(१,१.१ ) ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः ।
(१,१.१ ) वाचस्पतिर्बला तेषां तन्वो अद्य दधातु मे ॥१॥
(१,१.२ ) पुनरेहि वचस्पते देवेन मनसा सह ।
(१,१.२ ) वसोष्पते नि रमय मय्येवास्तु मयि श्रुतम् ॥२॥
(१,१.३ ) इहैवाभि वि तनूभे आर्त्नी इव ज्यया ।
(१,१.३ ) वाचस्पतिर्नि यछतु मय्येवास्तु मयि श्रुतम् ॥३॥
(१,१.४ ) उपहूतो वाचस्पतिरुपास्मान् वाचस्पतिर्ह्वयताम् ।
(१,१.४ ) सं श्रुतेन गमेमहि मा श्रुतेन वि राधिषि ॥४॥
(१,२.१ ) विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम् ।
(१,२.१ ) विद्मो ष्वस्य मातरं पृथिवीं भूरिवर्पसम् ॥१॥
(१,२.२ ) ज्याके परि णो नमाश्मानं तन्वं कृधि ।
(१,२.२ ) वीडुर्वरीयोऽरातीरप द्वेषांस्या कृधि ॥२॥
(१,२.३ ) वृक्षं यद्गावः परिषस्वजाना अनुस्फुरं शरमर्चन्त्यृभुम् ।
(१,२.३ ) शरुमस्मद्यावय दिद्युमिन्द्र ॥३॥
(१,२.४ ) यथा द्यां च पृथिवीं चान्तस्तिष्ठति तेजनम् ।
(१,२.४ ) एवा रोगं चास्रावं चान्तस्तिष्ठतु मुञ्ज इत्॥४॥
(१,३.१ ) विद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यम् ।
(१,३.१ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥१॥
(१,३.२ ) विद्मा शरस्य पितरं मित्रं शतवृष्ण्यम् ।
(१,३.२ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥२॥
(१,३.३ ) विद्मा शरस्य पितरं वरुणं शतवृष्ण्यम् ।
(१,३.३ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥३॥
(१,३.४ ) विद्मा शरस्य पितरं चन्द्रं शतवृष्ण्यम् ।
(१,३.४ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥४॥
(१,३.५ ) विद्मा शरस्य पितरं सूर्यं शतवृष्ण्यम् ।
(१,३.५ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥५॥
(१,३.६ ) यदान्त्रेषु गवीन्योर्यद्वस्तावधि संश्रितम् ।
(१,३.६ ) एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥६॥
(१,३.७ ) प्र ते भिनद्मि मेहनं वर्त्रं वेशन्त्या इव ।
(१,३.७ ) एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥७॥
(१,३.८ ) विषितं ते वस्तिबिलं समुद्रस्योदधेरिव ।
(१,३.८ ) एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥८॥
(१,३.९ ) यथेषुका परापतदवसृष्टाधि धन्वनः ।
(१,३.९ ) एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥९॥
(१,४.१ ) अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् ।
(१,४.१ ) पृञ्चतीर्मधुना पयः ॥१॥
(१,४.२ ) अमूर्या उप सूर्ये याभिर्वा सूर्यः सह ।
(१,४.२ ) ता नो हिन्वन्त्वध्वरम् ॥२॥
(१,४.३ ) अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः ।
(१,४.३ ) सिन्धुभ्यः कर्त्वं हविः ॥३॥
(१,४.४ ) अप्स्वन्तरमृतमप्सु भेषजम् ।
(१,४.४ ) अपामुत प्रशस्तिभिरश्वा भवथ वाजिनो गावो भवथ वाजिनीः ॥४॥
(१,५.१ ) आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
(१,५.१ ) महे रणाय चक्षसे ॥१॥
(१,५.२ ) यो वः शिवतमो रसस्तस्य भाजयतेह नः ।
(१,५.२ ) उशतीरिव मातरः ॥२॥
(१,५.३ ) तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
(१,५.३ ) आपो जनयथा च नः ॥३॥
(१,५.४ ) ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ।
(१,५.४ ) अपो याचामि भेषजम् ॥४॥
(१,६.१ ) शं नो देवीरभिष्टय आपो भवन्तु पीतये ।
(१,६.१ ) शं योरभि स्रवन्तु नः ॥१॥
(१,६.२ ) अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
(१,६.२ ) अग्निं च विश्वशंभुवम् ॥२॥
(१,६.३ ) आपः पृणीत भेषजं वरूथं तन्वे मम ।
(१,६.३ ) ज्योक्च सूर्यं दृशे ॥३॥
(१,६.४ ) शं न आपो धन्वन्याः शमु सन्त्वनूप्याः ।
(१,६.४ ) शं नः खनित्रिमा आपः शमु याः कुम्भ आभृताः ।
(१,६.४ ) शिवा नः सन्तु वार्षिकीः ॥४॥
(१,७.१ ) स्तुवानमग्न आ वह यातुधानं किमीदिनम् ।
(१,७.१ ) त्वं हि देव वन्दितो हन्ता दस्योर्बभूविथ ॥१॥
(१,७.२ ) आज्यस्य परमेष्ठिन् जातवेदस्तनूवशिन् ।
(१,७.२ ) अग्ने तौलस्य प्राशान यातुधानान् वि लापय ॥२॥
(१,७.३ ) वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः ।
(१,७.३ ) अथेदमग्ने नो हविरिन्द्रश्च प्रति हर्यतम् ॥३॥
(१,७.४ ) अग्निः पूर्व आ रभतां प्रेन्द्रो नुदतु बाहुमान् ।
(१,७.४ ) ब्रवीतु सर्वो यातुमान् अयमस्मीत्येत्य ॥४॥
(१,७.५ ) पश्याम ते वीर्यं जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्षः ।
(१,७.५ ) त्वया सर्वे परितप्ताः पुरस्तात्त आ यन्तु प्रब्रुवाणा उपेदम् ॥५॥
(१,७.६ ) आ रभस्व जातवेदोऽस्माकार्थाय जज्ञिषे ।
(१,७.६ ) दूतो नो अग्ने भूत्वा यातुधानान् वि लापय ॥६॥
(१,७.७ ) त्वमग्ने यातुधानान् उपबद्धामिहा वह ।
(१,७.७ ) अथैषामिन्द्रो वज्रेणापि शीर्षाणि वृश्चतु ॥७॥
(१,८.१ ) इदं हविर्यातुधानान् नादी फेनमिवा वहत्।
(१,८.१ ) य इदं स्त्री पुमान् अकरिह स स्तुवतां जनः ॥१॥
(१,८.२ ) अयं स्तुवान आगमदिमं स्म प्रति हर्यत ।
(१,८.२ ) बृहस्पते वशे लब्ध्वाग्नीषोमा वि विध्यतम् ॥२॥
(१,८.३ ) यातुधानस्य सोमप जहि प्रजां नयस्व च ।
(१,८.३ ) नि स्तुवानस्य पातय परमक्ष्युतावरम् ॥३॥
(१,८.४ ) यत्रैषामग्ने जनिमानि वेत्थ गुहा सतामत्त्रिणां जातवेदः ।
(१,८.४ ) तांस्त्वं ब्रह्मणा वावृधानो जह्येषां शततर्हमग्ने ॥४॥
(१,९.१ ) अस्मिन् वसु वसवो धारयन्त्विन्द्रः पूषा वरुणो मित्रो अग्निः ।
(१,९.१ ) इममादित्या उत विश्वे च देवा उत्तरस्मिन् ज्योतिषि धारयन्तु ॥१॥
(१,९.२ ) अस्य देवाः प्रदिशि ज्योतिरस्तु सूर्यो अग्निरुत वा हिरण्यम् ।
(१,९.२ ) सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥२॥
(१,९.३ ) येनेन्द्राय समभरः पयांस्युत्तमेन ब्रह्मणा जातवेदः ।
(१,९.३ ) तेन त्वमग्न इह वर्धयेमं सजातानां श्रैष्ठ्य आ धेह्येनम् ॥३॥
(१,९.४ ) ऐषां यज्ञमुत वर्चो ददेऽहं रायस्पोषमुत चित्तान्यग्ने ।
(१,९.४ ) सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥४॥
(१,१०.१ ) अयं देवानामसुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः ।
(१,१०.१ ) ततस्परि ब्रह्मणा शाशदान उग्रस्य मन्योरुदिमं नयामि ॥१॥
(१,१०.२ ) नमस्ते रजन् वरुणास्तु मन्यवे विश्वं ह्युग्र निचिकेषि द्रुग्धम् ।
(१,१०.२ ) सहस्रमन्यान् प्र सुवामि साकं शतं जीवाति शरदस्तवायम् ॥२॥
(१,१०.३ ) यदुवक्थानृतं जिह्वया वृजिनं बहु ।
(१,१०.३ ) राज्ञस्त्वा सत्यधर्मणो मुञ्चामि वरुणादहम् ॥३॥
(१,१०.४ ) मुञ्चामि त्वा वैश्वानरादर्णवान् महतस्परि ।
(१,१०.४ ) सजातान् उग्रेहा वद ब्रह्म चाप चिकीहि नः ॥४॥
(१,११.१ ) वषट्ते पूषन्न् अस्मिन्त्सूतावर्यमा होता कृणोतु वेधाः ।
(१,११.१ ) सिस्रतां नार्यृतप्रजाता वि पर्वाणि जिहतां सूतवा उ ॥१॥
(१,११.२ ) चतस्रो दिवः प्रदिशश्चतस्रो भूम्या उत ।
(१,११.२ ) देवा गर्भं समैरयन् तं व्यूर्णुवन्तु सूतवे ॥२॥
(१,११.३ ) सूषा व्यूर्णोतु वि योनिं हापयामसि ।
(१,११.३ ) श्रथया सूषणे त्वमव त्वं बिष्कले सृज ॥३॥
(१,११.४ ) नेव मांसे न पीवसि नेव मज्जस्वाहतम् ।
(१,११.४ ) अवैतु पृश्नि शेवलं शुने जराय्वत्तवेऽव जरायु पद्यताम् ॥४॥
(१,११.५ ) वि ते भिनद्मि मेहनं वि योनिं वि गवीनिके ।
(१,११.५ ) वि मातरं च पुत्रं च वि कुमारं जरायुणाव जरायु पद्यताम् ॥५॥
(१,११.६ ) यथा वातो यथा मनो यथा पतन्ति पक्षिणः ।
(१,११.६ ) एवा त्वं दशमास्य साकं जरायुणा पताव जरायु पद्यताम् ॥६॥
(१,१२.१ ) जरायुजः प्रथम उस्रियो वृषा वाताभ्रजा स्तनयन्न् एति वृष्ट्या ।
(१,१२.१ ) स नो मृडाति तन्व ऋजुगो रुजन् य एकमोजस्त्रेधा विचक्रमे ॥१॥
(१,१२.२ ) अङ्गेअङ्गे शोचिषा शिश्रियाणं नमस्यन्तस्त्वा हविषा विधेम ।
(१,१२.२ ) अङ्कान्त्समङ्कान् हविषा विधेम यो अग्रभीत्पर्वास्या ग्रभीता ॥२॥
(१,१२.३ ) मुञ्च शीर्षक्त्या उत कास एनं परुष्परुराविवेशा यो अस्य ।
(१,१२.३ ) यो अभ्रजा वातजा यश्च शुष्मो वनस्पतीन्त्सचतां पर्वतांश्च ॥३॥
(१,१२.४ ) शं मे परस्मै गात्राय शमस्त्ववराय मे ।
(१,१२.४ ) शं मे चतुर्भ्यो अङ्गेभ्यः शमस्तु तन्वे मम ॥४॥
(१,१३.१ ) नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे ।
(१,१३.१ ) नमस्ते अस्त्वश्मने येना दूडाशे अस्यसि ॥१॥
(१,१३.२ ) नमस्ते प्रवतो नपाद्यतस्तपः समूहसि ।
(१,१३.२ ) मृडया नस्तनूभ्यो मयस्तोकेभ्यस्कृधि ॥२॥
(१,१३.३ ) प्रवतो नपान् नम एवास्तु तुभ्यं नमस्ते हेतये तपुषे च कृण्मः ।
(१,१३.३ ) विद्म ते धाम परमं गुहा यत्समुद्रे अन्तर्निहितासि नाभिः ॥३॥
(१,१३.४ ) यां त्वा देवा असृजन्त विश्व इषुं कृण्वाना असनाय धृष्णुम् ।
(१,१३.४ ) सा नो मृड विदथे गृणाना तस्यै ते नमो अस्तु देवि ॥४॥
(१,१४.१ ) भगमस्या वर्च आदिष्यधि वृक्षादिव स्रजम् ।
(१,१४.१ ) महाबुध्न इव पर्वतो ज्योक्पितृष्वास्ताम् ॥१॥
(१,१४.२ ) एषा ते राजन् कन्या वधूर्नि धूयतां यम ।
(१,१४.२ ) सा मातुर्बध्यतां गृहेऽथो भ्रातुरथो पितुः ॥२॥
(१,१४.३ ) एषा ते कुलपा राजन् तामु ते परि दद्मसि ।
(१,१४.३ ) ज्योक्पितृष्वासाता आ शीर्ष्णः शमोप्यात्॥३॥
(१,१४.४ ) असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च ।
(१,१४.४ ) अन्तःकोशमिव जामयोऽपि नह्यामि ते भगम् ॥४ ॥
(१,१५.१ ) सं सं स्रवन्तु सिन्धवः सं वाताः सं पतत्रिणः ।
(१,१५.१ ) इमं यज्ञं प्रदिवो मे जुषन्तां संस्राव्येण हविषा जुहोमि ॥१॥
(१,१५.२ ) इहैव हवमा यात म इह संस्रावणा उतेमं वर्धयता गिरः ।
(१,१५.२ ) इहैतु सर्वो यः पशुरस्मिन् तिष्ठतु या रयिः ॥२॥
(१,१५.३ ) ये नदीनां संस्रवन्त्युत्सासः सदमक्षिताः ।
(१,१५.३ ) तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥३॥
(१,१५.४ ) ये सर्पिषः संस्रवन्ति क्षीरस्य चोदकस्य च
(१,१५.४ ) तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥४॥
(१,१६.१ ) येऽमावास्यां रात्रिमुदस्थुर्व्राजमत्त्रिणः ।
(१,१६.१ ) अग्निस्तुरीयो यातुहा सो अस्मभ्यमधि ब्रवत्॥१॥
(१,१६.२ ) सीसायाध्याह वरुणः सीसायाग्निरुपावति ।
(१,१६.२ ) सीसं म इन्द्रः प्रायछत्तदङ्ग यातुचातनम् ॥२॥
(१,१६.३ ) इदं विष्कन्धं सहत इदं बाधते अत्त्रिणः ।
(१,१६.३ ) अनेन विश्वा ससहे या जातानि पिशाच्याः ॥३॥
(१,१६.४ ) यदि नो गां हंसि यद्यश्वं यदि पूरुषम् ।
(१,१६.४ ) तं त्वा सीसेन विध्यामो यथा नोऽसो अवीरहा ॥४॥
(१,१७.१ ) अमूर्या यन्ति योषितो हिरा लोहितवाससः ।
(१,१७.१ ) अभ्रातर इव जामयस्तिष्ठन्तु हतवर्चसः ॥१॥
(१,१७.२ ) तिष्ठावरे तिष्ठ पर उत त्वं तिष्ठ मध्यमे ।
(१,१७.२ ) कनिष्ठिका च तिष्ठति तिष्ठादिद्धमनिर्मही ॥२॥
(१,१७.३ ) शतस्य धमनीनां सहस्रस्य हिराणाम् ।
(१,१७.३ ) अस्थुरिन् मध्यमा इमाः साकमन्ता अरंसत ॥३॥
(१,१७.४ ) परि वः सिकतावती धनूर्बृहत्यक्रमीत्।
(१,१७.४ ) तिष्ठतेलयता सु कम् ॥४॥
(१,१८.१ ) निर्लक्ष्म्यं ललाम्यं निररातिं सुवामसि ।
(१,१८.१ ) अथ या भद्रा तानि नः प्रजाया अरातिं नयामसि ॥१॥
(१,१८.२ ) निररणिं सविता साविषक्पदोर्निर्हस्तयोर्वरुणो मित्रो अर्यमा ।
(१,१८.२ ) निरस्मभ्यमनुमती रराणा प्रेमां देवा असाविषुः सौभगाय ॥२॥
(१,१८.३ ) यत्त आत्मनि तन्वां घोरमस्ति यद्वा केशेषु प्रतिचक्षणे वा ।
(१,१८.३ ) सर्वं तद्वाचाप हन्मो वयं देवस्त्वा सविता सूदयतु ॥३॥
(१,१८.४ ) रिश्यपदीं वृषदतीं गोषेधां विधमामुत ।
(१,१८.४ ) विलीढ्यं ललाम्यं ता अस्मन् नाशयामसि ॥४॥
(१,१९.१ ) मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन् ।
(१,१९.१ ) आराच्छरव्या अस्मद्विषूचीरिन्द्र पातय ॥१॥
(१,१९.२ ) विष्वञ्चो अस्मच्छरवः पतन्तु ये अस्ता ये चास्याः ।
(१,१९.२ ) दैवीर्मनुष्येसवो ममामित्रान् वि विध्यत ॥२॥
(१,१९.३ ) यो नः स्वो यो अरणः सजात उत निष्ट्यो यो अस्मामभिदासति ।
(१,१९.३ ) रुद्रः शरव्ययैतान् ममामित्रान् वि विध्यतु ॥३॥
(१,१९.४ ) यः सपत्नो योऽसपत्नो यश्च द्विषन् छपाति नः ।
(१,१९.४ ) देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥४॥
(१,२०.१ ) अदारसृद्भवतु देव सोमास्मिन् यज्ञे मरुतो मृडता नः ।
(१,२०.१ ) मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥१॥
(१,२०.२ ) यो अद्य सेन्यो वधोऽघायूनामुदीरते ।
(१,२०.२ ) युवं तं मित्रावरुणावस्मद्यावयतं परि ॥२॥
(१,२०.३ ) इतश्च यदमुतश्च यद्वधं वरुण यावय ।
(१,२०.३ ) वि महच्छर्म यछ वरीयो यावया वधम् ॥३॥
(१,२०.४ ) शास इत्था महामस्यमित्रसाहो अस्तृतः ।
(१,२०.४ ) न यस्य हन्यते सखा न जीयते कदा चन ॥४॥
(१,२१.१ ) स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी ।
(१,२१.१ ) वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ॥१॥
(१,२१.२ ) वि न इन्द्र मृधो जहि नीचा यछ पृतन्यतः ।
(१,२१.२ ) अधमं गमया तमो यो अस्मामभिदासति ॥२॥
(१,२१.३ ) वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।
(१,२१.३ ) वि मन्युमिन्द्र वृत्रहन्न् अमित्रस्याभिदासतः ॥३॥
(१,२१.४ ) अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम् ।
(१,२१.४ ) वि महच्छर्म यछ वरीयो यावया वधम् ॥४॥
(१,२२.१ ) अनु सूर्यमुदयतां हृद्द्योतो हरिमा च ते ।
(१,२२.१ ) गो रोहितस्य वर्णेन तेन त्वा परि दध्मसि ॥१॥
(१,२२.२ ) परि त्वा रोहितैर्वर्णैर्दीर्घायुत्वाय दध्मसि ।
(१,२२.२ ) यथायमरपा असदथो अहरितो भुवत्॥२॥
(१,२२.३ ) या रोहिणीर्देवत्या गावो या उत रोहिणीः ।
(१,२२.३ ) रूपंरूपं वयोवयस्ताभिष्ट्वा परि दध्मसि ॥३॥
(१,२२.४ ) शुकेषु ते हरिमाणं रोपणाकासु दध्मसि ।
(१,२२.४ ) अथो हारिद्रवेषु ते हरिमाणं नि दध्मसि ॥४॥
(१,२३.१ ) नक्तंजातासि ओषधे रामे कृष्णे असिक्नि च ।
(१,२३.१ ) इदं रजनि रजय किलासं पलितं च यत्॥१॥
(१,२३.२ ) किलासं च पलितं च निरितो नाशया पृषत्।
(१,२३.२ ) आ त्वा स्वो विशतां वर्णः परा शुक्लानि पातय ॥२॥
(१,२३.३ ) असितं ते प्रलयनमास्थानमसितं तव ।
(१,२३.३ ) असिक्नी अस्योषधे निरितो नाशया पृषत्॥३॥
(१,२३.४ ) अस्थिजस्य किलासस्य तनूजस्य च यत्त्वचि ।
(१,२३.४ ) दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतमनीनशम् ॥४॥
(१,२४.१ ) सुपर्णो जातः प्रथमस्तस्य त्वं पित्तमासिथ ।
(१,२४.१ ) तदासुरी युधा जिता रूपं चक्रे वनस्पतीन् ॥१॥
(१,२४.२ ) आसुरी चक्रे प्रथमेदं किलासभेषजमिदं किलासनाशनम् ।
(१,२४.२ ) अनीनशत्किलासं सरूपामकरत्त्वचम् ॥२॥
(१,२४.३ ) सरूपा नाम ते माता सरूपो नाम ते पिता ।
(१,२४.३ ) सरूपकृत्त्वमोषधे सा सरूपमिदं कृधि ॥३॥
(१,२४.४ ) श्यामा सरूपंकरणी पृथिव्या अध्युद्भृता ।
(१,२४.४ ) इदमू षु प्र साधय पुना रूपाणि कल्पय ॥४॥
(१,२५.१ ) यदग्निरापो अदहत्प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि ।
(१,२५.१ ) तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥१॥
(१,२५.२ ) यद्यर्चिर्यदि वासि शोचिः शकल्येषि यदि वा ते जनित्रम् ।
(१,२५.२ ) ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥२॥
(१,२५.३ ) यदि शोको यदि वाभिशोको यदि वा राज्ञो वरुणस्यासि पुत्रः ।
(१,२५.३ ) ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥३॥
(१,२५.४ ) नमः शीताय तक्मने नमो रूराय शोचिषे कृणोमि ।
(१,२५.४ ) यो अन्येद्युरुभयद्युरभ्येति तृतीयकाय नमो अस्तु तक्मने ॥४॥
(१,२६.१ ) आरेऽसावस्मदस्तु हेतिर्देवासो असत्।
(१,२६.१ ) आरे अश्मा यमस्यथ ॥१॥
(१,२६.२ ) सखासावस्मभ्यमस्तु रातिः सखेन्द्रो भगः ।
(१,२६.२ ) सविता चित्रराधाः ॥२॥
(१,२६.३ ) यूयं नः प्रवतो नपान् मरुतः सूर्यत्वचसः ।
(१,२६.३ ) शर्म यछथ सप्रथाः ॥३॥
(१,२६.४ ) सुषूदत मृडत मृडया नस्तनूभ्यो ।
(१,२६.४ ) मयस्तोकेभ्यस्कृधि ॥४॥
(१,२७.१ ) अमूः पारे पृदाक्वस्त्रिषप्ता निर्जरायवः ।
(१,२७.१ ) तासां जरायुभिर्वयमक्ष्यावपि व्ययामस्यघायोः परिपन्थिनः ॥१॥
(१,२७.२ ) विषूच्येतु कृन्तती पिनाकमिव बिभ्रती ।
(१,२७.२ ) विष्वक्पुनर्भुवा मनोऽसमृद्धा अघायवः ॥२॥
(१,२७.३ ) न बहवः समशकन् नार्भका अभि दाधृषुः ।
(१,२७.३ ) वेणोरद्गा इवाभितोऽसमृद्धा अघायवः ॥३॥
(१,२७.४ ) प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहान् ।
(१,२७.४ ) इन्द्रान्येतु प्रथमाजीतामुषिता पुरः ॥४॥
(१,२८.१ ) उप प्रागाद्देवो अग्नी रक्षोहामीवचातनः ।
(१,२८.१ ) दहन्न् अप द्वयाविनो यातुधानान् किमीदिनः ॥१॥
(१,२८.२ ) प्रति दह यातुधानान् प्रति देव किमीदिनः ।
(१,२८.२ ) प्रतीचीः कृष्णवर्तने सं दह यातुधान्यः ॥२॥
(१,२८.३ ) या शशाप शपनेन याघं मूरमादधे ।
(१,२८.३ ) या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥३॥
(१,२८.४ ) पुत्रमत्तु यातुधानीः स्वसारमुत नप्त्यम् ।
(१,२८.४ ) अधा मिथो विकेश्यो वि घ्नतां यातुधान्यो वि तृह्यन्तामराय्यः ॥४॥
(१,२९.१ ) अभीवर्तेन मणिना येनेन्द्रो अभिववृधे ।
(१,२९.१ ) तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय ॥१॥
(१,२९.२ ) अभिवृत्य सपत्नान् अभि या नो अरातयः ।
(१,२९.२ ) अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥२॥
