्थूलम् उपातसत् । मुष्काविदस्या ऽ एजतो गोशफे शकुलाव् इव ॥
VERSE: 23.29 यद् देवासो ललामगुं प्र विष्टीमिनम् आविषुः । सक्थ्ना देदिश्यते नारी सत्यस्याक्षिभुवो यथा ॥
VERSE: 23.30 यद्धरिणो यवम् अत्ति न पुष्टं पशु मन्यते । शूद्रा यद् अर्यजारा न पोषाय धनायति ॥
VERSE: 23.31 यद्धरिणो यवम् अत्ति न पुष्टं बहु मन्यते । शूद्रो यद् अर्यायै जारो न पोषम् अनु मन्यते ॥
VERSE: 23.32 दधिक्राव्णो ऽ अकारिषं जिष्णोर् अश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र ण ऽ आयूम्̐षि तारिषत् ॥
VERSE: 23.33 गायत्री त्रिष्टुब् जगत्य् अनुष्टुप् पङ्क्त्या सह । बृहत्य् उष्णिहा ककुप् सूचीभिः शम्यन्तु त्वा ॥
VERSE: 23.34 द्विपदा याश् चतुष्पदास् त्रिपदा याश् च षट्पदाः । विच्छन्दा याश् च सच्छन्दाः सूचीभिः शम्यन्तु त्वा ॥
VERSE: 23.35 महानाम्न्यो रेवत्यो विश्वा आशाः प्रभूवरीः । मैघीर् विद्युतो वाचः सूचीभिः शम्यन्तु त्वा ॥
VERSE: 23.36 नार्यस् ते पत्न्यो लोम विचिन्वन्तु मनीषया । देवानां पत्न्यो दिशः सूचीभिः शम्यन्तु त्वा ॥
VERSE: 23.37 रजता हरिणीः सीसा युजो युज्यन्ते कर्मभिः । अश्वस्य वाजिनस् त्वचि सिमाः शम्यन्तु शम्यन्तीः ॥
VERSE: 23.38 कुविद् अङ्ग यवमन्तो वयं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति ॥
VERSE: 23.39 कस् त्वा छ्यति कस् त्वा वि शास्ति कस् ते गात्राणि शम्यति । क ऽ उ ते शमिता कविः ॥
VERSE: 23.40 ऋतवस्त ऽ ऋतुथा पर्व शमितारो वि शासतु । संवत्सरस्य तेजसा शमीभिः शम्यन्तु त्वा ॥
VERSE: 23.41 अर्धमासाः परूम्̐षि ते मासा ऽ आ च्छ्यन्तु शम्यन्तः । अहोरात्राणि मरुतो विलिष्टम्̐ सूदयन्तु ते ॥
VERSE: 23.42 दैव्या ऽ अध्वर्यवस् त्वा छ्यन्तु वि च आसतु । गात्राणि पर्वशस् ते सिमाः कृण्वन्तु शम्यन्तीः ॥
VERSE: 23.43 द्यौस् ते पृथिव्यन्तरिक्षं वायुश् छिद्रं पृणातु ते । सूयस् ते नक्षत्रैः सह लोकं कृणोतु साधुया ॥
VERSE: 23.44 शं ते परेभ्यो गात्रेभ्यः शम् अस्त्व् अवरेभ्यः । शम् अस्थभ्यो मज्जभ्यः शम् व् अस्तु तन्वै तव ॥
VERSE: 23.45 कः स्विद् एकाकी चरति क ऽ उ स्विज् जायते पुनः । किम्̐ स्विद्धिमस्य भेषजं किम् व् आवपनं महत् ॥
VERSE: 23.46 सूर्य ऽ एकाकी चरति चन्द्रमा जायते पुनः । अग्निर् हिमस्य भेषजं भूमिर् आवपनं महत् ॥
VERSE: 23.47 किम्̐ स्वित् सूर्यसमं ज्योतिः किम्̐ समुद्रसमम्̐ सरः । किम्̐ स्वित् पृथिव्यै वर्षीयः कस्य मात्रा न विद्यते ॥
VERSE: 23.48 ब्रह्म सूर्यसमं ज्योतिर् द्यौः समुद्रसमम्̐ सरः । इन्द्रः पृथिव्यै वर्षीयान् गोस् तु मात्रा न विद्यते ॥
VERSE: 23.49 पृच्छामि त्वा चितये देवसख यदि त्वम् अत्र मनसा जगन्थ । येषु विष्णुस् त्रिषु पदेष्व् एष्टस् तेषु विश्वं भुवनम् आ विवेशाम्̐३ऽ ॥
VERSE: 23.50 अपि तेषु त्रिषु पदेष्व् अस्मि येषु विश्वं भुवनम् आविवेश । सद्यः पर्य् एमि पृथिवीम् उत द्याम् एकेनाङ्गेन दिवो ऽ अस्य पृष्ठम् ॥
VERSE: 23.51 केष्व् अन्तः पुरुष ऽ आ विवेश कान्य् अन्तः पुरुषे ऽ अर्पितानि । एतद् ब्रह्मन्न् उपवल्हामसि त्वा किम्̐ स्विन् नः प्रति वोचास्य् अत्र ॥
VERSE: 23.52 पञ्चस्व् अन्तः पुरुष ऽ आ विवेश तान्य् अन्तः पुरुषे ऽ अर्पितानि । एतत् त्वात्र प्रतिमन्वानो ऽ अस्मि न मायया भवस्य् उत्तरो मत् ॥
VERSE: 23.53 का स्विद् आसीत् पूर्वचित्तिः किम्̐ स्विद् आसीद् बृहद् वयः । का स्विद् आसीत् पिलिप्पिला का स्विद् आसीत् पिशङ्गिला ॥
VERSE: 23.54 द्यौर् आसीत् पूर्वचित्तिः अश्वऽ आसीद् बृहद् वयः । अविर् आसीत् पिलिप्पिला रात्रिर् आसीत् पिशङ्गिला ॥
VERSE: 23.55 का ऽ ईमरे पिशंगिला का ऽ ईं कुरुपिशंगिला । क ऽ ईम् आस्कन्दम् अर्षति क ऽ ईं पन्थां वि सर्पति ॥
VERSE: 23.56 अजारे पिशंगिला श्वावित् कुरुपिशंगिला । शश आस्कन्दम् अर्षत्य् अहिः पन्थां वि सर्पति ॥
VERSE: 23.57 कत्य् अस्य विष्ठाः कत्य् अक्षराणि कति होमासः कतिधा समिद्धः । यज्ञस्य त्वा विदथा पृच्छम् अत्र कति होतार ऽ ऋतुशो यजन्ति ॥
VERSE: 23.58 षड् अस्य विष्ठाः शतम् अक्षराण्य् अशीतिर् होमाः समिधो ह तिस्रः । यज्ञस्य ते विदथा प्र ब्रवीमि सप्त होतार ऋतुशो यजन्ति ॥
VERSE: 23.59 को ऽ अस्य वेद भुवनस्य नाभिं को द्यावापृथिवी ऽ अन्तरिक्षम् । कः सूर्यस्य वेद बृहतो जनित्रं को वेद चन्द्रमसं यतोजाः ॥
VERSE: 23.60 वेदाहम् अस्य भुवनस्य नाभिं वेद द्यावापृथिवी ऽ अन्तरिक्षम् । वेद सूर्यस्य बृहतो जनित्रं अथो वेद चन्द्रमसं यतोजाः ॥
VERSE: 23.61 पृच्छामि त्वा परम् अन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः । पृच्छामि त्वा वृष्णो ऽ अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥
VERSE: 23.62 इयं वेदिः परो ऽ अन्तः पृथिव्या ऽ अयं यज्ञो यत्र भुवनस्य नाभिः । अयम्̐ सोमो वृष्णो ऽ अश्वस्य रेतः ब्रह्मायं वाचः परमं व्योम ॥
VERSE: 23.63 सुभूः स्वयम्भूः प्रथमो ऽन्तर् महत्य् अर्णवे । दधे ह गर्भम् ऋत्वियं यतो जातः प्रजापतिः ॥
VERSE: 23.64 होता यक्षत् प्रजापतिम्̐ सोमस्य महिम्नः । जुषतां पिबतु सोमम्̐ होतर् यज ॥
VERSE: 23.65 प्रजापते न त्वद् एतान्य् अन्यो विश्वा रूपाणि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो ऽ अस्तु । वयम्̐ स्याम पतयो रयीणाम्॥

अध्याय 24 आश्वमेधिकानां पशूनां देवतासम्बन्धिनि विधायिनो मन्त्राः
VERSE: 24.1 अश्वस् तूपरो गोमृगस् ते प्राजापत्याः कृष्णग्रीव ऽ आग्नेयो रराटे पुरस्तात् सारस्वती मेष्य् अधस्ताद्धन्वोर् आश्विनाव् अधोरामौ बाह्वोः सौमपौष्णः श्यामो नाभ्याम्̐ सौर्ययामौ श्वेतश् च कृष्णश् च पार्श्वयोस् त्वाष्ट्रौ लोमशसक्थौ सक्थ्योर् वायव्यः श्वेतः पुच्छ ऽ इन्द्राय स्वपस्याय वेहद् वैष्णवो वामनः ॥
VERSE: 24.2 रोहितो धूम्ररोहितः कर्कन्धुरोहितस् ते सौम्या बभ्रुर् अरुणबभ्रुः शुकबभ्रुस् ते वारुणाः शितिरन्ध्रो ऽन्यतःशितिरन्ध्रः समन्तशितिरन्ध्रस् ते सावित्राः शितिबाहुर् अन्यतःशितिबाहुः समन्तशितिबाहुस् ते बार्हस्पत्याः पृषती क्षुद्रपृषती स्थूलपृषती ता मैत्रावरुण्यः ॥
VERSE: 24.3 शुद्धवालः सर्वशुद्धवालो मणिवालस् त ऽ आश्विनाः श्यॆतः श्येताक्षो ऽरुणस् ते रुद्राय पशुपतये कर्णा यामा ऽ अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥
VERSE: 24.4 पृश्निस् तिरश्चीनपृश्निर् ऊर्ध्वपृश्निस् ते मारुताः फल्गूर् लोहितोर्णी पलक्षी ताः सारस्वत्यः प्लीहाकर्णः शुण्ठाकर्णो ऽद्ध्यालोहकर्णस् ते त्वाष्ट्राः कृष्णग्रीवः शितिकक्षो ऽञ्जिसक्थस् त ऽ ऐन्द्राग्नाः कृष्णाञ्जिर् अल्पाञ्जिर् महाञ्जिस् त ऽ उषस्याः ॥
VERSE: 24.5 शिल्पा वैश्वदेव्यो रोहिण्यस् त्र्यवयो वाचे ऽविज्ञाता ऽ अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः ॥
VERSE: 24.6 कृष्णग्रीवा ऽ आग्नेयाः शितिभ्रवो वसूनाम्̐ रोहिता रुद्राणाम्̐ श्वेता ऽ अवरोकिण ऽ आदित्यानां नभोरूपाः पार्जन्याः ॥
VERSE: 24.7 उन्नत ऽ ऋषभो वामनस् त ऽ ऐन्द्रवैष्णवा ऽ उन्नतः शितिबाहुः शितिपृष्ठस् त ऽ ऐन्द्राबार्हस्पत्याः शुकरूपा वाजिनाः कल्माषा ऽ आग्निमारुताः श्यामाः पौष्णाः ॥
VERSE: 24.8 एता ऽ ऐन्द्राग्ना द्विरूपा ऽ अग्नीषोमीया वामना ऽ अनड्वाह ऽ आग्नावैष्णवा वशा मैत्रावरुण्योऽन्यत एन्यो ऽ मैत्र्यः ॥
VERSE: 24.9 कृष्णग्रीवा ऽ आग्नेया बभ्रवः सौम्याः श्वेता वायव्या ऽ अविज्ञाता ऽ अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः ॥
VERSE: 24.10 कृष्णा भौमा धूम्रा ऽ आन्तरिक्षा बृहन्तो दिव्याः शबला वैद्युताः सिध्मास् तारकाः ॥
VERSE: 24.11 धूम्रान् वसन्ताया लभते श्वेतान् ग्रीष्माय कृष्णान् वर्षाभ्यो ऽरुणाञ्छरदे पृषतो हेमन्ताय पिशङ्गाञ्छिशिराय ॥
VERSE: 24.12 त्र्यवयो गायत्र्यै पञ्चावयस् त्रिष्टुभे दित्यवाहो जगत्यै त्रिवत्सा ऽ अनुष्टुभे तुर्यवाह ऽ उष्णिहे ॥
VERSE: 24.13 पष्ठवाहो विराज ऽ उक्षाणो बृहत्या ऽ ऋषभाः ककुभे ऽनड्वाहः पङ्क्त्यै धेनवो ऽतिच्छन्दसे ॥
VERSE: 24.14 कृष्णग्रीवा ऽ आग्नेया बभ्रवः सौम्या ऽ उपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णाः पृश्नयो मारुता बहुरूपा वैश्वदेवा वशा द्यावापृथिवीयाः ॥
VERSE: 24.15 उक्ताः संचरा ऽ एता ऽ ऐन्द्राग्नाः कृष्णाः वारुणाः पृश्नयो मारुताः कायास् तूपराः ॥
VERSE: 24.16 अग्नये ऽनीकवते प्रथमजान् आ लभते मरुद्भ्यः सांतपनेभ्यः सवात्यान् मरुद्भ्यो गृहमेधिभ्यो बष्किहान् मरुद्भ्यः क्रीडिभ्यः सम्̐सृष्टान् मरुद्भ्यः स्वतवद्भ्यो नुसृष्टान् ॥
VERSE: 24.17 उक्ताः संचरा ऽ एता ऽ ऐन्द्राग्नाः प्राशृङ्गा माहेन्द्रा बहुरूपा वैश्वकर्मणाः ॥
VERSE: 24.18 धूम्रा बभ्रुनीकाशाः पितॄणाम्̐ सोमवतां बभ्रवो बभ्रुनीकाशाः पितॄणां बर्हिषदां कृष्णा बभ्रुनीकाशाः पितॄणाम् अग्निष्वात्तानां कृष्णाः पृषन्तस् त्रैयम्बकाः ॥
VERSE: 24.19 उक्ताः संचरा ऽ एता शुनासीरीयाः श्वेता वायव्याः श्वेताः सौर्याः ॥
VERSE: 24.20 वसन्ताय कपिञ्जलान् आ लभते ग्रीष्माय कलविङ्कान् वर्षाभ्यस् तित्तिरीञ्छरदे वर्तिका हेमन्ताय ककराञ्छिशिराय विककरान् ॥
VERSE: 24.21 समुद्राय शिशुमारान् आलभते पर्जन्याय मण्डूकान् अद्भ्यो मत्स्यान् मित्राय कुलीपयान् वरुणाय नाक्रान् ॥
VERSE: 24.22 सोमाय हम्̐सान् आ लभते वायवे बलाका ऽ इन्द्राग्निभ्यां क्रुञ्चान् मित्राय मद्गून् वरुणाय चक्रवाकान् ॥
VERSE: 24.23 अग्नये कुटरून् आ लभते वनस्पतिभ्य ऽ उलूकान् अग्नीषोमाभ्यां चाषान् अश्विभ्यां मयूरान् मित्रावरुणाभ्यां कपोतान् ॥
VERSE: 24.24 सोमाय लबान् आ लभते त्वष्ट्रे कौलीकान् गोषादीर् देवानां पत्नीभ्यः कुलीका देवजामिभ्यो ऽग्नये गृहपतये पारुष्णान् ॥
VERSE: 24.25 अह्ने पारावतान् आ लभते रात्र्यै सीचापूर् अहोरात्रयोः संधिभ्यो जतूर् मासेभ्यो दात्यौहान्त् संवत्सराय महतः सुपर्णान् ॥
VERSE: 24.26 भूम्या ऽ आखून् आ लभते ऽन्तरिक्षाय पाङ्क्तान् दिवे कशान् दिग्भ्यो नकुलान् बभ्रुकान् अवान्तरदिशाभ्यः ॥
VERSE: 24.27 वसुभ्य ऽ ऋश्यान् आ लभते रुद्रेभ्यः रुरून् आदित्येभ्यो न्यङ्कून् विश्वेभ्यो देवेभ्यः पृषतान्त् साध्येभ्यः कुलुङ्गान् ॥
VERSE: 24.28 ईशानाय परस्वत ऽ आ लभते मित्राय गौरान् वरुणाय महिषान् बृहस्पतये गवयाम्̐स् त्वष्ट्र ऽ उष्ट्रान् ॥
VERSE: 24.29 प्रजापतये पुरुषान् हस्तिन ऽ आ लभते वाचे प्लुषीम्̐श् चक्षुषे मशकाञ्छ्रोत्राय भृङ्गाः ॥
VERSE: 24.30 प्रजापतये च वायवे च गोमृगो वरुणायारण्यो मेषो यमाय कृष्णो मनुष्यराजाय मर्कटः शार्दूलाय रोहिद् ऋषभाय गवयी क्षिप्रश्येनाय वर्तिका नीलङ्गोः कृमिः समुद्राय शिशुमारो हिमवते हस्ती ॥
VERSE: 24.31 मयुः प्राजापत्य ऽ उलो हलिक्ष्णो वृषदम्̐शस् ते धात्रे दिशां कङ्को धुङ्क्षाग्नेयी कलविङ्को लोहिताहिः पुष्करसादस् ते त्वाष्ट्रा वाचे क्रुञ्चः ॥
VERSE: 24.32 सोमाय कुलुङ्ग ऽ आरण्यो ऽजो नकुलः शका ते पौष्णाः क्रोष्टा मायोर् इन्द्रस्य गौरमृगः पिद्वो न्यङ्कुः कक्कटस् ते ऽनुमत्यै प्रतिश्रुत्कायै चक्रवाकः ॥
VERSE: 24.33 सौरी बलाका शार्गः सृजयः शयाण्डकस् ते मैत्राः सरस्वत्यै शारिः पुरुषवाक् श्वाविद् भौमी शार्दूलो वृकः पृदाकुस् ते मन्यवे सरस्वते शुकः पुरुषवाक् ॥
VERSE: 24.34 सुपर्णः पार्जन्य ऽ आतिर्वाहसो दर्विदा ते वायवे बृहस्पतये वाचस् पतये पैङ्गराजो ऽलज ऽ आन्तरिक्षः प्लवो मद्गुर् मत्स्यस् ते नदीपतये द्यावापृथिवीयः कूर्मः ॥
VERSE: 24.35 पुरुषमृगश् चन्द्रमसो गोधा कालका दार्वाघाटस् ते वनस्पतीनां कृकवाकुः सावित्रो हम्̐सो वातस्य नाक्रो मकरः कुलीपयस् ते ऽकूपारस्य ह्रियै शल्पकः ॥
VERSE: 24.36 एण्य् अह्नो मण्डूको मूषिका तित्तिरिस् ते सर्पाणां लोपाश ऽ आश्विनः कृष्णो रात्र्या ऽ ऋक्षो जतूः सुषिलीका त ऽ इतरजनानां जहका वैष्णवी ॥
VERSE: 24.37 अन्यवापो ऽर्धमासानाम् ऋश्यो मयूरः सुपर्णस् ते गन्धर्वाणाम् अपाम् उद्रो मासां कश्यपो रोहित् कुण्डृणाची गोलत्तिका ते ऽप्सरसां मृत्यवे ऽसितः ॥
VERSE: 24.38 वर्षाहूर् ऋतूनाम् आखुः कशो मान्थालस् ते पितॄणां बलायाजगरो वसूनां कपिञ्जलः कपोत ऽ उलूकः शशस् ते निर्ऋत्यै वरुणायारण्यो मेषः ॥
VERSE: 24.39 श्वित्र ऽ आदित्यानाम् उष्ट्रो घृणीवान् वार्ध्रीणसस् ते मत्या ऽ अरण्याय सृमरो रुरू रौद्रः क्वयिः कुटरुर् दात्यौहस् ते वाजिनां कामाय पिकः ॥
VERSE: 24.40 खड्गो वैश्वदेवः श्वा कृष्णः कर्णो गर्दभस् तरक्षुस् ते रक्षसाम् इन्द्राय सूकरः सिम्̐हो मारुताः कृकलासः पिप्पका शकुनिस् ते शरव्यायै विश्वेषां देवानां पृषतः ॥