(१,२९.३ ) अभि त्वा देवः सविताभि षोमो अवीवृधत्।
(१,२९.३ ) अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥३॥
(१,२९.४ ) अभीवर्तो अभिभवः सपत्नक्षयणो मणिः ।
(१,२९.४ ) राष्ट्राय मह्यं बध्यतां सपत्नेभ्यः पराभुवे ॥४॥
(१,२९.५ ) उदसौ सूर्यो अगादुदिदं मामकं वचः ।
(१,२९.५ ) यथाहं शत्रुहोऽसान्यसपत्नः सपत्नहा ॥५॥
(१,२९.६ ) सपत्नक्षयणो वृषाभिरष्ट्रो विषासहिः ।
(१,२९.६ ) यथाहमेषां वीराणां विराजानि जनस्य च ॥६॥
(१,३०.१ ) विश्वे देवा वसवो रक्षतेममुतादित्या जागृत यूयमस्मिन् ।
(१,३०.१ ) मेमं सनाभिरुत वान्यनाभिर्मेमं प्रापत्पौरुषेयो वधो यः ॥१॥
(१,३०.२ ) ये वो देवाः पितरो ये च पुत्राः सचेतसो मे शृणुतेदमुक्तम् ।
(१,३०.२ ) सर्वेभ्यो वः परि ददाम्येतं स्वस्त्येनं जरसे वहाथ ॥२॥
(१,३०.३ ) ये देवा दिवि ष्ठ ये पृथिव्यां ये अन्तरिक्ष ओषधीषु पशुष्वप्स्वन्तः ।
(१,३०.३ ) ते कृणुत जरसमायुरस्मै शतमन्यान् परि वृणक्तु मृत्यून् ॥३॥
(१,३०.४ ) येषां प्रयाजा उत वानुयाजा हुतभागा अहुतादश्च देवाः ।
(१,३०.४ ) येषां वः पञ्च प्रदिशो विभक्तास्तान् वो अस्मै सत्रसदः कृणोमि ॥४॥
(१,३१.१ ) आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः ।
(१,३१.१ ) इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥१॥
(१,३१.२ ) य आशानामाशापालाश्चत्वार स्थन देवाः ।
(१,३१.२ ) ते नो निरृत्याः पाशेभ्यो मुञ्चतांहसोअंहसः ॥२॥
(१,३१.३ ) अस्रामस्त्वा हविषा यजाम्यश्लोणस्त्वा घृतेन जुहोमि ।
(१,३१.३ ) य आशानामाशापालस्तुरीयो देवः स नः सुभूतमेह वक्षत्॥३॥
(१,३१.४ ) स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्यो जगते पुरुषेभ्यः ।
(१,३१.४ ) विश्वं सुभूतं सुविदत्रं नो अस्तु ज्योगेव दृशेम सूर्यम् ॥४॥
(१,३२.१ ) इदं जनासो विदथ महद्ब्रह्म वदिष्यति ।
(१,३२.१ ) न तत्पृथिव्यां नो दिवि येन प्राणन्ति वीरुधः ॥१॥
(१,३२.२ ) अन्तरिक्ष आसां स्थाम श्रान्तसदामिव ।
(१,३२.२ ) आस्थानमस्य भूतस्य विदुष्टद्वेधसो न वा ॥२॥
(१,३२.३ ) यद्रोदसी रेजमाने भूमिश्च निरतक्षतम् ।
(१,३२.३ ) आर्द्रं तदद्य सर्वदा समुद्रस्येव श्रोत्याः ॥३॥
(१,३२.४ ) विश्वमन्यामभीवार तदन्यस्यामधि श्रितम् ।
(१,३२.४ ) दिवे च विश्ववेदसे पृथिव्यै चाकरं नमः ॥४॥
(१,३३.१ ) हिरण्यवर्णाः शुचयः पावका यासु जातः सविता यास्वग्निः ।
(१,३३.१ ) या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥१॥
(१,३३.२ ) यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम् ।
(१,३३.२ ) या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥२॥
(१,३३.३ ) यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति ।
(१,३३.३ ) या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥३॥
(१,३३.४ ) शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ।
(१,३३.४ ) घृतश्चुतः शुचयो याः पावकास्ता न आपः शं स्योना भवन्तु ॥४॥
(१,३४.१ ) इयं वीरुन् मधुजाता मधुना त्वा खनामसि ।
(१,३४.१ ) मधोरधि प्रजातासि सा नो मधुमतस्कृधि ॥१॥
(१,३४.२ ) जिह्वाया अग्रे मधु मे जिह्वामूले मधूलकम् ।
(१,३४.२ ) ममेदह क्रतावसो मम चित्तमुपायसि ॥२॥
(१,३४.३ ) मधुमन् मे निक्रमणं मधुमन् मे परायणम् ।
(१,३४.३ ) वाचा वदामि मधुमद्भूयासं मधुसंदृशः ॥३॥
(१,३४.४ ) मधोरस्मि मधुतरो मदुघान् मधुमत्तरः ।
(१,३४.४ ) मामित्किल त्वं वनाः शाखां मधुमतीमिव ॥४॥
(१,३४.५ ) परि त्वा परितत्नुनेक्षुणागामविद्विषे ।
(१,३४.५ ) यथा मां कमिन्यसो यथा मन् नापगा असः ॥५॥
(१,३५.१ ) यदाबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः ।
(१,३५.१ ) तत्ते बद्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय ॥१॥
(१,३५.२ ) नैनं रक्षांसि न पिशाचाः सहन्ते देवानामोजः प्रथमजं ह्येतत्।
(१,३५.२ ) यो बिभर्ति दाक्षायणं हिरण्यं स जीवेषु कृणुते दीर्घमायुः ॥२॥
(१,३५.३ ) अपां तेजो ज्योतिरोजो बलं च वनस्पतीनामुत वीर्याणि ।
(१,३५.३ ) इन्द्र इवेन्द्रियाण्यधि धारयामो अस्मिन् तद्दक्षमाणो बिभरद्धिरण्यम् ॥३॥
(१,३५.४ ) समानां मासामृतुभिष्ट्वा वयं संवत्सरस्य पयसा पिपर्मि ।
(१,३५.४ ) इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥४॥
(२,१.१ ) वेनस्तत्पश्यत्परमं गुहा यद्यत्र विश्वं भवत्येकरूपम् ।
(२,१.१ ) इदं पृश्निरदुहज्जायमानाः स्वर्विदो अभ्यनूषत व्राः ॥१॥
(२,१.२ ) प्र तद्वोचेदमृतस्य विद्वान् गन्धर्वो धाम परमं गुहा यत्।
(२,१.२ ) त्रीणि पदानि निहिता गुहास्य यस्तानि वेद स पितुष्पितासत्॥२॥
(२,१.३ ) स नः पिता जनिता स उत बन्धुर्धामानि वेद भुवनानि विश्वा ।
(२,१.३ ) यो देवानां नामध एक एव तं संप्रश्नं भुवना यन्ति सर्वा ॥३॥
(२,१.४ ) परि द्यावापृथिवी सद्य आयमुपातिष्ठे प्रथमजामृतस्य ।
(२,१.४ ) वाचमिव वक्तरि भुवनेष्ठा धास्युरेष नन्वेषो अग्निः ॥४॥
(२,१.५ ) परि विश्वा भुवनान्यायमृतस्य तन्तुं विततं दृशे कम् ।
(२,१.५ ) यत्र देवा अमृतमानशानाः समाने योनावध्यैरयन्त ॥५॥
(२,२.१ ) दिव्यो गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यो विक्ष्वीड्यः ।
(२,२.१ ) तं त्वा यौमि ब्रह्मणा दिव्य देव नमस्ते अस्तु दिवि ते सधस्थम् ॥१॥
(२,२.२ ) दिवि स्पृष्टो यजतः सूर्यत्वगवयाता हरसो दैव्यस्य ।
(२,२.२ ) मृडात्गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यः सुशेवाः ॥२॥
(२,२.३ ) अनवद्याभिः समु जग्म आभिरप्सरास्वपि गन्धर्व आसीत्।
(२,२.३ ) समुद्र आसां सदनं म आहुर्यतः सद्य आ च परा च यन्ति ॥३॥
(२,२.४ ) अभ्रिये दिद्युन् नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे ।
(२,२.४ ) ताभ्यो वो देवीर्नम इत्कृणोमि ॥४॥
(२,२.५ ) याः क्लन्दास्तमिषीचयोऽक्षकामा मनोमुहः ।
(२,२.५ ) ताभ्यो गन्धर्वभ्योऽप्सराभ्योऽकरं नमः ॥५॥
(२,३.१ ) अदो यदवधावत्यवत्कमधि पर्वतात्।
(२,३.१ ) तत्ते कृणोमि भेषजं सुभेषजं यथाससि ॥१॥
(२,३.२ ) आदङ्गा कुविदङ्ग शतं या भेषजानि ते ।
(२,३.२ ) तेषामसि त्वमुत्तममनास्रावमरोगणम् ॥२॥
(२,३.३ ) नीचैः खनन्त्यसुरा अरुस्राणमिदं महत्।
(२,३.३ ) तदास्रावस्य भेषजं तदु रोगमनीनशत्॥३॥
(२,३.४ ) उपजीका उद्भरन्ति समुद्रादधि भेषजम् ।
(२,३.४ ) तदास्रावस्य भेषजं तदु रोगमशीशमत्॥४॥
(२,३.५ ) अरुस्राणमिदं महत्पृथिव्या अध्युद्भृतम् ।
(२,३.५ ) तदास्रावस्य भेषजं तदु रोगमनीनशत्॥५॥
(२,३.६ ) शं नो भवन्त्वप ओषधयः शिवाः ।
(२,३.६ ) इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम् ॥६॥
(२,४.१ ) दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव ।
(२,४.१ ) मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम् ॥१॥
(२,४.२ ) जङ्गिडो जम्भाद्विशराद्विष्कन्धादभिशोचनात्।
(२,४.२ ) मणिः सहस्रवीर्यः परि णः पातु विश्वतः ॥२॥
(२,४.३ ) अयं विष्कन्धं सहतेऽयं बाधते अत्त्रिणः ।
(२,४.३ ) अयं नो विश्वभेषजो जङ्गिडः पात्वंहसः ॥३॥
(२,४.४ ) देवैर्दत्तेन मणिना जङ्गिडेन मयोभुवा ।
(२,४.४ ) विष्कन्धं सर्वा रक्षांसि व्यायामे सहामहे ॥४॥
(२,४.५ ) शणश्च मा जङ्गिडश्च विष्कन्धादभि रक्षताम् ।
(२,४.५ ) अरण्यादन्य आभृतः कृष्या अन्यो रसेभ्यः ॥५॥
(२,४.६ ) कृत्यादूषिरयं मणिरथो अरातिदूषिः ।
(२,४.६ ) अथो सहस्वान् जङ्गिडः प्र ण आयुंषि तारिषत्॥६॥
(२,५.१ ) इन्द्र जुषस्व प्र वहा याहि शूर हरिभ्याम् ।
(२,५.१ ) पिबा सुतस्य मतेरिह मधोश्चकानश्चारुर्मदाय ॥१॥
(२,५.२ ) इन्द्र जठरं नव्यो न पृणस्व मधोर्दिवो न ।
(२,५.२ ) अस्य सुतस्य स्वर्णोप त्वा मदाः सुवाचो अगुः ॥२॥
(२,५.३ ) इन्द्रस्तुराषाण्मित्रो वृत्रं यो जघान यतीर्न ।
(२,५.३ ) बिभेद वलं भृगुर्न ससहे शत्रून् मदे सोमस्य ॥३॥
(२,५.४ ) आ त्वा विशन्तु सुतास इन्द्र पृणस्व कुक्षी विड्ढि शक्र धियेह्या नः ।
(२,५.४ ) श्रुधी हवं गिरो मे जुषस्वेन्द्र स्वयुग्भिर्मत्स्वेह महे रणाय ॥४॥
(२,५.५ ) इन्द्रस्य नु प्र वोचं वीर्याणि यानि चकार प्रथमानि वज्री ।
(२,५.५ ) अहन्न् अहिमनु अपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥५॥
(२,५.६ ) अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
(२,५.६ ) वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥६॥
(२,५.७ ) वृषायमाणो अवृणीत सोमं त्रिकद्रुकेषु अपिबत्सुतस्य ।
(२,५.७ ) आ सायकं मघवादत्त वज्रमहन्न् एनं प्रथमजामहीनाम् ॥७॥
(२,६.१ ) समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या ।
(२,६.१ ) सं दिव्येन दीदिहि रोचनेन विश्वा आ माहि प्रदिशश्चतस्रः ॥१॥
(२,६.२ ) सं चेध्यस्वाग्ने प्र च वर्धयेममुच्च तिष्ठ महते सौभगाय ।
(२,६.२ ) मा ते रिषन्न् उपसत्तारो अग्ने ब्रह्माणस्ते यशसः सन्तु मान्ये ॥२॥
(२,६.३ ) त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः ।
(२,६.३ ) सपत्नहाग्ने अभिमातिजिद्भव स्वे गये जागृह्यप्रयुछन् ॥३॥
(२,६.४ ) क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधा यतस्व ।
(२,६.४ ) सजातानां मध्यमेष्ठा राज्ञामग्ने विहव्यो दीदिहीह ॥४॥
(२,६.५ ) अति निहो अति सृधोऽत्यचित्तीरति द्विषः ।
(२,६.५ ) विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दाः ॥५॥
(२,७.१ ) अघद्विष्टा देवजाता वीरुच्छपथयोपनी ।
(२,७.१ ) आपो मलमिव प्राणैक्षीत्सर्वान् मच्छपथामधि ॥१॥
(२,७.२ ) यश्च सापत्नः शपथो जाम्याः शपथश्च यः ।
(२,७.२ ) ब्रह्मा यन् मन्युतः शपात्सर्वं तन् नो अधस्पदम् ॥२॥
(२,७.३ ) दिवो मूलमवततं पृथिव्या अध्युत्ततम् ।
(२,७.३ ) तेन सहस्रकाण्डेन परि णः पाहि विश्वतः ॥३॥
(२,७.४ ) परि मां परि मे प्रजां परि णः पाहि यद्धनम् ।
(२,७.४ ) अरातिर्नो मा तारीन् मा नस्तारिशुरभिमातयः ॥४॥
(२,७.५ ) शप्तारमेतु शपथो यः सुहार्त्तेन नः सह ।
(२,७.५ ) चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणीमसि ॥५॥
(२,८.१ ) उदगातां भगवती विचृतौ नाम तारके ।
(२,८.१ ) वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥१॥
(२,८.२ ) अपेयं रात्र्युछत्वपोछन्त्वभिकृत्वरीः ।
(२,८.२ ) वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुछतु ॥२॥
(२,८.३ ) बभ्रोरर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या ।
(२,८.३ ) वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुछतु ॥३॥
(२,८.४ ) नमस्ते लाङ्गलेभ्यो नम ईषायुगेभ्यः ।
(२,८.४ ) वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुछतु ॥४॥
(२,८.५ ) नमः सनिस्रसाक्षेभ्यो नमः संदेश्येभ्यः ।
(२,८.५ ) नमः क्षेत्रस्य पतये वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुछतु ॥५॥
(२,९.१ ) दशवृक्ष मुञ्चेमं रक्षसो ग्राह्या अधि यैनं जग्राह पर्वसु ।
(२,९.१ ) अथो एनं वनस्पते जीवानां लोकमुन् नय ॥१॥
(२,९.२ ) आगादुदगादयं जीवानां व्रातमप्यगात्।
(२,९.२ ) अभूदु पुत्राणां पिता नृणां च भगवत्तमः ॥२॥
(२,९.३ ) अधीतीरध्यगादयमधि जीवपुरा अगान् ।
(२,९.३ ) शतं ह्यस्य भिषजः सहस्रमुत वीरुधः ॥३॥
(२,९.४ ) देवास्ते चीतिमविदन् ब्रह्माण उत वीरुधः ।
(२,९.४ ) चीतिं ते विश्वे देवा अविदन् भूम्यामधि ॥४॥
(२,९.५ ) यश्चकार स निष्करत्स एव सुभिषक्तमः ।
(२,९.५ ) स एव तुभ्यं भेषजानि कृणवद्भिषजा शुचिः ॥५॥
(२,१०.१ ) क्षेत्रियात्त्वा निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
(२,१०.१ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥१॥
(२,१०.२ ) शं ते अग्निः सहाद्भिरस्तु शं सोमः सहौषधीभिः ।
(२,१०.२ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
(२,१०.२ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥२॥
(२,१०.३ ) शं ते वातो अन्तरिक्षे वयो धाच्छं ते भवन्तु प्रदिशश्चतस्रः ।
(२,१०.३ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
(२,१०.३ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥३॥
(२,१०.४ ) इमा या देवीः प्रदिशश्चतस्रो वातपत्नीरभि सूर्यो विचष्टे ।
(२,१०.४ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
(२,१०.४ ) अनागसं ब्रह्मणा त्वा कृनोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥४॥
(२,१०.५ ) तासु त्वान्तर्जरस्या दधामि प्र यक्ष्म एतु निरृतिः पराचैः ।
(२,१०.५ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
(२,१०.५ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥५॥
(२,१०.६ ) अमुक्था यक्ष्माद्दुरितादवद्याद्द्रुहः पाशाद्ग्राह्याश्चोदमुक्थाः ।
(२,१०.६ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
(२,१०.६ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥६॥
(२,१०.७ ) अहा अरातिमविदः स्योनमप्यभूर्भद्रे सुकृतस्य लोके ।
(२,१०.७ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
(२,१०.७ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥७॥
(२,१०.८ ) सूर्यमृतं तमसो ग्राह्या अधि देवा मुञ्चन्तो असृजन् निरेनसः ।
(२,१०.८ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
(२,१०.८ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥८॥
(२,११.१ ) दूष्या दूषिरसि हेत्या हेतिरसि मेन्या मेनिरसि ।
(२,११.१ ) आप्नुहि श्रेयांसमति समं क्राम ॥१॥
(२,११.२ ) स्रक्त्योऽसि प्रतिसरोऽसि प्रत्यभिचरणोऽसि ।
(२,११.२ ) आप्नुहि श्रेयांसमति समं क्राम ॥२॥
(२,११.३ ) प्रति तमभि चर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
(२,११.३ ) आप्नुहि श्रेयांसमति समं क्राम ॥३॥
(२,११.४ ) सूरिरसि वर्चोधा असि तनूपानोऽसि ।
(२,११.४ ) आप्नुहि श्रेयांसमति समं क्राम ॥४॥
(२,११.५ ) शुक्रोऽसि भ्राजोऽसि स्वरसि ज्योतिरसि ।
(२,११.५ ) आप्नुहि श्रेयांसमति समं क्राम ॥५॥
(२,१२.१ ) द्यावापृथिवी उर्वन्तरिक्षं क्षेत्रस्य पत्न्युरुगायोऽद्भुतः ।
(२,१२.१ ) उतान्तरिक्षमुरु वातगोपं त इह तप्यन्तां मयि तप्यमाने ॥१॥
(२,१२.२ ) इदं देवाः शृणुत ये यज्ञिया स्थ भरद्वाजो मह्यमुक्थानि शंसति ।
(२,१२.२ ) पाशे स बद्धो दुरिते नि युज्यतां यो अस्माकं मन इदं हिनस्ति ॥२॥
(२,१२.३ ) इदमिन्द्र शृणुहि सोमप यत्त्वा हृदा शोचता जोहवीमि ।
(२,१२.३ ) वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥३॥
(२,१२.४ ) अशीतिभिस्तिसृभिः सामगेभिरादित्येभिर्वसुभिरङ्गिरोभिः ।
(२,१२.४ ) इष्टापूर्तमवतु नः पितॄणामामुं ददे हरसा दैव्येन ॥४॥
(२,१२.५ ) द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम् ।
(२,१२.५ ) अङ्गिरसः पितरः सोम्यासः पापमा ऋछत्वपकामस्य कर्ता ॥५॥
(२,१२.६ ) अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत्क्रियमाणम् ।
(२,१२.६ ) तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौरभिसंतपाति ॥६॥
(२,१२.७ ) सप्त प्राणान् अष्टौ मन्यस्तांस्ते वृश्चामि ब्रह्मणा ।
(२,१२.७ ) अया यमस्य सादनमग्निदूतो अरंकृतः ॥७॥
(२,१२.८ ) आ दधामि ते पदं समिद्धे जातवेदसि ।
(२,१२.८ ) अग्निः शरीरं वेवेष्ट्वसुं वागपि गछतु ॥८॥
(२,१३.१ ) आयुर्दा अग्ने जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने ।
(२,१३.१ ) घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रान् अभि रक्षतादिमम् ॥१॥
(२,१३.२ ) परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः ।
(२,१३.२ ) बृहस्पतिः प्रायछद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥२॥
(२,१३.३ ) परीदं वासो अधिथाः स्वस्तयेऽभूर्गृष्टीनामभिशस्तिपा उ ।
(२,१३.३ ) शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व ॥३॥
(२,१३.४ ) एह्यश्मानमा तिष्ठाश्मा भवतु ते तनूः ।
(२,१३.४ ) कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम् ॥४॥
(२,१३.५ ) यस्य ते वासः प्रथमवास्यं हरामस्तं त्वा विश्वेऽवन्तु देवाः ।
(२,१३.५ ) तं त्वा भ्रातरः सुवृधा वर्धमानमनु जायन्तां बहवः सुजातम् ॥५॥
(२,१४.१ ) निःसालां धृष्णुं धिषणमेकवाद्यां जिघत्स्वम् ।
(२,१४.१ ) सर्वाश्चण्डस्य नप्त्यो नाशयामः सदान्वाः ॥१॥
(२,१४.२ ) निर्वो गोष्ठादजामसि निरक्षान् निरुपानशात्।
(२,१४.२ ) निर्वो मगुन्द्या दुहितरो गृहेभ्यश्चातयामहे ॥२॥
(२,१४.३ ) असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः ।
(२,१४.३ ) तत्र सेदिर्न्युच्यतु सर्वाश्च यातुधान्यः ॥३॥
(२,१४.४ ) भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः ।
(२,१४.४ ) गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि तिष्ठतु ॥४॥
(२,१४.५ ) यदि स्थ क्षेत्रियाणां यदि वा पुरुषेषिताः ।
(२,१४.५ ) यदि स्थ दस्युभ्यो जाता नश्यतेतः सदान्वाः ॥५॥
(२,१४.६ ) परि धामान्यासामाशुर्गाष्ठामिवासरम् ।
(२,१४.६ ) अजैषं सर्वान् आजीन् वो नश्यतेतः सदान्वाः ॥६॥
(२,१५.१ ) यथा द्यौश्च पृथिवी च न बिभीतो न रिष्यतः ।
(२,१५.१ ) एवा मे प्राण मा बिभेः ॥१॥
(२,१५.२ ) यथाहश्च रात्री च न बिभीतो न रिष्यतः ।
(२,१५.२ ) एवा मे प्राण मा बिभेः ॥२॥
(२,१५.३ ) यथा सूर्यश्च चन्द्रश्च न बिभीतो न रिष्यतः ।
(२,१५.३ ) एवा मे प्राण मा बिभेः ॥३॥
(२,१५.४ ) यथा ब्रह्म च क्षत्रं च न बिभीतो न रिष्यतः ।
(२,१५.४ ) एवा मे प्राण मा बिभेः ॥४॥
(२,१५.५ ) यथा सत्यं चानृतं च न बिभीतो न रिष्यतः ।
(२,१५.५ ) एवा मे प्राण मा बिभेः ॥५॥
(२,१५.६ ) यथा भूतं च भव्यं च न बिभीतो न रिष्यतः ।
(२,१५.६ ) एवा मे प्राण मा बिभेः ॥६॥
(२,१६.१ ) प्राणापानौ मृत्योर्मा पातं स्वाहा ॥१॥
(२,१६.२ ) द्यावापृथिवी उपश्रुत्या मा पातं स्वाहा ॥२॥
(२,१६.३ ) सूर्य चक्षुषा मा पाहि स्वाहा ॥३॥
(२,१६.४ ) अग्ने वैश्वानर विश्वैर्मा देवैः पाहि स्वाहा ॥४॥
(२,१६.५ ) विश्वम्भर विश्वेन मा भरसा पाहि स्वाहा ॥५॥
(२,१७.१ ) ओजोऽस्योजो मे दाः स्वाहा ।१॥
(२,१७.२ ) सहोऽसि सहो मे दाः स्वाहा ॥२॥
(२,१७.३ ) बलमसि बलं दाः स्वाहा ॥३॥
(२,१७.४ ) आयुरस्यायुर्मे दाः स्वाह ॥४॥
(२,१७.५ ) श्रोत्रमसि श्रोत्रं मे दाः स्वाह ॥५॥
(२,१७.६ ) चक्षुरसि चक्षुर्मे दाः स्वाह ॥६॥
(२,१७.७ ) परिपाणमसि परिपाणं मे दाः स्वाह ॥७॥
(२,१८.१ ) भ्रातृव्यक्षयणमसि भ्रातृव्यचातनं मे दाः स्वाह ॥१॥
(२,१८.२ ) सपत्नक्षयणमसि सपत्नचातनं मे दाः स्वाह ॥२॥
(२,१८.३ ) अरायक्षयणमस्यरायचातनं मे दाः स्वाह ॥३॥
(२,१८.४ ) पिशाचक्षयणमसि पिशाचचातनं मे दाः स्वाह ॥४॥
(२,१८.५ ) सदान्वाक्षयणमसि सदान्वाचातनं मे दाः स्वाह ॥५॥
(२,१९.१ ) अग्ने यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
(२,१९.२ ) अग्ने यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
(२,१९.३ ) अग्ने यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
(२,१९.४ ) अग्ने यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
(२,१९.५ ) अग्ने यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
(२,२०.१ ) वायो यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
(२,२०.२ ) वायो यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
(२,२०.३ ) वायो यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
(२,२०.४ ) वायो यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
(२,२०.५ ) वायो यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
(२,२१.१ ) सूर्य यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
(२,२१.२ ) सूर्य यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
(२,२१.३ ) सूर्य यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
(२,२१.४ ) सूर्य यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
(२,२१.५ ) सूर्य यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
(२,२२.१ ) चन्द्र यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
(२,२२.२ ) चन्द्र यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
(२,२२.३ ) चन्द्र यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
(२,२२.४ ) चन्द्र यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
(२,२२.५ ) चन्द्र यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
(२,२३.१ ) आपो यद्वस्तपस्तेन तं प्रति तपत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
(२,२३.२ ) आपो यद्वस्हरस्तेन तं प्रति हरत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
(२,२३.३ ) आपो यद्वस्ऽर्चिस्तेन तं प्रति अर्चत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
(२,२३.४ ) आपो यद्वस्शोचिस्तेन तं प्रति शोचत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
(२,२३.५ ) आपो यद्वस्तेजस्तेन तमतेजसं कृणुत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
(२,२४.१ ) शेरभक शेरभ पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
(२,२४.१ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥१॥
(२,२४.२ ) शेवृधक शेवृध पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
(२,२४.२ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥२॥
(२,२४.३ ) म्रोकानुम्रोक पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
(२,२४.३ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥३॥
(२,२४.४ ) सर्पानुसर्प पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
(२,२४.४ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥४॥
(२,२४.५ ) जूर्णि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
(२,२४.५ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥५॥
(२,२४.६ ) उपब्दे पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
(२,२४.६ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥६॥
(२,२४.७ ) अर्जुनि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
(२,२४.७ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥७॥
(२,२४.८ ) भरूजि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
(२,२४.८ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥८॥
(२,२५.१ ) शं नो देवी पृश्निपर्ण्यशं निरृत्या अकः ।
(२,२५.१ ) उग्रा हि कण्वजम्भनी तामभक्षि सहस्वतीम् ॥१॥
(२,२५.२ ) सहमानेयं प्रथमा पृश्निपर्ण्यजायत ।
(२,२५.२ ) तयाहं दुर्णाम्नां शिरो वृश्चामि शकुनेरिव ॥२॥
(२,२५.३ ) अरायमसृक्पावानं यश्च स्फातिं जिहीर्षति ।
(२,२५.३ ) गर्भादं कण्वं नाशय पृश्निपर्णि सहस्व च ॥३॥
(२,२५.४ ) गिरिमेनामा वेशय कण्वान् जीवितयोपनान् ।
(२,२५.४ ) तांस्त्वं देवि पृश्निपर्ण्यग्निरिवानुदहन्न् इहि ॥४॥
(२,२५.५ ) पराच एनान् प्र णुद कण्वान् जीवितयोपनान् ।
(२,२५.५ ) तमांसि यत्र गछन्ति तत्क्रव्यादो अजीगमम् ॥५॥
(२,२६.१ ) एह यन्तु पशवो ये परेयुर्वायुर्येषां सहचारं जुजोष ।
(२,२६.१ ) त्वष्टा येषां रूपधेयानि वेदास्मिन् तान् गोष्ठे सविता नि यछतु ॥१॥
(२,२६.२ ) इमं गोष्ठं पशवः सं स्रवन्तु बृहस्पतिरा नयतु प्रजानन् ।
(२,२६.२ ) सिनीवाली नयत्वाग्रमेषामाजग्मुषो अनुमते नि यछ ॥२॥
(२,२६.३ ) सं सं स्रवन्तु पशवः समश्वाः समु पूरुषाः ।
(२,२६.३ ) सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ॥३॥
(२,२६.४ ) सं सिञ्चामि गवां क्षीरं समाज्येन बलं रसम् ।
(२,२६.४ ) संसिक्ता अस्माकं वीरा ध्रुवा गावो मयि गोपतौ ॥४॥
(२,२६.५ ) आ हरामि गवां क्षीरमाहार्षं धान्यं रसम् ।
(२,२६.५ ) आहृता अस्माकं वीरा आ पत्नीरिदमस्तकम् ॥५॥
(२,२७.१ ) नेच्छत्रुः प्राशं जयाति सहमानाभिभूरसि ।
(२,२७.१ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥१॥
(२,२७.२ ) सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन् नसा ।
(२,२७.२ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥२॥
(२,२७.३ ) इन्द्रो ह चक्रे त्वा बाहावसुरेभ्य स्तरीतवे ।
(२,२७.३ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥३॥
(२,२७.४ ) पाटामिन्द्रो व्याश्नादसुरेभ्य स्तरीतवे ।
(२,२७.४ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥४॥
(२,२७.५ ) तयाहं शत्रून्त्साक्ष इन्द्रः सालावृकामिव ।
(२,२७.५ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥५॥
(२,२७.६ ) रुद्र जलाषभेषज नीलशिखण्ड कर्मकृत्।
(२,२७.६ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥६॥
(२,२७.७ ) तस्य प्राशं त्वं जहि यो न इन्द्राभिदासति ।
(२,२७.७ ) अधि नो ब्रूहि शक्तिभिः प्राशि मामुत्तरं कृधि ॥७॥
(२,२८.१ ) तुभ्यमेव जरिमन् वर्धतामयं मेममन्ये मृत्यवो हिंसिषुः शतं ये ।
(२,२८.१ ) मातेव पुत्रं प्रमना उपस्थे मित्र एनं मित्रियात्पात्वंहसः ॥१॥
(२,२८.२ ) मित्र एनं वरुणो वा रिशादा जरामृत्युं कृणुतां संविदानौ ।
(२,२८.२ ) तदग्निर्होता वयुनानि विद्वान् विश्वा देवानां जनिमा विवक्ति ॥२॥
(२,२८.३ ) त्वमीशिषे पशूनां पार्थिवानां ये जाता उत वा ये जनित्राः ।
(२,२८.३ ) मेमं प्राणो हासीन् मो अपानो मेमं मित्रा वधिषुर्मो अमित्राः ॥३॥
(२,२८.४ ) द्यौष्ट्वा पिता पृथिवी माता जरामृत्युं कृणुतां संविदाने ।
(२,२८.४ ) यथा जीवा अदितेरुपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः ॥४॥
(२,२८.५ ) इममग्ने आयुषे वर्चसे नय प्रियं रेतो वरुण मित्र राजन् ।
(२,२८.५ ) मातेवास्मा अदिते शर्म यछ विश्वे देवा जरदष्टिर्यथासत्॥५॥
(२,२९.१ ) पार्थिवस्य रसे देवा भगस्य तन्वो बले ।
(२,२९.१ ) आयुष्यमस्मा अग्निः सूर्यो वर्च आ धाद्बृहस्पतिः ॥१॥
(२,२९.२ ) आयुरस्मै धेहि जातवेदः प्रजां त्वष्टरधिनिधेहि अस्मै ।
(२,२९.२ ) रायस्पोषं सवितरा सुवास्मै शतं जीवाति शरदस्तवायम् ॥२॥
(२,२९.३ ) आशीर्ण ऊर्जमुत सौप्रजास्त्वं दक्षं धत्तं द्रविणं सचेतसौ ।
(२,२९.३ ) जयं क्षेत्राणि सहसायमिन्द्र कृण्वानो अन्यान् अधरान्त्सपत्नान् ॥३॥
(२,२९.४ ) इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिरुग्रः प्रहितो नो आगन् ।
(२,२९.४ ) एष वां द्यावापृथिवी उपस्थे मा क्षुधन् मा तृषत्॥४॥
(२,२९.५ ) ऊर्जमस्मा ऊर्जस्वती धत्तं पयो अस्मै पयस्वती धत्तम् ।
(२,२९.५ ) ऊर्जमस्मै द्यावपृथिवी अधातां विश्वे देवा मरुत ऊर्जमापः ॥५॥
(२,२९.६ ) शिवाभिष्टे हृदयं तर्पयाम्यनमीवो मोदिषीष्ठाः सुवर्चाः ।
(२,२९.६ ) सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम् ॥६॥
(२,२९.७ ) इन्द्र एतां ससृजे विद्धो अग्र ऊर्जां स्वधामजरां सा त एषा ।
(२,२९.७ ) तया त्वं जीव शरदः सुवर्चा मा त आ सुस्रोद्भिषजस्ते अक्रन् ॥७॥
(२,३०.१ ) यथेदं भूम्या अधि तृणं वातो मथायति ।
(२,३०.१ ) एवा मथ्नामि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥१॥
(२,३०.२ ) सं चेन् नयाथो अश्विना कामिना सं च वक्षथः ।
(२,३०.२ ) सं वां भगासो अग्मत सं चित्तानि समु व्रता ॥२॥
(२,३०.३ ) यत्सुपर्णा विवक्षवो अनमीवा विवक्षवः ।
(२,३०.३ ) तत्र मे गछताद्धवं शल्य इव कुल्मलं यथा ॥३॥
(२,३०.४ ) यदन्तरं तद्बाह्यं यद्बाह्यं तदन्तरम् ।
(२,३०.४ ) कन्यानां विश्वरूपाणां मनो गृभायौषधे ॥४॥
(२,३०.५ ) एयमगन् पतिकामा जनिकामोऽहमागमम् ।
(२,३०.५ ) अश्वः कनिक्रदद्यथा भगेनाहं सहागमम् ॥५॥
(२,३१.१ ) इन्द्रस्य या मही दृषत्क्रिमेर्विश्वस्य तर्हणी ।
(२,३१.१ ) तया पिनष्मि सं क्रिमीन् दृषदा खल्वामिव ॥१॥
(२,३१.२ ) दृष्टमदृष्टमतृहमथो कुरूरुमतृहम् ।
(२,३१.२ ) अल्गण्डून्त्सर्वान् छलुनान् क्रिमीन् वचसा जम्भयामसि ॥२॥
(२,३१.३ ) अल्गण्डून् हन्मि महता वधेन दूना अदूना अरसा अभूवन् ।
(२,३१.३ ) शिष्टान् अशिष्टान् नि तिरामि वाचा यथा क्रिमीणां नकिरुछिषातै ॥३॥
(२,३१.४ ) अन्वान्त्र्यं शीर्षण्यमथो पार्ष्टेयं क्रिमीन् ।
(२,३१.४ ) अवस्कवं व्यध्वरं क्रिमीन् वचसा जम्भयामसि ॥४॥
(२,३१.५ ) ये क्रिमयः पर्वतेशु वनेष्वोषधीषु पशुष्वप्स्वन्तः ।
(२,३१.५ ) ये अस्माकं तन्वमाविविशुः सर्वं तद्धन्मि जनिम क्रिमीणाम् ॥५॥
(२,३२.१ ) उद्यन्न् आदित्यः क्रिमीन् हन्तु निम्रोचन् हन्तु रश्मिभिः ।
(२,३२.१ ) ये अन्तः क्रिमयो गवि ॥१॥
(२,३२.२ ) विश्वरूपं चतुरक्षं क्रिमिं सारङ्गमर्जुनम् ।
(२,३२.२ ) शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥२॥
(२,३२.३ ) अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्।
(२,३२.३ ) अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥३॥
(२,३२.४ ) हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः ।
(२,३२.४ ) हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥४॥
(२,३२.५ ) हतासो अस्य वेशसो हतासः परिवेशसः ।
(२,३२.५ ) अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥५॥
(२,३२.६ ) प्र ते शृणामि शृङ्गे याभ्यां वितुदायसि ।
(२,३२.६ ) भिनाद्मि ते कुषुम्भं यस्ते विषधानः ॥६॥
(२,३३.१ ) अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।
(२,३३.१ ) यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥१॥
(२,३३.२ ) ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात्।
(२,३३.२ ) यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥२॥
(२,३३.३ ) हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम् ।
(२,३३.३ ) यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥३॥
(२,३३.४ ) आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि ।
(२,३३.४ ) यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते ॥४॥
(२,३३.५ ) ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।
(२,३३.५ ) यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भंससो वि वृहामि ते ॥५॥
(२,३३.६ ) अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः ।
(२,३३.६ ) यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥६॥
(२,३३.७ ) अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि ।
(२,३३.७ ) यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥७॥
(२,३४.१ ) य ईशे पशुपतिः पशूनां चतुष्पदामुत यो द्विपदाम् ।
(२,३४.१ ) निष्क्रीतः स यज्ञियं भागमेतु रायस्पोषा यजमानं सचन्ताम् ॥१॥
(२,३४.२ ) प्रमुञ्चन्तो भुवनस्य रेतो गातुं धत्त यजमानाय देवाः ।
(२,३४.२ ) उपाकृतं शशमानं यदस्थात्प्रियं देवानामप्येतु पाथः ॥२॥
(२,३४.३ ) ये बध्यमानमनु दीध्याना अन्वैक्षन्त मनसा चक्षुषा च ।
(२,३४.३ ) अग्निष्टान् अग्रे प्र मुमोक्तु देवो विश्वकर्मा प्रजया संरराणः ॥३॥
(२,३४.४ ) ये ग्राम्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः ।
(२,३४.४ ) वायुष्टान् अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥४॥
(२,३४.५ ) प्रजानन्तः प्रति गृह्णन्तु पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम् ।
(२,३४.५ ) दिवं गछ प्रति तिष्ठा शरीरैः स्वर्गं याहि पथिभिर्देवयानैः ॥५॥
(२,३५.१ ) ये भक्षयन्तो न वसून्यानृधुर्यान् अग्नयो अन्वतप्यन्त धिष्ण्याः ।
(२,३५.१ ) या तेषामवया दुरिष्टिः स्विष्टिं नस्तां कृणवद्विश्वकर्मा ॥१॥
(२,३५.२ ) यज्ञपतिमृषयः एनसाहुर्निर्भक्तं प्रजा अनुतप्यमानम् ।
(२,३५.२ ) मथव्यान्त्स्तोकान् अप यान् रराध सं नष्टेभिः सृजतु विश्वकर्मा ॥२॥
(२,३५.३ ) अदान्यान्त्सोमपान् मन्यमानो यज्ञस्य विद्वान्त्समये न धीरः ।
(२,३५.३ ) यदेनश्चकृवान् बद्ध एष तं विश्वकर्मन् प्र मुञ्चा स्वस्तये ॥३॥
(२,३५.४ ) घोरा ऋषयो नमो अस्त्वेभ्यश्चक्षुर्यदेषां मनसश्च सत्यम् ।
(२,३५.४ ) बृहस्पतये महिष द्युमन्न् नमो विश्वकर्मन् नमस्ते पाह्यस्मान् ॥४॥
(२,३५.५ ) यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि ।
(२,३५.५ ) इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥५॥
(२,३६.१ ) आ नो अग्ने सुमतिं संभलो गमेदिमां कुमारीं सह नो भगेन ।
(२,३६.१ ) जुष्टा वरेषु समनेषु वल्गुरोषं पत्या सौभगमस्तु अस्यै ॥१॥
(२,३६.२ ) सोमजुष्टं ब्रह्मजुष्टमर्यम्ना संभृतं भगम् ।
(२,३६.२ ) धातुर्देवस्य सत्येन कृणोमि पतिवेदनम् ॥२॥
(२,३६.३ ) इयमग्ने नारी पतिं विदेष्ट सोमो हि राजा सुभगां कृणोति ।
(२,३६.३ ) सुवाना पुत्रान् महिषी भवाति गत्वा पतिं सुभगा वि राजतु ॥३॥
(२,३६.४ ) यथाखरो मघवंश्चारुरेष प्रियो मृगाणां सुषदा बभूव ।
(२,३६.४ ) एवा भगस्य जुष्टेयमस्तु नारी संप्रिया पत्याविराधयन्ती ॥४॥
(२,३६.५ ) भगस्य नावमा रोह पूर्णामनुपदस्वतीम् ।
(२,३६.५ ) तयोपप्रतारय यो वरः प्रतिकाम्यः ॥५॥
(२,३६.६ ) आ क्रन्दय धनपते वरमामनसं कृणु ।
(२,३६.६ ) सर्वं प्रदक्षिणं कृणु यो वरः प्रतिकाम्यः ॥६॥
(२,३६.७ ) इदं हिरण्यं गुल्गुल्वयमौक्षो अथो भगः ।
(२,३६.७ ) एते पतिभ्यस्त्वामदुः प्रतिकामाय वेत्तवे ॥७
(२,३६.७ ) आ ते नयतु सविता नयतु पतिर्यः प्रतिकाम्यः ।
(३,१.१ ) अग्निर्नः शत्रून् प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् ।
(३,१.१ ) स सेनां मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥१॥
(३,१.२ ) यूयमुग्रा मरुत ईदृशे स्थाभि प्रेत मृणत सहध्वम् ।
(३,१.२ ) अमीमृणन् वसवो नाथिता इमे अग्निर्ह्येषां दूतः प्रत्येतु विद्वान् ॥२॥
(३,१.३ ) अमित्रसेनां मघवन्न् अस्मान् छत्रूयतीमभि ।
(३,१.३ ) युवं तामिन्द्र वृत्रहन्न् अग्निश्च दहतं प्रति ॥३॥
(३,१.४ ) प्रसूत इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्न् एतु शत्रून् ।
(३,१.४ ) जहि प्रतीचो अनूचः पराचो विष्वक्सत्यं कृणुहि चित्तमेषाम् ॥४॥
(३,१.५ ) इन्द्र सेनां मोहयामित्राणाम् ।
(३,१.५ ) अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥५॥
(३,१.६ ) इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्वोजसा ।