अध्याय 25 अश्वमेधे अश्वाङ्गेभ्यो होमः
VERSE: 25.1 शादं दद्भिर् अवकां दन्तमूलैर् मृदं बर्स्वैस् तेगान् दम्̐ष्ट्राभ्याम्̐ सरस्वत्या ऽ अग्रजिह्वं जिह्वाया ऽ उत्सादम् अवक्रन्देन तालु वाजम्̐ हनुभ्याम् अप ऽ आस्येन वृषणम् आण्डाभ्याम् आदित्याम्̐ श्मश्रुभिः पन्थानं भ्रूभ्यां द्यावापृथिवी वर्तोभ्यां विद्युतं कनीनकाभ्याम्̐ शुक्लाय स्वाहा कृष्णाय स्वाहा पार्याणि पक्ष्माण्य् अवार्या ऽ इक्षवो वार्याणि पक्ष्माणि पार्या ऽ इक्षवः ॥
VERSE: 25.2 वातं प्राणेनापानेन नासिके ऽ उपयामम् अधरेणौष्ठेन सद् उत्तरेण प्रकाशेनान्तरम् अनूकाशेन बाह्यं निवेष्यं मूर्ध्ना स्तनयित्नुं निर्बाधेनाशनिं मस्तिष्केण विद्युतं कनीनकाभ्यां कर्णाभ्याम्̐ श्रोत्रम्̐ श्रोत्राभ्यां कर्णौ तेदनीम् अधरकण्ठेनापः शुष्ककण्ठेन चित्तं मन्याभिर् अदितिम्̐ शीर्ष्णा निर्ऋतिं निर्जर्जल्पेन शीर्ष्णा संक्रोशैः प्राणान् रेष्माणम्̐ स्तुपेन ॥
VERSE: 25.3 मशकान् केशैर् इन्द्रम्̐ स्वपसा वहेन बृहस्पतिम्̐ शकुनिसादेन कूर्माञ्छफैर् आक्रमणम्̐ स्थूराभ्याम् ऋक्षलाभिः कपिञ्जलान् जवं जङ्घाभ्याम् अध्वानं बाहुभ्यां जाम्बीलेनारण्यम् अग्निम् अतिरुग्भ्यां पूषणं दोर्भ्याम् अश्विनाव् अम्̐साभ्याम्̐ रुद्रम्̐ रोराभ्याम् ॥
VERSE: 25.4 अग्नेः पक्षतिर् वायोर् निपक्षतिर् इन्द्रस्य तृतीया सोमस्य चतुर्थ्य् अदित्यै पञ्चमीन्द्राण्यै षष्ठी मरुताम्̐ सप्तमी बृहस्पतेर् अष्टम्य् अर्यम्णो नवमी धातुर् दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यमस्य त्रयोदशी ॥
VERSE: 25.5 इन्द्राग्न्योः पक्षतिर् सरस्वत्यै निपक्षतिर् मित्रस्य तृतीयापां चतुर्थी निर्ऋत्यै पञ्चम्य् अग्नीषोमयोः षष्ठी सर्पाणाम्̐ सप्तमी विष्णोर् अष्टमी पूष्णो नवमी त्वष्टुर् दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यम्यै त्रयोदशी द्यावापृथिव्योर् दक्षिणं पार्श्वं विश्वेषां देवानाम् उत्तरम् ॥
VERSE: 25.6 मरुताम्̐ स्कन्धा विश्वेषां देवानां प्रथमा कीकसा रुद्राणां द्वितीयादित्यानां तृतीया वायोः पुच्छम् अग्नीषोमयोर् भासदौ क्रुञ्चौ श्रोणिभ्याम् इन्द्राबृहस्पती ऽ ऊरुभ्यां मित्रावरुणाव् अल्गाभ्याम् आक्रमणम्̐ स्थूराभ्यां बलं कुष्ठाभ्याम् ॥
VERSE: 25.7 पूषणं वनिष्ठुनान्धाहीन्त् स्थूलगुदया सर्पान् गुदाभिर् विह्रुत ऽ आन्त्रैर् अपो वस्तिना वृषणम् आण्डाभ्यां वाजिनम्̐ शेपेन प्रजाम्̐ रेतसा चाषान् पित्तेन प्रदरान् पायुना कूश्माञ्छकपिण्डैः ॥
VERSE: 25.8 इन्द्रस्य क्रोडो ऽदित्यै पाजस्यं दिशां जत्रवो ऽदित्यै भसज् जीमूतान् हृदयौपशेनान्तरिक्षं पुरीतता नभ ऽ उदर्येण चक्रवाकौ मतस्नाभ्यां दिवं वृक्काभ्यां गिरीन् प्लाशिभिर् उपलान् प्लीह्ना वल्मीकान् क्लोमभिर् ग्लौभिर् गुल्मान् हिराभिः स्रवन्तीर् ह्रदान् कुक्षिभ्याम्̐ समुद्रम् उदरेण वैश्वानरं भस्मना ॥
VERSE: 25.9 विधृतिं नाभ्या धृतम्̐ रसेनापो यूष्णा मरीचीर् विप्रुड्भिर् नीहारमूष्मणा शीनं वसया प्रुष्वा ऽ अश्रुभिर् ह्रादुनीर् दूषीकाभिर् अस्ना रक्षाम्̐सि चित्राण्य् अङ्गैर् नक्षत्राणि रूपेण पृथिवीं त्वचा जुम्बकाय स्वाहा ॥
VERSE: 25.10 हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् । स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥
VERSE: 25.11 यः प्राणतो निमिषतो महित्वैक ऽ इद् राजा जगतो बभूव । य ऽ ईशे ऽ अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥
VERSE: 25.12 यस्येमे हिमवन्तो महित्वा यस्य समुद्रम्̐ रसया सहाहुः । यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥
VERSE: 25.13 य ऽ आत्मदा बलदा यस्य विश्व ऽ उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥
VERSE: 25.14 आ नो भद्राः क्रतवो यन्तु विश्वतो दब्धासो ऽ अपरीतास ऽ उद्भिदः । देवा नो यथा सदम् इद् वृधे ऽ असन्न् अप्रायुवो रक्षितारो दिवे-दिवे ॥
VERSE: 25.15 देवानां भद्रा सुमतिर् ऋजूयतां देवानाम्̐ रातिर् अभि नो नि वर्तताम् । देवानाम्̐ सख्यम् उप सेदिमा वयं देवा न ऽ आयुः प्र तिरन्तु जीवसे ॥
VERSE: 25.16 तान् पूर्वया निविदा हूमहे वयं भगं मित्रम् अदितिं दक्षम् अस्रिधम् । अर्यमणं वरुणम्̐ सोमम् अश्विना सरस्वती नः सुभगा मयस् करत् ॥
VERSE: 25.17 तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत् पिता द्यौः । तद् ग्रावाणः सोमसुतो मयोभुवस् तद् अश्विना शृणुतं धिष्ण्या युवम् ॥
VERSE: 25.18 तम् ईशानं जगतस् तस्थुषस् पतिं धियंजिन्वम् अवसे हूमहे वयम् । पूषा नो यथा वेदसाम् असद् वृधे रक्षिता पायुर् अदब्धः स्वस्तये ॥
VERSE: 25.19 स्वस्ति न ऽ इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस् तार्क्ष्यो ऽ अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु ॥
VERSE: 25.20 पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा ऽ अवसा गमन्न् इह ॥
VERSE: 25.21 भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर् यजत्राः । स्थिरैर् अङ्गैस् तुष्टुवाम्̐सस् तनूभिर् व्यशेमहि देवहितं यद् आयुः ॥
VERSE: 25.22 शतम् इन् नु शरदो ऽ अन्ति देवा यत्रा नश् चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः ॥
VERSE: 25.23 अदितिर् द्यौर् अदितिर् अन्तरिक्षम् अदितिर् माता स पिता स पुत्रः । विश्वे देवा ऽ अदितिः पञ्च जना ऽ अदितिर् जातम् अदितिर् जनित्वम् ॥
VERSE: 25.24 मा नो मित्रो वरुणो ऽ अर्यमायुर् इन्द्र ऽ ऋभुक्षा मरुतः परि ख्यन् । यद् वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥
VERSE: 25.25 यन् निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयन्ति । सुप्राङ् अजो मेम्यद् विश्वरूप ऽ इन्द्रापूष्णोः प्रियम् अप्य् एति पाथः ॥
VERSE: 25.26 एष छागः पुरो ऽ अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः । अभिप्रियं यत् पुरोडाशम् अर्वता त्वष्टेद् एनम्̐ सौश्रवसाय जिन्वति ॥
VERSE: 25.27 यद्धविष्यम् ऋतुशो देवयानं त्रिर् मानुषाः पर्य् अश्वं नयन्ति । अत्रा पूष्णः प्रथमो भाग ऽ एति यज्ञं देवेभ्यः प्रतिवेदयन्न् अजः ॥
VERSE: 25.28 होताध्वर्युर् आवया ऽ अग्निमिन्धो ग्रावग्राभ ऽ उत शम्̐स्ता सुविप्रः । तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥
VERSE: 25.29 यूपव्रस्का ऽ उत ये यूपवाहाश् चषालं ये ऽ अश्वयूपाय तक्षति । ये चार्वते पचनम्̐ सम्भरन्त्य् उतो तेषाम् अभिगूर्तिर् न ऽ इन्वतु ॥
VERSE: 25.30 उप प्रागात् सुमन् मे धायि मन्म देवानाम् आशा ऽ उप वीतपृष्ठः । अन्व् एनं विप्रा ऽ ऋषयो मदन्ति देवानां पुष्टे चकृमा सुबन्धुम् ॥
VERSE: 25.31 यद् वाजिनो दाम संदानम् अर्वतो या शीर्षण्या रशना रज्जुर् अस्य । यद् वा घास्य प्रभृतम् आस्ये तृणम्̐ सर्वा ता ते ऽ अपि देवेष्व् अस्तु ॥
VERSE: 25.32 यद् अश्वस्य क्रविषो मक्षिकाश यद् वा स्वरौ स्वधितौ रिप्तम् अस्ति । यद्धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते ऽ अपि देवेष्व् अस्तु ॥
VERSE: 25.33 यद् ऊवध्यम् उदरस्यापवाति य ऽ आमस्य क्रविषो गन्धो ऽ अस्ति । सुकृता तच्छमितारः कृण्वन्तूत मेधम्̐ शृतपाकं पचन्तु ॥
VERSE: 25.34 यत् ते गात्राद् अग्निना पच्यमानाद् अभि शूलं निहतस्यावधावति । मा तद् भूम्याम् आ श्रिषन् मा तृणेषु देवेभ्यस् तद् उशद्भ्यो रातम् अस्तु ॥
VERSE: 25.35 ये वाजिनं परिपश्यन्ति पक्वं य ऽ ईम् आहुः सुरभिर् निर् हरेति । ये चार्वतो माम्̐सभिक्षाम् उपासत ऽ उतो तेषाम् अभिगूर्तिर् न ऽ इन्वतु ॥
VERSE: 25.36 यन्नीक्षणं माम्̐स्पचन्या उखाया या पात्राणि यूष्ण ऽ आसेचनानि । ऊष्मण्यापिधाना चरूणाम् अङ्काः सूनाः परि भूषन्त्य् अश्वम् ॥
VERSE: 25.37 मा त्वाग्निर् ध्वनयीद् धूमगन्धिर् मोखा भ्राजन्त्य् अभि विक्त जघ्रिः । इष्टं वीतम् अभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्यश्वम् ॥
VERSE: 25.38 निक्रमणं निषदनं विवर्तनं यच् च पड्वीशम् अर्वतः । यच् च पपौ यच् च घासिं जघास सर्वा ता ते ऽ अपि देवेष्व् अस्तु ॥
VERSE: 25.39 यद् अश्वाय वास ऽ उपस्तृणन्त्य् अधीवासं या हिरण्यान्य् अस्मै । संदानम् अर्वन्तं पड्वीशं प्रिया देवेष्व् आ यामयन्ति ॥
VERSE: 25.40 यत् ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद । स्रुचेव ता हविषो ऽ अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥
VERSE: 25.41 चतुस्त्रिम्̐शद् वाजिनो देवबन्धोर् वङ्क्रीर् अश्वस्य स्वधितिः सम् एति । अच्छिद्रा गात्रा वयुना कृणोत परुष्-परुर् अनुघुष्या वि शस्त ॥
VERSE: 25.42 एकस् त्वष्टुर् अश्वस्या विशस्ता द्वा यन्तारा भवतस् तथ ऽ ऋतुः । या ते गात्राणाम् ऋतुथा कृणोमि ता-ता पिण्डानां प्र जुहोम्य् अग्नौ ॥
VERSE: 25.43 मा त्वा तपत् प्रिय ऽ आत्मापियन्तं मा स्वधितिस् तन्व ऽआ तिष्ठिपत् ते । मा ते गृध्नुर् अविशस्तातिहाय छिद्रा गात्राण्य् असिना मिथू कः ॥
VERSE: 25.44 न वा ऽ उ ऽ एतन् म्रियसे न रिष्यसि देवाम्̐२ऽ इद् एषि पथिभिः सुगेभिः । हरी ते युञ्जा पृषती ऽ अभूताम् उपास्थाद् वाजी धुरि रासभस्य ॥
VERSE: 25.45 सुगव्यं नो वाजी स्वश्व्यं पुम्̐सः पुत्राम्̐२ऽ उत विश्वापुषम्̐ रयिम् । अनागास्त्वं नो ऽ अदितिः कृणोतु क्षत्रं नो ऽ अश्वो वनताम्̐ हविष्मान् ॥
VERSE: 25.46 इमा नु कं भुवना सीषधामेन्द्रश् च विश्वे च देवाः । आदित्यैर् इन्द्रः सगणो मरुद्भिर् अस्मभ्यं भेषजा करत् । यज्ञं च नस् तन्वं च प्रजां चादित्यैर् इन्द्रः सह सीषधाति ॥
VERSE: 25.47 अग्ने त्वं नो ऽ अन्तम ऽ उत त्राता शिवो भव वरूथ्यः । वसुर् अग्निर् वसुश्रवा ऽ अच्छा नक्षि द्युमत्तमम्̐ रयिं दाः । तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥ [स नो बोधि श्रुधी हवमुरुष्या णो ऽ अघायतः समस्मात्]

अध्याय 26 खिलसंज्ञा मन्त्राः
VERSE: 26.1 अग्निश् च पृथिवी च संनते ते मे सं नमताम् अदः । वायुश् चाऽन्तरिक्षं च संनते ते मे सं नमताम् अदः । ऽ आदित्यश् च द्यौश् च संनते ते मे सं नमताम् अदः । ऽ आपश् च वरुणश् च संनते ते मे सं नमताम् अदः । सप्त सम्̐सदो ऽ अष्टमी भूतसाधनी । सकामाम्̐२ऽ अध्वनस् कुरु संज्ञानम् अस्तु मे ऽमुना ॥
VERSE: 26.2 यथेमां वाचं कल्याणीम् आवदानि जनेभ्यः । ब्रह्मराजन्याभ्याम्̐ शूद्राय चार्याय च स्वाय चारणाय । प्रियो देवानां दक्षिणायै दातुर् इह भूयासम् अयं मे कामः सम् ऋध्यताम् उप मादो नमतु ॥
VERSE: 26.3 बृहस्पते ऽ अति यद् अर्यो ऽ अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु । यद् दीदयच्छवस ऽ ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् । उपयामगृहीतो ऽसि बृहस्पतये त्वा । एष ते योनिर् बृहस्पतये त्वा ॥
VERSE: 26.4 इन्द्र गोमन्न् इहा याहि पिबा सोमम्̐ शतक्रतो । विद्यद्भिर् ग्रावभिः सुतम् । उपयामगृहीतो ऽसीन्द्राय त्वा गोमते । ऽ एष ते योनिर् इन्द्राय त्वा गोमते ॥
VERSE: 26.5 इन्द्रा याहि वृत्रहन् पिबा सोमम्̐ शतक्रतो । गोमद्भिर् ग्रावभिः सुतम् । उपयामगृहीतो ऽसीन्द्राय त्वा गोमते । ऽ एष ते योनिर् इन्द्राय त्वा गोमते ॥
VERSE: 26.6 ऋतावानं वैश्वानरम् ऋतस्य ज्योतिषस् पतिम् । अजस्रं घर्मम् ईमहे । उपयामगृहीतो ऽसि वैश्वानराय त्वा । एष ते योनिर् वैश्वानराय त्वा ॥
VERSE: 26.7 वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानाम् अभिश्रीः । इतो जातो विश्वम् इदं वि चष्टे वैश्वानरो यतते सूर्येण । उपयामगृहीतो ऽसि वैश्वानराय त्वा । एष ते योनिर् वैश्वानराय त्वा ॥
VERSE: 26.8 वैश्वानरो न ऽ ऊतय ऽ आ प्र यातु परावतः । अग्निर् उक्थेन वाहसा । उपयामगृहीतो ऽसि वैश्वानराय त्वा । एष ते योनिर् वैश्वानराय त्वा ॥
VERSE: 26.9 अग्निर् ऋषिः पवमानः पाञ्चजन्यः पुरोहितः । तम् ईमहे महागयम् । उपयामगृहीतो ऽस्य् अग्नये त्वा वर्चसे । ऽ एष ते योनिर् अग्नये त्वा वर्चसे ॥
VERSE: 26.10 महाम्̐२ऽ इन्द्रो वज्रहस्तः षोडशी शर्म यच्छतु । हन्तु पाप्मानं यो ऽस्मान् द्वेष्टि । उपयामगृहीतो ऽसि महेन्द्राय त्वा । एष ते योनिर् महेन्द्राय त्वा ॥
VERSE: 26.11 तं वो दस्मम् ऋतीषहं वसोर् मन्दानम् अन्धसः । अभि वत्सं न स्वसरेषु धेनव ऽ इन्द्रं गीर्भिर् नवामहे ॥
VERSE: 26.12 यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो । महिषीव त्वद् रयिस् त्वद् वाजा ऽ उद् ईरते ॥
VERSE: 26.13 एह्य् ऊ षु ब्रवाणि ते ऽग्न ऽ इत्थेतरा गिरः । एभिर् वर्धास ऽ इन्दुभिः ॥
VERSE: 26.14 ऋतवस् ते यज्ञं वि तन्वन्तु मासा रक्षन्तु ते हविः । संवत्सरस् ते यज्ञं दधातु नः प्रजां च परि पातु नः ॥
VERSE: 26.15 उपह्वरे गिरीणाम्̐ संगमे च नदीनाम् । धिया विप्रो ऽ अजायत ॥
VERSE: 26.16 उच्चा ते जातम् अन्धसो दिवि सद् भूम्य् आ ददे । उग्रम्̐ शर्म महि श्रवः ॥
VERSE: 26.17 स न ऽ इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । वरिवोवित् परि स्रव ॥
VERSE: 26.18 एना विश्वान्य् अर्य ऽ आ द्युम्नानि मानुषाणाम् । सिषासन्तो वनामहे ॥
VERSE: 26.19 अनु वीरैर् अनु पुष्यास्म गोभिर् अन्व् अश्वैर् अनु सर्वेण पुष्टैः । अनु द्विपदानु चतुष्पदा वयं देवा नो यज्ञम् ऋतुथा नयन्तु ॥
VERSE: 26.20 अग्ने पत्नीर् इहा वह देवानाम् उशतीर् उप । त्वष्टारम्̐ सोमपीतये ॥
VERSE: 26.21 अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऽ ऋतुना । त्वम्̐ हि रत्नधा ऽ असि ॥
VERSE: 26.22 द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत । नेष्ट्राद् ऋतुभिर् इष्यत ॥
VERSE: 26.23 तवायम्̐ सोमस् त्वम् एह्य् अर्वाङ्छश्वत्तमम्̐ सुमना ऽ अस्य पाहि । अस्मिन् यज्ञे बर्हिष्य् आ निषद्या दधिष्वेमं जठर ऽ इन्दुम् इन्द्र ॥
VERSE: 26.24 अमेव नः सुहवा ऽ आ हि गन्तन नि बर्हिषि सदतना रणिष्टन । अथा मन्दस्व जुजुषाणो ऽ अन्धसस् त्वष्टर् देवेभिर् जनिभिः सुमद्गणः ॥
VERSE: 26.25 स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । इन्द्राय पातवे सुतः ॥
VERSE: 26.26 रक्षोहा विश्वचर्षणिर् अभि योनिम् अयोहतम् । द्रुणा(द्रोणे) सधस्थम् आसदत् ॥