(३,१.६ ) चक्षूंस्यग्निरा दत्तां पुनरेतु पराजिता ॥६॥
(३,२.१ ) अग्निर्नो दूतः प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् ।
(३,२.१ ) स चित्तानि मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥१॥
(३,२.२ ) अयमग्निरमूमुहद्यानि चित्तानि वो हृदि ।
(३,२.२ ) वि वो धमत्वोकसः प्र वो धमतु सर्वतः ॥२॥
(३,२.३ ) इन्द्र चित्तानि मोहयन्न् अर्वाङाकूत्या चर ।
(३,२.३ ) अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥३॥
(३,२.४ ) व्याकूतय एषामिताथो चित्तानि मुह्यत ।
(३,२.४ ) अथो यदद्यैषां हृदि तदेषां परि निर्जहि ॥४॥
(३,२.५ ) अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्यप्वे परेहि ।
(३,२.५ ) अभि प्रेहि निर्दह हृत्सु शोकैर्ग्राह्यामित्रांस्तमसा विध्य शत्रून् ॥५॥
(३,२.६ ) असौ या सेना मरुतः परेषामस्मान् ऐत्यभ्योजसा स्पर्धमाना ।
(३,२.६ ) तां विध्यत तमसापव्रतेन यथैषामन्यो अन्यं न जानात्॥६॥
(३,३.१ ) अचिक्रदत्स्वपा इह भुवदग्ने व्यचस्व रोदसी उरूची ।
(३,३.१ ) युञ्जन्तु त्वा मरुतो विश्ववेदस आमुं नय नमसा रातहव्यम् ॥१॥
(३,३.२ ) दूरे चित्सन्तमरुषास इन्द्रमा च्यावयन्तु सख्याय विप्रम् ।
(३,३.२ ) यद्गायत्रीं बृहतीमर्कमस्मै सौत्रामण्या दधृषन्त देवाः ॥२॥
(३,३.३ ) अद्भ्यस्त्वा राज वरुणो ह्वयतु सोमस्त्वा ह्वयतु पर्वतेभ्यः ।
(३,३.३ ) इन्द्रस्त्वा ह्वयतु विड्भ्य आभ्यः श्येनो भूत्वा विश आ पतेमाः ॥३॥ {४}
(३,३.४ ) श्येनो हव्यं नयत्वा परस्मादन्यक्षेत्रे अपरुद्धं चरन्तम् ।
(३,३.४ ) अश्विना पन्थां कृणुतां सुगं त इमं सजाता अभिसंविशध्वम् ॥४॥ {५}
(३,३.५ ) ह्वयन्तु त्वा प्रतिजनाः प्रति मित्रा अवृषत ।
(३,३.५ ) इन्द्राग्नी विश्वे देवास्ते विशि क्षेममदीधरन् ॥५॥ {६}
(३,३.६ ) यस्ते हवं विवदत्सजातो यश्च निष्ट्यः ।
(३,३.६ ) अपाञ्चमिन्द्र तं कृत्वाथेममिहाव गमय ॥६॥ {७}
(३,४.१ ) आ त्वा गन् राष्त्रं सह वर्चसोदिहि प्राङ्विशां पतिरेकराट्त्वं वि राज ।
(३,४.१ ) सर्वास्त्वा राजन् प्रदिशो ह्वयन्तूपसद्यो नमस्यो भवेह ॥१॥
(३,४.२ ) त्वां विशो वृणतां राज्याय त्वामिमाः प्रदिशः पञ्च देवीः ।
(३,४.२ ) वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्व ततो न उग्रो वि भजा वसूनि ॥२॥
(३,४.३ ) अछ त्वा यन्तु हविनः सजाता अग्निर्दूतो अजिरः सं चरातै ।
(३,४.३ ) जायाः पुत्राः सुमनसो भवन्तु बहुं बलिं प्रति पश्यासा उग्रः ॥३॥
(३,४.४ ) अश्विना त्वाग्रे मित्रावरुणोभा विश्वे देवा मरुतस्त्वा ह्वयन्तु ।
(३,४.४ ) अधा मनो वसुदेयाय कृणुष्व ततो न उग्रो वि भजा वसूनि ॥४॥
(३,४.५ ) आ प्र द्रव परमस्याः परावतः शिवे ते द्यावापृथिवी उभे स्ताम् ।
(३,४.५ ) तदयं राजा वरुणस्तथाह स त्वायमह्वत्स उपेदमेहि ॥५॥
(३,४.६ ) इन्द्रेन्द्र मनुष्याः परेहि सं ह्यज्ञास्था वरुणैः संविदानः ।
(३,४.६ ) स त्वायमह्वत्स्वे सधस्थे स देवान् यक्षत्स उ कल्पयद्विशः ॥६॥
(३,४.७ ) पथ्या रेवतीर्बहुधा विरूपाः सर्वाः संगत्य वरीयस्ते अक्रन् ।
(३,४.७ ) तास्त्वा सर्वाः संविदाना ह्वयन्तु दशमीमुग्रः सुमना वशेह ॥७॥
(३,५.१ ) आयमगन् पर्णमणिर्बली बलेन प्रमृणन्त्सपत्नान् ।
(३,५.१ ) ओजो देवानां पय ओषधीनां वर्चसा मा जिन्वन्त्वप्रयावन् ॥१॥
(३,५.२ ) मयि क्षत्रं पर्णमणे मयि धारयताद्रयिम् ।
(३,५.२ ) अहं राष्ट्रस्याभीवर्गे निजो भूयासमुत्तमः ॥२॥
(३,५.३ ) यं निदधुर्वनस्पतौ गुह्यं देवाः प्रियं मणिम् ।
(३,५.३ ) तमस्मभ्यं सहायुषा देवा ददतु भर्तवे ॥३॥
(३,५.४ ) सोमस्य पर्णः सह उग्रमागन्न् इन्द्रेण दत्तो वरुणेन शिष्टः ।
(३,५.४ ) तं प्रियासं बहु रोचमानो दीर्घायुत्वाय शतशारदाय ॥४॥
(३,५.५ ) आ मारुक्षत्पर्णमणिर्मह्या अरिष्टतातये ।
(३,५.५ ) यथाहमुत्तरोऽसान्यर्यम्ण उत संविदः ॥५॥
(३,५.६ ) ये धीवानो रथकाराः कर्मारा ये मनीषिणः ।
(३,५.६ ) उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥६॥
(३,५.७ ) ये राजानो राजकृतः सूता ग्रामण्यश्च ये ।
(३,५.७ ) उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥७॥
(३,५.८ ) पर्णोऽसि तनूपानः सयोनिर्वीरो वीरेण मया ।
(३,५.८ ) संवत्सरस्य तेजसा तेन बध्नामि त्वा मणे ॥८॥
(३,६.१ ) पुमान् पुंसः परिजातोऽश्वत्थः खदिरादधि ।
(३,६.१ ) स हन्तु शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥१॥
(३,६.२ ) तान् अश्वत्थ निः शृणीहि शत्रून् वैबाधदोधतः ।
(३,६.२ ) इन्द्रेण वृत्रघ्ना मेदी मित्रेण वरुणेन च ॥२॥
(३,६.३ ) यथाश्वत्थ निरभनोऽन्तर्महत्यर्णवे ।
(३,६.३ ) एवा तान्त्सर्वान् निर्भङ्ग्धि यान् अहं द्वेष्मि ये च माम् ॥३॥
(३,६.४ ) यः सहमानश्चरसि सासहान इव ऋषभः ।
(३,६.४ ) तेनाश्वत्थ त्वया वयं सपत्नान्त्सहिषीमहि ॥४॥
(३,६.५ ) सिनात्वेनान् निरृतिर्मृत्योः पाशैरमोक्यैः ।
(३,६.५ ) अश्वत्थ शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥५॥
(३,६.६ ) यथाश्वत्थ वानस्पत्यान् आरोहन् कृणुषेऽधरान् ।
(३,६.६ ) एवा मे शत्रोर्मूर्धानं विष्वग्भिन्द्धि सहस्व च ॥६॥
(३,६.७ ) तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्।
(३,६.७ ) न वैबाधप्रणुत्तानां पुनरस्ति निवर्तनम् ॥७॥
(३,६.८ ) प्रैणान् नुदे मनसा प्र चित्तेनोत ब्रह्मणा ।
(३,६.८ ) प्रैणान् वृक्षस्य शाखयाश्वत्थस्य नुदामहे ॥८॥
(३,७.१ ) हरिणस्य रघुष्यदोऽधि शीर्षणि भेषजम् ।
(३,७.१ ) स क्षेत्रियं विषाणया विषूचीनमनीनशत्॥१॥
(३,७.२ ) अनु त्वा हरिणो वृषा पद्भिश्चतुर्भिरक्रमीत्।
(३,७.२ ) विषाणे वि ष्य गुष्पितं यदस्य क्षेत्रियं हृदि ॥२॥
(३,७.३ ) अदो यदवरोचते चतुष्पक्षमिव छदिः ।
(३,७.३ ) तेना ते सर्वं क्षेत्रियमङ्गेभ्यो नाशयामसि ॥३॥
(३,७.४ ) अमू ये दिवि सुभगे विचृतौ नाम तारके ।
(३,७.४ ) वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥४॥
(३,७.५ ) आप इद्वा उ भेषजीरापो अमीवचातनीः ।
(३,७.५ ) आपो विश्वस्य भेषजीस्तास्त्वा मुञ्चन्तु क्षेत्रियात्॥५॥
(३,७.६ ) यदासुतेः क्रियमानायाः क्षेत्रियं त्वा व्यानशे ।
(३,७.६ ) वेदाहं तस्य भेषजं क्षेत्रियं नाशयामि त्वत्॥६॥
(३,७.७ ) अपवासे नक्षत्राणामपवास उषसामुत ।
(३,७.७ ) अपास्मत्सर्वं दुर्भूतमप क्षेत्रियमुछतु ॥७॥
(३,८.१ ) आ यातु मित्र ऋतुभिः कल्पमानः संवेशयन् पृथिवीमुस्रियाभिः ।
(३,८.१ ) अथास्मभ्यं वरुणो वायुरग्निर्बृहद्राष्ट्रं संवेश्यं दधातु ॥१॥
(३,८.२ ) धाता रातिः सवितेदं जुशन्तामिन्द्रस्त्वष्टा प्रति हर्यन्तु मे वचः ।
(३,८.२ ) हुवे देवीमदितिं शूरपुत्रां सजातानां मध्यमेष्ठा यथासानि ॥२॥
(३,८.३ ) हुवे सोमं सवितारं नमोभिर्विश्वान् आदित्यामहमुत्तरत्वे ।
(३,८.३ ) अयमग्निर्दीदायद्दीर्घमेव सजातैरिद्धोऽप्रतिब्रुवद्भिः ॥३॥
(३,८.४ ) इहेदसाथ न परो गमाथेर्यो गोपाः पुष्टपतिर्व आजत्।
(३,८.४ ) अस्मै कामायोप कामिनीर्विश्वे वो देवा उपसंयन्तु ॥४॥
(३,८.५ ) सं वो मनांसि सं व्रता समाकूतीर्नमामसि ।
(३,८.५ ) अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥५॥
(३,८.६ ) अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत ।
(३,८.६ ) मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥६॥
(३,९.१ ) कर्शफस्य विशफस्य द्यौः पिता पृथिवी माता ।
(३,९.१ ) यथाभिचक्र देवास्तथाप कृणुता पुनः ॥१॥
(३,९.२ ) अश्रेष्माणो अधारयन् तथा तन् मनुना कृतम् ।
(३,९.२ ) कृणोमि वध्रि विष्कन्धं मुष्काबर्हो गवामिव ॥२॥
(३,९.३ ) पिशङ्गे सूत्रे खृगलं तदा बध्नन्ति वेधसः ।
(३,९.३ ) श्रवस्युं शुष्मं काबवं वध्रिं कृण्वन्तु बन्धुरः ॥३॥
(३,९.४ ) येना श्रवस्यवश्चरथ देवा इवासुरमायया ।
(३,९.४ ) शुनां कपिरिव दूषणो बन्धुरा काबवस्य च ॥४॥
(३,९.५ ) दुष्ट्यै हि त्वा भत्स्यामि दूषयिष्यामि काबवम् ।
(३,९.५ ) उदाशवो रथा इव शपथेभिः सरिष्यथ ॥५॥
(३,९.६ ) एकशतं विष्कन्धानि विष्ठिता पृथिवीमनु ।
(३,९.६ ) तेषां त्वामग्रे उज्जहरुर्मणिं विष्कन्धदूषणम् ॥६॥
(३,१०.१ ) प्रथमा ह व्युवास सा धेनुरभवद्यमे ।
(३,१०.१ ) सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥१॥
(३,१०.२ ) यां देवाः प्रतिनन्दन्ति रात्रिं धेनुमुपायतीम् ।
(३,१०.२ ) संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली ॥२॥
(३,१०.३ ) संवत्सरस्य प्रतिमां यां त्वा रात्र्युपास्महे ।
(३,१०.३ ) सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥३॥
(३,१०.४ ) इयमेव सा या प्रथमा व्यौछदास्वितरासु चरति प्रविष्टा ।
(३,१०.४ ) महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री ॥४॥
(३,१०.५ ) वानस्पत्या ग्रावाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम् ।
(३,१०.५ ) एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम् ॥५॥
(३,१०.६ ) इडायास्पदं घृतवत्सरीसृपं जातवेदः प्रति हव्या गृभाय ।
(३,१०.६ ) ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि रन्तिरस्तु ॥६॥
(३,१०.७ ) आ मा पुष्टे च पोषे च रात्रि देवानां सुमतौ स्याम ।
(३,१०.७ ) पूर्णा दर्वे परा पत सुपूर्णा पुनरा पत ।
(३,१०.७ ) सर्वान् यज्ञान्त्संभुञ्जतीषमूर्जं न आ भर ॥७॥
(३,१०.८ ) आयमगन्त्संवत्सरः पतिरेकाष्टके तव ।
(३,१०.८ ) सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥८॥
(३,१०.९ ) ऋतून् यज ऋतुपतीन् आर्तवान् उत हायनान् ।
(३,१०.९ ) समाः संवत्सरान् मासान् भूतस्य पतये यजे ॥९॥
(३,१०.१० ) ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः ।
(३,१०.१० ) धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥१०॥
(३,१०.११ ) इडया जुह्वतो वयं देवान् घृतवता यजे ।
(३,१०.११ ) गृहान् अलुभ्यतो वयं सं विशेमोप गोमतः ॥११॥
(३,१०.१२ ) एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् ।
(३,१०.१२ ) तेन देवा व्यसहन्त शत्रून् हन्ता दस्यूनामभवच्छचीपतिः ॥१२॥
(३,१०.१३ ) इन्द्रपुत्रे सोमपुत्रे दुहितासि प्रजापतेः ।
(३,१०.१३ ) कामान् अस्माकं पूरय प्रति गृह्णाहि नो हविः ॥१३॥
(३,११.१ ) मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्।
(३,११.१ ) ग्राहिर्जग्राह यद्येतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥१॥
(३,११.२ ) यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकमेव ।
(३,११.२ ) तमा हरामि निरृतेरुपस्थादस्पार्शमेनं शतशारदाय ॥२॥
(३,११.३ ) सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम् ।
(३,११.३ ) इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् ॥३॥
(३,११.४ ) शतं जीव शरदो वर्धमानः शतं हेमन्तान् छतमु वसन्तान् ।
(३,११.४ ) शतं ते इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥४॥
(३,११.५ ) प्र विशतं प्राणापानावनड्वाहाविव व्रजम् ।
(३,११.५ ) व्यन्ये यन्तु मृत्यवो यान् आहुरितरान् छतम् ॥५॥
(३,११.६ ) इहैव स्तं प्राणापानौ माप गातमितो युवम् ।
(३,११.६ ) शरीरमस्याङ्गानि जरसे वहतं पुनः ॥६॥
(३,११.७ ) जरायै त्वा परि ददामि जरायै नि धुवामि त्वा ।
(३,११.७ ) जरा त्वा भद्रा नेष्ट व्यन्ये यन्तु मृत्यवो यान् आहुरितरान् छतम् ॥७॥
(३,११.८ ) अभि त्वा जरिमाहित गामुक्षणमिव रज्ज्वा ।
(३,११.८ ) यस्त्वा मृत्युरभ्यधत्त जायमानं सुपाशया ।
(३,११.८ ) तं ते सत्यस्य हस्ताभ्यामुदमुञ्चद्बृहस्पतिः ॥८॥
(३,१२.१ ) इहैव ध्रुवां नि मिनोमि शालां क्षेमे तिष्ठाति घृतमुक्षमाणा ।
(३,१२.१ ) तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा उप सं चरेम ॥१॥
(३,१२.२ ) इहैव ध्रुवा प्रति तिष्ठ शालेऽश्वावती गोमती सूनृतावती ।
(३,१२.२ ) ऊर्जस्वती घृतवती पयस्वत्युच्छ्रयस्व महते सौभगाय ॥२॥
(३,१२.३ ) धरुण्यसि शाले बृहछन्दाः पूतिधान्या ।
(३,१२.३ ) आ त्वा वत्सो गमेदा कुमार आ धेनवः सायमास्पन्दमानाः ॥३॥
(३,१२.४ ) इमां शालां सविता वायुरिन्द्रो बृहस्पतिर्नि मिनोतु प्रजानन् ।
(३,१२.४ ) उक्षन्तूद्ना मरुतो घृतेन भगो नो राजा नि कृषिं तनोतु ॥४॥
(३,१२.५ ) मानस्य पत्नि शरणा स्योना देवी देवेभिर्निमितास्यग्रे ।
(३,१२.५ ) तृणं वसाना सुमना असस्त्वमथास्मभ्यं सहवीरं रयिं दाः ॥५॥
(३,१२.६ ) ऋतेन स्थूणामधि रोह वंशोग्रो विराजन्न् अप वृङ्क्ष्व शत्रून् ।
(३,१२.६ ) मा ते रिषन्न् उपसत्तारो गृहाणां शाले शतं जीवेम शरदः सर्ववीराः ॥६॥
(३,१२.७ ) एमां कुमारस्तरुण आ वत्सो जगता सह ।
(३,१२.७ ) एमां परिस्रुतः कुम्भ आ दध्नः कलशैरगुः ॥७॥
(३,१२.८ ) पूर्णं नारि प्र भर कुम्भमेतं घृतस्य धाराममृतेन संभृताम् ।
(३,१२.८ ) इमां पातॄन् अमृतेन समङ्ग्धीष्टापूर्तमभि रक्षात्येनाम् ॥८॥
(३,१२.९ ) इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः ।
(३,१२.९ ) गृहान् उप प्र सीदाम्यमृतेन सहाग्निना ॥९॥
(३,१३.१ ) यददः संप्रयतीरहावनदता हते ।
(३,१३.१ ) तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥१॥
(३,१३.२ ) यत्प्रेषिता वरुणेनाच्छीभं समवल्गत ।
(३,१३.२ ) तदाप्नोदिन्द्रो वो यतीस्तस्मादापो अनु ष्ठन ॥२॥
(३,१३.३ ) अपकामं स्यन्दमाना अवीवरत वो हि कम् ।
(३,१३.३ ) इन्द्रो वः शक्तिभिर्देवीस्तस्माद्वार्नाम वो हितम् ॥३॥
(३,१३.४ ) एकः वो देवोऽप्यतिष्ठत्स्यन्दमाना यथावशम् ।
(३,१३.४ ) उदानिषुर्महीरिति तस्मादुदकमुच्यते ॥४॥
(३,१३.५ ) आपो भद्रा घृतमिदाप आसन्न् अग्नीषोमौ बिभ्रत्याप इत्ताः ।
(३,१३.५ ) तीव्रो रसो मधुपृचामरंगम आ मा प्राणेन सह वर्चसा गमेत्॥५॥
(३,१३.६ ) आदित्पश्याम्युत वा शृणोम्या मा घोषो गछति वाङ्मासाम् ।
(३,१३.६ ) मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः ॥६॥
(३,१३.७ ) इदं व आपो हृदयमयं वत्स ऋतावरीः ।
(३,१३.७ ) इहेत्थमेत शक्वरीर्यत्रेदं वेशयामि वः ॥७॥
(३,१४.१ ) सं वो गोष्ठेन सुषदा सं रय्या सं सुभूत्या ।
(३,१४.१ ) अहर्जातस्य यन् नाम तेना वः सं सृजामसि ॥१॥
(३,१४.२ ) सं वः सृजत्वर्यमा सं पूषा सं बृहस्पतिः ।
(३,१४.२ ) समिन्द्रो यो धनंजयो मयि पुष्यत यद्वसु ॥२॥
(३,१४.३ ) संजग्माना अबिभ्युषीरस्मिन् गोष्ठे करीषिणीः ।
(३,१४.३ ) बिभ्रतीः सोम्यं मध्वनमीवा उपेतन ॥३॥
(३,१४.४ ) इहैव गाव एतनेहो शकेव पुष्यत ।
(३,१४.४ ) इहैवोत प्र जायध्वं मयि संज्ञानमस्तु वः ॥४॥
(३,१४.५ ) शिवो वो गोष्ठो भवतु शारिशाकेव पुष्यत ।
(३,१४.५ ) इहैवोत प्र जायध्वं मया वः सं सृजामसि ॥५॥
(३,१४.६ ) मया गावो गोपतिना सचध्वमयं वो गोष्ठ इह पोषयिष्णुः ।
(३,१४.६ ) रायस्पोषेण बहुला भवन्तीर्जीवा जीवन्तीरुप वः सदेम ॥६॥
(३,१५.१ ) इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु ।
(३,१५.१ ) नुदन्न् अरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम् ॥१॥
(३,१५.२ ) ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति ।
(३,१५.२ ) ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि ॥२॥
(३,१५.३ ) इध्मेनाग्न इछमानो घृतेन जुहोमि हव्यं तरसे बलाय ।
(३,१५.३ ) यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥३॥
(३,१५.४ ) इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम् ।
(३,१५.४ ) शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु ।
(३,१५.४ ) इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितमुत्थितं च ॥४॥
(३,१५.५ ) येन धनेन प्रपणं चरामि धनेन देवा धनमिछमानः ।
(३,१५.५ ) तन् मे भूयो भवतु मा कनीयोऽग्ने सातघ्नो देवान् हविषा नि षेध ॥५॥
(३,१५.६ ) येन धनेन प्रपणं चरामि धनेन देवा धनमिछमानः ।
(३,१५.६ ) तस्मिन् म इन्द्रो रुचिमा दधातु प्रजापतिः सविता सोमो अग्निः ॥६॥
(३,१५.७ ) उप त्वा नमसा वयं होतर्वैश्वानर स्तुमः ।
(३,१५.७ ) स नः प्रजास्वात्मसु गोषु प्राणेषु जागृहि ॥७॥
(३,१५.८ ) विश्वाहा ते सदमिद्भरेमाश्वायेव तिष्ठते जातवेदः ।
(३,१५.८ ) रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥८॥
(३,१६.१ ) प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना ।
(३,१६.१ ) प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हवामहे ॥१॥
(३,१६.२ ) प्रातर्जितं भगमुग्रं हवामहे वयं पुत्रमदितेर्यो विधर्ता ।
(३,१६.२ ) आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥२॥
(३,१६.३ ) भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन् नः ।
(३,१६.३ ) भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥३॥
(३,१६.४ ) उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् ।
(३,१६.४ ) उतोदितौ मघवन्त्सूर्यस्य वयं देवानां सुमतौ स्याम ॥४॥
(३,१६.५ ) भग एव भगवामस्तु देवस्तेना वयं भगवन्तः स्याम ।
(३,१६.५ ) तं त्वा भग सर्व इज्जोहवीमि स नो भग पुरएता भवेह ॥५॥
(३,१६.६ ) समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