अध्याय 27 पञ्चचितिकस्याग्नेः मन्त्राः
VERSE: 27.1 समास् त्वाग्न ऽ ऋतवो वर्धयन्तु संवत्सरा ऽ ऋषयो यानि सत्या । सं दिव्येन दीदिहि रोचनेन विश्वा ऽ आ भाहि प्रदिशश् चतस्रः ॥
VERSE: 27.2 सं चेध्यस्वाग्ने प्र च बोधयैनम् उच् च तिष्ठ महते सौभगाय । मा च रिषद् उपसत्ता ते ऽ अग्ने ब्रह्माणस् ते यशसः सन्तु मा ऽन्ये ॥
VERSE: 27.3 त्वाम् अग्ने वृणते ब्राह्मणा ऽ इमे शिवो ऽ अग्ने संवरणे भवा नः । सपत्नहा नो ऽ अभिमातिजिच् च स्वे गये जागृह्य् अप्रयुच्छन् ॥
VERSE: 27.4 इहैवाग्ने ऽ अधि धारया रयिं मा त्वा नि क्रन् पूर्वचितो निकारिणः । क्षत्रम् अग्ने सुयमम् अस्तु तुभ्यम् उपसत्ता वर्धतां ते ऽ अनिष्टृतः ॥
VERSE: 27.5 क्षत्रेणाग्ने स्वायुः सम्̐ रभस्व मित्रेणाग्ने मित्रधेये यतस्व । सजातानां मध्यमस्था ऽ एधि राज्ञाम् अग्ने विहव्यो दीदिहीह ॥
VERSE: 27.6 अति निहो ऽ अति स्रिधो ऽत्य् अचित्तिम् अत्य् अरातिम् अग्ने । विश्वा ह्य् अग्ने दुरिता सहस्वाथास्मभ्यम्̐ सहवीराम्̐ रयिं दाः ॥
VERSE: 27.7 अनाधृष्यो जातवेदा ऽ अनाधृष्टो विराड् अग्ने क्षत्रभृद् दीदिहीह । विश्वा ऽ आशाः प्रमुञ्चन् मानुषीर् भयः शिवेभिर् अद्य परि पाहि नो वृधे ॥
VERSE: 27.8 बृहस्पते सवितर् बोधयैनम्̐ सम्̐शितं चित् संतराम्̐ सम्̐ शिशाधि । वर्धयैनं महते सौभगाय विश्व ऽ एनम् अनु मदन्तु देवाः ॥
VERSE: 27.9 अमुत्रभूयादध यद् यमस्य बृहस्पते ऽ अभिशस्तेर् अमुञ्चः । प्रत्य् औहताम् अश्विना मृत्युम् अस्माद् देवानाम् अग्ने भिषजा शचीभिः ॥
VERSE: 27.10 उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् । देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥
VERSE: 27.11 ऊर्ध्वा ऽ अस्य समिधो भवन्त्य् ऊर्ध्वा शुक्रा शोचीम्̐ष्य् अग्नेः । द्युमत्तमा सुप्रतीकस्य सूनोः ॥
VERSE: 27.12 तनूनपाद् असुरो विश्ववेदा देवो देवेषु देवः । पथो अनक्तु मध्वा घृतेन ॥
VERSE: 27.13 मध्वा यज्ञं नक्षसे प्रीणानो नराशम्̐सो ऽ अग्ने । सुकृद् देवः सविता विश्ववारः ॥
VERSE: 27.14 अच्छायम् एति शवसा घृतेनेडानो वह्निर् नमसा । अग्निम्̐ स्रुचो ऽ अध्वरेषु प्रयत्सु ॥
VERSE: 27.15 स यक्षद् अस्य महिमानम् अग्नेः स ऽ ईं मन्द्रा सुप्रयसः । वसुश्चेतिष्ठो वसुधातमश् च ॥
VERSE: 27.16 द्वारो देवीर् अन्व् अस्य विश्वे व्रता ददन्ते ऽ अग्नेः । उरुव्यचसो धाम्ना पत्यमानाः ॥
VERSE: 27.17 ते ऽ अस्य योषणे दिव्ये न योना ऽ उषासानक्ता । इमं यज्ञम् अवताम् अध्वरं नः ॥
VERSE: 27.18 दैव्या होतारा ऽ ऊर्ध्वम् अध्वरं नो ऽग्नेर् जिह्वाम् अभि गृणीतम् । कृणुतम् नः स्विष्टम् ॥
VERSE: 27.19 तिस्रो देवीर् बर्हिर् इदम्̐ सदन्त्व् इडा सरस्वती भारती । मही गृणाना ॥
VERSE: 27.20 तन् नस् तुरीपम् अद्भुतं पुरुक्षु त्वष्टा सुवीर्यम् । रायस्पोषं वि ष्यतु नाभिम् अस्मे ॥
VERSE: 27.21 वनस्पते ऽव सृजा रराणस् त्मना देवेषु । अग्निर् हव्यम्̐ शमिता सूदयाति ॥
VERSE: 27.22 अग्ने स्वाहा कृणुहि जातवेदो ऽ इन्द्राय हव्यम् । विश्वे देवा हविर् इदं जुषन्ताम् ॥
VERSE: 27.23 पीवो ऽ अन्ना रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुताम् अभिश्रीः । ते वायवे समनसो वि तस्थुर् विश्वेन् नरः स्वपत्यानि चक्रुः ॥
VERSE: 27.24 राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् । अध वायुं नियुतः सश्चत स्वा ऽ उत श्वेतं वसुधितिं निरेके ॥
VERSE: 27.25 आपो ह यद् बृहतीर् विश्वम् आयन् गर्भं दधाना जनयन्तीर् अग्निम् । ततो देवानाम्̐ सम् अवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥
VERSE: 27.26 यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर् यज्ञम् । यो देवेष्व् अधि देव ऽ एक ऽ आसीत् कस्मै देवाय हविषा विधेम ॥
VERSE: 27.27 प्र याभिर् यासि दाश्वाम्̐सम् अच्छा नियुद्भिर् वायविष्टये दुरोणे । नि नो रयिम्̐ सुभोजसं युवस्व नि वीरं गव्यम् अश्व्यं च राधः ॥
VERSE: 27.28 आ नो नियुद्भिः शतिनीभिर् अध्वरम्̐ सहस्रिणीभिर् उप याहि यज्ञम् । वायो ऽ अस्मिन् सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥
VERSE: 27.29 नियुत्वान् वायवा गह्य् अयम्̐ शुक्रो अयामि ते । गन्तासि सुन्वतो गृहम् ॥
VERSE: 27.30 वायो शुक्रो ऽ अयामि ते मध्वो ऽ अग्रं दिविष्टिषु । आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥
VERSE: 27.31 वायुर् अग्रेगा यज्ञप्रीः साकं गन् मनसा यज्ञम् । शिवो नियुद्भिः शिवाभिः ॥
VERSE: 27.32 वायो ये ते सहस्रिणो रथासस् तेभिर् आ गहि । नियुत्वान्त् सोमपीतये ॥
VERSE: 27.33 एकया च दशभिश् च स्वभूते द्वाभ्याम् इष्टये विम्̐शती च । तिसृभिश् च वहसे त्रिम्̐शता च नियुद्भिर् वायव् इह ता वि मुञ्च ॥
VERSE: 27.34 तव वायवृतस्पते त्वष्टुर् जामातर् अद्भुत । अवाम्̐स्य् आ वृणीमहे ॥
VERSE: 27.35 अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः । ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः ॥
VERSE: 27.36 न त्वावाम्̐२ऽ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे ॥
VERSE: 27.37 त्वाम् इद्धि हवामहे साता वाजस्य कारवः । त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ॥
VERSE: 27.38 स त्वं नश् चित्र वज्रहस्त धृष्णुया मह स्तवानो ऽ अद्रिवः । गाम् अश्वम्̐ रथ्यम् इन्द्र सं किर सत्रा वाजं न जिग्युषे ॥
VERSE: 27.39 कया नश् चित्र ऽ आ भुवद् ऊती सदावृधः सखा । कया शचिष्ठया वृता ॥
VERSE: 27.40 कस् त्वा सत्यो मदानां मम्̐हिष्ठो मत्सद् अन्धसः । दृढा चिद् आरुजे वसु ॥
VERSE: 27.41 अभी षु णः सखीनाम् अविता जरितॄणाम् । शतं भवास्य् ऊतये ॥
VERSE: 27.42 यज्ञा-यज्ञा वो ऽ अग्नये गिरा-गिरा च दक्षसे । प्र-प्र वयम् अमृतं जातवेदसं प्रियं मित्रं न शम्̐सिषम् ॥
VERSE: 27.43 पाहि नो ऽ अग्न ऽ एकया पाह्य् उत द्वितीयया । पाहि गीर्भिस् तिसृभिर् ऊर्जां पते पाहि चतसृभिर् वसो ॥
VERSE: 27.44 ऊर्जो नपातम्̐ स हिनायम् अस्मयुर् दाशेम हव्यदातये । भुवद् वाजेष्व् अविता भुवद् वृध ऽ उत त्राता तनूनाम् ॥
VERSE: 27.45 संवत्सरो ऽसि परिवत्सरोऽसीदावत्सरो ऽसीद्वत्सरो ऽसि वत्सरो ऽसि । उषसस् ते कल्पन्ताम् अहोरात्रास् ते कल्पन्ताम् अर्धमासास् ते कल्पन्तां मासास् ते कल्पन्ताम् ऋतवस् ते कल्पन्ताम्̐ संवत्सरस् ते कल्पताम् । प्रेत्या ऽ एत्यै सं चाञ्च प्र च सारय । सुपर्णचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवः सीद ॥
अध्याय 28 सौत्रामण्यङ्गभूताः पशुप्रयाजानुयाज प्रैषमन्त्राः
VERSE: 28.1 होता यक्षद् समिधेन्द्रम् इडस् पदे नाभा पृथिव्या ऽ अधि । दिवो वर्ष्मन्त् सम् इध्यत ऽ ओजिष्ठश् चर्षणीसहां वेत्व् आज्यस्य होतर् यज ॥
VERSE: 28.2 होता यक्षत् तनूनपातमूतिभिर् जेतारम् अपराजितम् । इन्द्रं देवम्̐ स्वर्विदं पथिभिर् मधुमत्तमैर् नराशम्̐सेन तेजसा वेत्व् आज्यस्य होतर् यज ॥
VERSE: 28.3 होता यक्षद् इडाभिर् इन्द्रम् ईडितम् आजुह्वानम् अमर्त्यम् । देवो देवैः सवीर्यो वज्रहस्तः पुरंदरो वेत्व् आज्यस्य होतर् यज ॥
VERSE: 28.4 होता यक्षद् बर्हिषीन्द्रं निषद्वरं वृषभं नर्यापसम् । वसुभी रुद्रैर् आदित्यैः सुयुग्भिर् बर्हिर् आसदद् वेत्व् आज्यस्य होतर् यज ॥
VERSE: 28.5 होता यक्षद् ओजो न वीर्यम्̐ सहो द्वार ऽ इन्द्रम् अवर्धयन् । सुप्रायणा ऽ अस्मिन् यज्ञे वि श्रयन्ताम् ऋतावृधो द्वार ऽ इन्द्राय मीढुषे व्यन्त्व् आज्यस्य होतर् यज ॥
VERSE: 28.6 होता यक्षद् उषे ऽ इन्द्रस्य धेनू सुदुघे मातरा मही । सवातरौ न तेजसा वत्सम् इन्द्रम् अवर्धतां वीताम् आज्यस्य होतर् यज ॥
VERSE: 28.7 होता यक्षद् दैव्या होतारा भिषजा सखाया हविषेन्द्रं भिषज्यतः । कवी देवौ प्रचेतसाव् इन्द्राय धत्त ऽ इन्द्रियं वीताम् आज्यस्य होतर् यज ॥
VERSE: 28.8 होता यक्षत् तिस्रो देवीर् न भेषजं त्रयस् त्रिधातवो ऽपस इडा सरस्वत् भारती महीः । इन्द्रपत्नीर् हविष्मतीर् व्यन्त्व् आज्यस्य होतर् यज ॥
VERSE: 28.9 होता यक्षत् त्वष्टारम् इन्द्रं देवं भिषजम्̐ सुयजं घृतश्रियम् । पुरुरूपम्̐ सुरेतसं मघोनम् इन्द्राय त्वष्टा दधद् इन्द्रियाणि वेत्व् आज्यस्य होतर् यज ॥
VERSE: 28.10 होता यक्षद् वनस्पतिम्̐ शमितारम्̐ शतक्रतुं धियो जोष्टारम् इन्द्रियम् । मध्वा समञ्जन् पथिभिः सुगेभिः स्वदाति यज्ञं मधुना घृतेन वेत्व् आज्यस्य होतर् यज ॥
VERSE: 28.11 होता यक्षद् इन्द्रम्̐ स्वाहाज्यस्य स्वाहा मेदसः स्वाहा स्तोकानाम्̐ स्वाहा स्वाहाकृतीनाम्̐ स्वाहा हव्यसूक्तीनाम् । स्वाहा देवा ऽ आज्यपा जुषाणा ऽ इन्द्र आज्यस्य व्यन्तु होतर् यज ॥
VERSE: 28.12 देवं बर्हिर् इन्द्रम्̐ सुदेवं देवैर् वीरवत् स्तीर्णं वेद्याम् अवर्धयत् । वस्तोर् वृतं प्राक्तोर् भृतम्̐ राया बर्हिष्मतो ऽत्य् अगाद् वसुवने वसुधेयस्य वेतु यज ॥
VERSE: 28.13 देवीर् द्वार ऽ इन्द्रम्̐ संघाते वीड्वीर् यामन्न् अवर्धयन् । आ वत्सेन तरुणेन कुमारेण च मीवतापार्वाणम्̐ रेणुककाटं नुदन्तां वसुवने वसुधेयस्य व्यन्तु यज ॥
VERSE: 28.14 देवी उषासानक्तेन्द्रं यज्ञे प्रयत्य् अह्वेताम् । दैवीर् विशः प्रायासिष्टाम्̐ सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज ॥
VERSE: 28.15 देवी जोष्ट्री वसुधिती देवम् इन्द्रम् अवर्धताम् । अयाव्य् अन्याघा द्वेषाम्̐स्य् आन्या वक्षद् वसु वार्याणि यजमानाय शिक्षिते वसुवने वसुधेयस्य वीतां यज ॥
VERSE: 28.16 देवी ऽ ऊर्जाहुती दुघे पयसेन्द्रम् अवर्धताम् । इषमूर्जम् अन्या वक्षत् सग्धिम्̐ सपीतिम् अन्या नवेन पूर्वं दयमाने पुराणेन नवम् अधातामूर्जमूर्जाहुती ऽ ऊर्जयमाने वसु वार्याणि यजमानाय शिक्षिते वसुवने वसुधेयस्य वीतां यज ॥
VERSE: 28.17 देवा देव्या होतारा देवम् इन्द्रम् अवर्धताम् । हताघशम्̐साव् आभार्ष्टां वसु वार्याणि यजमानाय शिक्षितौ वसुवने वसुधेयस्य वीतां यज ॥
VERSE: 28.18 देवीस् तिस्रस् तिस्रो देवीः पतिम् इन्द्रम् अवर्धयन् । अस्पृक्षद् भारती दिवम्̐ रुद्रैर् यज्ञम्̐ सरस्वतीडा वसुमती गृहान् वसुवने वसुधेयस्य व्यन्तु यज ॥
VERSE: 28.19 देव ऽ इन्द्रो नराशम्̐सस् त्रिवरूथस् त्रिबन्धुरो देवम् इन्द्रम् अवर्धयत् । शतेन शितिपृष्ठानाम् आहितः सहस्रेण प्र वर्तते मित्रावरुणेद् अस्य होत्रम् अर्हतो बृहस्पति स्तोत्रम् अश्विनाध्वर्यवं वसुवने वसुधेयस्य वेतु यज ॥
VERSE: 28.20 देवो देवैर् वनस्पतिर् हिरण्यपर्णो मधुशाखः सुपिप्पलो देवम् इन्द्रम् अवर्धयत् । दिवम् अग्रेणास्पृक्षद् आन्तरिक्षं पृथिवीम् अदृम्̐हद् वसुवने वसुधेयस्य वेतु यज ॥
VERSE: 28.21 देवं बर्हिर् वारितीनां देवम् इन्द्रम् अवर्धयत् । स्वासस्थम् इन्द्रेणासन्नम् अन्या बर्हीम्̐ष्य् अभ्य् अभूद् वसुवने वसुधेयस्य वेतु यज ॥
VERSE: 28.22 देवो ऽ अग्निः स्विष्टकृद् देवम् इन्द्रम् अवर्धयत् । स्विष्टं कुर्वन्त् स्विष्टकृत् स्विष्टम् अद्य करोतु नो वसुवने वसुधेयस्य वेतु यज ॥
VERSE: 28.23 अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं बध्नन्न् इन्द्राय छागम् । सूपस्था ऽ अद्य देवो वनस्पतिर् अभवद् इन्द्राय छागेन । अघत् तं मेदस्तः प्रति पचताग्रभीद् अवीवृधत् पुरोडाशेन । त्वाम् अद्य ऽ ऋष [आर्षेय ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्य आ संगतेभ्य एष मे देवेषु वसु वार्यायक्ष्यत इति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा आ च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ॥]???
VERSE: 28.24 होता यक्षत् समिधानं महद् यशः सुसमिद्धं वरेण्यम् अग्निम् इन्द्रं वयोधसम् । गायत्रीं छन्द ऽ इन्द्रियं त्र्यविं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥
VERSE: 28.25 होता यक्षत् तनूनपातम् उद्भिदं यं गर्भम् अदितिर् दधे शुचिम् इन्द्रं वयोधसम् । उष्णिहं छन्द ऽ इन्द्रियं दित्यवाहं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥
VERSE: 28.26 होता यक्षद् ईडेन्यम् ईडितं वृत्रहन्तमम् इडाभिर् ईड्यम्̐ सहः सोमम् इन्द्रम्̐ वयोधसम् । अनुष्टुभं छन्द ऽ इन्द्रियं पञ्चाविं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥
VERSE: 28.27 होता यक्षत् सुबर्हिषं पूषण्वन्तम् अमर्त्यम्̐ सीदन्तं बर्हिषि प्रिये ऽमृतेन्द्रं वयोधसम् । बृहतीं छन्द ऽ इन्द्रियं त्रिवत्सं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥
VERSE: 28.28 होता यक्षद् व्यचस्वतीः सुप्रायणा ऽ ऋतावृधो द्वारो देवीर् हिरण्ययीर् ब्रह्माणम् इन्द्रं वयोधसम् । पङ्क्तिं छन्द ऽ इहेन्द्रियं तुर्यवाहं गां वयो दधद् व्यन्त्व् आज्यस्य होतर् यज ॥
VERSE: 28.29 होता यक्षत् सुपेशसा सुशिल्पे बृहती ऽ उभे नक्तोषासा न दर्शते विश्वम् इन्द्रं वयोधसम् । त्रिष्टुभं छन्द ऽ इहेन्द्रियं पष्ठवाहं गां वयो दधद् वीताम् आज्यस्य होतर् यज ॥
VERSE: 28.30 होता यक्षत् प्रचेतसा देवानाम् उत्तमं यशो होतारा दैव्या कवी सयुजेन्द्रं वयोधसम् । जगतीं छन्द ऽ इन्द्रियम् अनड्वाहं गां वयो दधद् वीताम् आज्यस्य होतर् यज ॥
VERSE: 28.31 होता यक्षत् पेशस्वतीस् तिस्रो देवीर् हिरण्ययीर् भारतीर् बृहतीर् महीः पतिम् इन्द्रं वयोधसम् । विराजं छन्द ऽ इहेन्द्रियं धेनुं गां न वयो दधद् व्यन्त्व् आज्यस्य होतर् यज ॥
VERSE: 28.32 होता यक्षत् सुरेतसं त्वष्टारं पुष्टिवर्धनम्̐ रूपाणि बिभ्रतं पृथक् पुष्टिम् इन्द्रं वयोधसम् । द्विपदं छन्द ऽ इन्द्रियम् उक्षाणं गां न वयो दधद् वेत्व् आज्यस्य होतर् यज ॥
VERSE: 28.33 होता यक्षद् वनस्पतिम्̐ शमितारम्̐ शतक्रतुम्̐ हिरण्यपर्णम् उक्थिनम्̐ रशनां बिभ्रतं वशिं भगम् इन्द्रं वयोधसम् । ककुभं छन्द ऽ इहेन्द्रियं वशां वेहतं गां वयो दधद् वेत्व् आज्यस्य होतर् यज ॥
VERSE: 28.34 होता यक्षत् स्वाहाकृतीर् अग्निं गृहपतिं पृथग् वरुणं भेषजं कविं क्षत्रम् इन्द्रं वयोधसम् । अतिच्छन्दसं छन्द ऽ इन्द्रियं बृहद् ऋषभं गां वयो दधद् व्यन्त्व् आज्यस्य होतर् यज ॥
VERSE: 28.35 देवं बर्हिर् वयोधसं देवम् इन्द्रम् अवर्धयत् । गायत्र्या छन्दसेन्द्रियं चक्षुर् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥
VERSE: 28.36 देवीर् द्वारो वयोधसम्̐ शुचिम् इन्द्रम् अवर्धयन् । उष्णिहा छन्दसेन्द्रियं प्राणम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य व्यन्तु यज ॥
VERSE: 28.37 देवी ऽ उषासानक्ता देवम् इन्द्रं वयोधसं देवी देवम् अवर्धताम् । अनुष्टुभा छन्दसेन्द्रियं बलम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥
VERSE: 28.38 देवी जोष्ट्री वसुधिती देवम् इन्द्रं वयोधसं देवी देवम् अवर्धताम् । बृहत्या छन्दसेन्द्रियम्̐ श्रोत्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥
VERSE: 28.39 देवी ऽ ऊर्जाहुती दुघे सुदुघे पयसेन्द्रं वयोधसं देवी देवम् अवर्धताम् । पङ्क्त्या छन्दसेन्द्रियम्̐ शुक्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥
VERSE: 28.40 देवा दैव्या होतारा देवम् इन्द्रं वयोधसं देवौ देवम् अवर्धताम् । त्रिष्टुभा छन्दसेन्द्रियं त्विषिम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वीतां यज ॥
VERSE: 28.41 देवीस् तिस्रस् तिस्रो देवीर् वयोधसं पतिम् इन्द्रम् अवर्धयन् । जगत्या छन्दसेन्द्रियम्̐ शूषम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य व्यन्तु यज ॥
VERSE: 28.42 देवो नराशम्̐सो देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् । विराजा छन्दसेन्द्रियम्̐ रुपम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥
VERSE: 28.43 देवो वनस्पतिर् देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् । द्विपदा छन्दसेन्द्रियं भगम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥
VERSE: 28.44 देवं बर्हिर् वारितीनां देवम् इन्द्रं वयोधसं देवं देवम् अवर्धयत् । ककुभा छन्दसेन्द्रियं यश ऽ इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥
VERSE: 28.45 देवो ऽ अग्निः स्विष्टकृद् देवम् इन्द्रं वयोधसं देवो देवम् अवर्धयत् । अतिच्छन्दसा छन्दसेन्द्रियं क्षत्रम् इन्द्रे वयो दधद् वसुवने वसुधेयस्य वेतु यज ॥
VERSE: 28.46 अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं बध्नन्न् इन्द्राय वयोधसे छागम् । सूयस्था ऽ अद्य देवो वनस्पतिर् अभवद् इन्द्राय वयोधसे छागेन । अघत् तं मेदस्तः प्रति पचताग्रभीद् अवीवृधत् पुरोडाशेन । त्वाम् अद्य ऽ ऋष [आर्षेय ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्य आ संगतेभ्य एष मे देवेषु वसु वार्यायक्ष्यत इति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा आ च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ॥ ]???