(३,१६.६ ) अर्वाचीनं वसुविदं भगं मे रथमिवाश्वा वाजिन आ वहन्तु ॥६॥
(३,१६.७ ) अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुछन्तु भद्राः ।
(३,१६.७ ) घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥७॥
(३,१७.१ ) सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक्।
(३,१७.१ ) धीरा देवेषु सुम्नयौ ॥१॥
(३,१७.२ ) युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजम् ।
(३,१७.२ ) विराजः श्नुष्टिः सभरा असन् नो नेदीय इत्सृण्यः पक्वमा यवन् ॥२॥
(३,१७.३ ) लाङ्गलं पवीरवत्सुशीमं सोमसत्सरु ।
(३,१७.३ ) उदिद्वपतु गामविं प्रस्थावद्रथवाहनं पीबरीं च प्रफर्व्यम् ॥३॥
(३,१७.४ ) इन्द्रः सीतां नि गृह्णातु तां पूषाभि रक्षतु ।
(३,१७.४ ) सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥४॥
(३,१७.५ ) शुनं सुफाला वि तुदन्तु भूमिं शुनं कीनाशा अनु यन्तु वाहान् ।
(३,१७.५ ) शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्तमस्मै ॥५॥
(३,१७.६ ) शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् ।
(३,१७.६ ) शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥६॥
(३,१७.७ ) शुनासीरेह स्म मे जुषेथाम् ।
(३,१७.७ ) यद्दिवि चक्रथुः पयस्तेनेमामुप सिञ्चतम् ॥७॥
(३,१७.८ ) सीते वन्दामहे त्वार्वाची सुभगे भव ।
(३,१७.८ ) यथा नः सुमना असो यथा नः सुफला भुवः ॥८॥
(३,१७.९ ) घृतेन सीता मधुना समक्ता विश्वैर्देवैरनुमता मरुद्भिः ।
(३,१७.९ ) सा नः सीते पयसाभ्याववृत्स्वोर्जस्वती घृतवत्पिन्वमाना ॥९॥
(३,१८.१ ) इमां खनाम्योषधिं वीरुधां बलवत्तमाम् ।
(३,१८.१ ) यया सपत्नीं बाधते यया संविन्दते पतिम् ॥१॥
(३,१८.२ ) उत्तानपर्णे सुभगे देवजूते सहस्वति ।
(३,१८.२ ) सपत्नीं मे परा णुद पतिं मे केवलं कृधि ॥२॥
(३,१८.३ ) नहि ते नाम जग्राह नो अस्मिन् रमसे पतौ ।
(३,१८.३ ) परामेव परावतं सपत्नीं गमयामसि ॥३॥
(३,१८.४ ) उत्तराहमुत्तर उत्तरेदुत्तराभ्यः ।
(३,१८.४ ) अधः सपत्नी या ममाधरा साधराभ्यः ॥४॥
(३,१८.५ ) अहमस्मि सहमानाथो त्वमसि सासहिः ।
(३,१८.५ ) उभे सहस्वती भूत्वा सपत्नीं मे सहावहै ॥५॥
(३,१८.६ ) अभि तेऽधां सहमानामुप तेऽधां सहीयसीम् ।
(३,१८.६ ) मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु ॥६॥
(३,१९.१ ) संशितं म इदं ब्रह्म संशितं वीर्यं बलम् ।
(३,१९.१ ) संशितं क्षत्रमजरमस्तु जिष्णुर्येषामस्मि पुरोहितः ॥१॥
(३,१९.२ ) समहमेषां राष्ट्रं स्यामि समोजो वीर्यं बलम् ।
(३,१९.२ ) वृश्चामि शत्रूणां बाहून् अनेन हविषा अहम् ॥२॥
(३,१९.३ ) नीचैः पद्यन्तामधरे भवन्तु ये नः सूरिं मघवानं पृतन्यान् ।
(३,१९.३ ) क्षिणामि ब्रह्मणामित्रान् उन् नयामि स्वान् अहम् ॥३॥
(३,१९.४ ) तीक्ष्णीयांसः परशोरग्नेस्तीक्ष्णतरा उत ।
(३,१९.४ ) इन्द्रस्य वज्रात्तीक्ष्णीयांसो येषामस्मि पुरोहितः ॥४॥
(३,१९.५ ) एषामहमायुधा सं स्याम्येषां राष्ट्रं सुवीरं वर्धयामि ।
(३,१९.५ ) एषां क्षत्रमजरमस्तु जिष्ण्वेषां चित्तं विश्वेऽवन्तु देवाः ॥५॥
(३,१९.६ ) उद्धर्षन्तां मघवन् वाजिनान्युद्वीराणां जयतामेतु घोषः ।
(३,१९.६ ) पृथग्घोषा उलुलयः केतुमन्त उदीरताम् ।
(३,१९.६ ) देवा इन्द्रज्येष्ठा मरुतो यन्तु सेनया ॥६॥
(३,१९.७ ) प्रेता जयता नर उग्रा वः सन्तु बाहवः ।
(३,१९.७ ) तीक्ष्णेषवोऽबलधन्वनो हतोग्रायुधा अबलान् उग्रबाहवः ॥७॥
(३,१९.८ ) अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।
(३,१९.८ ) जय अमित्रान् प्र पद्यस्व जह्येषां वरंवरं मामीषां मोचि कश्चन ॥८॥
(३,२०.१ ) अयं ते योनिरृत्वियो यतो जातो अरोचथाः ।
(३,२०.१ ) तं जानन्न् अग्न आ रोहाधा नो वर्धय रयिम् ॥१॥
(३,२०.२ ) अग्ने अछा वदेह नः प्रत्यङ्नः सुमना भव ।
(३,२०.२ ) प्र णो यछ विशां पते धनदा असि नस्त्वम् ॥२॥
(३,२०.३ ) प्र णो यछत्वर्यमा प्र भगः प्र बृहस्पतिः ।
(३,२०.३ ) प्र देवीः प्रोत सूनृता रयिं देवी दधातु मे ॥३॥
(३,२०.४ ) सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे ।
(३,२०.४ ) आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥४॥
(३,२०.५ ) त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं वर्धय ।
(३,२०.५ ) त्वं नो देव दातवे रयिं दानाय चोदय ॥५॥
(३,२०.६ ) इन्द्रवायू उभाविह सुहवेह हवामहे ।
(३,२०.६ ) यथा नः सर्व इज्जनः संगत्यां सुमना असद्दानकामश्च नो भुवत्॥६॥
(३,२०.७ ) अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय ।
(३,२०.७ ) वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥७॥
(३,२०.८ ) वाजस्य नु प्रसवे सं बभूविमेमा च विश्वा भुवनानि अन्तः ।
(३,२०.८ ) उतादित्सन्तं दापयतु प्रजानन् रयिं च नः सर्ववीरं नि यछ ॥८॥
(३,२०.९ ) दुह्रां मे पञ्च प्रदिषो दुह्रामुर्वीर्यथाबलम् ।
(३,२०.९ ) प्रापेयं सर्वा आकूतीर्मनसा हृदयेन च ॥९॥
(३,२०.१० ) गोसनिं वाचमुदेयं वर्चसा माभ्युदिहि ।
(३,२०.१० ) आ रुन्धां सर्वतो वायुस्त्वष्टा पोषं दधातु मे ॥१०॥
(३,२१.१ ) ये अग्नयो अप्स्वन्तर्ये वृत्रे ये पुरुषे ये अश्मसु ।
(३,२१.१ ) य आविवेशोषधीर्यो वनस्पतींस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥१॥
(३,२१.२ ) यः सोमे अन्तर्यो गोष्वन्तर्य आविष्टो वयःसु यो मृगेषु ।
(३,२१.२ ) य आविवेश द्विपदो यस्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥२॥
(३,२१.३ ) य इन्द्रेण सरथं याति देवो वैश्वानर उत विश्वदाव्यः ।
(३,२१.३ ) यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥३॥
(३,२१.४ ) यो देवो विश्वाद्यमु काममाहुर्यं दातारं प्रतिगृह्णन्तमाहुः ।
(३,२१.४ ) यो धीरः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥४॥
(३,२१.५ ) यं त्वा होतारं मनसाभि संविदुस्त्रयोदश भौवनाः पञ्च मानवाः ।
(३,२१.५ ) वर्चोधसे यशसे सूनृतावते तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥५॥
(३,२१.६ ) उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
(३,२१.६ ) वैश्वानरज्येष्ठेभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥६॥
(३,२१.७ ) दिवं पृथिवीमन्वन्तरिक्षं ये विद्युतमनुसंचरन्ति ।
(३,२१.७ ) ये दिक्ष्वन्तर्ये वाते अन्तस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥७॥
(३,२१.८ ) हिरण्यपाणिं सवितारमिन्द्रं बृहस्पतिं वरुणं मित्रमग्निम् ।
(३,२१.८ ) विश्वान् देवान् अङ्गिरसो हवामहे इमं क्रव्यादं शमयन्त्वग्निम् ॥८॥
(३,२१.९ ) शान्तो अग्निः क्रव्याच्छान्तः पुरुषरेषणः ।
(३,२१.९ ) अथो यो विश्वदाव्यस्तं क्रव्यादमशीशमम् ॥९॥
(३,२१.१० ) ये पर्वताः सोमपृष्ठा आप उत्तानशीवरीः ।
(३,२१.१० ) वातः पर्जन्य आदग्निस्ते क्रव्यादमशीशमन् ॥१०॥
(३,२२.१ ) हस्तिवर्चसं प्रथतां बृहद्यशो अदित्या यत्तन्वः संबभूव ।
(३,२२.१ ) तत्सर्वे समदुर्मह्यमेतद्विश्वे देवा अदितिः सजोषाः ॥१॥
(३,२२.२ ) मित्रश्च वरुणश्चेन्द्रो रुद्रश्च चेततु ।
(३,२२.२ ) देवासो विश्वधायसस्ते माञ्जन्तु वर्चसा ॥२॥
(३,२२.३ ) येन हस्ती वर्चसा संबभूव येन राजा मनुष्येस्वप्स्वन्तः ।
(३,२२.३ ) येन देवा देवतामग्र आयन् तेन मामद्य वर्चसाग्ने वर्चस्विनं कृणु ॥३॥
(३,२२.४ ) यत्ते वर्चो जातवेदो बृहद्भवत्याहुतेः ।
(३,२२.४ ) यावत्सूर्यस्य वर्च आसुरस्य च हस्तिनः ।
(३,२२.४ ) तावन् मे अश्विना वर्च आ धत्तां पुष्करस्रजा ॥४॥
(३,२२.५ ) यावच्चतस्रः प्रदिशश्चक्षुर्यावत्समश्नुते ।
(३,२२.५ ) तावत्समैत्विन्द्रियं मयि तद्धस्तिवर्चसम् ॥५॥
(३,२२.६ ) हस्ती मृगाणां सुषदामतिष्ठावान् बभूव हि ।
(३,२२.६ ) तस्य भगेन वर्चसाभि षिञ्चामि मामहम् ॥६॥
(३,२३.१ ) येन वेहद्बभूविथ नाशयामसि तत्त्वत्।
(३,२३.१ ) इदं तदन्यत्र त्वदप दूरे नि दध्मसि ॥१॥
(३,२३.२ ) आ ते योनिं गर्भ एतु पुमान् बाण इवेषुधिम् ।
(३,२३.२ ) आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः ॥२॥
(३,२३.३ ) पुमांसं पुत्रं जनय तं पुमान् अनु जायताम् ।
(३,२३.३ ) भवासि पुत्राणां माता जातानां जनयाश्च यान् ॥३॥
(३,२३.४ ) यानि बद्राणि बीजान्यृषभा जनयन्ति च ।
(३,२३.४ ) तैस्त्वं पुत्रं विन्दस्व सा प्रसूर्धेनुका भव ॥४॥
(३,२३.५ ) कृणोमि ते प्राजापत्यमा योनिं गर्भ एतु ते ।
(३,२३.५ ) विन्दस्व त्वं पुत्रं नारि यस्तुभ्यं शमसच्छमु तस्मै त्वं भव ॥५॥
(३,२३.६ ) यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ।
(३,२३.६ ) तास्त्वा पुत्रविद्याय दैवीः प्रावन्त्वोषधयः ॥६॥
(३,२४.१ ) पयस्वतीरोषधयः पयस्वन् मामकं वचः ।
(३,२४.१ ) अथो पयस्वतीनामा भरेऽहं सहस्रशः ॥१॥
(३,२४.२ ) वेदाहं पयस्वन्तं चकार धान्यं बहु ।
(३,२४.२ ) संभृत्वा नाम यो देवस्तं वयं हवामहे योयो अयज्वनो गृहे ॥२॥
(३,२४.३ ) इमा याः पञ्च प्रदिशो मानवीः पञ्च कृष्टयः ।
(३,२४.३ ) वृष्टे शापं नदीरिवेह स्फातिं समावहान् ॥३॥
(३,२४.४ ) उदुत्सं शतधारं सहस्रधारमक्षितम् ।
(३,२४.४ ) एवास्माकेदं धान्यं सहस्रधारमक्षितम् ॥४॥
(३,२४.५ ) शतहस्त समाहर सहस्रहस्त सं किर ।
(३,२४.५ ) कृतस्य कार्यस्य चेह स्फातिं समावह ॥५॥
(३,२४.६ ) तिस्रो मात्रा गन्धर्वाणां चतस्रो गृहपत्न्याः ।
(३,२४.६ ) तासां या स्फातिमत्तमा तया त्वाभि मृशामसि ॥६॥
(३,२४.७ ) उपोहश्च समूहश्च क्षत्तारौ ते प्रजापते ।
(३,२४.७ ) ताविहा वहतां स्फातिं बहुं भूमानमक्षितम् ॥७॥
(३,२५.१ ) उत्तुदस्त्वोत्तुदतु मा धृथाः शयने स्वे ।
(३,२५.१ ) इषुः कामस्य या भीमा तया विध्यामि त्वा हृदि ॥१॥
(३,२५.२ ) आधीपर्णां कामशल्यामिषुं संकल्पकुल्मलाम् ।
(३,२५.२ ) तां सुसंनतां कृत्वा कामो विध्यतु त्वा हृदि ॥२॥
(३,२५.३ ) या प्लीहानं शोषयति कामस्येषुः सुसंनता ।
(३,२५.३ ) प्राचीनपक्षा व्योषा तया विध्यामि त्वा हृदि ॥३॥
(३,२५.४ ) शुचा विद्धा व्योषया शुष्कास्याभि सर्प मा ।
(३,२५.४ ) मृदुर्निमन्युः केवली प्रियवादिन्यनुव्रता ॥४॥
(३,२५.५ ) आजामि त्वाजन्या परि मातुरथो पितुः ।
(३,२५.५ ) यथा मम क्रतावसो मम चित्तमुपायसि ॥५॥
(३,२५.६ ) व्यस्यै मित्रावरुणौ हृदश्चित्तान्यस्यतम् ।
(३,२५.६ ) अथैनामक्रतुं कृत्वा ममैव कृणुतं वशे ॥६॥
(३,२६.१ ) येऽस्यां स्थ प्राच्यां दिशि हेतयो नाम देवास्तेषां वो अग्निरिषवः ।
(३,२६.१ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥१॥
(३,२६.२ ) येऽस्यां स्थ दक्षिणायां दिश्यविष्यवो नाम देवास्तेषां वः काम इषवः ।
(३,२६.२ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥२॥
(३,२६.३ ) येऽस्यां स्थ प्रतीच्यां दिशि वैराजा नाम देवास्तेषां व आप इषवः ।
(३,२६.३ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥३॥
(३,२६.४ ) येऽस्यां स्थोदीच्यां दिशि प्रविध्यन्तो नाम देवास्तेषां वो वात इषवः ।
(३,२६.४ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥४॥
(३,२६.५ ) येऽस्यां स्थ ध्रुवायां दिशि निलिम्पा नाम देवास्तेषां व ओषधीरिषवः ।
(३,२६.५ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥५॥
(३,२६.६ ) येऽस्यां स्थोर्ध्वायां दिश्यवस्वन्तो नाम देवास्तेषां वो बृहस्पतिरिषवः ।
(३,२६.६ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥६॥
(३,२७.१ ) प्राची दिगग्निरधिपतिरसितो रक्षितादित्या इषवः ।
(३,२७.१ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।
(३,२७.१ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥१॥
(३,२७.२ ) दक्षिणा दिगिन्द्रोऽधिपतिस्तिरश्चिराजी रक्षिता पितर इषवः ।
(३,२७.२ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।
(३,२७.२ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥२॥
(३,२७.३ ) प्रतीची दिग्वरुणोऽधिपतिः पृदाकू रक्षितान्नमिषवः ।
(३,२७.३ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।
(३,२७.३ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥३॥
(३,२७.४ ) उदीची दिक्सोमोऽधिपतिः स्वजो रक्षिताशनिरिषवः ।
(३,२७.४ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।
(३,२७.४ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥४॥
(३,२७.५ ) ध्रुवा दिग्विष्णुरधिपतिः कल्माषग्रीवो रक्षिता वीरुध इषवः ।
(३,२७.५ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।
(३,२७.५ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥५॥
(३,२७.६ ) ऊर्ध्वा दिग्बृहस्पतिरधिपतिः श्वित्रो रक्षिता वर्षमिषवः ।
(३,२७.६ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।
(३,२७.६ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥६॥
(३,२८.१ ) एकैकयैषा सृष्ट्या सं बभूव यत्र गा असृजन्त भूतकृतो विश्वरूपाः ।
(३,२८.१ ) यत्र विजायते यमिन्यपर्तुः सा पशून् क्षिणाति रिफती रुशती ॥१॥
(३,२८.२ ) एषा पशून्त्सं क्षिणाति क्रव्याद्भूत्वा व्यद्वरी ।
(३,२८.२ ) उतैनां ब्रह्मणे दद्यात्तथा स्योना शिवा स्यात्॥२॥
(३,२८.३ ) शिवा भव पुरुषेभ्यो गोभ्यो अश्वेभ्यः शिवा ।
(३,२८.३ ) शिवास्मै सर्वस्मै क्षेत्राय शिवा न इहैधि ॥३॥
(३,२८.४ ) इह पुष्टिरिह रस इह सहस्रसातमा भव ।
(३,२८.४ ) पशून् यमिनि पोषय ॥४॥
(३,२८.५ ) यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः ।
(३,२८.५ ) तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान् पशूंश्च ॥५॥
(३,२८.६ ) यत्रा सुहार्दां सुकृतामग्निहोत्रहुतां यत्र लोकः ।
(३,२८.६ ) तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान् पशूंश्च ॥६॥
(३,२९.१ ) यद्राजानो विभजन्त इष्टापूर्तस्य षोडशं यमस्यामी सभासदः ।
(३,२९.१ ) अविस्तस्मात्प्र मुञ्चति दत्तः शितिपात्स्वधा ॥१॥
(३,२९.२ ) सर्वान् कामान् पूरयत्याभवन् प्रभवन् भवन् ।
(३,२९.२ ) आकूतिप्रोऽविर्दत्तः शितिपान्न् नोप दस्यति ॥२॥
(३,२९.३ ) यो ददाति शितिपादमविं लोकेन संमितम् ।
(३,२९.३ ) स नाकमभ्यारोहति यत्र शुल्को न क्रियते अबलेन बलीयसे ॥३॥
(३,२९.४ ) पञ्चापूपं शितिपादमविं लोकेन संमितम् ।
(३,२९.४ ) प्रदातोप जीवति पितॄणां लोकेऽक्षितम् ॥४॥
(३,२९.५ ) पञ्चापूपं शितिपादमविं लोकेन संमितम् ।
(३,२९.५ ) प्रदातोप जीवति सूर्यामासयोरक्षितम् ॥५॥
(३,२९.६ ) इरेव नोप दस्यति समुद्र इव पयो महत्।
(३,२९.६ ) देवौ सवासिनाविव शितिपान् नोप दस्यति ॥६॥
(३,२९.७ ) क इदं कस्मा अदात्कामः कामायादात्।
(३,२९.७ ) कामो दाता कामः प्रतिग्रहीता कामः समुद्रमा विवेश ।
(३,२९.७ ) कामेन त्वा प्रति गृह्नामि कामैतत्ते ॥७॥
(३,२९.८ ) भूमिष्ट्वा प्रति गृह्णात्वन्तरिक्षमिदं महत्।
(३,२९.८ ) माहं प्राणेन मात्मना मा प्रजया प्रतिगृह्य वि राधिषि ॥८॥
(३,३०.१ ) सहृदयं सांमनस्यमविद्वेषं कृणोमि वः ।
(३,३०.१ ) अन्यो अन्यमभि हर्यत वत्सं जातमिवाघ्न्या ॥१॥
(३,३०.२ ) अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः ।
(३,३०.२ ) जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥२॥
(३,३०.३ ) मा भ्राता भ्रातरं द्विक्षन् मा स्वसारमुत स्वसा ।
(३,३०.३ ) सम्यञ्चः सव्रता भूत्वा वाचं वदत भद्रया ॥३॥
(३,३०.४ ) येन देवा न वियन्ति नो च विद्विषते मिथः ।
(३,३०.४ ) तत्कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ॥४॥
(३,३०.५ ) ज्यायस्वन्तश्चित्तिनो मा वि यौष्ट संराधयन्तः सधुराश्चरन्तः ।
(३,३०.५ ) अन्यो अन्यस्मै वल्गु वदन्त एत सध्रीचीनान् वः संमनसस्क्र्णोमि ॥५॥
(३,३०.६ ) समानी प्रपा सह वोऽन्नभागः समाने योक्त्रे सह वो युनज्मि ।
(३,३०.६ ) सम्यञ्चोऽग्निं सपर्यतारा नाभिमिवाभितः ॥६॥
(३,३०.७ ) सध्रीचीनान् वः संमनसस्कृणोम्येकश्नुष्टीन्त्संवननेन सर्वान् ।
(३,३०.७ ) देवा इवामृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु ॥७॥
(३,३१.१ ) वि देवा जरसावृतन् वि त्वमग्ने अरात्या ।
(३,३१.१ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥१॥
(३,३१.२ ) व्यार्त्या पवमानो वि शक्रः पापकृत्यया ।
(३,३१.२ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥२॥
(३,३१.३ ) वि ग्राम्याः पशव आरण्यैर्व्यापस्तृष्णयासरन् ।
(३,३१.३ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥३॥
(३,३१.४ ) वी मे द्यावापृथिवी इतो वि पन्थानो दिशंदिशम् ।
(३,३१.४ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥४॥
(३,३१.५ ) त्वष्टा दुहित्रे वहतुं युनक्तीतीदं विश्वं भुवनं वि याति ।
(३,३१.५ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥५॥
(३,३१.६ ) अग्निः प्राणान्त्सं दधाति चन्द्रः प्राणेन संहितः ।
(३,३१.६ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥६॥
(३,३१.७ ) प्राणेन विश्वतोवीर्यं देवाः सूर्यं समैरयन् ।
(३,३१.७ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥७॥
(३,३१.८ ) आयुष्मतामायुष्कृतां प्राणेन जीव मा मृथाः ।
(३,३१.८ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥८॥
(३,३१.९ ) प्राणेन प्राणतां प्राणेहैव भव मा मृथाः ।
(३,३१.९ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥९॥
(३,३१.१० ) उदायुषा समायुषोदोषधीनां रसेन ।
(३,३१.१० ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥१०॥
(३,३१.११ ) आ पर्जन्यस्य वृष्ट्योदस्थामामृता वयम् ।
(३,३१.११ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥११॥
(४,१.१ ) ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ।
(४,१.१ ) स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥१॥
(४,१.२ ) इयं पित्र्या राष्ट्र्येत्वग्रे प्रथमाय जनुषे भुवनेष्ठाः ।
(४,१.२ ) तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्तु प्रथमाय धास्यवे ॥२॥
(४,१.३ ) प्र यो जज्ञे विद्वान् अस्य बन्धुर्विश्वा देवानां जनिमा विवक्ति ।
(४,१.३ ) ब्रह्म ब्रह्मण उज्जभार मध्यान् निचैरुच्चैः स्वधा अभि प्र तस्थौ ॥३॥
(४,१.४ ) स हि विदः स पृथिव्या ऋतस्था मही क्षेमं रोदसी अस्कभायत्।
(४,१.४ ) महान् मही अस्कभायद्वि जातो द्यां सद्म पार्थिवं च रजः ॥४॥
(४,१.५ ) स भुध्न्यादाष्ट्र जनुषोऽभ्यग्रं बृहस्पतिर्देवता तस्य सम्राट्।
(४,१.५ ) अहर्यच्छुक्रं ज्योतिषो जनिष्टाथ द्युमन्तो वि वसन्तु विप्राः ॥५॥
(४,१.६ ) नूनं तदस्य काव्यो हिनोति महो देवस्य पूर्व्यस्य धाम ।
(४,१.६ ) एष जज्ञे बहुभिः साकमित्था पूर्वे अर्धे विषिते ससन् नु ॥६॥
(४,१.७ ) योऽथर्वाणं पितरं देवबन्धुं बृहस्पतिं नमसाव च गछात्।
(४,१.७ ) त्वं विश्वेषां जनिता यथासः कविर्देवो न दभायत्स्वधावान् ॥७॥
(४,२.१ ) य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
(४,२.१ ) योऽस्येशे द्विपदो यश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥१॥
(४,२.२ ) यः प्राणतो निमिषतो महित्वैको राजा जगतो बभूव ।
(४,२.२ ) यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥२॥
(४,२.३ ) यं क्रन्दसी अवतश्चस्कभाने भियसाने रोदसी अह्वयेथाम् ।
(४,२.३ ) यस्यासौ पन्था रजसो विमानः कस्मै देवाय हविषा विधेम ॥३॥
(४,२.४ ) यस्य द्यौरुर्वी पृथिवी च मही यस्याद उर्वन्तरिक्षम् ।
(४,२.४ ) यस्यासौ सूरो विततो महित्वा कस्मै देवाय हविषा विधेम ॥४॥
(४,२.५ ) यस्य विश्वे हिमवन्तो महित्वा समुद्रे यस्य रसामिदाहुः ।
(४,२.५ ) इमाश्च प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥५॥
(४,२.६ ) आपो अग्रे विश्वमावन् गर्भं दधाना अमृता ऋतज्ञाः ।
(४,२.६ ) यासु देवीष्वधि देव आसीत्कस्मै देवाय हविषा विधेम ॥६॥
(४,२.७ ) हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्।
(४,२.७ ) स दाधार पृथिवीमुत द्यां कस्मै देवाय हविषा विधेम ॥७॥
(४,२.८ ) आपो वत्सं जनयन्तीर्गर्भमग्रे समैरयन् ।
(४,२.८ ) तस्योत जायमानस्योल्ब आसीद्धिरण्ययः कस्मै देवाय हविषा विधेम ॥८॥
(४,३.१ ) उदितस्त्रयो अक्रमन् व्याघ्रः पुरुषो वृकः ।
(४,३.१ ) हिरुग्घि यन्ति सिन्धवो हिरुग्देवो वनस्पतिर्हिरुङ्नमन्तु शत्रवः ॥१॥
(४,३.२ ) परेणैतु पथा वृकः परमेणोत तस्करः ।
(४,३.२ ) परेण दत्वती रज्जुः परेणाघायुरर्षतु ॥२॥
(४,३.३ ) अक्ष्यौ च ते मुखं च ते व्याघ्र जम्भयामसि ।
(४,३.३ ) आत्सर्वान् विंशतिं नखान् ॥३॥
(४,३.४ ) व्याघ्रं दत्वतां वयं प्रथमं जम्भयामसि ।
(४,३.४ ) आदु ष्टेनमथो अहिं यातुधानमथो वृकम् ॥४॥
(४,३.५ ) यो अद्य स्तेन आयति स संपिष्टो अपायति ।
(४,३.५ ) पथामपध्वंसेनैत्विन्द्रो वज्रेण हन्तु तम् ॥५॥
(४,३.६ ) मूर्णा मृगस्य दन्ता अपिशीर्णा उ पृष्टयः ।
(४,३.६ ) निम्रुक्ते गोधा भवतु नीचायच्छशयुर्मृगः ॥६॥
(४,३.७ ) यत्संयमो न वि यमो वि यमो यन् न संयमः ।
(४,३.७ ) इन्द्रजाः सोमजा आथर्वणमसि व्याघ्रजम्भनम् ॥७॥
(४,४.१ ) यां त्वा गन्धर्वो अखनद्वरुणाय मृतभ्रजे ।
(४,४.१ ) तां त्वा वयं खनामस्योषधिं शेपहर्षणीम् ॥१॥
(४,४.२ ) उदुषा उदु सूर्य उदिदं मामकं वचः ।
(४,४.२ ) उदेजतु प्रजापतिर्वृषा शुष्मेण वाजिना ॥२॥
(४,४.३ ) यथा स्म ते विरोहतोऽभितप्तमिवानति ।
(४,४.३ ) ततस्ते शुष्मवत्तरमियं कृणोत्वोषधिः ॥३॥
(४,४.४ ) उच्छुष्मौषधीनां सारा ऋषभाणाम् ।
(४,४.४ ) सं पुंसामिन्द्र वृष्ण्यमस्मिन् धेहि तनूवशिन् ॥४॥
(४,४.५ ) अपां रसः प्रथमजोऽथो वनस्पतीनाम् ।
(४,४.५ ) उत सोमस्य भ्रातास्युतार्शमसि वृष्ण्यम् ॥५॥
(४,४.६ ) अद्याग्ने अद्य सवितरद्य देवि सरस्वति ।
(४,४.६ ) अद्यास्य ब्रह्मणस्पते धनुरिवा तानया पसः ॥६॥
(४,४.७ ) आहं तनोमि ते पसो अधि ज्यामिव धन्वनि ।
(४,४.७ ) क्रमस्वर्श इव रोहितमनवग्लायता सदा ॥७॥
(४,४.८ ) अश्वस्याश्वतरस्याजस्य पेत्वस्य च ।
(४,४.८ ) अथ ऋषभस्य ये वाजास्तान् अस्मिन् धेहि तनूवशिन् ॥८॥
(४,५.१ ) सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत्।
(४,५.१ ) तेना सहस्येना वयं नि जनान्त्स्वापयामसि ॥१॥
(४,५.२ ) न भूमिं वातो अति वाति नाति पश्यति कश्चन ।
(४,५.२ ) स्त्रियश्च सर्वाः स्वापय शुनश्चेन्द्रसखा चरन् ॥२॥
(४,५.३ ) प्रोष्ठेशयास्तल्पेशया नारीर्या वह्यशीवरीः ।
(४,५.३ ) स्त्रियो याः पुण्यगन्धयस्ताः सर्वाः स्वापयामसि ॥३॥
(४,५.४ ) एजदेजदजग्रभं चक्षुः प्राणमजग्रभम् ।
(४,५.४ ) अङ्गान्यजग्रभं सर्वा रात्रीणामतिशर्वरे ॥४॥
(४,५.५ ) य आस्ते यश्चरति यश्च तिष्ठन् विपश्यति ।
(४,५.५ ) तेषां सं दध्मो अक्षीणि यथेदं हर्म्यं तथा ॥५॥
(४,५.६ ) स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः ।
(४,५.६ ) स्वपन्त्वस्यै ज्ञातयः स्वप्त्वयमभितो जनः ॥६॥
(४,५.७ ) स्वप्न स्वप्नाभिकरणेन सर्वं नि स्वापया जनम् ।
(४,५.७ ) ओत्सूर्यमन्यान्त्स्वापयाव्युषं जागृतादहमिन्द्र इवारिष्टो अक्षितः ॥७॥
(४,६.१ ) ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः ।
(४,६.१ ) स सोमं प्रथमः पपौ स चकारारसं विषम् ॥१॥
(४,६.२ ) यावती द्यावापृथिवी वरिम्णा यावत्सप्त सिन्धवो वितष्ठिरे ।
(४,६.२ ) वाचं विषस्य दूषणीं तामितो निरवादिषम् ॥२॥
(४,६.३ ) सुपर्णस्त्वा गरुत्मान् विष प्रथममावयत्।
(४,६.३ ) नामीमदो नारूरुप उतास्मा अभवः पितुः ॥३॥
(४,६.४ ) यस्त आस्यत्पञ्चाङ्गुरिर्वक्राच्चिदधि धन्वनः ।
(४,६.४ ) अपस्कम्भस्य शल्यान् निरवोचमहं विषम् ॥४॥
(४,६.५ ) शल्याद्विषं निरवोचं प्राञ्जनादुत पर्णधेः ।
(४,६.५ ) अपाष्ठाच्छृङ्गात्कुल्मलान् निरवोचमहं विषम् ॥५॥
(४,६.६ ) अरसस्त इषो शल्योऽथो ते अरसं विषम् ।
(४,६.६ ) उतारसस्य वृक्षस्य धनुष्टे अरसारसम् ॥६॥
(४,६.७ ) ये अपीषन् ये अदिहन् य आस्यन् ये अवासृजन् ।
(४,६.७ ) सर्वे ते वध्रयः कृता वध्रिर्विषगिरिः कृतः ॥७॥
(४,६.८ ) वध्रयस्ते खनितारो वध्रिस्त्वमस्योषधे ।
(४,६.८ ) वध्रिः स पर्वतो गिरिर्यतो जातमिदं विषम् ॥८॥
(४,७.१ ) वारिदं वारयातै वरणावत्यामधि ।
(४,७.१ ) तत्रामृतस्यासिक्तं तेना ते वारये विषम् ॥१॥
(४,७.२ ) अरसं प्राच्यं विषमरसं यदुदीच्यम् ।
(४,७.२ ) अथेदमधराच्यं करम्भेण वि कल्पते ॥२॥
(४,७.३ ) करम्भं कृत्वा तिर्यं पीबस्पाकमुदारथिम् ।
(४,७.३ ) क्षुधा किल त्वा दुष्टनो जक्षिवान्त्स न रूरुपः ॥३॥
(४,७.४ ) वि ते मदं मदावति शरमिव पातयामसि ।
(४,७.४ ) प्र त्वा चरुमिव येषन्तं वचसा स्थापयामसि ॥४॥
(४,७.५ ) परि ग्राममिवाचितं वचसा स्थापयामसि ।
(४,७.५ ) तिष्ठा वृक्ष इव स्थाम्न्यभ्रिखाते न रूरुपः ॥५॥
(४,७.६ ) पवस्तैस्त्वा पर्यक्रीणन् दूर्शेभिरजिनैरुत ।
(४,७.६ ) प्रक्रीरसि त्वमोषधेऽभ्रिखाते न रूरुपः ॥६॥
(४,७.७ ) अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे ।
(४,७.७ ) वीरान् नो अत्र मा दभन् तद्व एतत्पुरो दधे ॥७॥
(४,८.१ ) भूतो भूतेषु पय आ दधाति स भूतानामधिपतिर्बभूव ।
(४,८.१ ) तस्य मृत्युश्चरति राजसूयं स राजा अनु मन्यतामिदम् ॥१॥
(४,८.२ ) अभि प्रेहि माप वेन उग्रश्चेत्ता सपत्नहा ।
(४,८.२ ) आ तिष्ठ मित्रवर्धन तुभ्यं देवा अधि ब्रुवन् ॥२॥
(४,८.३ ) आतिष्ठन्तं परि विश्वे अभूषं छ्रियं वसानश्चरति स्वरोचिः ।
(४,८.३ ) महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥३॥
(४,८.४ ) व्याघ्रो अधि वैयाघ्रे वि क्रमस्व दिशो महीः ।
(४,८.४ ) विशस्त्वा सर्वा वाञ्छन्त्वापो दिव्याः पयस्वतीः ॥४॥
(४,८.५ ) या आपो दिव्याः पयसा मदन्त्यन्तरिक्ष उत वा पृथिव्याम् ।
(४,८.५ ) तासां त्वा सर्वासामपामभि षिञ्चामि वर्चसा ॥५॥
(४,८.६ ) अभि त्वा वर्चसासिचन्न् आपो दिव्याः पयस्वतीः ।
(४,८.६ ) यथासो मित्रवर्धनस्तथा त्वा सविता करत्॥६॥
(४,८.७ ) एना व्याघ्रं परिषस्वजानाः सिंहं हिन्वन्ति महते सौभगाय ।
(४,८.७ ) समुद्रं न सुभुवस्तस्थिवांसं मर्मृज्यन्ते द्वीपिनमप्स्वन्तः ॥७॥
(४,९.१ ) एहि जीवं त्रायमाणं पर्वतस्यास्यक्ष्यम् ।
(४,९.१ ) विश्वेभिर्देवैर्दत्तं परिधिर्जीवनाय कम् ॥१॥
(४,९.२ ) परिपाणं पुरुषाणां परिपाणं गवामसि ।
(४,९.२ ) अश्वानामर्वतां परिपाणाय तस्थिषे ॥२॥
(४,९.३ ) उतासि परिपाणं यातुजम्भनमाञ्जन ।
(४,९.३ ) उतामृतस्य त्वं वेत्थाथो असि जीवभोजनमथो हरितभेषजम् ॥३॥
(४,९.४ ) यस्याञ्जन प्रसर्पस्यङ्गमङ्गं परुष्परुः ।
(४,९.४ ) ततो यक्ष्मं वि बाधस उग्रो मध्यमशीरिव ॥४॥
(४,९.५ ) नैनं प्राप्नोति शपथो न कृत्या नाभिशोचनम् ।
(४,९.५ ) नैनं विष्कन्धमश्नुते यस्त्वा बिभर्त्याञ्जन ॥५॥
(४,९.६ ) असन्मन्त्राद्दुष्वप्न्याद्दुष्कृताच्छमलादुत ।
(४,९.६ ) दुर्हार्दश्चक्षुषो घोरात्तस्मान् नः पाह्याञ्जन ॥६॥
(४,९.७ ) इदं विद्वान् आञ्जन सत्यं वक्ष्यामि नानृतम् ।
(४,९.७ ) सनेयमश्वं गामहमात्मानं तव पूरुष ॥७॥
(४,९.८ ) त्रयो दासा आञ्जनस्य तक्मा बलास आदहिः ।
(४,९.८ ) वर्षिष्ठः पर्वतानां त्रिककुन् नाम ते पिता ॥८॥
(४,९.९ ) यदाञ्जनं त्रैककुदं जातं हिमवतस्परि ।
(४,९.९ ) यातूंश्च सर्वाञ्जम्भयत्सर्वाश्च यातुधान्यः ॥९॥
(४,९.१० ) यदि वासि त्रैककुदं यदि यामुनमुच्यसे ।
(४,९.१० ) उभे ते भद्रे नाम्नी ताभ्यां नः पाह्याञ्जन ॥१०॥
(४,१०.१ ) वाताज्जातो अन्तरिक्षाद्विद्युतो ज्योतिषस्परि ।
(४,१०.१ ) स नो हिरण्यजाः शङ्खः कृशनः पात्वंहसः ॥१॥
(४,१०.२ ) यो अग्रतो रोचनानां समुद्रादधि जज्ञिषे ।
(४,१०.२ ) शङ्खेन हत्वा रक्षांस्यत्त्रिणो वि षहामहे ॥२॥
(४,१०.३ ) शङ्खेनामीवाममतिं शङ्खेनोत सदान्वाः ।
(४,१०.३ ) शङ्खो नो विश्वभेषजः कृशनः पात्वंहसः ॥३॥
(४,१०.४ ) दिवि जातः समुद्रजः सिन्धुतस्पर्याभृतः ।
(४,१०.४ ) स नो हिरण्यजाः शङ्ख आयुष्प्रतरणो मणिः ॥४॥
(४,१०.५ ) समुद्राज्जातो मणिर्वृत्राज्जातो दिवाकरः ।
(४,१०.५ ) सो अस्मान्त्सर्वतः पातु हेत्या देवासुरेभ्यः ॥५॥
(४,१०.६ ) हिरण्यानामेकोऽसि सोमात्त्वमधि जज्ञिषे ।
(४,१०.६ ) रथे त्वमसि दर्शत इषुधौ रोचनस्त्वं प्र ण आयूंषि तारिषत्॥६॥
(४,१०.७ ) देवानामस्थि कृशनं बभूव तदात्मन्वच्चरत्यप्स्वन्तः ।
(४,१०.७ ) तत्ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय कार्शनस्त्वाभि रक्षतु ॥७॥
(४,११.१ ) अनड्वान् दाधार पृथिवीमुत द्यामनड्वान् दाधारोर्वन्तरिक्षम् ।
(४,११.१ ) अनड्वान् दाधार प्रदिशः षडुर्वीरनड्वान् विश्वं भुवनमा विवेश ॥१॥
(४,११.२ ) अनड्वान् इन्द्रः स पशुभ्यो वि चष्टे त्रयां छक्रो वि मिमीते अध्वनः ।
(४,११.२ ) भूतं भविष्यद्भुवना दुहानः सर्वा देवानां चरति व्रतानि ॥२॥
(४,११.३ ) इन्द्रो जातो मनुष्येष्वन्तर्घर्मस्तप्तश्चरति शोशुचानः ।
(४,११.३ ) सुप्रजाः सन्त्स उदारे न सर्षद्यो नाश्नीयादनडुहो विजानन् ॥३॥
(४,११.४ ) अनड्वान् दुहे सुकृतस्य लोक ऐनं प्याययति पवमानः पुरस्तात्।
(४,११.४ ) पर्जन्यो धारा मरुत ऊधो अस्य यज्ञः पयो दक्षिणा दोहो अस्य ॥४॥
(४,११.५ ) यस्य नेशे यज्ञपतिर्न यज्ञो नास्य दातेशे न प्रतिग्रहीता ।
(४,११.५ ) यो विश्वजिद्विश्वभृद्विश्वकर्मा घर्मं नो ब्रूत यतमश्चतुष्पात्॥५॥
(४,११.६ ) येन देवाः स्वरारुरुहुर्हित्वा शरीरममृतस्य नाभिम् ।
(४,११.६ ) तेन गेष्म सुकृतस्य लोकं घर्मस्य व्रतेन तपसा यशस्यवः ॥६॥
(४,११.७ ) इन्द्रो रूपेणाग्निर्वहेन प्रजापतिः परमेष्ठी विराट्।
(४,११.७ ) विश्वानरे अक्रमत वैश्वानरे अक्रमतानदुह्यक्रमत ।
(४,११.७ ) सोऽदृंहयत सोऽधारयत ॥७॥
(४,११.८ ) मध्यमेतदनडुहो यत्रैष वह आहितः ।
(४,११.८ ) एतावदस्य प्राचीनं यावान् प्रत्यङ्समाहितः ॥८॥
(४,११.९ ) यो वेदानदुहो दोहान् सप्तानुपदस्वतः ।
(४,११.९ ) प्रजां च लोकं चाप्नोति तथा सप्तऋषयो विदुः ॥९॥
(४,११.१० ) पद्भिः सेदिमवक्रामन्न् इरां जङ्घाभिरुत्खिदन् ।
(४,११.१० ) स्रमेणानड्वान् कीलालं कीनाशश्चाभि गछतः ॥१०॥
(४,११.११ ) द्वादश वा एता रात्रीर्व्रत्या आहुः प्रजापतेः ।
(४,११.११ ) तत्रोप ब्रह्म यो वेद तद्वा अनडुहो व्रतम् ॥११॥
(४,११.१२ ) दुहे सायं दुहे प्रातर्दुहे मध्यंदिनं परि ।
(४,११.१२ ) दोहा ये अस्य संयन्ति तान् विद्मानुपदस्वतः ॥१२॥
(४,१२.१ ) रोहण्यसि रोहण्यस्थ्नश्छिन्नस्य रोहणी ।
(४,१२.१ ) रोहयेदमरुन्धति ॥१॥
(४,१२.२ ) यत्ते रिष्टं यत्ते द्युत्तमस्ति पेष्ट्रं त आत्मनि ।
(४,१२.२ ) धाता तद्भद्रया पुनः सं दधत्परुषा परुः ॥२॥
(४,१२.३ ) सं ते मज्जा मज्ज्ञा भवतु समु ते परुषा परुः ।
(४,१२.३ ) सं ते मांसस्य विस्रस्तं समस्थ्यपि रोहतु ॥३॥
(४,१२.४ ) मज्जा मज्ञा सं धीयतां चर्मणा चर्म रोहतु ।
(४,१२.४ ) असृक्ते अस्थि रोहतु मांसं मांसेन रोहतु ॥४॥
(४,१२.५ ) लोम लोम्ना सं कल्पया त्वचा सं कल्पया त्वचम् ।
(४,१२.५ ) असृक्ते अस्थि रोहतु छिन्नं सं धेह्योषधे ॥५॥
(४,१२.६ ) स उत्तिष्ठ प्रेहि प्र द्रव रथः सुचक्रः ।
(४,१२.६ ) सुपविः सुनाभिः प्रति तिष्ठोर्ध्वः ॥६॥
(४,१२.७ ) यदि कर्तं पतित्वा संशश्रे यदि वाश्मा प्रहृतो जघान ।
(४,१२.७ ) ऋभू रथस्येवाङ्गानि सं दधत्परुषा परुः ॥७॥
(४,१३.१ ) उत देवा अवहितं देवा उन् नयथा पुनः ।
(४,१३.१ ) उतागश्चक्रुषं देवा देवा जीवयथा पुनः ॥१॥
(४,१३.२ ) द्वाविमौ वातौ वात आ सिन्धोरा परावतः ।
(४,१३.२ ) दक्षं ते अन्य आवातु व्यन्यो वातु यद्रपः ॥२॥
(४,१३.३ ) आ वात वाहि भेषजं वि वात वाहि यद्रपः ।
(४,१३.३ ) त्वं हि विश्वभेषज देवानां दूत ईयसे ॥३॥
(४,१३.४ ) त्रायन्तामिमं देवास्त्रायन्तां मरुतां गणाः ।
(४,१३.४ ) त्रायन्तां विश्वा भूतानि यथायमरपा असत्॥४॥
(४,१३.५ ) आ त्वागमं शंतातिभिरथो अरिष्टतातिभिः ।
(४,१३.५ ) दक्षं त उग्रमाभारिषं परा यक्ष्मं सुवामि ते ॥५॥
(४,१३.६ ) अयं मे हस्तो भगवान् अयं मे भगवत्तरः ।
(४,१३.६ ) अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥६॥
(४,१३.७ ) हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी ।
(४,१३.७ ) अनामयित्नुभ्यां हस्ताभ्यां ताभ्यां त्वाभि मृशामसि ॥७॥
(४,१४.१ ) अजो ह्यग्नेरजनिष्ट शोकात्सो अपश्यज्जनितारमग्रे ।
(४,१४.१ ) तेन देवा देवतामग्रा आयन् तेन रोहान् रुरुहुर्मेध्यासः ॥१॥
(४,१४.२ ) क्रमध्वमग्निना नाकमुख्यान् हस्तेषु बिभ्रतः ।
(४,१४.२ ) दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम् ॥२॥
(४,१४.३ ) पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम् ।
(४,१४.३ ) दिवो नाकस्य पृष्ठात्स्वर्ज्योतिरगामहम् ॥३॥
(४,१४.४ ) स्वर्यन्तो नापेक्षन्त आ द्यां रोहन्ति रोदसी ।
(४,१४.४ ) यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे ॥४॥
(४,१४.५ ) अग्ने प्रेहि प्रथमो देवतानां चक्षुर्देवानामुत मानुषानाम् ।
(४,१४.५ ) इयक्षमाणा भृगुभिः सजोषाः स्वर्यन्तु यजमानाः स्वस्ति ॥५॥
(४,१४.६ ) अजमनज्मि पयसा घृतेन दिव्यं सुपर्नं पयसं बृहन्तम् ।
(४,१४.६ ) तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥६॥
(४,१४.७ ) पञ्चौदनं पञ्चभिरङ्गुलिभिर्दर्व्योद्धर पञ्चधैतमोदनम् ।
(४,१४.७ ) प्राच्यां दिशि शिरो अजस्य धेहि दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम् ॥७॥
(४,१४.८ ) प्रतीच्यां दिशि भसदमस्य धेह्युत्तरस्यां दिश्युत्तरं धेहि पार्श्वम् ।
(४,१४.८ ) ऊर्ध्वायां दिश्यजस्यानूकं धेहि दिशि ध्रुवायां धेहि पाजस्यमन्तरिक्षे मध्यतो मध्यमस्य ॥८॥
(४,१४.९ ) शृतमजं शृतया प्रोर्णुहि त्वचा सर्वैरङ्गैः संभृतं विश्वरूपम् ।
(४,१४.९ ) स उत्तिस्ठेतो अभि नाकमुत्तमं पद्भिश्चतुर्भिः प्रति तिष्ठ दिक्षु ॥९॥
(४,१५.१ ) समुत्पतन्तु प्रदिशो नभस्वतीः समभ्राणि वातजूतानि यन्तु ।
(४,१५.१ ) महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥१॥
(४,१५.२ ) समीक्षयन्तु तविषाः सुदानवोऽपां रसा ओषधीभिः सचन्ताम् ।
(४,१५.२ ) वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तामोषधयो विश्वरूपाः ॥२॥
(४,१५.३ ) समीक्षयस्व गायतो नभांस्यपां वेगासः पृथगुद्विजन्ताम् ।
(४,१५.३ ) वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तां वीरुधो विश्वरूपाः ॥३॥
(४,१५.४ ) गणास्त्वोप गायन्तु मारुताः पर्जन्य घोषिणः पृथक्।