अध्याय 29 आश्वमेधिको अध्यायः। शिष्टाश्वमेध मन्त्राः
VERSE: 29.1 समिद्धो ऽ अञ्जन् कृदरं मतीनां घृतम् अग्ने मधुमत् पिन्वमानः । वाजी वहन् वाजिनं जातवेदो देवानां वक्षि प्रियम् आ सधस्थम् ॥
VERSE: 29.2 घृतेनाञ्जन्त् सं पथो देवयानान् प्रजानन् वाज्य् अप्य् एतु देवान् । अनु त्वा सप्ते प्रदिशः सचन्ताम्̐ स्वधाम् अस्मै यजमानाय धेहि ॥
VERSE: 29.3 ईड्यश् चासि वन्द्यश् च वाजिन्न् आशुश् चासि मेध्यश् च सप्ते । अग्निष् ट्वा देवैर् वसुभिः सजोषाः प्रीतं वह्निं वहतु जातवेदाः ॥
VERSE: 29.4 स्तीर्णं बर्हिः सुष्टरीमा जुषाणोरु पृथु प्रथमानं पृथिव्याम् । देवेभिर् युक्तम् अदितिः सजोषाः स्योनं कृण्वान सुविते दधातु ॥
VERSE: 29.5 एता ऽ उ वः सुभगा विश्वरूपा वि पक्षोभिः श्रयमाणा ऽ उदातैः । ऋष्वाः सतीः कवषः शुम्भमाना द्वारो देवीः सुप्रायणा भवन्तु ॥
VERSE: 29.6 अन्तरा मित्रावरुणा चरन्ती मुखं यज्ञानाम् अभि संविदाने । उषासा वाम्̐ सुहिरण्ये सुशिल्पे ऽ ऋतस्य योनाव् इह सादयामि ॥
VERSE: 29.7 प्रथमा वाम्̐ सरथिना सुवर्णा देवौ पश्यन्तौ भुवनानि विश्वा । अपिप्रयं चोदना वां मिमाना होतारा ज्योतिः प्रदिशा दिशन्ता ॥
VERSE: 29.8 आदित्यैर् नो भारती वष्टु यज्ञम्̐ सरस्वती सह रुद्रैर् न ऽ आवीत् । इडोपहूता वसुभिः सजोषा यज्ञं नो देवीर् अमृतेषु धत्त ॥
VERSE: 29.9 त्वष्टा वीरं देवकामं जजान त्वष्टुर् अर्वा जायत ऽ आशुर् अश्वः । त्वष्टेदं विश्वं भुवनं जजान बहोः कर्तारम् इह यक्षि होतः ॥
VERSE: 29.10 अश्वो घृतेन त्मन्या समक्त ऽ उप देवाम्̐२ऽ ऋतुशः पाथ ऽ एतु । वनस्पतिर् देवलोकं प्रजानन्न् अग्निना हव्या स्वदितानि वक्षत् ॥
VERSE: 29.11 प्रजापतेस् तपसा वावृधानः सद्यो जातो दधिषे यज्ञम् अग्ने । स्वाहाकृतेन हविषा पुरोगा याहि साध्या हविर् अदन्तु देवाः ॥
VERSE: 29.12 यद् अक्रन्दः प्रथमं जायमान ऽ उद्यन्त् समुद्राद् उत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू ऽ उपस्तुत्यं महि जातं ते ऽ अर्वन् ॥
VERSE: 29.13 यमेन दत्तं त्रित ऽ एनम् आयुनग् इन्द्र ऽ एणं प्रथमो ऽ अध्य् अतिष्ठत् । गन्धर्वो ऽ अस्य रशनाम् अगृभ्णात् सूराद् अश्वं वसवो निर् अतष्ट ॥
VERSE: 29.14 असि यमो ऽ अस्य् आदित्यो ऽ अर्वन्न् असि त्रितो गुह्येन व्रतेन । असि सोमेन समया विपृक्त ऽ आहुस् ते त्रीणि दिवि बन्धनानि ॥
VERSE: 29.15 त्रीणि त ऽ आहुर् दिवि बन्धनानि त्रीण्य् अप्सु त्रीण्य् अन्तः समुद्रे । उतेव मे वरुणश् छन्त्स्य् अर्वन् यत्रा त ऽ आहुः परमं जनित्रम् ॥
VERSE: 29.16 इमा ते वाजिन्न् अवमार्जनानीमा शफानाम्̐ सनितुर् निधाना । अत्रा ते भद्रा रशना ऽ अपश्यम् ऋतस्य या ऽ अभिरक्षन्ति गोपाः ॥
VERSE: 29.17 आत्मानं ते मनसाराद् अजानाम् अवो दिवा पतयन्तं पतंगम् । शिरो ऽ अपश्यं पथिभिः सुगेभिर् अरेणुभिर् जेहमानं पतत्रि ॥
VERSE: 29.18 अत्रा ते रूपम् उत्तमम् अपश्यं जिगीषमाणम् इष ऽ आ पदे गोः । यदा ते मर्तो ऽ अनु भोगम् आनड् आद् इद् ग्रसिष्ठ ऽ ओषधीर् अजीगः ॥
VERSE: 29.19 अनु त्वा रथो ऽ अनु मर्यो ऽ अर्वन्न् अनु गावो ऽनु भगः कनीनाम् । अनु व्रातासस् तव सख्यम् ईयुर् अनु देवा ममिरे वीर्यं ते ॥
VERSE: 29.20 हिरण्यशृङ्गो ऽयो अस्य पादा मनोजवा ऽ अवर इन्द्र ऽ आसीत् । देवा ऽ इद् अस्य हविरद्यम् आयन् यो ऽ अर्वन्तं प्रथमो ऽ अध्यतिष्ठत् ॥
VERSE: 29.21 ईर्मान्तासः सिलिकमध्यमासः सम्̐ शूरणासो दिव्यासो ऽ अत्याः । हम्̐सा ऽ इव श्रेणिशो यतन्ते यद् आक्षिषुर् दिव्यम् अज्मम् अश्वाः ॥
VERSE: 29.22 तव शरीरं पतयिष्ण्व् अर्वन् तव चित्तं वात ऽ इव ध्रजीमान् । तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥
VERSE: 29.23 उप प्रागाच् छसनं वाज्य् अर्वा देवद्रीचा मनसा दीध्यानः । अजः पुरो नीयते नाभिर् अस्यानु पश्चात् कवयो यन्ति रेभाः ॥
VERSE: 29.24 उप प्रागात् परमं यत् सधस्थम् अर्वाम्̐२ऽ अच्छा पितरं मातरं च । अद्या देवान् जुष्टतमो हि गम्या ऽ अथा शास्ते दाशुषे वार्याणि ॥
VERSE: 29.25 समिद्धो ऽ अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः । आ च वह मित्रमहश् चिकित्वान् त्वं दूतः कविर् असि प्रचेताः ॥
VERSE: 29.26 तनूनपात् पथ ऽ ऋतस्य यानान् मध्वा समञ्जन्त् स्वदया सुजिह्व । मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरं नः ॥
VERSE: 29.27 नराशम्̐सस्य महिमानम् एषाम् उप स्तोषाम यजतस्य यज्ञैः । ये सुक्रतवः शुचयो धियंधाः स्वदन्ति देवा ऽ उभयानि हव्या ॥
VERSE: 29.28 आजुह्वान ऽ ईड्यो वन्द्यश् चा याह्य् अग्ने वसुभिः सजोषाः । त्वं देवानाम् असि यह्व होता स ऽ एनान् यक्षीषितो यजीयान् ॥
VERSE: 29.29 प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते ऽ अग्रे ऽ अह्नाम् । व्य् उ प्रथते वितरं वरीयो देवेभ्यो ऽ अदितये स्योनम् ॥
VERSE: 29.30 व्यचस्वतीर् उर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः । देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥
VERSE: 29.31 आ सुष्वयन्ती यजते ऽ उपाके ऽ उषासानक्ता सदतां नि योनौ । दिव्ये योषणे बृहती सुरुक्मे ऽ अधि श्रियम्̐ शुक्रपिशं दधाने ॥
VERSE: 29.32 दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै । प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥
VERSE: 29.33 आ नो यज्ञं भारती तूयम् एत्व् इडा मनुष्वद् इह चेतयन्ती । तिस्रो देवीर् बर्हिर् एदम्̐ स्योनम्̐ सरस्वती स्वपसः सदन्तु ॥
VERSE: 29.34 य ऽ इमे द्यावापृथिवी जनित्री रूपइर् अपिम्̐शद् भुवनानि विश्वा । तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि विद्वान् ॥
VERSE: 29.35 उपाव सृज त्मन्या समञ्जन् देवानां पाथ ऽ ऋतुथा हवीम्̐षि । वनस्पतिः शमिता देवो ऽ अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥
VERSE: 29.36 सद्यो जातो व्यमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः । अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतम्̐ हविर् अदन्तु देवाः ॥
VERSE: 29.37 केतुं कृण्वन्न् अकेतवे पेशो मर्या ऽ अपेशसे । सम् उषद्भिर् अजायथाः ॥
VERSE: 29.38 जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे । अनाविद्धया तन्वा जय त्वम्̐ स त्वा वर्मणो महिमा पिपर्तु ॥
VERSE: 29.39 धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम । धनुः शत्रोर् अपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥
VERSE: 29.40 वक्ष्यन्तीवेद् आ गनीगन्ति कर्णं प्रियम्̐ सखायं परिषस्वजाना । योषेव शिङ्क्ते वितताधि धन्वन् ज्या इयम्̐ समने पारयन्ती ॥
VERSE: 29.41 ते ऽ आचरन्ती समनेव योषा मातेव पुत्रं बिभृताम् उपस्थे । अप शत्रून् विध्यताम्̐ संविदाने ऽ आर्त्नी इमे विष्फुरन्ती ऽ अमित्रान् ॥
VERSE: 29.42 बह्वीनां पिता बहुर् अस्य पुत्रश् चिश्चा कृणोति समनावगत्य । इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥
VERSE: 29.43 रथे तिष्ठन् नयति वाजिनः पुरो यत्र-यत्र कामयते सुषारथिः । अभीशूनां महिमानं पनायत मनः पश्चाद् अनु यच्छन्ति रश्मयः ॥
VERSE: 29.44 तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः । अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रूम्̐१ऽ रनपव्ययन्तः ॥
VERSE: 29.45 रथवाहनम्̐ हविर् अस्य नाम यत्रायुधं निहितम् अस्य वर्म । तत्रा रथम् उप शग्मम्̐ सदेम विश्वाहा वयम्̐ सुमनस्यमानाः ॥
VERSE: 29.46 स्वादुषम्̐सदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः । चित्रसेना ऽ इषुबला ऽ अमृध्राः सतोवीरा ऽ उरवो व्रातसाहाः ॥
VERSE: 29.47 ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी ऽ अनेहसा । पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो ऽ अघशम्̐स ऽ ईशत ॥
VERSE: 29.48 सुपर्णं वस्ते मृगो ऽ अस्या दन्तो गोभिः संनद्धा पतति प्रसूता । यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यम्̐सन् ॥
VERSE: 29.49 ऋजीते परि वृङ्धि नो ऽश्मा भवतु नस् तनूः । सोमो ऽ अधि ब्रवीतु नो ऽदितिः शर्म यच्छतु ॥
VERSE: 29.50 आ जङ्घन्ति सान्व् एषां जघनाम्̐२ऽ उप जिघ्नते । अश्वाजनि प्रचेतसो ऽश्वान्त् समत्सु चोदय ॥
VERSE: 29.51 अहिर् इव भोगैः पर्य् एति बाहुं ज्याया हेतिं परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमाम्̐सं परि पातु विश्वतः ॥
VERSE: 29.52 वनस्पते वीड्वङ्गो हि भूया ऽ अस्मत्सखा प्रतरणः सुवीरः । गोभिः संनद्धो ऽ असि वीडयस्वास्थाता ते जयतु जेत्वानि ॥
VERSE: 29.53 दिवः पृथिव्याः पर्य् ओज ऽ उद्भृतं वनस्पतिभ्यः पर्य् आभृतम्̐ सहः । अपाम् ओज्मानं परि गोभिर् आवृतम् इन्द्रस्य वज्रम्̐ हविषा रथं यज ॥
VERSE: 29.54 इन्द्रस्य वज्रो मरुताम् अनीकं मित्रस्य गर्भो वरुणस्य नाभिः । सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥
VERSE: 29.55 उप श्वासय पृथिवीम् उत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् । स दुन्दुभे सजूर् इन्द्रेण देवैर् दूराद् दवीयो ऽ अप सेध शत्रून् ॥
VERSE: 29.56 आ क्रन्दय बलम् ओजो न ऽ आ धा नि ष्टनिहि दुरिता बाधमानः । अप प्रोथ दुन्दुभे दुच्छुना ऽ इत ऽ इन्द्रस्य मुष्टिर् असि वीडयस्व ॥
VERSE: 29.57 आमूर् अज प्रत्या वर्तयेमाः केतुमद् दुन्दुभिर् वावदीति । सम् अश्वपर्णाश् चरन्ति नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु ॥
VERSE: 29.58 आग्नेयः कृष्णग्रीवः सारस्वती मेषी बभ्रुः सौम्यः पौष्णः श्यामः शितिपृष्ठो बार्हस्पत्यः शिल्पो वैश्वदेव ऽ ऐन्द्रो ऽरुणो मारुतः कल्माष ऽ ऐन्द्राग्नः सम्̐हितो ऽधोरामः सावित्रो वारुणः कृष्ण ऽ एकशितिपात् पेत्वः ॥
VERSE: 29.59 अग्नये ऽनीकवते रोहिताञ्जिर् अनड्वान् अधोरामौ सावित्रौ पौष्णौ रजतनाभी वैश्वदेवौ पिशंगौ तूपरु मारुतः कल्माष ऽ आग्नेयः कृष्णो ऽजः सारस्वती मेषी वारुणः पेत्वः ॥
VERSE: 29.60 अग्नये गायत्राय त्रिवृते राथन्तरायाष्टाकपाल ऽ इन्द्राय त्रैष्टुभाय पञ्चदशाय बर्हतायैकादशकपालो विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो द्वादशकपालो मित्रावरुणाभ्याम् आनुष्टुभाभ्याम् एकविम्̐शाभ्यां वैराजाभ्यां पयस्या बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय चरुः सवित्र ऽ औष्णिहाय त्रयस्त्रिम्̐शाय रैवताय द्वादशकपालः प्राजापत्यश् चरुर् अदित्यै विष्णुपत्न्यै चरुर् अग्नये वैश्वानराय द्वादशकपालो ऽनुमत्या ऽ अष्टाकपालः ॥

अध्याय 30 पुरुषमेध सम्बद्धा मन्त्राः
VERSE: 30.1 देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय । दिव्यो गन्धर्वः केतुपूः केतं नः पुनातु वाचस्पतिर् वाजं नः स्वदतु ॥
VERSE: 30.2 तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयत् ॥
VERSE: 30.3 विश्वानि देव सवितर् दुरितानि परा सुव । यद् भद्रं तन् न ऽ आ सुव ॥
VERSE: 30.4 विभक्तारम्̐ हवामहे वसोश् चित्रस्य राधसः । सवितारं नृचक्षसम् ॥
VERSE: 30.5 ब्रह्मणे ब्राह्मणं क्षत्राय राजन्यं मरुद्भ्यो वैश्यं तपसे शूद्रं तमसे तस्करं नारकाय वीरहणं पाप्मने क्लीबम् आक्रयाया ऽ अयोगुं कामाय पुम्̐श्चलूम् अतिक्रुष्टाय मागधम् ॥
VERSE: 30.6 नृत्ताय सूतं गीताय शैलूषं धर्माय सभाचरं नरिष्ठायै भीमलं नर्माय रेभम्̐ हसाय कारिम् आनन्दाय स्त्रीषखं प्रमदे कुमारीपुत्रं मेधायै रथकारं धैर्याय तक्षाणम् ॥
VERSE: 30.7 तपसे कौलालं मायायै कर्मारम्̐ रूपाय मणिकारम्̐ शुभे वपम्̐ शरव्याया ऽ इषुकारम्̐ हेत्यै धनुष्कारं कर्मणे ज्याकारं दिष्टाय रज्जुसर्जं मृत्यवे मृगयुम् अन्तकाय श्वनिनम् ॥
VERSE: 30.8 नदीभ्यः पौञ्जिष्ठम् ऋक्षीकाभ्यो नैषादं पुरुषव्याघ्राय दुर्मदं गन्धर्वाप्सरोभ्यो व्रात्यं प्रयुग्भ्य ऽ उन्मत्तम्̐ सर्पदेवजनेभ्यो ऽप्रतिपदमयेभ्यः कितवम् ईर्यताया ऽ अकितवं पिशाचेभ्यो बिदलकारीं यातुधानेभ्यः कण्टकीकारीम् ॥
VERSE: 30.9 संधये जारं गेहायोपपतिम् आर्त्यै परिवित्तं निर्ऋत्यै परिविविदानम् अराद्ध्या ऽ एदिधिषुःपतिं निष्कृत्यै पेशस्कारीम्̐ संज्ञानाय स्मरकारीं प्रकामोद्यायोपसदं वर्णायानुरुधं बलायोपदाम् ॥
VERSE: 30.10 उत्सादेभ्यः कुब्जं प्रमुदे वामनं द्वार्भ्यः स्रामम्̐ स्वप्नायान्धम् अधर्माय बधिरं पवित्राय भिषजं प्रज्ञानाय नक्षत्रदर्शम् आशिक्षायै प्रश्निनम् उपशिक्षाया ऽ अभिप्रश्निनं मर्यादायै प्रश्नविवाकम् ॥
VERSE: 30.11 अर्मेभ्यो हस्तिपं जवायाश्वपं पुष्ट्यै गोपालं वीर्यायाविपालं तेजसे ऽजपालम् इरायै कीनाशं कीलालाय सुराकारं भद्राय गृहपम्̐ श्रेयसे वित्तधम् आध्यक्ष्यायानुक्षत्तारम् ॥
VERSE: 30.12 भायै दार्वाहारं प्रभाया ऽ अग्न्येधं ब्रध्नस्य विष्टपायाभिषेक्तारं वर्षिष्ठाय नाकाय परिवेष्टारं देवलोकाय पेशितारं मनुष्यलोकाय प्रकरितारम्̐ सर्वेभ्यो लोकेभ्यो ऽ उपसेक्तारम् अव ऽ ऋत्यै वधायोपमन्थितारं मेधाय वासःपल्पूलीं प्रकामाय रजयित्रीम् ॥
VERSE: 30.13 ऋतये स्तेनहृदयं वैरहत्याय पिशुनं विविक्त्यै क्षत्तारम् औपद्रष्ट्र्यायानुक्षत्तारं बालायानुचरं भूम्ने परिष्कन्दं प्रियाय प्रियवादिनम् अरिष्ट्या ऽ अश्वसादम्̐ स्वर्गाय लोकाय भागदुघं वर्षिष्ठाय नाकाय परिवेष्टारम् ॥
VERSE: 30.14 मन्यवे ऽयस्तापं क्रोधाय निसरं योगाय योक्तारम्̐ शोकायाभिसर्तारं क्षेमाय विमोक्तारम् उत्कीलेभ्यस् त्रिष्ठिनं वपुषे मानस्कृतम्̐ शीलायाञ्जनीकारीं निर्ऋत्यै कोशकारीं यमायासूम् ॥
VERSE: 30.15 यमाय यमसूम् अथर्वभ्यो ऽवतोकाम्̐ संवत्सराय पर्यायिणीं परिवत्सरायाविजाताम् इदावत्सरायातीत्वरीम् इद्वत्सरायातिष्कद्वरीं वत्सराय विजर्जराम्̐ संवत्सराय पलिक्नीम् ऋभुभ्यो ऽजिनसंधम्̐ साध्येभ्यश् चर्मम्नम् ॥
VERSE: 30.16 सरोभ्यो धैवरम् उपस्थावराभ्यो दाशं वैशन्ताभ्यो बैन्दं नड्वलाभ्यः शौष्कलं पाराय मार्गारम् अवराय केवर्तं तीर्थेभ्य ऽ आन्दं विषमेभ्यो मैनालम्̐ स्वनेभ्यः पर्णकं गुहाभ्यः किरातम्̐ सानुभ्यो जम्भकं पर्वतेभ्यः किम्पूरुषम् ॥
VERSE: 30.17 बीभत्सायै पौल्कसं वर्णाय हिरण्यकारं तुलायै वाणिजं पश्चादोषाय ग्लाविनं विश्वेभ्यो भूतेभ्यः सिध्मलं भूत्यै जागरणम् अभूत्यै स्वपनम् आर्त्यै जनवादिनं व्यृद्ध्या ऽ अपगल्भम्̐ सम्̐शराय प्रच्छिदम् ॥
VERSE: 30.18 अक्षराजाय कितवं कृतायादिनवदर्शं त्रेतायै कल्पिनं द्वापरायाधिकल्पिनम् आस्कन्दाय सभास्थाणुं मृत्यवे गोव्यच्छम् अन्तकाय गोघातं क्षुधे यो गां विकृन्तन्तं भिक्षमाण ऽ उपतिष्ठति दुष्कृताय चरकाचार्यं पाप्मने सैलगम् ॥
VERSE: 30.19 प्रतिश्रुत्काया ऽ अर्तनं घोषाय भषम् अन्ताय बहुवादिनम् अनन्ताय मूकम्̐ शब्दायाडम्बराघातं महसे वीणावादं क्रोशाय तूणवध्मम् अवरस्पराय शङ्खध्मं वनाय वनपम् अन्यतोरण्याय दावपम् ॥
VERSE: 30.20 नर्माय पुम्̐श्चलूम्̐ हसाय कारिं यादसे शाबल्यां ग्रामण्यं गणकम् अभिक्रोशकं तान् महसे वीणावादं पाणिघ्नं तूणवध्मं तान् नृतायानन्दाय तलवम् ॥
VERSE: 30.21 अग्नये पीवानं पृथिव्यै पीठसर्पिणं वायवे चाण्डालम् अन्तरिक्षाय वम्̐शनर्तिनं दिवे खलतिम्̐ सूर्याय हर्यक्षं नक्षत्रेभ्यः किर्मिरं चन्द्रमसे किलासम् अह्ने शुक्लं पिङ्गाक्षम्̐ रात्र्यै कृष्णं पिङ्गाक्षम् ॥
VERSE: 30.22 अथैतान् अष्टौ विरूपान् आ लभते ऽतिदीर्घं चातिह्रस्वं चातिस्थूलं चातिकृशं चातिशुक्लं चातिकृष्णं चातिकुल्वं चातिलोमशं च । अशूद्रा ऽ अब्राह्मणास् ते प्राजापत्याः । मागधः पुम्̐श्चली कितवः क्लीबो ऽशूद्रा ऽ अब्राह्मणास् ते प्राजापत्याः ॥

अध्याय 31 पुरुषसूक्ताध्यायः
VERSE: 31.1 सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिम्̐ सर्वत स्पृत्वात्य् अतिष्ठद् दशाङ्गुलम् ॥
VERSE: 31.2 पुरुषऽएवेदम्̐ सर्वं यद् भूतं यच् च भाव्यम् । उतामृतत्वस्येशानो यद् अन्नेनातिरोहति ॥
VERSE: 31.3 एतावान् अस्य महिमातो ज्यायाम्̐श् च पूरुषः । पादो ऽस्य विश्वा भूतानि त्रिपाद् अस्यामृतं दिवि ॥
VERSE: 31.4 त्रिपाद् ऊर्ध्व उद् ऐत् पुरुषः पादो ऽस्येहाभवत् पुनः । ततो विष्वङ् व्यक्रामत् साशनानशने ऽ अभि ॥
VERSE: 31.5 तस्माद् विराड् अजायत विराजो ऽ अधि पूरुषः । स जातो ऽ अत्य् अरिच्यत पश्चाद् भूमिम् अथो पुरः ॥
VERSE: 31.6 तस्माद् यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् । पशूम्̐स् ताम्̐श् चक्रे वायव्यान् आरण्या ग्राम्याश् च ये ॥
VERSE: 31.7 तस्माद् यज्ञात् सर्वहुत ऽ ऋचः सामानि जज्ञिरे । छन्दाम्̐सि जज्ञिरे तस्माद् यजुस् तस्माद् अजायत ॥
VERSE: 31.8 तस्माद् अश्वा ऽ अजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात् तस्माज् जाता ऽ अजावयः ॥
VERSE: 31.9 तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातम् अग्रतः । तेन देवा ऽ अयजन्त साध्या ऽ ऋषयश् च ये ॥
VERSE: 31.10 यत् पुरुषं व्य् अदधुः कतिधा व्यकल्पयन् । मुखं किम् अस्य कौ बाहू का ऊरू पादा ऽ उच्येते ॥
VERSE: 31.11 ब्राह्मणो ऽस्य मुखम् आसीद् बाहू राजन्यः कृतः । ऊरू तद् अस्य यद् वैश्यः पद्भ्याम्̐ शूद्रो ऽ अजायत ॥
VERSE: 31.12 चन्द्रमा मनसो जातश् चक्षोः सूर्यो ऽ अजायत । श्रोत्राद् वायुश् च प्राणश् च मुखाद् अग्निर् अजायत ॥
VERSE: 31.13 नाभ्या ऽ आसीद् अन्तरिक्षम्̐ शीर्ष्णो द्यौः सम् अवर्तत । पद्भ्यां भूमिर् दिशः श्रोत्रात् तथा लोकाम्̐ऽ अकल्पयन् ॥
VERSE: 31.14 यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत । वसन्तो ऽस्यासीद् आज्यं ग्रीष्म ऽ इध्मः शरद् धविः ॥
VERSE: 31.15 सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः । देवा यद् यज्ञं तन्वाना ऽ अबध्नन् पुरुषं पशुम् ॥
VERSE: 31.16 यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
VERSE: 31.17 अद्भ्यः सम्भृतः पृथिव्यै रसाच् च विश्वकर्मणः सम् अवर्तताग्रे । तस्य त्वष्टा विदधद् रूपम् एति तन् मर्त्यस्य देवत्वम् आजानम् अग्रे ॥
VERSE: 31.18 वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् । तम् एव विदित्वाति मृत्युम् एति नान्यः पन्था विद्यते ऽयनाय ॥
VERSE: 31.19 प्रजापतिश् चरति गर्भै ऽ अन्तर् अजायमानो बहुधा वि जायते । तस्य योनिं परि पश्यन्ति धीरास् तस्मिन् ह तस्थुर् भुवनानि विश्वा ॥
VERSE: 31.20 यो देवेभ्य ऽ आतपति यो देवानां पुरोहितः । पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ॥
VERSE: 31.21 रुचं ब्राह्म्यं जनयन्तो देवा ऽ अग्रे तद् अब्रुवन् । यस् त्वैवं ब्राह्मणो विद्यात् तस्य देवा ऽ असन् वशे ॥
VERSE: 31.22 श्रीश् च ते लक्ष्मीश् च पत्न्याव् अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्ताम् । इष्णन्न् इषाणामुं म ऽ इषाण सर्वलोकं म ऽ इषाण ॥


अध्याय 32 सर्वमेध सम्बद्धा मन्त्राः
VERSE: 32.1 तद् एवाग्निस् तद् आदित्यस् तद् वायुस् तद् उ चन्द्रमाः । तद् एव शुक्रं तद् ब्रह्म ता ऽ आपः स प्रजापतिः ॥
VERSE: 32.2 सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि । नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परि जग्रभत् ॥
VERSE: 32.3 न तस्य प्रतिमा ऽ अस्ति यस्य नाम महद् यशः । हिरण्यगर्भ ऽ इत्य् एषः । मा मा हिम्̐सीद् इत्य् एषा । यस्मान् न जात ऽ इत्य् एष ॥
VERSE: 32.4 एषो ह देवः प्रदिशो ऽनु सर्वाः पूर्वो ह जातः स ऽ उ गर्भै ऽ अन्तः । स ऽ एव जातः स जनिष्यमाणः प्रत्यङ् जनास् तिष्ठति सर्वतोमुखः ॥
VERSE: 32.5 यस्माज् जातं न पुरा किं चनैव य आबभूव भुवनानि विश्वा । प्रजापतिः प्रजया सम्̐रराणस् त्रीणि ज्योतीम्̐षि सचते स षोडशी ॥
VERSE: 32.6 येन द्यौर् उग्रा पृथिवी च दृढा येन स्व स्तभितं येन नाकः । यो ऽ अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥
VERSE: 32.7 यं क्रन्दसी ऽ अवसा तस्तभाने ऽ अभ्यैक्षेतां मनसा रेजमाने । यत्राधि सूर ऽ उदितो विभाति कस्मै देवाय हविषा विधेम । आपो ह यद् बृहतीः । यश् चिद् आपः ॥
VERSE: 32.8 वेनस् तत् पश्यन् निहितं गुहा सद् यत्र विश्वं भवत्य् एकनीडम् । तस्मिन्न् इदम्̐ सं च वि चैति सर्वम्̐ स ऽ ओतः प्रोतश् च विभूः प्रजासु ॥
VERSE: 32.9 प्र तद् वोचेद् अमृतं नु विद्वान् गन्धर्वो धाम विभृतं गुहा सत् । त्रीणि पदानि निहिता गुहास्य यस् तानि वेद स पितुः पितासत् ॥
VERSE: 32.10 स नो बन्धुर् जनिता स विधाता धामानि वेद भुवनानि विश्वा । यत्र देवा ऽ अमृतम् आनशानास् तृतीये धामन्न् अध्य् ऐरयन्त ॥
VERSE: 32.11 परीत्य भूतानि परीत्य लोकान् परीत्य सर्वाः प्रदिशो दिशश् च । उपस्थाय प्रथमजाम् ऋतस्यात्मनात्मानम् अभि सं विवेश ॥
VERSE: 32.12 परि द्यावापृथिवी सद्य ऽ इत्वा परि लोकान् परि दिशः परि स्वः । ऋतस्य तन्तुं विततं विचृत्य तद् अपश्यत् तद् अभवत् तद् आसीत् ॥
VERSE: 32.13 सदसस् पतिम् अद्भुतं प्रियम् इन्द्रस्य काम्यम् । सनिं मेधाम् अयासिषम्̐म् स्वाहा ॥
VERSE: 32.14 यां मेधां देवगणाः पितरश् चोपासते । तया माम् अद्य मेधयाग्ने मेधाविनं कुरु स्वाहा ॥
VERSE: 32.15 मेधां मे वरुणो ददातु मेधाम् अग्निः प्रजापतिः । मेधाम् इन्द्रस् च वायुश् च मेधां धाता ददातु मे स्वाहा ॥
VERSE: 32.16 इदं मे ब्रह्म च क्षत्रं चोभे श्रियम् अश्नुताम् । मयि देवा दधतु[ दधवु ] श्रियम् उत्तमां तस्यै ते स्वाहा ॥