(४,१५.४ ) सर्गा वर्षस्य वर्षतो वर्षन्तु पृथिवीमनु ॥४॥
(४,१५.५ ) उदीरयत मरुतः समुद्रतस्त्वेषो अर्को नभ उत्पातयाथ ।
(४,१५.५ ) महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥५॥
(४,१५.६ ) अभि क्रन्द स्तनयार्दयोदधिं भूमिं पर्जन्य पयसा समङ्धि ।
(४,१५.६ ) त्वया सृष्टं बहुलमैतु वर्षमाशारैषी कृशगुरेत्वस्तम् ॥६॥
(४,१५.७ ) सं वोऽवन्तु सुदानव उत्सा अजगरा उत ।
(४,१५.७ ) मरुद्भिः प्रच्युता मेघा वर्षन्तु पृथिवीमनु ॥७॥
(४,१५.८ ) आशामाशां वि द्योततां वाता वान्तु दिशोदिशः ।
(४,१५.८ ) मरुद्भिः प्रच्युता मेघाः सं यन्तु पृथिवीमनु ॥८॥
(४,१५.९ ) आपो विद्युदभ्रं वर्षं सं वोऽवन्तु सुदानव उत्सा अजगरा उत ।
(४,१५.९ ) मरुद्भिः प्रच्युता मेघाः प्रावन्तु पृथिवीमनु ॥९॥
(४,१५.१० ) अपामग्निस्तनूभिः संविदानो य ओषधीनामधिपा बभूव ।
(४,१५.१० ) स नो वर्षं वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस्परि ॥१०॥
(४,१५.११ ) प्रजापतिः सलिलादा समुद्रादाप ईरयन्न् उदधिमर्दयाति ।
(४,१५.११ ) प्र प्यायतां वृष्णो अश्वस्य रेतोऽर्वान् एतेन स्तनयित्नुनेहि ॥११॥
(४,१५.१२ ) अपो निषिञ्चन्न् असुरः पिता नः श्वसन्तु गर्गरा अपां वरुणाव नीचीरपः सृज ।
(४,१५.१२ ) वदन्तु पृश्निबाहवो मण्डूका इरिणानु ॥१२॥
(४,१५.१३ ) संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः ।
(४,१५.१३ ) वाचं पर्जन्यजिन्वितां प्र मण्दूका अवादिषुः ॥१३॥
(४,१५.१४ ) उपप्रवद मण्डूकि वर्षमा वद तादुरि ।
(४,१५.१४ ) मध्ये ह्रदस्य प्लवस्व विगृह्य चतुरः पदः ॥१४॥
(४,१५.१५ ) खण्वखा३ खैमखा३ मध्ये तदुरि ।
(४,१५.१५ ) वर्षं वनुध्वं पितरो मरुतां मन इछत ॥१५॥
(४,१५.१६ ) महान्तं कोशमुदचाभि षिञ्च सविद्युतं भवतु वातु वातः ।
(४,१५.१६ ) तन्वतां यज्ञं बहुधा विसृष्टा आनन्दिनीरोषधयो भवन्तु ॥१६॥
(४,१६.१ ) बृहन्न् एषामधिष्ठाता अन्तिकादिव पश्यति ।
(४,१६.१ ) य स्तायन् मन्यते चरन्त्सर्वं देवा इदं विदुः ॥१॥
(४,१६.२ ) यस्तिष्ठति चरति यश्च वञ्चति यो निलायं चरति यः प्रतङ्कम् ।
(४,१६.२ ) द्वौ संनिषद्य यन् मन्त्रयेते राजा तद्वेद वरुणस्तृतीयः ॥२॥
(४,१६.३ ) उतेयं भूमिर्वरुणस्य राज्ञ उतासौ द्यौर्बृहती दूरेअन्ता ।
(४,१६.३ ) उतो समुद्रौ वरुणस्य कुक्षी उतास्मिन्न् अल्प उदके निलीनः ॥३॥
(४,१६.४ ) उत यो द्यामतिसर्पात्परस्तान् न स मुच्यातै वरुणस्य राज्ञः ।
(४,१६.४ ) दिव स्पशः प्र चरन्तीदमस्य सहस्राक्षा अति पश्यन्ति भूमिम् ॥४॥
(४,१६.५ ) सर्वं तद्राजा वरुणो वि चष्टे यदन्तरा रोदसी यत्परस्तात्।
(४,१६.५ ) संख्याता अस्य निमिषो जनानामक्षान् इव श्वघ्नी नि मिनोति तानि ॥५॥
(४,१६.६ ) ये ते पाशा वरुण सप्तसप्त त्रेधा तिष्ठन्ति विषिता रुषन्तः ।
(४,१६.६ ) छिनन्तु सर्वे अनृतं वदन्तं यः सत्यवाद्यति तं सृजन्तु ॥६॥
(४,१६.७ ) शतेन पाशैरभि धेहि वरुणैनं मा ते मोच्यनृतवाङ्नृचक्षः ।
(४,१६.७ ) आस्तां जाल्म उदरं श्रंशयित्वा कोश इवाबन्धः परिकृत्यमानः ॥७॥
(४,१६.८ ) यः समाभ्यो वरुणो यो व्याभ्यो यः संदेश्यो वरुणो यो विदेश्यो ।
(४,१६.८ ) यो दैवो वरुणो यश्च मानुषः ॥८॥
(४,१६.९ ) तैस्त्वा सर्वैरभि ष्यामि पाशैरसावामुष्यायणामुष्याः पुत्र ।
(४,१६.९ ) तान् उ ते सर्वान् अनुसंदिशामि ॥९॥
(४,१७.१ ) ईशाणां त्वा भेषजानामुज्जेष आ रभामहे ।
(४,१७.१ ) चक्रे सहस्रवीर्यं सर्वस्मा ओषधे त्वा ॥१॥
(४,१७.२ ) सत्यजितं शपथयावनीं सहमानां पुनःसराम् ।
(४,१७.२ ) सर्वाः समह्व्योषधीरितो नः पारयादिति ॥२॥
(४,१७.३ ) या शशाप शपनेन याघं मूरमादधे ।
(४,१७.३ ) या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥३॥
(४,१७.४ ) यां ते चक्रुरामे पात्रे यां चक्रुर्नीललोहिते ।
(४,१७.४ ) आमे मांसे कृत्यां यां चक्रुस्तया कृत्याकृतो जहि ॥४॥
(४,१७.५ ) दौष्वप्न्यं दौर्जीवित्यं रक्षो अभ्वमराय्यः ।
(४,१७.५ ) दुर्णाम्नीः सर्वा दुर्वाचस्ता अस्मन् नाशयामसि ॥५॥
(४,१७.६ ) क्षुधामारं तृष्णामारमगोतामनपत्यताम् ।
(४,१७.६ ) अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥६॥
(४,१७.७ ) तृष्णामारं क्षुधामारमथो अक्षपराजयम् ।
(४,१७.७ ) अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥७॥
(४,१७.८ ) अपामार्ग ओषधीनां सर्वासामेक इद्वशी ।
(४,१७.८ ) तेन ते मृज्म आस्थितमथ त्वमगदश्चर ॥८॥
(४,१८.१ ) समं ज्योतिः सूर्येणाह्ना रात्री समावती ।
(४,१८.१ ) कृणोमि सत्यमूतयेऽरसाः सन्तु कृत्वरीः ॥१॥
(४,१८.२ ) यो देवाः कृत्यां कृत्वा हरादविदुषो गृहम् ।
(४,१८.२ ) वत्सो धारुरिव मातरं तं प्रत्यगुप पद्यताम् ॥२॥
(४,१८.३ ) अमा कृत्वा पाप्मानं यस्तेनान्यं जिघांसति ।
(४,१८.३ ) अश्मानस्तस्यां दग्धायां बहुलाः फट्करिक्रति ॥३॥
(४,१८.४ ) सहस्रधामन् विशिखान् विग्रीवां छायया त्वम् ।
(४,१८.४ ) प्रति स्म चक्रुषे कृत्यां प्रियां प्रियावते हर ॥४॥
(४,१८.५ ) अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् ।
(४,१८.५ ) यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥५॥
(४,१८.६ ) यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् ।
(४,१८.६ ) चकार भद्रमस्मभ्यमात्मने तपनं तु सः ॥६॥
(४,१८.७ ) अपामार्गोऽप मार्ष्टु क्षेत्रियं शपथश्च यः ।
(४,१८.७ ) अपाह यातुधानीरप सर्वा अराय्यः ॥७॥
(४,१८.८ ) अपमृज्य यातुधानान् अप सर्वा अराय्यः ।
(४,१८.८ ) अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥८॥
(४,१९.१ ) उतो अस्यबन्धुकृदुतो असि नु जामिकृत्।
(४,१९.१ ) उतो कृत्याकृतः प्रजां नदमिवा छिन्धि वार्षिकम् ॥१॥
(४,१९.२ ) ब्राह्मणेन पर्युक्तासि कण्वेन नार्षदेन ।
(४,१९.२ ) सेनेवैषि त्विषीमती न तत्र भयमस्ति यत्र प्राप्नोष्योषधे ॥२॥
(४,१९.३ ) अग्रमेष्योषधीनां ज्योतिषेवाभिदीपयन् ।
(४,१९.३ ) उत त्रातासि पाकस्याथो हन्तासि रक्षसः ॥३॥
(४,१९.४ ) यददो देवा असुरांस्त्वयाग्रे निरकुर्वत ।
(४,१९.४ ) ततस्त्वमध्योषधेऽपामार्गो अजायथाः ॥४॥
(४,१९.५ ) विभिन्दती शतशाखा विभिन्दन् नाम ते पिता ।
(४,१९.५ ) प्रत्यग्वि भिन्धि त्वं तं यो अस्मामभिदासति ॥५॥
(४,१९.६ ) असद्भूम्याः समभवत्तद्यामेति महद्व्यचः ।
(४,१९.६ ) तद्वै ततो विधूपायत्प्रत्यक्कर्तारमृछतु ॥६॥
(४,१९.७ ) प्रत्यङ्हि संबभूविथ प्रतीचीनफलस्त्वम् ।
(४,१९.७ ) सर्वान् मच्छपथामधि वरीयो यावया वधम् ॥७॥
(४,१९.८ ) शतेन मा परि पाहि सहस्रेणाभि रक्षा मा ।
(४,१९.८ ) इन्द्रस्ते वीरुधां पत उग्र ओज्मानमा दधत्॥८॥
(४,२०.१ ) आ पश्यति प्रति पश्यति परा पश्यति पश्यति ।
(४,२०.१ ) दिवमन्तरिक्षमाद्भूमिं सर्वं तद्देवि पश्यति ॥१॥
(४,२०.२ ) तिस्रो दिवस्तिस्रः पृथिवीः षट्चेमाः प्रदिशाः पृथक्।
(४,२०.२ ) त्वयाहं सर्वा भूतानि पश्यानि देव्योषधे ॥२॥
(४,२०.३ ) दिव्यस्य सुपर्णस्य तस्य हासि कनीनिका ।
(४,२०.३ ) सा भूमिमा रुरोहिथ वह्यं श्रान्ता वधूरिव ॥३॥
(४,२०.४ ) तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत्।
(४,२०.४ ) तयाहं सर्वं पश्यामि यश्च शूद्र उतार्यः ॥४॥
(४,२०.५ ) आविष्कृणुष्व रूपानि मात्मानमप गूहथाः ।
(४,२०.५ ) अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः ॥५॥
(४,२०.६ ) दर्शय मा यातुधानान् दर्शय यातुधान्यः ।
(४,२०.६ ) पिशाचान्त्सर्वान् दर्शयेति त्वा रभ ओषधे ॥६॥
(४,२०.७ ) कश्यपस्य चक्षुरसि शुन्याश्च चतुरक्ष्याः ।
(४,२०.७ ) वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्करः ॥७॥
(४,२०.८ ) उदग्रभं परिपाणाद्यातुधानं किमीदिनम् ।
(४,२०.८ ) तेनाहं सर्वं पश्याम्युत शूद्रमुतार्यम् ॥८॥
(४,२०.९ ) यो अन्तरिक्षेण पतति दिवं यश्च अतिसर्पति ।
(४,२०.९ ) भूमिं यो मन्यते नाथं तं पिशाचं प्र दर्शय ॥९॥
(४,२१.१ ) आ गावो अग्मन्न् उत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे ।
(४,२१.१ ) प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥१॥
(४,२१.२ ) इन्द्रो यज्वने गृणते च शिक्षत उपेद्ददाति न स्वं मुषायति ।
(४,२१.२ ) भूयोभूयो रयिमिदस्य वर्धयन्न् अभिन्ने खिल्ये नि दधाति देवयुम् ॥२॥
(४,२१.३ ) न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति ।
(४,२१.३ ) देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह ॥३॥
(४,२१.४ ) न ता अर्वा रेणुककाटोऽश्नुते न संस्कृतत्रमुप यन्ति ता अभि ।
(४,२१.४ ) उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥४॥
(४,२१.५ ) गावो भगो गाव इन्द्रो म इछाद्गाव सोमस्य प्रथमस्य भक्षः ।
(४,२१.५ ) इमा या गावः स जनास इन्द्र इछामि हृदा मनसा चिदिन्द्रम् ॥५॥
(४,२१.६ ) यूयं गावो मेदयथ कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम् ।
(४,२१.६ ) भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥६॥
(४,२१.७ ) प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।
(४,२१.७ ) मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥७॥
(४,२२.१ ) इममिन्द्र वर्धय क्षत्रियं मे इमं विशामेकवृषं कृणु त्वम् ।
(४,२२.१ ) निरमित्रान् अक्ष्णुह्यस्य सर्वांस्तान् रन्धयास्मा अहमुत्तरेषु ॥१॥
(४,२२.२ ) एमं भज ग्रामे अश्वेषु गोषु निष्टं भज यो अमित्रो अस्य ।
(४,२२.२ ) वर्ष्म क्षत्राणामयमस्तु राजेन्द्र शत्रुं रन्धय सर्वमस्मै ॥२॥
(४,२२.३ ) अयमस्तु धनपतिर्धनानामयं विशां विश्पतिरस्तु राजा ।
(४,२२.३ ) अस्मिन्न् इन्द्र महि वर्चांसि धेह्यवर्चसं कृणुहि शत्रुमस्य ॥३॥
(४,२२.४ ) अस्मै द्यावापृथिवी भूरि वामं दुहाथां घर्मदुघे इव धेनू ।
(४,२२.४ ) अयं राजा प्रिय इन्द्रस्य भूयात्प्रियो गवामोषधीनां पशूनाम् ॥४॥
(४,२२.५ ) युनज्मि त उत्तरावन्तमिन्द्रं येन जयन्ति न पराजयन्ते ।
(४,२२.५ ) यस्त्वा करदेकवृषं जनानामुत राज्ञामुत्तमं मानवानाम् ॥५॥
(४,२२.६ ) उत्तरस्त्वमधरे ते सपत्ना ये के च राजन् प्रतिशत्रवस्ते ।
(४,२२.६ ) एकवृष इन्द्रसखा जिगीवां छत्रूयतामा भरा भोजनानि ॥६॥
(४,२२.७ ) सिंहप्रतीको विशो अद्धि सर्वा व्याघ्रप्रतीकोऽव बाधस्व शत्रून् ।
(४,२२.७ ) एकवृष इन्द्रसखा जिगीवां छत्रूयतामा खिदा भोजनानि ॥७॥
(४,२३.१ ) अग्नेर्मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यमिन्धते ।
(४,२३.१ ) विशोविशः प्रविशिवांसमीमहे स नो मुञ्चत्वंहसः ॥१॥
(४,२३.२ ) यथा हव्यं वहसि जातवेदो यथा यज्ञं कल्पयसि प्रजानन् ।
(४,२३.२ ) एवा देवेभ्यः सुमतिं न आ वह स नो मुञ्चत्वंहसः ॥२॥
(४,२३.३ ) यामन्यामन्न् उपयुक्तं वहिष्ठं कर्मङ्कर्मन्न् आभगमग्निमीडे ।
(४,२३.३ ) रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्वंहसः ॥३॥
(४,२३.४ ) सुजातं जातवेदसमग्निं वैश्वानरं विभुम् ।
(४,२३.४ ) हव्यवाहं हवामहे स नो मुञ्चत्वंहसः ॥४॥
(४,२३.५ ) येन ऋषयो बलमद्योतयन् युजा येनासुराणामयुवन्त मायाः ।
(४,२३.५ ) येनाग्निना पणीन् इन्द्रो जिगाय स नो मुञ्चत्वंहसः ॥५॥
(४,२३.६ ) येन देवा अमृतमन्वविन्दन् येनौषधीर्मधुमतीरकृण्वन् ।
(४,२३.६ ) येन देवाः स्वराभरन्त्स नो मुञ्चत्वंहसः ॥६॥
(४,२३.७ ) यस्येदं प्रदिशि यद्विरोचते यज्जातं जनितव्यं च केवलम् ।
(४,२३.७ ) स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥७॥
(४,२४.१ ) इन्द्रस्य मन्महे शश्वदिदस्य मन्महे वृत्रघ्न स्तोमा उप मेम आगुः ।
(४,२४.१ ) यो दाशुषः सुकृतो हवमेति स नो मुञ्चत्वंहसः ॥१॥
(४,२४.२ ) य उग्रीणामुग्रबाहुर्ययुर्यो दानवानां बलमारुरोज ।
(४,२४.२ ) येन जिताः सिन्धवो येन गावः स नो मुञ्चत्वंहसः ॥२॥
(४,२४.३ ) यश्चर्षणिप्रो वृषभः स्वर्विद्यस्मै ग्रावाणः प्रवदन्ति नृम्णम् ।
(४,२४.३ ) यस्याध्वरः सप्तहोता मदिष्ठः स नो मुञ्चत्वंहसः ॥३॥
(४,२४.४ ) यस्य वशास ऋषभास उक्षणो यस्मै मीयन्ते स्वरवः स्वर्विदे ।
(४,२४.४ ) यस्मै शुक्रः पवते ब्रह्मशुम्भितः स नो मुञ्चत्वंहसः ॥४॥
(४,२४.५ ) यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुमन्तं गविष्टौ ।
(४,२४.५ ) यस्मिन्न् अर्कः शिश्रिये यस्मिन्न् ओजः स नो मुञ्चत्वंहसः ॥५॥
(४,२४.६ ) यः प्रथमः कर्मकृत्याय जज्ञे यस्य वीर्यं प्रथमस्यानुबुद्धम् ।
(४,२४.६ ) येनोद्यतो वज्रोऽभ्यायताहिं स नो मुञ्चत्वंहसः ॥६॥
(४,२४.७ ) यः संग्रामान् नयति सं युधे वशी यः पुष्टानि संसृजति द्वयानि ।
(४,२४.७ ) स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥७॥
(४,२५.१ ) वायोः सवितुर्विदथानि मन्महे यावात्मन्वद्विशथो यौ च रक्षथः ।
(४,२५.१ ) यौ विश्वस्य परिभू बभूवथुस्तौ नो मुञ्चतमंहसः ॥१॥
(४,२५.२ ) ययोः संख्याता वरिमा पार्हिवानि याभ्यां रजो युपितमन्तरिक्षे ।
(४,२५.२ ) ययोः प्रायं नान्वानशे कश्चन तौ नो मुञ्चतमंहसः ॥२॥
(४,२५.३ ) तव व्रते नि विशन्ते जनासस्त्वय्युदिते प्रेरते चित्रभानो ।
(४,२५.३ ) युवं वायो सविता च भुवनानि रक्षथस्तौ नो मुञ्चतमंहसः ॥३॥
(४,२५.४ ) अपेतो वायो सविता च दुष्कृतमप रक्षांसि शिमिदां च सेधतम् ।
(४,२५.४ ) सं ह्यूर्जया सृजथः सं बलेन तौ नो मुञ्चतमंहसः ॥४॥
(४,२५.५ ) रयिं मे पोषं सवितोत वायुस्तनू दक्षमा सुवतां सुशेवम् ।
(४,२५.५ ) अयक्ष्मतातिं मह इह धत्तं तौ नो मुञ्चतमंहसः ॥५॥
(४,२५.६ ) प्र सुमतिं सवितर्वाय ऊतये महस्वन्तं मत्सरं मादयाथः ।
(४,२५.६ ) अर्वाग्वामस्य प्रवतो नि यछतं तौ नो मुञ्चतमंहसः ॥६॥
(४,२५.७ ) उप श्रेष्ठा न आशिषो देवयोर्धामन्न् अस्थिरन् ।
(४,२५.७ ) स्तौमि देवं सवितारं च वायुं तौ नो मुञ्चन्त्वंहसः ॥७॥
(४,२६.१ ) मन्वे वां द्यावापृथिवी सुभोजसौ सचेतसौ ये अप्रथेथाममिता योजनानि ।
(४,२६.१ ) प्रतिष्ठे ह्यभवतं वसूनां ते नो मुञ्चतमंहसः ॥१॥
(४,२६.२ ) प्रतिष्ठे ह्यभवतं वसूनां प्रवृद्धे देवी सुभगे उरूची ।
(४,२६.२ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥२॥
(४,२६.३ ) असन्तापे सुतपसौ हुवेऽहमुर्वी गम्भीरे कविभिर्नमस्ये ।
(४,२६.३ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥३॥
(४,२६.४ ) ये अमृतं बिभृथो ये हवींषि ये स्रोत्या बिभृथो ये मनुष्यान् ।
(४,२६.४ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥४॥
(४,२६.५ ) ये उस्रिया बिभृथो ये वनस्पतीन् ययोर्वां विश्वा भुवनान्यन्तः ।
(४,२६.५ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥५॥
(४,२६.६ ) ये कीलालेन तर्पयथो ये घृतेन याभ्यामृते न किं चन शक्नुवन्ति ।
(४,२६.६ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥६॥
(४,२६.७ ) यन् मेदमभिशोचति येनयेन वा कृतं पौरुषेयान् न दैवात्।
(४,२६.७ ) स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमंहसः ॥७॥
(४,२७.१ ) मरुतां मन्वे अधि मे ब्रुवन्तु प्रेमं वाजं वाजसाते अवन्तु ।
(४,२७.१ ) आशून् इव सुयमान् अह्व ऊतये ते नो मुञ्चन्त्वंहसः ॥१॥
(४,२७.२ ) उत्समक्षितं व्यचन्ति ये सदा य आसिञ्चन्ति रसमोषधीषु ।
(४,२७.२ ) पुरो दधे मरुतः पृश्निमातॄंस्ते नो मुञ्चन्त्वंहसः ॥२॥
(४,२७.३ ) पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ ।
(४,२७.३ ) शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः ॥३॥
(४,२७.४ ) अपः समुद्राद्दिवमुद्वहन्ति दिवस्पृथिवीमभि ये सृजन्ति ।
(४,२७.४ ) ये अद्भिरीशाना मरुतश्चरन्ति ते नो मुञ्चन्त्वंहसः ॥४॥
(४,२७.५ ) ये कीलालेन तर्पयन्ति ये घृतेन ये वा वयो मेदसा संसृजन्ति ।
(४,२७.५ ) ये अद्भिरीशाना मरुतो वर्षयन्ति ते नो मुञ्चन्त्वंहसः ॥५॥
(४,२७.६ ) यदीदिदं मरुतो मारुतेन यदि देवा दैव्येनेदृगार ।
(४,२७.६ ) यूयमीशिध्वे वसवस्तस्य निष्कृतेस्ते नो मुञ्चन्त्वंहसः ॥६॥
(४,२७.७ ) तिग्ममनीकं विदितं सहस्वन् मारुतं शर्धः पृतनासूग्रम् ।
(४,२७.७ ) स्तौमि मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वंहसः ॥७॥
(४,२८.१ ) भवाशर्वौ मन्वे वां तस्य वित्तं ययोर्वामिदं प्रदिशि यद्विरोचते ।
(४,२८.१ ) यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥१॥
(४,२८.२ ) ययोरभ्यभ्व उत यद्दूरे चिद्यौ विदिताविषुभृतामसिष्ठौ ।
(४,२८.२ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥२॥
(४,२८.३ ) सहस्राक्षौ वृत्रहना हुवेहं दूरेगव्यूती स्तुवन्न् एम्युग्रौ ।
(४,२८.३ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥३॥
(४,२८.४ ) यावारेभाथे बहु साकमग्रे प्र चेदस्राष्ट्रमभिभां जनेषु ।
(४,२८.४ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥४॥
(४,२८.५ ) ययोर्वधान् नापपद्यते कश्चनान्तर्देवेषूत मानुषेषु ।
(४,२८.५ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥५॥
(४,२८.६ ) यः कृत्याकृन् मूलकृद्यातुधानो नि तस्मिन् धत्तं वज्रमुग्रौ ।
(४,२८.६ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥६॥
(४,२८.७ ) अधि नो ब्रूतं पृतनासूग्रौ सं वज्रेण सृजतं यः किमीदी ।
(४,२८.७ ) स्तौमि भवाशर्वौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥७॥