अध्याय 33 सार्वमेधिके सप्तदशकाः पुरोरुग्गणाः
VERSE: 33.1 अस्याजरासो दमाम् अरित्रा ऽ अर्चद्धूमासो ऽ अग्नयः पावकाः । श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥
VERSE: 33.2 हरयो धूमकेतवो वातजूता ऽ उप द्यवि । यतन्ते वृथग् अग्नयः ॥
VERSE: 33.3 यजा नो मित्रावरुणा यजा देवाम्̐ २ऽ ऋतं बृहत् । अग्ने यक्षि स्वं दमम् ॥
VERSE: 33.4 युक्ष्वा हि देवहूतमाम्̐२ऽ अश्वाम्̐२ऽ अग्ने रथीर् इव । नि होता पूर्व्यः सदः ॥
VERSE: 33.5 द्वे विरूपे चरतः स्वर्थे ऽ अन्यान्या वत्सम् उप धापयेते । हरिर् अन्यस्यां भवति स्वधावाञ्छुक्रो ऽ अन्यस्यां ददृशे सुवर्चाः ॥
VERSE: 33.6 अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो ऽ अध्वरेष्व् ईड्यः । यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥
VERSE: 33.7 त्रीणि शता त्री सहस्राण्य् अग्निं त्रिम्̐शच् च देवा नव चासपर्यन् । औक्षन् घृतैर् अस्तृणन् बर्हिर् अस्मा ऽ आद् इद् होतारं न्य् असादयन्त ॥
VERSE: 33.8 मूर्धानं दिवो ऽ अरतिं पृथिव्या वैश्वानरम् ऋत ऽ आ जातम् अग्निम् । कविम्̐ सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ॥
VERSE: 33.9 अग्निर् वृत्राणि जङ्घनद् द्रविणस्युर् विपन्यया । समिद्धः शुक्र ऽ आहुतः ॥
VERSE: 33.10 विश्वेभिः सोम्यं मध्व् अग्न ऽ इन्द्रेण वायुना । पिबा मित्रस्य धामभिः ॥
VERSE: 33.11 आ यद् इषे नृपतिं तेज ऽ आनट् शुचि रेतो निषिक्तं द्यौर् अभीके । अग्निः शर्धम् अनवद्यं युवानम्̐ स्वाध्यं जनयत् सूदयच् च ॥
VERSE: 33.12 अग्ने शर्ध महते सौभगाय तव द्युम्नान्य् उत्तमानि सन्तु । सं जास्पत्यम्̐ सुयमम् आ कृणुष्व शत्रूयताम् अभि तिष्ठा महाम्̐सि ॥
VERSE: 33.13 त्वाम्̐ हि मन्द्रतमम् अर्कशोकैर् ववृमहे महि नः श्रोष्य् अग्ने । इन्द्रं न त्वा शवसा देवता वायुं पृणन्ति राधसा नृतमाः ॥
VERSE: 33.14 त्वे ऽ अग्ने स्वाहुत प्रियासः सन्तु सूरयः । यन्तारो ये मघवानो जनानामूर्वान् दयन्त गोनाम् ॥
VERSE: 33.15 श्रुधि श्रुत्कर्ण वह्निभिर् देवैर् अग्ने सयावभिः । आ सीदन्तु बर्हिषि मित्रो ऽ अर्यमा प्रातर्यावाणो ऽ अध्वरम् ॥
VERSE: 33.16 विश्वेषाम् अदितिर् यज्ञियानां विश्वेषाम् अतिथिर् मानुषाणाम् । अग्निर् देवानाम् अव ऽ आवृणानः सुमृडीको भवतु जातवेदाः ॥
VERSE: 33.17 महो ऽ अग्नेः समिधानस्य शर्मण्य् अनागा मित्रे वरुणे स्वस्तये । श्रेष्ठे स्याम सवितुः सवीमनि तद् देवानाम् अवो ऽ अद्या वृणीमहे ॥
VERSE: 33.18 आपश् चित् पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस् त ऽ इन्द्र । याहि वायुर् न नियुतो नो ऽ अच्छा त्वम्̐ हि धीभिर् दयसे वि वाजान् ॥
VERSE: 33.19 गाव ऽ उपावतावतं मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥
VERSE: 33.20 यद् अद्य सूर ऽ उदिते नागा मित्रो ऽ अर्यमा । सुवाति सविता भगः ॥
VERSE: 33.21 आ सुते सिञ्चत श्रियम्̐ रोदस्योर् अभिश्रियम् । रसा दधीत वृषभम् ॥[ तं प्रत्नथा। अयं वेनः॥]
VERSE: 33.22 आतिष्ठन्तं परि विश्वे ऽ अभूषञ् छ्रियो वसानश् चरति स्वरोचिः । महत् तद् वृष्णो ऽ असुरस्य नामा विश्वरूपो ऽ अमृतानि तस्थौ ॥
VERSE: 33.23 प्र वो महे मन्दमानायान्धसो ऽर्चा विश्वानराय विश्वाभुवे । इन्द्रस्य यस्य सुमखम्̐ सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥
VERSE: 33.24 बृहन्न् इद् इध्म ऽ एषां भूरि शस्तं पृथुः स्वरुः । येषाम् इन्द्रो युवा सखा ॥
VERSE: 33.25 इन्द्रेहि मत्स्य् अन्धसो विश्वेभिः सोमपर्वभिः । महाम्̐२ऽ अभिष्टिर् ओजसा ॥
VERSE: 33.26 इन्द्रो वृत्रम् अवृणोच्छर्धनीतिः प्र मायिनाम् अमिनाद् वर्पणीतिः । अहन् व्यम्̐सम् उशधग् वनेष्व् आविर् धेना ऽ अकृणोद् राम्याणाम् ॥
VERSE: 33.27 कुतस् त्वम् इन्द्र माहिनः सन्न् एको यासि सत्पते किं त ऽ इत्था । सं पृच्छसे समराणः शुभानैर् वोचेस् तन् नो हरिवो यत् ते ऽ अस्मे । महाम्̐२ऽ इन्द्रो य ऽ ओजसा । कदा चन स्तरीर् असि । कदा चन प्र युच्छसि ॥
VERSE: 33.28 आ तत् त ऽ इन्द्रायवः पनन्ताभि य ऽ ऊर्वं गोमन्तं तितृत्सान् । सकृत्स्वं ये पुरुपुत्रां महीम्̐ सहस्रधारां बृहतीं दुदुक्षन् ॥
VERSE: 33.29 इमां ते धियं प्र भरे महो महीम् अस्य स्तोत्रे धिषणा यत् त ऽ आनजे । तम् उत्सवे च प्रसवे च सासहिम् इन्द्रं देवासः शवसामदन्न् अनु ॥
VERSE: 33.30 विभ्राड् बृहत् पिबतु सोम्यं मध्व् आयुर् दधद् यज्ञपताव् अविह्रुतम् । वातजूतो यो ऽ अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥
VERSE: 33.31 उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम्̐ स्वाहा ॥
VERSE: 33.32 येना पावक चक्षसा भुरण्यन्तं जनाम्̐२ऽ अनु । त्वं वरुण पश्यसि ॥
VERSE: 33.33 दैव्याव् अध्वर्यू ऽ आ गतम्̐ रथेन सूर्यत्वचा । मध्वा यज्ञम्̐ सम् अञ्जाथे । तं प्रत्नथा । अयं वेनः। चित्रं देवानाम्(अ.वे.) अयं वेनः । चित्रम् देवानाम् ॥
VERSE: 33.34 आ न ऽ इडाभिर् विदथे सुशस्ति विश्वानरः सविता देव ऽ एतु । अपि यथा युवानो मत्सथा नो विश्वं जगद् अभिपित्वे मनीषा ॥
VERSE: 33.35 यद् अद्य कच् च वृत्रहन्न् उदगा ऽ अभि सूर्य । सर्वं तद् इन्द्र ते वशे ॥
VERSE: 33.36 तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य । विश्वम् आ भासि रोचनम् ॥
VERSE: 33.37 तत् सूर्यस्य देवत्वं तन् महित्वं मध्या कर्तोर् विततम्̐ सं जभार । यदेद् अयुक्त हरितः सधस्थाद् आद् रात्री वासस् तनुते सिमस्मै ॥
VERSE: 33.38 तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योर् उपस्थे । अनन्तम् अन्यद् रुशद् अस्य पाजः कृष्णम् अन्यद् धरितः सं भरन्ति ॥
VERSE: 33.39 बण् महाम्̐२ऽ असि सूर्य बड् आदित्य महाम्̐२ऽ असि । महस् ते सतो महिमा पनस्यते द्धा देव महाम्̐२ऽ असि ॥
VERSE: 33.40 बट् सूर्य श्रवसा महाम्̐२ऽ असि सत्रा देव महाम्̐२ऽ असि । मह्ना देवानाम् असुर्यः पुरोहितो विभु ज्योतिर् अदाभ्यम् ॥
VERSE: 33.41 श्रायन्त ऽ इव सूर्यं विश्वेद् इन्द्रस्य भक्षत । वसूनि जाते जनमान ऽ ओजसा प्रति भागं न दीधिम ॥
VERSE: 33.42 अद्या देवा ऽ उदिता सूर्यस्य निर् अम्̐हसः पिपृता निर् अवद्यात् । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी ऽ उत द्यौः ॥
VERSE: 33.43 आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतं मर्त्यं च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥
VERSE: 33.44 प्र वावृजे सुप्रया बर्हिर् एषाम् आ विश्पतीव बीरिट ऽ इयाते । विशाम् अक्तोर् उषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥
VERSE: 33.45 इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् । आदित्यान् मारुतं गणम् ॥
VERSE: 33.46 वरुणः प्राविता भुवन् मित्रो विश्वाभिर् ऊतिभिः । करतां नः सुराधसः ॥
VERSE: 33.47 अधि न इन्द्रेषां विष्णो सजात्यानाम् । इता मरुतो ऽ अश्विना । [तं प्रत्नथा । अयं वेनः । ये देवासः । आ न इडाभिः । विश्वेभिः सोम्यं मधु ।] (अ.वे. 7.12, 16. 19, ) ओमासश् चर्षणीधृतः ॥
VERSE: 33.48 अग्न ऽ इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो । उभा नासत्या रुद्रो ऽ अध ग्नाः पूषा भगः सरस्वती जुषन्त ॥
VERSE: 33.49 इन्द्राग्नी मित्रावरुणादितिम्̐ स्वः पृथिवीं द्यां मरुतः पर्वताम्̐२ऽ अपः । हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शम्̐सम्̐ सवितारमूतये ॥
VERSE: 33.50 अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः । यः शम्̐सते स्तुवते धायि पज्र ऽ इन्द्रज्येष्ठा ऽ अस्माम्̐२ऽ अवन्तु देवाः ॥
VERSE: 33.51 अर्वाञ्चो ऽ अद्या भवता यजत्रा ऽ आ वो हार्दि भयमानो व्ययेयम् । त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्ताद् अवपदो यजत्राः ॥
VERSE: 33.52 विश्वे ऽ अद्य मरुतो विश्व ऽ ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः । विश्वे नो देवा ऽ अवसा गमन्तु विश्वम् अस्तु द्रविणं वाजो ऽ अस्मे ॥
VERSE: 33.53 विश्वे देवाः शृणुतेमम्̐ हवं मे ये ऽ अन्तरिक्षे य ऽ उप द्यवि ष्ठ । ये ऽ अग्निजिह्वा ऽ उत वा यजत्रा ऽ आसद्यास्मिन् बर्हिषि मादयध्वम् ॥
VERSE: 33.54 देवेभ्यो हि प्रथमं यज्ञियेभ्यो ऽमृतत्वम्̐ सुवसि भागम् उत्तमम् । आद् इद् दामानम्̐ सवितर् व्य् ऊर्णुषे ऽनूचीना जीविता मानुषेभ्यः ॥
VERSE: 33.55 प्र वायुम् अच्छा बृहती मनीषा बृहद्रयिं विश्ववारम्̐ रथप्राम् । द्युतद्यामा नियुतः पत्यमानः कविः कविम् इयक्षसि प्रयज्यो ॥
VERSE: 33.56 इन्द्रवायू ऽ इमे सुता ऽ उप प्रयोभिर् आगतम् । इन्दवो वाम् उशन्ति हि ॥
VERSE: 33.57 मित्रम्̐ हुवे पूतदक्षं वरुणं च रिशादसम् । धियं घृताचीम्̐ साधन्ता ॥
VERSE: 33.58 दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः । आ यातम्̐ रुद्रवर्तनी । [ तं प्रत्नथा । अयं वेनः ॥ ](अ.वे. 7.12.16)
VERSE: 33.59 विदद् यदी सरमा रुग्णम् अद्रेर् महि पाथः पूर्व्यम्̐ सध्र्यक् कः । अग्रं नयत् सुपद्य् अक्षराणाम् अच्छा रवं प्रथमा जानती गात् ॥
VERSE: 33.60 नहि स्पशम् अविदन्न् अन्यम् अस्माद् वैश्वानरात् पुर ऽ एतारम् अग्नेः । एम् एनम् अवृधन्न् अमृता ऽ अमर्त्यं वैश्वानरं क्षैत्रजित्याय देवाः ॥
VERSE: 33.61 उग्रा विघनिना मृध ऽ इन्द्राग्नी हवामहे । ता नो मृडात ऽ ईदृशे ॥
VERSE: 33.62 उपास्मै गायता नरः पवमानायेन्दवे । अभि देवाम्̐२ऽ इयक्षते ॥
VERSE: 33.63 ये त्वाहिहत्ये मघवन्न् अवर्धन् ये शाम्बरे हरिवो ये गविष्टौ । ये त्वा नूनम् अनुमदन्ति विप्राः पिबेन्द्र सोमम्̐ सगणो मरुद्भिः ॥
VERSE: 33.64 जनिष्ठा ऽ उग्रः सहसे तुराय मन्द्र ऽ ओजिष्ठो बहुलाभिमानः । अवर्धन्न् इन्द्रं मरुतश् चिद् अत्र माता यद् वीरं दधनद् धनिष्ठा ॥
VERSE: 33.65 आ तू न ऽ इन्द्र वृत्रहन्न् अस्माकम् अर्धम् आ गहि । महान् महीभिर् ऊतिभिः ॥
VERSE: 33.66 त्वम् इन्द्र प्रतूर्तिष्व् अभि विश्वा ऽ असि स्पृधः । अशस्तिहा जनिता विश्वतूर् असि त्वं तूर्य तरुष्यतः ॥
VERSE: 33.67 अनु ते शुष्मं तुरयन्तम् ईयतुः क्षोणी शिशुं न मातरा । विश्वास् ते स्पृधः श्नथयन्त मन्यवे वृत्रं यद् इन्द्र तूर्वसि ॥
VERSE: 33.68 यज्ञो देवानां प्रत्य् एति सुम्नम् आदित्यासो भवता मृडयन्तः । आ वो ऽर्वाची सुमतिर् ववृत्याद् अम्̐होश् चिद् या वरिवोवित्तरासत् ॥
VERSE: 33.69 अदब्धेभिः सवितः पायुभिष् ट्वम्̐ शिवेभिर् अद्य परि पाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो ऽ अघशम्̐स ऽ ईशत ॥
VERSE: 33.70 प्र वीरया शुचयो दद्रिरे वाम् अध्वर्युभिर् मधुमन्तः सुतासः । वह वायो नियुतो याह्य् अच्छा पिबा सुतस्यान्धसो मदाय ॥
VERSE: 33.71 गाव ऽ उपावतावतं मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥
VERSE: 33.72 काव्ययोर् आजानेषु क्रत्वा दक्षस्य दुरोणे । रिशादसा सधस्थ ऽ आ ॥
VERSE: 33.73 दैव्याव् अध्वर्यू आ गतम्̐ रथेन सूर्यत्वचा । मध्वा यज्ञम्̐ सम् अञ्जाथे । [ + तं प्रत्नथा । अयं वेनः ॥]
VERSE: 33.74 तिरश्चीनो विततो रश्मिर् एषाम् अधः स्विद् आसी३द् उपरि स्विद् आसी३त् । रेतोधा ऽ आसन् महिमान ऽ आसन्त् स्वधा ऽ अवस्तात् प्रयतिः परस्तात् ॥
VERSE: 33.75 आ रोदसी ऽ अपृणद् आ स्वर् महज् जातं यद् एनम् अपसो ऽ अधारयन् । सो ऽ अध्वराय परि णीयते कविर् अत्यो न वाजसातये चनोहितः ॥
VERSE: 33.76 उक्थेभिर् वृत्रहन्तमा या मन्दाना चिद् आ गिरा । आङ्गूषैर् आविवासतः ॥
VERSE: 33.77 उप नः सूनवो गिरः शृण्वन्त्व् अमृतस्य ये । सुमृडीका भवन्तु नः ॥
VERSE: 33.78 ब्रह्माणि मे मतयः शम्̐ सुतासः शुष्म ऽ इयर्ति प्रभृतो मे ऽ अद्रिः । आ शासते प्रति हर्यन्त्य् उक्थेमा हरी वहतस् ता नो ऽ अच्छ ॥
VERSE: 33.79 अनुत्तमा ते मघवन् नकिर् नु न त्वावाम्̐२ऽ अस्ति देवता विदानः । न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥
VERSE: 33.80 तद् इद् आस भुवनेषु ज्येष्ठं यतो जज्ञ ऽ उग्रस् त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रून् अनु यं विश्वे मदन्त्य् ऊमाः ॥
VERSE: 33.81 इमा ऽ उ त्वा पुरूवसो गिरो वर्धन्तु या मम । पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैर् अनूषत ॥
VERSE: 33.82 यस्यायं विश्व ऽ आर्यो दासः शेवधिपा ऽ अरिः । तिरश् चिद् अर्ये रुशमे परीरवि तुभ्येत् सो ऽ अज्यते रयिः ॥
VERSE: 33.83 अयम्̐ सहस्रम् ऋषिभिः सहस्कृतः समुद्र ऽ इव पप्रथे । सत्यः सो ऽ अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥
VERSE: 33.84 अदब्धेभिः सवितः पायुभिष् ट्वम्̐ शिवेभिर् अद्य परि पाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो ऽ अघशम्̐स ऽ ईशत ॥
VERSE: 33.85 आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः । अन्तः पवित्र ऽ उपरि श्रीणानो ऽयम्̐ शुक्रो ऽ अयामि ते ॥
VERSE: 33.86 इन्द्रवायू सुसंदृशा सुहवेह हवामहे । यथा नः सर्व ऽ इज् जनो ऽनमीवः संगमे सुमना ऽ असत् ॥
VERSE: 33.87 ऋधग् इत्था स मर्त्यः शशमे देवतातये । यो नूनं मित्रावरुणाव् अभिष्टय ऽ आचक्रे हव्यदातये ॥
VERSE: 33.88 आ यातम् उप भूषतं मध्वः पिबतम् अश्विना । दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टम् आ गतम् ॥
VERSE: 33.89 प्रैतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥
VERSE: 33.90 चन्द्रमा ऽ अप्स्व् अन्तर् आ सुपर्णो धावते दिवि । रयिं पिशंगं बहुलं पुरुस्पृहम्̐ हरिर् एति कनिक्रदत् ॥
VERSE: 33.91 देवं-देवं वो ऽवसे देवं-देवम् अभिष्टये । देवं-देवम्̐ हुवेम वाजसातये गृणन्तो देव्या धिया ॥
VERSE: 33.92 दिवि पृष्टो ऽ अरोचताग्निर् वैश्वानरो बृहन् । क्ष्मया वृधान ऽ ओजसा चनोहितो ज्योतिषा बाधते तमः ॥
VERSE: 33.93 इन्द्राग्नी ऽ अपाद् इयं पूर्वागात् पद्वतीभ्यः । हित्वी शिरो जिह्वया वावदच् चरत् त्रिम्̐शत् पदा न्य् अक्रमीत् ॥
VERSE: 33.94 देवासो हि ष्मा मनवे समन्यवो विश्वे साकम्̐ सरातयः । ते नो ऽ अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ॥
VERSE: 33.95 अपाधमद् अभिशस्तीर् अशस्तिहाथेन्द्रो द्युम्न्य् आभवत् । देवास् त ऽ इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥
VERSE: 33.96 प्र व ऽ इन्द्राय बृहते मरुतो ब्रह्मार्चत । वृत्रम्̐ हनति वृत्रहा शतक्रतुर् वज्रेण शतपर्वणा ॥
VERSE: 33.97 अस्येद् इन्द्रो वावृधे वृष्ण्यम्̐ शवो मदे सुतस्य विष्णवि । अद्या तम् अस्य महिमानम् आयवो ऽनु ष्टुवन्ति पूर्वथा । [इमा ऽ उ त्वा । यस्यायम् । अयम्̐ सहस्रम् । ऊर्ध्व ऽ ऊ षु णः ॥] (अ.वे. )

अध्याय 34 अनारभ्याधीतो अध्याये ब्रह्मयज्ञार्थकः शिवसंकल्पादि मन्त्राः
VERSE: 34.1 यज् जाग्रतो दूरम् उदैति दैवं तद् उ सुप्तस्य तथैवैति । दूरंगमं ज्योतिषां ज्योतिर् एकं तन् मे मनः शिवसंकल्पम् अस्तु ॥
VERSE: 34.2 येन कर्माण्य् अपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः । यद् अपूर्वं यक्षम् अन्तः प्रजानां तन् मे मनः शिवसंकल्पम् अस्तु ॥
VERSE: 34.3 यत् प्रज्ञानम् उत चेतो धृतिश् च यज् ज्योतिर् अन्तर् अमृतं प्रजासु । यस्मान् न ऽ ऋते किं चन कर्म क्रियते तन् मे मनः शिवसंकल्पम् अस्तु ॥
VERSE: 34.4 येनेदं भूतं भुवनं भविष्यत् परिगृहीतम् अमृतेन सर्वम् । येन यज्ञस् तायते सप्तहोता तन् मे मनः शिवसंकल्पम् अस्तु ॥
VERSE: 34.5 यस्मिन्न् ऋचः साम यजूम्̐षि यस्मिन् प्रतिष्ठिता रथनाभाव् इवाराः । यस्मिम्̐श् चित्तम्̐ सर्वम् ओतं प्रजानं तन् मे मनः शिवसंकल्पम् अस्तु ॥
VERSE: 34.6 सुषारथिर् अश्वान् इव यन् मनुष्यान् नेनीयते ऽभीशुभिर् वाजिन ऽ इव । हृत्प्रतिष्ठं यद् अजिरं जविष्ठं तन् मे मनः शिवसंकल्पम् अस्तु ॥
VERSE: 34.7 पितुं नु स्तोषं महो धर्माणं तविषीम् । यस्य त्रितो व्य् ओजसा वृत्रं विपर्वम् अर्दयत् ॥
VERSE: 34.8 अन्व् इद् अनुमते त्वं मन्यासै शं च नस् कृधि । क्रत्वे दक्षाय नो हिनु प्र ण ऽ आयूम्̐षि तारिषः ॥
VERSE: 34.9 अनु नो ऽद्यानुमतिर् यज्ञं देवेषु मन्यताम् । अग्निश् च हव्यवाहनो भवतं दाशुषे मयः ॥
VERSE: 34.10 सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा । जुषस्व हव्यम् आहुतं प्रजां देवि दिदिड्ढि नः ॥
VERSE: 34.11 पञ्च नद्यः सरस्वतीम् अपि यन्ति सस्रोतसः । सरस्वती तु पञ्चधा सो देशे ऽभवत् सरित् ॥
VERSE: 34.12 त्वम् अग्ने प्रथमो ऽ अङ्गिरा ऽ ऋषिर् देवो देवानाम् अभवः शिवः सखा । तव व्रते कवयो विद्मनापसो ऽजायन्त मरुतो भ्राजदृष्टयः ॥
VERSE: 34.13 त्वं नो ऽ अग्ने तव देव पायुभिर् मघोनो रक्ष तन्वश् च वन्द्य । त्राता तोकस्य तनये गवाम् अस्य् अनिमेषम्̐ रक्षणस् तव व्रते ॥
VERSE: 34.14 उत्तानायाम् अव भरा चिकित्वान्त् सद्यः प्रवीता वृषणं जजान । अरुषस्तूपो रुशद् अस्य पाज ऽ इडायास् पुत्रो वयुने ऽजनिष्ट ॥
VERSE: 34.15 इडायास् त्वा पदे वयं नाभा पृथिव्या ऽ अधि । जातवेदो नि धीमह्य् अग्ने हव्याय वोढवे ॥
VERSE: 34.16 प्र मन्महे शवसानाय शूषम् आङ्गूषं गिर्वणसे ऽ अङ्गिरस्वत् । सुवृक्तिभिः स्तुवत ऽ ऋग्मियायार्चामार्कं नरे विश्रुताय ॥
VERSE: 34.17 प्र वो महे महि नमो भरध्वम् आङ्गूष्यम्̐ शवसानाय साम । येना नः पूर्वे पितरः पदज्ञा ऽ अर्चन्तो ऽ अङ्गिरसो गा ऽ अविन्दन् ॥
VERSE: 34.18 इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयाम्̐सि । तितिक्षन्ते ऽ अभिशस्तिं जनानाम् इन्द्र त्वद् आ कश् चन हि प्रकेतः ॥
VERSE: 34.19 न ते दूरे परमा चिद् रजाम्̐स्य् अस्या तु प्र याहि हरिवो हरिभ्याम् । स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने ऽ अग्नौ ॥
VERSE: 34.20 अषाढं युत्सु पृतनासु पप्रिम्̐ स्वर्षाम् अप्सां वृजनस्य गोपाम् । भरेषुजाम्̐ सुक्षितिम्̐ सुश्रवसं जयन्तं त्वाम् अनु मदेम सोम ॥
VERSE: 34.21 सोमो धेनुम्̐ सोमो ऽ अर्वन्तम् आशुम्̐ सोमो वीरं कर्मण्यं ददाति । सादन्यं विदथ्यम्̐ सभेयं पितृश्रवणं यो ददाशद् अस्मै ॥
VERSE: 34.22 त्वम् इमा ऽ ओषधीः सोम विश्वास् त्वम् अपो ऽ अजनयस् त्वं गाः । त्वम् आ ततन्थोर्व् अन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥
VERSE: 34.23 देवेन नो मनसा देव सोम रायो भागम्̐ सहसावन्न् अभि युध्य । मा त्वा तनद् ईशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ॥
VERSE: 34.24 अष्टौ व्यख्यत् ककुभः पृथिव्यास् त्री धन्व योजना सप्त सिन्धून् । हिरण्याक्षः सविता देव ऽ आगाद् दधद् रत्ना दाशुषे वार्याणि ॥
VERSE: 34.25 हिरण्यपाणिः सविता विचर्षणिर् उभे द्यावापृथिवी ऽ अन्तर् ईयते । अपामीवां बाधते वेति सूर्यम् अभि कृष्णेन रजसा द्याम् ऋणोति ॥
VERSE: 34.26 हिरण्यहस्तो ऽ असुरः सुनीथः सुमृडीकः स्ववाँ यात्व् अर्वाङ् । अपसेधन् रक्षसो यातुधानान् अस्थाद् देवः प्रतिदोषं गृणानः ॥
VERSE: 34.27 ये ते पन्थाः सवितः पूर्व्यासो ऽरेणवः सुकृता ऽ अन्तरिक्षे । तेभिर् नो ऽ अद्य पथिभिः सुगेभी रक्षा च नो ऽ अधि च ब्रूहि देव ॥
VERSE: 34.28 उभा पिबतम् अश्विनोभा नः शर्म यच्छतम् । अविद्रियाभिर् ऊतिभिः ॥
VERSE: 34.29 अप्नस्वतीम् अश्विना वाचम् अस्मे कृतं नो दस्रा वृषणा मनीषाम् । अद्यूत्ये ऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥
VERSE: 34.30 द्युभिर् अक्तुभिः परि पातम् अस्मान् अरिष्टेभिर् अश्विना सौभगेभिः । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी ऽ उत द्यौः ॥
VERSE: 34.31 आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतं मर्त्यं च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥
VERSE: 34.32 आ रात्रि पर्थिवम्̐ रजः पितुर् अप्रायि धामभिः । दिवः सदाम्̐सि बृहती वि तिष्ठस ऽ आ त्वेषं वर्तते तमः ॥
VERSE: 34.33 उषस् तच् चित्रम् आ भरास्मभ्यं वाजिनीवति । येन तोकं च तनयं च धामहे ॥
VERSE: 34.34 प्रातर् अग्निं प्रातर् इन्द्रम्̐ हवामहे प्रातर् मित्रावरुणा प्रातर् अश्विना । प्रातर् भगं पूषणं ब्रह्मणस्पतिं प्रातः सोमम् उत रुद्रम्̐ हुवेम ॥
VERSE: 34.35 प्रातर्जितं भगम् उग्रम्̐ हुवेम वयं पुत्रम् अदितेर् यो विधर्ता । आध्रश् चिद् यं मन्यमानस् तुरश् चिद् राजा चिद् यं भगं भक्षीत्य् आह ॥
VERSE: 34.36 भग प्रणेतर् भग सत्यराधो भगेमां धियम् उदवा ददन् नः । भग प्र णो जनय गोभिर् अश्वैर् भग प्र नृभिर् नृवन्तः स्याम ॥
VERSE: 34.37 उतेदानीं भगवन्तः स्यामोत प्रपित्व ऽ उत मध्ये ऽ अह्नाम् । उतोदिता मघवन् सूर्यस्य वयं देवानाम्̐ सुमतौ स्याम ॥
VERSE: 34.38 भग ऽ एव भगवाम्̐२ऽ अस्तु देवास् तेन वयं भगवन्तः स्याम । तं त्वा भग सर्व ऽ इज्जोहवीति स नो भग पुर ऽ एता भवेह ॥
VERSE: 34.39 सम् अध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । अर्वाचीनं वसुविदं भगं नो रथम् इवाश्वा वाजिन ऽ आ वहन्तु ॥
VERSE: 34.40 अश्वावतीर् गोमतीर् न ऽ उषासो वीरवतीः सदम् उच्छन्तु भद्राः । घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥
VERSE: 34.41 पूषन् तव व्रते वयं न रिष्येम कदा चन । स्तोतारस् त ऽ इह स्मसि ॥
VERSE: 34.42 पथस्-पथः परिपतिं वचस्या कामेन कृतो ऽ अभ्यानड् अर्कम् । स नो रासच्छुरुधश् चन्द्राग्रा धियं-धियम्̐ सीषधाति प्र पूषा ॥
VERSE: 34.43 त्रीणि पदा वि चक्रमे विष्णुर् गोपा ऽ अदाभ्यः । अतो धर्माणि धारयन् ॥
VERSE: 34.44 तद् विप्रासो विपन्यवो जागृवाम्̐सः सम् इन्धते । विष्णोर् यत् परमं पदम् ॥
VERSE: 34.45 घृतवती भुवनानाम् अभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते ऽ अजरे भूरिरेतसा ॥
VERSE: 34.46 ये नः सपत्ना ऽ अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् । वसवो रुद्रा ऽ आदित्या ऽ उपरिस्पृशं मोग्रं चेत्तारम् अधिराजम् अक्रन् ॥
VERSE: 34.47 आ नासत्या त्रिभिर् एकादशैर् इह देवेभिर् यातं मधुपेयम् अश्विना । प्रायुस् तारिष्टं नी रपाम्̐सि मृक्षतम्̐ सेधतं द्वेषो भवतम्̐ सचाभुवा ॥
VERSE: 34.48 एष व स्तोमो मरुत ऽ इयं गीर् मान्दार्यस्य मान्यस्य कारोः । एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥
VERSE: 34.49 सहस्तोमाः सहच्छन्दस ऽ आवृतः सहप्रमा ऽ ऋषयः सप्त दैव्याः । पूर्वेषां पन्थाम् अनुदृश्य धीरा ऽ अन्वालेभिरे रथ्यो न रश्मीन् ॥
VERSE: 34.50 आयुष्यं वर्चस्यम्̐ रायस्पोषम् औद्भिदम् । इदम्̐ हिरण्यं वर्चस्वज् जैत्राया विशताद् उ माम् ॥
VERSE: 34.51 न तद् रक्षाम्̐सि न पिशाचास् तरन्ति देवानाम् ओजः प्रथमजम्̐ ह्य् एतत् । यो बिभर्ति दाक्षायणम्̐ हिरण्यम्̐ स देवेषु कृणुते दीर्घम् आयुः स मनुष्येषु कृणुते दीर्घम् आयुः ॥
VERSE: 34.52 यद् आबध्नन् दाक्षायणा हिरण्यम्̐ शतानीकाय सुमनस्यमानाः । तन् म ऽ आ बध्नामि शतशारदायायुष्मान् जरदष्टिर् यथासम् ॥
VERSE: 34.53 उत नो ऽहिर्बुध्न्यः शृणोत्व् अज ऽ एकपात् पृथिवी समुद्रः । विश्वे देवा ऽ ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता ऽ अवन्तु ॥
VERSE: 34.54 इमा गिर ऽ आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि । शृणोतु मित्रो ऽ अर्यमा भगो नस् तुविजातो वरुणो दक्षो ऽअम्̐शः ॥
VERSE: 34.55 सप्त ऽ ऋषयः प्रतिहिताः शरीरे सप्त रक्षन्ति सदम् अप्रमादम् । सप्तापः स्वपतो लोकम् ईयुस् तत्र जागृतो ऽ अस्वप्नजौ सत्रसदौ च देवौ ॥
VERSE: 34.56 उत् तिष्ठ ब्रह्मणस्पते देवयन्तस् त्वेमहे । उप प्र यन्तु मरुतः सुदानव ऽ इन्द्र प्राशूर् भवा सचा ॥
VERSE: 34.57 प्र नूनं ब्रह्मणस्पतिर् मन्त्रं वदत्य् उक्थ्यम् । यस्मिन्न् इन्द्रो वरुणो मित्रो ऽ अर्यमा देवा ऽ ओकाम्̐सि चक्रिरे ॥
VERSE: 34.58 ब्रह्मणस्पते त्वम् अस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व । विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः । [य इमा विश्वा । विश्वकर्मा । यो नः पिता । अन्नपते न्नस्य नो देहि ॥ ] (अ.वे. 17. , 11. )

अध्याय 35 पितृमेधसम्बन्धिनो मन्त्राः
VERSE: 35.1 अपेतो यन्तु पणयो ऽसुम्ना देवपीयवः । अस्य लोकः सुतावतः । द्युभिर् अहोभिर् अक्तुभिर् व्यक्तं यमो ददात्व् अवसानम् अस्मै ॥
VERSE: 35.2 सविता ते शरीरेभ्यः पृथिव्यां लोकम् इच्छतु । तस्मै युज्यन्ताम् उस्रियाः ॥
VERSE: 35.3 वायुः पुनातु । सविता पुनातु । अग्नेर् भ्राजसा । सूर्यस्य वर्चसा । वि मुच्यन्ताम् उस्रियाः ॥
VERSE: 35.4 अश्वत्थे वो निषदनं पर्णे वो वसतिष् कृता । गोभाजऽइत् किलासथ यत् सनवथ पूरुषम् ॥
VERSE: 35.5 सविता ते शरीराणि मातुर् उपस्थ ऽ आ वपतु । तस्मै पृथिवि शं भव ॥
VERSE: 35.6 प्रजापतौ त्वा देवतायाम् उपोदके लोके नि दधाम्य् असौ । अप नः शोशुचद् अघम् ॥
VERSE: 35.7 परं मृत्यो ऽ अनु परेहि पन्थां यस् ते ऽ अन्य इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाम्̐ रीरिषो मोत वीरान् ॥
VERSE: 35.8 शं वातः शम्̐ हि ते घृणिः शं ते भवन्त्व् इष्टकाः । शं ते भवन्त्व् अग्नयः पार्थिवासो मा त्वाभि शूशुचन् ॥
VERSE: 35.9 कल्पन्तां ते दिशस् तुभ्यम् आपः शिवतमास् तुभ्यं भवन्तु सिन्धवः । अन्तरिक्षम्̐ शिवं तुभ्यं कल्पन्तां ते दिशः सर्वाः ॥
VERSE: 35.10 अश्मन्वती रीयते सम्̐ रभध्वम् उत् तिष्ठत प्र तरता सखायः । अत्र जहीमो ऽशिवा ये ऽ असञ्छिवान् वयम् उत्तरेमाभि वाजान् ॥
VERSE: 35.11 अपाघम् अप किल्विषम् अप कृत्याम् अपो रपः । अपामार्ग त्वम् अस्मद् अप दुःष्वप्न्यम्̐ सुव ॥
VERSE: 35.12 सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
VERSE: 35.13 अनड्वाहम् आ रभामहे सौरभेयम्̐ स्वस्तये । स न ऽ इन्द्र ऽ इव देवेभ्यो वह्निः संतरणो भव ॥
VERSE: 35.14 उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् । देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥
VERSE: 35.15 इमं जीवेभ्यः परिधिं दधामि मैषां नु गाद् अपरो ऽ अर्थम् एतम् । शतं जीवन्तु शरदः पुरूचीर् अन्तर् मृत्युं दधतां पर्वतेन ॥
VERSE: 35.16 अग्न ऽ आयूम्̐षि पवस ऽ आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम् ॥
VERSE: 35.17 आयुष्मान् अग्ने हविषा वृधानो घृतप्रतीको घृतयोनिर् एधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रम् अभि रक्षताद् इमान्त् स्वाहा ॥
VERSE: 35.18 परीमे गाम् अनेषत पर्य् अग्निम् अहृषत । देवेष्व् अक्रत श्रवः क ऽ इमाम्̐२ऽ आ दधर्षति ॥
VERSE: 35.19 क्रव्यादम् अग्निं प्र हिणोमि दूरं यमराज्यं गच्छतु रिप्रवाहः । इहैवायम् इतरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥
VERSE: 35.20 वह वपां जातवेदः पितृभ्यो यत्रैनान् वेत्थ निहितान् पराके । मेदसः कुल्या ऽ उप तान्त् स्रवन्तु सत्या ऽ एषाम् आशिषः सं नमन्ताम्̐ स्वाहा ॥
VERSE: 35.21 स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः । अप नः शोशुचद् अघम् ॥
VERSE: 35.22 अस्मात् त्वम् अधि जातो ऽसि त्वद् अयं जायतां पुनः । असौ स्वर्गाय लोकाय स्वाहा ॥
अध्याय 36 प्रवर्ग्याग्निकाश्वमेधोपनिषत्संबद्धा मन्त्राः
VERSE: 36.1 ऋचं वाचं प्र पद्ये मनो यजुः प्र पद्ये साम प्राणं प्र पद्ये चक्षुः श्रोत्रं प्र पद्ये । वाग् ओजः सहौजो मयि प्राणापानौ ॥
VERSE: 36.2 यन् मे छिद्रं चक्षुषो हृदयस्य मनसो वातितृण्णं बृहस्पतिर् मे तद् दधातु । शं नो भवतु भुवनस्य यस् पतिः ॥
VERSE: 36.3 भूर् भुवः स्वः । तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयत् ॥
VERSE: 36.4 कया नश् चित्र ऽ आ भुवद् ऊती सदावृधः सखा । कया शचिष्ठया वृता ॥
VERSE: 36.5 कस् त्वा सत्यो मदानां मम्̐हिष्ठो मत्सद् अन्धसः । दृढा चिद् आरुजे वसु ॥
VERSE: 36.6 अभी षु णः सखीनाम् अविता जरितॄणाम् । शतं भवास्य् ऊतिभिः ॥
VERSE: 36.7 कया त्वम् न ऽ ऊत्याभि प्र मन्दसे वृषन् । कया स्तोतृभ्य ऽ आ भर ॥
VERSE: 36.8 इन्द्रो विश्वस्य राजति । शं नो ऽ अस्तु द्विपदे शं चतुष्पदे ॥
VERSE: 36.9 शं नो मित्रः शं वरुणः शं नो भवत्व् अर्यमा । शं न ऽ इन्द्रो बृहस्पतिः शं नो विष्णुर् उरुक्रमः ॥
VERSE: 36.10 शं नो वातः पवताम्̐ शं नस् तपतु सूर्यः । शं नः कनिक्रदद् देवः पर्जन्यो ऽ अभि वर्षतु ॥
VERSE: 36.11 अहानि शं भवन्तु नः शम्̐ रात्रीः प्रति धीयताम् । शं न ऽ इन्द्राग्नी भवताम् अवोभिः शं न ऽ इन्द्रावरुणा रातहव्या । शं न ऽ इन्द्रापूषणा वाजसातौ शम् इन्द्रासोमा सुविताय शं योः ॥
VERSE: 36.12 शं नो देवीर् अभिष्टय ऽ आपो भवन्तु पीतये । शं योर् अभि स्रवन्तु नः ॥
VERSE: 36.13 स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः ॥
VERSE: 36.14 आपो हि ष्ठा मयोभुवस् ता न ऽ ऊर्जे दधातन । महे रणाय चक्षसे ॥
VERSE: 36.15 यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः ॥
VERSE: 36.16 तस्मा ऽ अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥
VERSE: 36.17 द्यौः शान्तिर् अन्तरिक्षम्̐ शान्तिः पृथिवी शान्तिर् आपः शान्तिर् ओषधयः शान्तिः । वनस्पतयः शान्तिर् विश्वे देवाः शान्तिर् ब्रह्म शान्तिः सर्वम्̐ शान्तिः शान्तिर् एव शान्तिः सा मा शान्तिर् एधि ॥
VERSE: 36.18 दृते दृम्̐ह मा मित्रस्य मा चक्षुषा सर्वाणि भूतानि सम् ईक्षन्ताम् । मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे । मित्रस्य चक्षुषा सम् ईक्षामहे ॥
VERSE: 36.19 दृते दृम्̐ह मा । ज्योक् ते संदृशि जीव्यासं ज्योक् ते संदृशि जीव्यासम् ॥
VERSE: 36.20 नमस् ते हरसे शोचिषे नमस् ते ऽ अस्त्व् अर्चिषे । अन्याम्̐स् ते ऽ अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यम्̐ शिवो भव ॥
VERSE: 36.21 नमस् ते ऽ अस्तु विद्युते नमस् ते स्तनयित्नवे । नमस् ते भगवन्न् अस्तु यतः स्वः समीहसे ॥
VERSE: 36.22 यतो-यतः समीहसे ततो नो ऽ अभयं कुरु । शं नः कुरु प्रजाभ्यो ऽभयं नः पशुभ्यः ॥
VERSE: 36.23 सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
VERSE: 36.24 तच् चक्षुर् देवहितं पुरस्ताच् छुक्रम् उच् चरत् । पश्येम शरदः शतं जीवेम शरदः शतम्̐ शृणुयाम शरदः शतं प्र ब्रवाम शरदः शतम् अदीनाः स्याम शरदः शतं भूयश् च शरदः शतात् ॥

अध्याय 37 महावीर संभरणाभ्यादान मन्त्राः। अभ्र्यादि रौहिणान्तो अध्यायः
VERSE: 37.1 देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे नारिर् असि ॥
VERSE: 37.2 युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविद् एक ऽ इन् मही देवस्य सवितुः परिष्टुतिः स्वाहा ॥
VERSE: 37.3 देवी द्यावापृथिवी मखस्य वाम् अद्य शिरो राध्यासं देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
VERSE: 37.4 देव्यो वम्र्यो भूतस्य प्रथमजा मखस्य वो ऽद्य शिरो राध्यासं देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
VERSE: 37.5 इयत्य् अग्रे ऽ आसीन् मखस्य ते ऽद्य शिरो राध्यासं देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
VERSE: 37.6 इन्द्रस्यौज स्थ मखस्य वो ऽद्य शिरो राध्यासं देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
VERSE: 37.7 प्रैतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः । मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
VERSE: 37.8 मखस्य शिरो ऽसि । मखाय त्वा मखस्य त्वा शीर्ष्णे । मखस्य शिरो ऽसि । मखाय त्वा मखस्य त्वा शीर्ष्णे । मखस्य शिरो ऽसि । मखाय त्वा मखस्य त्वा शीर्ष्णे । मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
VERSE: 37.9 अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे । अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे । अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे । मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
VERSE: 37.10 ऋजवे त्वा । साधवे त्वा । सुक्षित्यै त्वा । मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥
VERSE: 37.11 यमाय त्वा । मखाय त्वा । सूर्यस्य त्वा तपसे । देवस् त्वा सविता मध्वानक्तु । पृथिव्याः सम्̐स्पृशस् पाहि । अर्चिर् असि शोचिर् असि तपो ऽसि ॥
VERSE: 37.12 अनाधृष्टा पुरस्ताद् अग्नेर् आधिपत्य ऽ आयुर् मे दाः । पुत्रवती दक्षिणत ऽ इन्द्रस्याधिपत्ये प्रजां मे दाः । सुषदा पश्चाद् देवस्य सवितुर् आधिपत्ये चक्षुर् मे दाः । आस्रुतिर् उत्तरतो धातुर् आधिपत्ये रायस्पोषं मे दाः । विधृतिर् उपरिष्टाद् बृहस्पतेर् आधिपत्ये ऽ ओजो मे दाः । विश्वाभ्यो मा नाष्ट्राभ्यस् पाहि । मनोर् अश्वासि ॥
VERSE: 37.13 स्वाहा मरुद्भिः परि श्रीयस्व । दिवः सम्̐स्पृशस् पाहि । मधु मधु मधु ॥
VERSE: 37.14 गर्भो देवानां पिता मतीनां पतिः प्रजानाम् । सं देवो देवेन सवित्रा गत सम्̐ सूर्येण रोचते ॥
VERSE: 37.15 सम् अग्निर् अग्निना गत सं दैवेन सवित्रा सम्̐ सूर्येणारोचिष्ट । स्वाहा सम् अग्निस् तपसा गत सं दैव्येन सवित्रा सम्̐ सूर्येणारूरुचत ॥
VERSE: 37.16 धर्ता दिवो वि भाति तपसस् पृथिव्यां धर्ता देवो देवानाम् अमर्त्यस् तपोजाः । वाचम् अस्मे नि यच्छ देवायुवम् ॥
VERSE: 37.17 अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् । स सध्रीचीः स विषूचीर् वसान ऽ आ वरीवर्त्ति भुवनेष्व् अन्तः ॥
VERSE: 37.18 विश्वासां भुवां पते विश्वस्य मनसस् पते विश्वस्य वचसस् पते सर्वस्य वचसस् पते । देवश्रुत् त्वं देव घर्म देवो देवान् पाहि । अत्र प्रावीर् अनु वां देववीतये । मधु माध्वीभ्यां मधु माधूचीभ्याम् ॥
VERSE: 37.19 हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा । ऊर्ध्वो ऽ अध्वरं दिवि देवेषु धेहि ॥
VERSE: 37.20 पिता नो ऽसि पिता नो बोधि नमस् ते ऽ अस्तु मा मा हिम्̐सीः । त्वष्टृमन्तस् त्वा सपेम पुत्रान् पशून् मयि धेहि प्रजाम् अस्मासु धेह्य् अरिष्टाहम्̐ सहपत्या भूयासम् ॥
VERSE: 37.21 अहः केतुना जुषताम्̐ सुज्योतिर् ज्योतिषा स्वाहा । रात्रिः केतुना जुषताम्̐ सुज्योतिर् ज्योतिषा स्वाहा ॥

अध्याय 38 महावीरोपक्रमे घर्मधुग्दोहादयः मन्त्राः
VERSE: 38.1 देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददे ऽदित्यै रास्नासि ॥
VERSE: 38.2 इड ऽ एहि । अदित ऽ एहि । सरस्वत्त्य् एहि । असाव् एहि । असाव् एहि । असाव् एहि ॥
VERSE: 38.3 अदित्यै रास्नासीन्द्राण्या ऽ उष्णीषः । पूषासि । घर्माय दीष्व ॥
VERSE: 38.4 अश्विभ्यां पिन्वस्व । सरस्वत्यै पिन्वस्व । इन्द्राय पिन्वस्व । स्वाहेन्द्रवत् । स्वाहेन्द्रवत् । स्वाहेन्द्रवत् ॥
VERSE: 38.5 यस् ते स्तनः शशयो यो मयोभूर् यो रत्नधा वसुविद् यः सुदत्रः । येन विश्वा पुष्यसि वार्याणि सरस्वति तम् इह धातवे ऽकः । उर्व् अन्तरिक्षम् अन्व् एमि ॥
VERSE: 38.6 गायत्रं छन्दो ऽसि । त्रैष्टुभं छन्दो ऽसि । द्यावापृथिवीभ्यां त्वा परि गृह्णामि । अन्तरिक्षेणोप यच्छामि । इन्द्राश्विना । मधुनः सारघस्य घर्मं पात वसवो यजत वाट् । स्वाहा सूर्यस्य रश्मये वृष्टिवनये ॥
VERSE: 38.7 समुद्राय त्वा वाताय स्वाहा । सरिराय त्वा वाताय स्वाहा । अनाधृष्याय त्वा वाताय स्वाहा । अप्रतिधृष्याय त्वा वाताय स्वाहा । अवस्यवे त्वा वाताय स्वाहा । अशिमिदाय त्वा वाताय स्वाहा ॥
VERSE: 38.8 इन्द्राय त्वा वसुमते रुद्रवते स्वाहा । इन्द्राय त्वादित्यवते स्वाहा । इन्द्राय त्वाभिमातिघ्ने स्वाहा । सवित्रे त्व ऽ ऋभुमते विभुमते वाजवते स्वाहा । बृहस्पतये त्वा विश्वदेव्यावते स्वाहा ॥
VERSE: 38.9 यमाय त्वाङ्गिरस्वते पितृमते स्वाहा । स्वाहा घर्माय । स्वाहा घर्मः पित्रे ॥
VERSE: 38.10 विश्वा ऽ आशा दक्षिणसद् विश्वान् देवान् अयाड् इह । स्वाहाकृतस्य घर्मस्य मधोः पिबतम् अश्विना ॥
VERSE: 38.11 दिवि धा ऽ इमं यज्ञम् इमम् यज्ञं दिवि धाः । स्वाहाग्नये यज्ञियाय शं यजुर्भ्यः ॥
VERSE: 38.12 अश्विना घर्मं पातम्̐ हार्द्वानम् अहर् दिवाभिर् ऊतिभिः । तन्त्रायिणो नमो द्यावापृथिवीभ्याम् ॥
VERSE: 38.13 अपाताम् अश्विना घर्मम् अनु द्यावापृथिवी ऽ अमम्̐साताम् । इहैव रातयः सन्तु ॥
VERSE: 38.14 इषे पिन्वस्व । ऊर्जे पिन्वस्व । ब्रह्मणे पिन्वस्व । क्षत्राय पिन्वस्व । द्यावापृथिवीभ्यां पिन्वस्व । धर्मासि सुधर्म । अमेन्य् अस्मे नृम्णानि धारय ब्रह्म धारय क्षत्रम् धारय विषं धारय ॥
VERSE: 38.15 स्वाहा पूष्णे शरसे । स्वाहा ग्रावभ्यः । स्वाहा प्रतिरवेभ्यः । स्वाहा पितृभ्य ऽ ऊर्ध्वबर्हिर्भ्यो घर्मपावभ्यः । स्वाहा द्यावापृथिवीभ्याम् । स्वाहा विश्वेभ्यः देवेभ्यः ॥
VERSE: 38.16 स्वाहा रुद्राय रुद्रहूतये । स्वाहा सं ज्योतिषा ज्योतिः । अहः केतुना जुषताम्̐ सुज्योतिर् ज्योतिषा स्वाहा । रात्रिः केतुना जुषताम्̐ सुज्योतिर् ज्योतिषा स्वाहा । मधु हुतम् इन्द्रतमे ऽ अग्नाव् अश्याम ते देव घर्म नमस् ते ऽ अस्तु मा मा हिम्̐सीः ॥
VERSE: 38.17 अभीमं महिमा दिवं विप्रो बभूव सप्रथाः । उत श्रवसा पृथिवीम्̐ सम्̐ सीदस्व महाम्̐२ऽ असि रोचस्व देववीतमः ॥ [वि धूमम् अग्ने ऽ अरुषं मियेध्य सृज प्रशस्त दर्शतम्] ॥
VERSE: 38.18 या ते घर्म दिव्या शुग् या गायत्र्याम्̐ हविर्धाने । सा त आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा । या ते घर्मान्तरिक्षे शुग् या त्रिष्टुभ्य् आग्नीध्रे । सा त ऽ आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा । या ते घर्म पृथिव्याम्̐ शुग् या जगत्याम्̐ सदस्या । सा त ऽ आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा ॥
VERSE: 38.19 क्षत्रस्य त्वा परस्पाय ब्रह्मणस् तन्वं पाहि । विशस् त्वा धर्मणा वयम् अनु क्रामाम सुविताय नव्यसे ॥
VERSE: 38.20 चतुःस्रक्तिर् नाभिर् ऋतस्य सप्रथाः स नो विश्वायुः सप्रथाः स नः सर्वायुः सप्रथाः । अप द्वेषो ऽ अप ह्वरो ऽन्यव्रतस्य सश्चिम ॥
VERSE: 38.21 घर्मैतत् ते पुरीषं तेन वर्धस्व चा च प्यायस्व । वर्धिषीमहि च वयम् आ च प्यासिषीमहि ॥
VERSE: 38.22 अचिक्रदद् वृषा हरिर् महान् मित्रो न दर्शतः । सम्̐ सूर्येण दिद्युतद् उदधिर् निधिः ॥
VERSE: 38.23 सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
VERSE: 38.24 उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् । देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥
VERSE: 38.25 एधो ऽस्य् एधिषीमहि । समिद् असि तेजो ऽसि तेजो मयि धेहि ॥
VERSE: 38.26 यावती द्यावापृथिवी यावच् च सप्त सिन्धवो वितस्थिरे । तावन्तम् इन्द्र ते ग्रहमूर्जा गृह्णाम्य् अक्षितं मयि गृह्णाम्य् अक्षितम् ॥
VERSE: 38.27 मयि त्यद् इन्द्रियं बृहन् मयि दक्षो मयि क्रतुः । घर्मस् त्रिशुग् वि राजति विराजा ज्योतिषा सह ब्रह्मणा तेजसा सह ॥
VERSE: 38.28 पयसो रेत ऽ आभृतं तस्य दोहम् अशीमह्य् उत्तराम्-उत्तराम्̐ समाम् । त्विषः संवृक् क्रत्वे दक्षस्य ते सुषुम्णस्य ते सुषुम्णाग्निहुतः । इन्द्रपीतस्य प्रजापतिभक्षितस्य मधुमत ऽ उपहूत ऽ उपहूतस्य भक्षयामि ॥

अध्याय 39 प्रवर्ग्ये घर्मभेदे प्रायश्चित्तम्
VERSE: 39.1 स्वाहा प्राणेभ्यः साधिपतिकेभ्यः । पृथिव्यै स्वाहा । अग्नये स्वाहा । अन्तरिक्षे स्वाहा । वायवे स्वाहा । दिवे स्वाहा । सूर्याय स्वाहा ॥
VERSE: 39.2 दिग्भ्यः स्वाहा । चन्द्राय स्वाहा । नक्षत्रेभ्यः स्वाहा । अद्भ्यः स्वाहा । वरुणाय स्वाहा । नाभ्यै स्वाहा । पूताय स्वाहा ॥
VERSE: 39.3 वाचे स्वाहा । प्राणाय स्वाहा । प्राणाय स्वाहा । चक्षुषे स्वाहा । चक्षुषे स्वाहा । श्रोत्राय स्वाहा । श्रोत्राय स्वाहा ॥
VERSE: 39.4 मनसः कामम् आकूतिं वाचः सत्यम् अशीय । पशूनाम्̐ रूपम् अन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा ॥
VERSE: 5 प्रजापतिः संभ्रियमाणः सम्राट् संभृतो वैश्वदेवः सम्̐सन्नो घर्मः प्रवृक्तस् तेज ऽ उद्यत ऽ आश्विनः पयस्या नीयमाने पौष्णो विष्यन्दमाने मारुतः क्लथन् । मैत्रः शरसि संताय्यमाने वायव्यो ह्रियमाण ऽ आग्नेयो हूयमानो वाग्घुतः ॥
VERSE: 39.6 सविता प्रथमे ऽहन्न् अग्निर् द्वितीये वायुस् तृतीय ऽ आदित्यश् चतुर्थे चन्द्रमाः पञ्चम ऽ ऋतुः षष्ठे मरुतः सप्तमे बृहस्पतिर् अष्टमे । मित्रो नवमे वरुणो दशम ऽ इन्द्र ऽ एकादशे विश्वे देवा द्वादशे ॥
VERSE: 39.7 उग्रश् च भीमश् च ध्वान्तश् च धुनिश् च । सासह्वाम्̐श् चाभियुग्वा च विक्षिपः स्वाहा ॥
VERSE: 39. 8 अग्निम्̐ हृदयेनाशनिम्̐ हृदयाग्रेण पशुपतिं कृत्स्नहृदयेन भवं यक्ना । शर्वं मतस्नाभ्याम् ईशानं मन्युना महादेवम् अन्तःपर्शव्येनोग्रं देवं वनिष्ठुना वसिष्ठहनुः शिङ्गीनि कोश्याभ्याम् ॥
VERSE: 39.9 उग्रं लोहितेन मित्रम्̐ सौव्रत्येन रुद्रं दौर्व्रत्येनेन्द्रं प्रक्रीडेन मरुतो बलेन साध्यान् प्रमुदा । भवस्य कण्ठ्यम्̐ रुद्रस्यान्तःपार्श्व्यं महादेवस्य यकृच् छर्वस्य वनिष्ठुः पशुपतेः पुरीतत् ॥
VERSE: 39.10 लोमभ्यः स्वाहा लोमभ्यः स्वाहा त्वचे स्वाहा त्वचे स्वाहा लोहिताय स्वाहा लोहिताय स्वाहा मेदोभ्यः स्वाहा मेदोभ्यः स्वाहा । माम्̐सेभ्यः स्वाहा माम्̐सेभ्यः स्वाहा स्नावभ्यः स्वाहा स्नावभ्यः स्वाहास्थभ्यः स्वाहास्थभ्यः स्वाहा मज्जभ्यः स्वाहा मज्जभ्यः स्वाहा । रेतसे स्वाहा पायवे स्वाहा ॥
VERSE: 39.11 आयासाय स्वाहा प्रायासाय स्वाहा संयासाय स्वाहा वियासाय स्वाहोद्यासाय स्वाहा । शुचे स्वाहा शोचते स्वाहा शोचमानाय स्वाहा शोकाय स्वाहा ॥
VERSE: 39.12 तपसे स्वाहा तप्यते स्वाहा तप्यमानाय स्वाहा तप्ताय स्वाहा घर्माय स्वाहा । निष्कृत्यै स्वाहा प्रायश्चित्त्यै स्वाहा भेषजाय स्वाहा ॥
VERSE: 39.13 यमाय स्वाहान्तकाय स्वाहा मृत्यवे स्वाहा ब्रह्मणे स्वाहा ब्रह्महत्यायै स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा द्यावापृथिवीभ्याम्̐ स्वाहा ॥

अध्याय 40 ईशावास्योपनिषत्। ज्ञानकाण्डम्। VERSE: 40.1 {ईशावा.उप. काण्व1} ईशा वास्यम् इदम्̐ सर्वं यत् किं च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद् धनम् ॥
VERSE: 40.2 {ईशावा.उप. काण्व2} कुर्वन्न् एवेह कर्माणि जिजीविषेच् छतम्̐ समाः । एवं त्वयि नान्यथेतो ऽस्ति न कर्म लिप्यते नरे ॥
VERSE: 40.3 {ईशावा.उप. काण्व3} असुर्या नाम ते लोका ऽअन्धेन तमसावृताः । ताम्̐स् ते प्रेत्यापि गच्छन्ति ये के चात्महनो जनाः ॥
VERSE: 40.4 {ईशावा.उप. काण्व4} अनेजद् एकं मनसो जवीयो नैनद् देवा ऽ आप्नुवन् पूर्वम् अर्शत् । तद् धावतो ऽन्यान् अत्य् एति तिष्ठत् तस्मिन्न् अपो मातरिश्वा दधाति ॥
VERSE: 40.5 {ईशावा.उप. काण्व5} तद् एजति तन् नैजति तद् दूरे तद् व् अन्तिके । तद् अन्तर् अस्य सर्वस्य तद् उ सर्वस्यास्य बाह्यतः ॥
VERSE: 40.6 {ईशावा.उप. काण्व6} यस् तु सर्वाणि भूतान्य् आत्मन्न् एवानुपश्यति । सर्वभूतेषु चात्मानं ततो न वि चिकित्सति ॥
VERSE: 40.7 {ईशावा.उप. काण्व7} यस्मिन्त् सर्वाणि भूतान्य् आत्मैवाभूद् विजानतः । तत्र को मोहः कः शोक ऽ एकत्वम् अनुपश्यतः ॥
VERSE: 40.8 {ईशावा.उप. काण्व8} स पर्य् अगाच् छुक्रम् अकायम् अव्रणम् अस्नाविरम्̐ शुद्धम् अपापविद्धम् । कविर् मनीषी परिभूः स्वयंभूर् याथातथ्यतो ऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥
VERSE: 40.9 {ईशावा.उप. 9।काण्व12} अन्धं तमः प्र विशन्ति ये ऽसंभूतिम् उपासते । ततो भूय ऽ इव ते तमो य ऽ उ संभूत्याम्̐ रताः ॥
VERSE: 40.10 {ईशावा.उप. 10।काण्व13} अन्यद् एवाहुः संभवाद् अन्यद् आहुर् असंभवात् । इति शुश्रुम धीराणां ये नस् तद् विचचक्षिरे ॥
VERSE: 40.11 {ईशावा.उप. 11।काण्व14} संभूतिं च विनाशं च यस् तद् वेदोभयम्̐ सह । विनाशेन मृत्युं तीर्त्वा संभूत्यामृतम् अश्नुते ॥
VERSE: 40.12 {ईशावा.उप. 12।काण्व9} अन्धं तमः प्र विशन्ति ये ऽविद्याम् उपासते । ततो भूय ऽ इव ते तमो य ऽ उ विद्यायाम्̐ रताः ॥
VERSE: 40.13 {ईशावा.उप. 13।काण्व10} अन्यद् एवाहुर् विद्याया ऽ अन्यद् आहुर् अविद्यायाः । इति शुश्रुम धीराणां ये नस् तद् विचचक्षिरे ॥
VERSE: 40.14 {ईशावा.उप. 14।काण्व11} विद्यां चाविद्यां च यस् तद् वेदोभयम्̐ सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते ॥
VERSE: 40.15 {ईशावा.उप. 15} वायुर् अनिलम् अमृतम् अथेदं भस्मान्तम्̐ शरीरम् । ओ3म् क्रतो स्मर क्लिबे स्मर कृतम्̐ स्मर ॥
VERSE: 40.16 {ईशावा.उप. 16।काण्व18} अग्ने नय सुपथा राये ऽ अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नम ऽ उक्तिं विधेम ॥
VERSE: 40.17 {ईशावा.उप. 17।काण्व15} हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । यो ऽसाव् आदित्ये पुरुषः सो ऽसाव् अहम् । ओ३म् खं ब्रह्म ॥