(४,२९.१ ) मन्वे वां मित्रावरुणावृतावृधौ सचेतसौ द्रुह्वणो यौ नुदेथे ।
(४,२९.१ ) प्र सत्यावानमवथो भरेषु तौ नो मुञ्चतमंहसः ॥१॥
(४,२९.२ ) सचेतसौ द्रुह्वणो यौ नुदेथे प्र सत्यावानमवथो भरेषु ।
(४,२९.२ ) यौ गछथो नृचक्षसौ बभ्रुणा सुतं तौ नो मुञ्चतमंहसः ॥२॥
(४,२९.३ ) यावङ्गिरसमवथो यावगस्तिं मित्रावरुणा जमदग्निमत्त्रिम् ।
(४,२९.३ ) यौ कश्यपमवथो यौ वसिष्ठं तौ नो मुञ्चतमंहसः ॥३॥
(४,२९.४ ) यौ श्यावाश्वमवथो वाध्र्यश्वं मित्रावरुणा पुरुमीढमत्त्रिम् ।
(४,२९.४ ) यौ विमदमवथो सप्तवध्रिं तौ नो मुञ्चतमंहसः ॥४॥
(४,२९.५ ) यौ भरद्वाजमवथो यौ गविष्ठिरं विश्वामित्रं वरुण मित्र कुत्सम् ।
(४,२९.५ ) यौ कक्षीवन्तमवथो प्रोत कण्वं तौ नो मुञ्चतमंहसः ॥५॥
(४,२९.६ ) यौ मेधातिथिमवथो यौ त्रिशोकं मित्रावरुणावुशनां काव्यं यौ ।
(४,२९.६ ) यौ गोतममवथो प्रोत मुग्दलं तौ नो मुञ्चतमंहसः ॥६॥
(४,२९.७ ) ययो रथः सत्यवर्त्म र्जुरश्मिर्मिथुया चरन्तमभियाति दूषयन् ।
(४,२९.७ ) स्तौमि मित्रावरुणौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥७॥
(४,३०.१ ) अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
(४,३०.१ ) अहं मित्रावरुनोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥
(४,३०.२ ) अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
(४,३०.२ ) तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तः ॥२॥
(४,३०.३ ) अहमेव स्वयमिदं वदामि जुष्टं देवानामुत मानुषाणाम् ।
(४,३०.३ ) यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥३॥
(४,३०.४ ) मया सोऽन्नमत्ति यो विपश्यति यः प्राणति य ईं शृणोत्युक्तम् ।
(४,३०.४ ) अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रुद्धेयं ते वदामि ॥४॥
(४,३०.५ ) अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
(४,३०.५ ) अहं जनाय समदं कृणोमि अहं द्यावापृथिवी आ विवेश ॥५॥
(४,३०.६ ) अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
(४,३०.६ ) अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते ॥६॥
(४,३०.७ ) अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे ।
(४,३०.७ ) ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥७॥
(४,३०.८ ) अहमेव वातैव प्र वाम्यारभमाणा भुवनानि विश्वा ।
(४,३०.८ ) परो दिवा पर एना पृथिव्यैतावती महिम्ना सं बभूव ॥८॥
(४,३१.१ ) त्वया मन्यो सरथमारुजन्तो हर्षमाणा हृषितासो मरुत्वन् ।
(४,३१.१ ) तिग्मेषव आयुधा संशिशाना उप प्र यन्तु नरो अग्निरूपाः ॥१॥
(४,३१.२ ) अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि ।
(४,३१.२ ) हत्वाय शत्रून् वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥२॥
(४,३१.३ ) सहस्व मन्यो अभिमातिमस्मै रुजन् मृणन् प्रमृणन् प्रेहि शत्रून् ।
(४,३१.३ ) उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयासा एकज त्वम् ॥३॥
(४,३१.४ ) एको बहूनामसि मन्य ईडिता विशंविशं युद्धाय सं शिशाधि ।
(४,३१.४ ) अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्मसि ॥४॥
(४,३१.५ ) विजेषकृदिन्द्र इवानवब्रवोऽस्माकं मन्यो अधिपा भवेह ।
(४,३१.५ ) प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥५॥
(४,३१.६ ) आभूत्या सहजा वज्र सायक सहो बिभर्षि सहभूत उत्तरम् ।
(४,३१.६ ) क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि ॥६॥
(४,३१.७ ) संसृष्टं धनमुभयं समाकृतमस्मभ्यं धत्तां वरुणश्च मन्युः ।
(४,३१.७ ) भियो दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥७॥
(४,३२.१ ) यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक्।
(४,३२.१ ) साह्याम दासमार्यं त्वया युजा वयं सहस्कृतेन सहसा सहस्वता ॥१॥
(४,३२.२ ) मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः ।
(४,३२.२ ) मन्युं विश ईडते मानुषीर्याः पहि नो मन्यो तपसा सजोषाः ॥२॥
(४,३२.३ ) अभीहि मन्यो तवसस्तवीयान् तपसा युजा वि जहि शत्रून् ।
(४,३२.३ ) अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥३॥
(४,३२.४ ) त्वं हि मन्यो अभिभूत्योजाः स्वयंभूर्भामो अभिमातिषाहः ।
(४,३२.४ ) विश्वचर्षणिः सहुरिः सहीयान् अस्मास्वोजः पृतनासु धेहि ॥४॥
(४,३२.५ ) अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः ।
(४,३२.५ ) तं त्वा मन्यो अक्रतुर्जिहीडाहं स्वा तनूर्बलदावा न एहि ॥५॥
(४,३२.६ ) अयं ते अस्म्युप न एह्यर्वाङ्प्रतीचीनः सहुरे विश्वदावन् ।
(४,३२.६ ) मन्यो वज्रिन्न् अभि न आ ववृत्स्व हनाव दस्यूंरुत बोध्यापेः ॥६॥
(४,३२.७ ) अभि प्रेहि दक्षिणतो भवा नोऽधा वृत्राणि जङ्घनाव भूरि ।
(४,३२.७ ) जुहोमि ते धरुणं मध्वो अग्रमुभावुपांशु प्रथमा पिबाव ॥७॥
(४,३३.१ ) अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम् ।
(४,३३.१ ) अप नः शोशुचदघम् ॥१॥
(४,३३.२ ) सुक्षेत्रिया सुगातुया वसूया च यजामहे ।
(४,३३.२ ) अप नः शोशुचदघम् ॥२॥
(४,३३.३ ) प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः ।
(४,३३.३ ) अप नः शोशुचदघम् ॥३॥
(४,३३.४ ) प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् ।
(४,३३.४ ) अप नः शोशुचदघम् ॥४॥
(४,३३.५ ) प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः ।
(४,३३.५ ) अप नः शोशुचदघम् ॥५॥
(४,३३.६ ) त्वं हि विश्वतोमुख विश्वतः परिभूरसि ।
(४,३३.६ ) अप नः शोशुचदघम् ॥६॥
(४,३३.७ ) द्विषो नो विश्वतोमुखाति नावेव पारय ।
(४,३३.७ ) अप नः शोशुचदघम् ॥७॥
(४,३३.८ ) स नः सिन्धुमिव नावाति पर्ष स्वस्तये ।
(४,३३.८ ) अप नः शोशुचदघम् ॥८॥
(४,३४.१ ) ब्रह्मास्य शीर्षं बृहदस्य पृष्ठं वामदेव्यमुदरमोदनस्य ।
(४,३४.१ ) छन्दांसि पक्षौ मुखमस्य सत्यं विष्टारी जातस्तपसोऽधि यज्ञः ॥१॥
(४,३४.२ ) अनस्थाः पूताः पवनेन शुद्धाः शुचयः शुचिमपि यन्ति लोकम् ।
(४,३४.२ ) नैषां शिश्नं प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणमेषाम् ॥२॥
(४,३४.३ ) विष्टारिणमोदनं ये पचन्ति नैनान् अवर्तिः सचते कदा चन ।
(४,३४.३ ) आस्ते यम उप याति देवान्त्सं गन्धर्वैर्मदते सोम्येभिः ॥३॥
(४,३४.४ ) विष्टारिणमोदनं ये पचन्ति नैनान् यमः परि मुष्णाति रेतः ।
(४,३४.४ ) रथी ह भूत्वा रथयान ईयते पक्षी ह भूत्वाति दिवः समेति ॥४॥
(४,३४.५ ) एष यज्ञानां विततो वहिष्ठो विष्टारिणं पक्त्वा दिवमा विवेश ।
(४,३४.५ ) आण्डीकं कुमुदं सं तनोति बिसं शालूकं शफको मुलाली ।
(४,३४.५ ) एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥५॥
(४,३४.६ ) घृतह्रदा मधुकूलाः सुरोदकाः क्षीरेण पूर्णा उदकेन दध्ना ।
(४,३४.६ ) एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥६॥
(४,३४.७ ) चतुरः कुम्भांश्चतुर्धा ददामि क्षीरेण पूर्नामुदकेन दध्ना ।
(४,३४.७ ) एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥७॥
(४,३४.८ ) इममोदनं नि दधे ब्राह्मणेषु विष्टारिणं लोकजितं स्वर्गम् ।
(४,३४.८ ) स मे मा क्षेष्ट स्वधया पिन्वमानो विश्वरूपा धेनुः कामदुघा मे अस्तु ॥८॥
(४,३५.१ ) यमोदनं प्रथमजा ऋतस्य प्रजापतिस्तपसा ब्रह्मणेऽपचत्।
(४,३५.१ ) यो लोकानां विधृतिर्नाभिरेषात्तेनौदनेनाति तराणि मृत्युम् ॥१॥
(४,३५.२ ) येनातरन् भूतकृतोऽति मृत्युं यमन्वविन्दन् तपसा श्रमेण ।
(४,३५.२ ) यं पपाच ब्रह्मणे ब्रह्म पूर्वं तेनौदनेनाति तराणि मृत्युम् ॥२॥
(४,३५.३ ) यो दाधार पृथिवीं विश्वभोजसं यो अन्तरिक्षमापृणाद्रसेन ।
(४,३५.३ ) यो अस्तभ्नाद्दिवमूर्ध्वो महिम्ना तेनौदनेनाति तराणि मृत्युम् ॥३॥
(४,३५.४ ) यस्मान् मासा निर्मितास्त्रिंशदराः संवत्सरो यस्मान् निर्मितो द्वादशारः ।
(४,३५.४ ) अहोरात्रा यं परियन्तो नापुस्तेनौदनेनाति तराणि मृत्युम् ॥४॥
(४,३५.५ ) यः प्राणदः प्राणदवान् बभूव यस्मै लोका घृतवन्तः क्षरन्ति ।
(४,३५.५ ) ज्योतिष्मतीः प्रदिशो यस्य सर्वास्तेनौदनेनाति तराणि मृत्युम् ॥५॥
(४,३५.६ ) यस्मात्पक्वादमृतं संबभूव यो गायत्र्या अधिपतिर्बभूव ।
(४,३५.६ ) यस्मिन् वेदा निहिता विश्वरूपास्तेनौदनेनाति तराणि मृत्युम् ॥६॥
(४,३५.७ ) अव बाधे द्विषन्तं देवपीयुं सपत्ना ये मेऽप ते भवन्तु ।
(४,३५.७ ) ब्रह्मौदनं विश्वजितं पचामि शृण्वन्तु मे श्रद्दधानस्य देवाः ॥७॥
(४,३६.१ ) तान्त्सत्यौजाः प्र दहत्वग्निर्वैश्वानरो वृषा ।
(४,३६.१ ) यो नो दुरस्याद्दिप्साच्चाथो यो नो अरातियात्॥१॥
(४,३६.२ ) यो नो दिप्साददिप्सतो दिप्सतो यश्च दिप्सति ।
(४,३६.२ ) वैश्वानरस्य दंष्ट्रयोरग्नेरपि दधामि तम् ॥२॥
(४,३६.३ ) य आगरे मृगयन्ते प्रतिक्रोशेऽमावास्ये ।
(४,३६.३ ) क्रव्यादो अन्यान् दिप्सतः सर्वांस्तान्त्सहसा सहे ॥३॥
(४,३६.४ ) सहे पिशाचान्त्सहसैषां द्रविणं ददे ।
(४,३६.४ ) सर्वान् दुरस्यतो हन्मि सं म आकूतिरृध्यताम् ॥४॥
(४,३६.५ ) ये देवास्तेन हासन्ते सूर्येण मिमते जवम् ।
(४,३६.५ ) नदीषु पर्वतेषु ये सं तैः पशुभिर्विदे ॥५॥
(४,३६.६ ) तपनो अस्मि पिशाचानां व्याघ्रो गोमतामिव ।
(४,३६.६ ) श्वानः सिंहमिव दृष्ट्वा ते न विन्दन्ते न्यञ्चनम् ॥६॥
(४,३६.७ ) न पिशाचैः सं शक्नोमि न स्तेनैः न वनर्गुभिः ।
(४,३६.७ ) पिशाचास्तस्मान् नश्यन्ति यमहं ग्राममाविशे ॥७॥
(४,३६.८ ) यं ग्राममाविशत इदमुग्रं सहो मम ।
(४,३६.८ ) पिशाचास्तस्मान् नश्यन्ति न पापमुप जानते ॥८॥
(४,३६.९ ) ये मा क्रोधयन्ति लपिता हस्तिनं मशका इव ।
(४,३६.९ ) तान् अहं मन्ये दुर्हितान् जने अल्पशयून् इव ॥९॥
(४,३६.१० ) अभि तं निरृतिर्धत्तामश्वमिव अश्वाभिधान्या ।
(४,३६.१० ) मल्वो यो मह्यं क्रुध्यति स उ पाशान् न मुच्यते ॥१०॥
(४,३७.१ ) त्वया पूर्वमथर्वाणो जघ्नू रक्षांस्योषधे ।
(४,३७.१ ) त्वया जघान कश्यपस्त्वया कण्वो अगस्त्यः ॥१॥
(४,३७.२ ) त्वया वयमप्सरसो गन्धर्वांस्चातयामहे ।
(४,३७.२ ) अजशृङ्ग्यज रक्षः सर्वान् गन्धेन नाशय ॥२॥
(४,३७.३ ) नदीं यन्त्वप्सरसोऽपां तारमवश्वसम् ।
(४,३७.३ ) गुल्गुलूः पीला नलद्यौक्षगन्धिः प्रमन्दनी ।
(४,३७.३ ) तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥३॥
(४,३७.४ ) यत्राश्वत्था न्यग्रोधा महावृक्षाः शिखण्डिनः ।
(४,३७.४ ) तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥४॥
(४,३७.५ ) यत्र वः प्रेङ्खा हरिता अर्जुना उत यत्राघाताः कर्कर्यः संवदन्ति ।
(४,३७.५ ) तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥५॥
(४,३७.६ ) एयमगन्न् ओषधीनां वीरुधां वीर्यावती ।
(४,३७.६ ) अजशृङ्ग्यराटकी तीक्ष्णशृङ्गी व्यृषतु ॥६॥
(४,३७.७ ) आनृत्यतः शिखण्डिनो गन्धर्वस्याप्सरापतेः ।
(४,३७.७ ) भिनद्मि मुष्कावपि यामि शेपः ॥७॥
(४,३७.८ ) भीमा इन्द्रस्य हेतयः शतमृष्टीरयस्मयीः ।
(४,३७.८ ) ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥८॥
(४,३७.९ ) भीमा इन्द्रस्य हेतयः शतमृष्टीर्हिरण्ययीः ।
(४,३७.९ ) ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥९॥
(४,३७.१० ) अवकादान् अभिशोचान् अप्सु ज्योतय मामकान् ।
(४,३७.१० ) पिशाचान्त्सर्वान् ओषधे प्र मृणीहि सहस्व च ॥१०॥
(४,३७.११ ) श्वेवैकः कपिरिवैकः कुमारः सर्वकेशकः ।
(४,३७.११ ) प्रियो दृश इव भूत्वा गन्धर्वः सचते स्त्रियस्।
(४,३७.११ ) तमितो नाशयामसि ब्रह्मणा वीर्यावता ॥११॥
(४,३७.१२ ) जाया इद्वो अप्सरसो गन्धर्वाः पतयो युयम् ।
(४,३७.१२ ) अप धावतामर्त्या मर्त्यान् मा सचध्वम् ॥१२॥
(४,३८.१ ) उद्भिन्दतीं संजयन्तीमप्सरां साधुदेविनीम् ।
(४,३८.१ ) ग्लहे कृतानि कृण्वानामप्सरां तामिह हुवे ॥१॥
(४,३८.२ ) विचिन्वतीमाकिरन्तीमप्सरां साधुदेविनीम् ।
(४,३८.२ ) ग्लहे कृतानि गृह्णानामप्सरां तामिह हुवे ॥२॥
(४,३८.३ ) यायैः परिनृत्यत्याददाना कृतं ग्लहात्।
(४,३८.३ ) सा नः कृतानि सीषती प्रहामाप्नोतु मायया ।
(४,३८.३ ) सा नः पयस्वत्यैतु मा नो जैषुरिदं धनम् ॥३॥
(४,३८.४ ) या अक्षेषु प्रमोदन्ते शुचं क्रोधं च बिभ्रती ।
(४,३८.४ ) आनन्दिनीं प्रमोदिनीमप्सरां तामिह हुवे ॥४॥
(४,३८.५ ) सूर्यस्य रश्मीन् अनु याः सञ्चरन्ति मरीचीर्वा या अनुसञ्चरन्ति ।
(४,३८.५ ) यासामृषभो दूरतो वाजिनीवान्त्सद्यः सर्वान् लोकान् पर्येति रक्षन् ।
(४,३८.५ ) स न ऐतु होममिमं जुसाणोऽन्तरिक्षेण सह वाजिनीवान् ॥५॥
(४,३८.६ ) अन्तरिक्षेन सह वाजिनीवन् कर्कीं वत्सामिह रक्ष वाजिन् ।
(४,३८.६ ) इमे ते स्तोका बहुला एह्यर्वाङियं ते कर्कीह ते मनोऽस्तु ॥६॥
(४,३८.७ ) अन्तरिक्षेण सह वाजिनीवन् कर्कीं वत्सामिह रक्ष वाजिन् ।
(४,३८.७ ) अयं घासो अयं व्रज इह वत्सां नि बध्नीमः ।
(४,३८.७ ) यथानाम व ईश्महे स्वाहा ॥७॥
(४,३९.१ ) पृथिव्यामग्नये समनमन्त्स आर्ध्नोत्।
(४,३९.१ ) यथा पृथिव्यामग्नये समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥१॥
(४,३९.२ ) पृथिवी धेनुस्तस्या अग्निर्वत्सः ।
(४,३९.२ ) सा मेऽग्निना वत्सेनेषमूर्जं कामं दुहाम् ।
(४,३९.२ ) आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥२॥
(४,३९.३ ) अन्तरिक्षे वायवे समनमन्त्स आर्ध्नोत्।
(४,३९.३ ) यथान्तरिक्षे वायवे समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥३॥
(४,३९.४ ) अन्तरिक्षं धेनुस्तस्या वत्सः ।
(४,३९.४ ) सा मे वायुना वत्सेनेषमूर्जं कामं दुहाम् ।
(४,३९.४ ) आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥४॥
(४,३९.५ ) दिव्यादित्याय समनमन्त्स आर्ध्नोत्।
(४,३९.५ ) यथा दिव्यादित्याय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥५॥
(४,३९.६ ) द्यौर्धेनुस्तस्या आदित्यो वत्सः ।
(४,३९.६ ) सा म आदित्येन वत्सेनेषमूर्जं कामं दुहाम् ।
(४,३९.६ ) आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥६॥
(४,३९.७ ) दिक्षु चन्द्राय समनमन्त्स आर्ध्नोत्।
(४,३९.७ ) यथा दिक्षु चन्द्राय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥७॥
(४,३९.८ ) दिशो धेनवस्तासां चन्द्रो वत्सः ।
(४,३९.८ ) ता मे चन्द्रेण वत्सेनेषमूर्जं कामं दुहामायुः प्रथमं प्रजां पोसं रयिं स्वाहा ॥८॥
(४,३९.९ ) अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अभिशस्तिपा उ ।
(४,३९.९ ) नमस्कारेण नमसा ते जुहोमि मा देवानां मिथुया कर्म भागम् ॥९॥
(४,३९.१० ) हृदा पूतं मनसा जातवेदो विश्वानि देव वयुनानि विद्वान् ।
(४,३९.१० ) सप्तास्यानि तव जातवेदस्तेभ्यो जुहोमि स जुषस्व हव्यम् ॥१०॥
(४,४०.१ ) ये पुरस्ताज्जुह्वति जातवेदः प्राच्या दिशोऽभिदासन्त्यस्मान् ।
(४,४०.१ ) अग्निमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥१॥
(४,४०.२ ) ये दक्षिणतो जुह्वति जातवेदो दक्षिणाया दिशोऽभिदासन्त्यस्मान् ।
(४,४०.२ ) यममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेना प्रतिसरेण हन्मि ॥२॥
(४,४०.३ ) ये पश्चाज्जुह्वति जातवेदः प्रतीच्या दिशोऽभिदासन्त्यस्मान् ।
(४,४०.३ ) वरुणमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥३॥
(४,४०.४ ) य उत्तरतो जुह्वति जातवेद उदीच्या दिशोऽभिदासन्त्यस्मान् ।
(४,४०.४ ) सोममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥४॥
(४,४०.५ ) येऽधस्ताज्जुह्वति जातवेद उदीच्या दिशोऽभिदासन्त्यस्मान् ।
(४,४०.५ ) भूमिमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥५॥
(४,४०.६ ) येऽन्तरिक्षाज्जुह्वति जातवेदो व्यध्वाया दिशोऽभिदासन्त्यस्मान् ।
(४,४०.६ ) वायुमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥६॥
(४,४०.७ ) य उपरिष्टाज्जुह्वति जातवेद ऊर्ध्वाया दिशोऽभिदासन्त्यस्मान् ।
(४,४०.७ ) सूर्यमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥७॥
(४,४०.८ ) ये दिशामन्तर्देशेभ्यो जुह्वति जातवेदः सर्वाभ्यो दिग्भ्योऽभिदासन्ति अस्मान् ।
(४,४०.८ ) ब्रह्म र्त्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥८॥
(५,१.१ ) ऋधङ्मन्त्रो योनिं य आबभूवामृतासुर्वर्धमानः सुजन्मा ।
(५,१.१ ) अदब्धासुर्भ्राजमानोऽहेव त्रितो धर्ता दाधार त्रीणि ॥१॥
(५,१.२ ) आ यो धर्माणि प्रथमः ससाद ततो वपूंषि कृणुषे पुरूणि ।
(५,१.२ ) धास्युर्योनिं प्रथम आ विवेशा यो वाचमनुदितां चिकेत ॥२॥
(५,१.३ ) यस्ते शोकाय तन्वं रिरेच क्षरद्धिरण्यं शुचयोऽनु स्वाः ।
(५,१.३ ) अत्रा दधेते अमृतानि नामास्मे वस्त्राणि विश एरयन्ताम् ॥३॥
(५,१.४ ) प्र यदेते प्रतरं पूर्व्यं गुः सदःसद आतिष्ठन्तो अजुर्यम् ।
(५,१.४ ) कविः शुषस्य मातरा रिहाणे जाम्यै धुर्यं पतिमेरयेथाम् ॥४॥
(५,१.५ ) तदू षु ते महत्पृथुज्मन् नमः कविः काव्येना कृणोमि ।
(५,१.५ ) यत्सम्यञ्चावभियन्तावभि क्षामत्रा मही रोधचक्रे वावृधेते ॥५॥
(५,१.६ ) सप्त मर्यादाः कवयस्ततक्षुस्तासामिदेकामभ्यंहुरो गात्।
(५,१.६ ) आयोर्ह स्कम्भ उपमस्य नीडे पथां विसर्गे धरुणेषु तस्थौ ॥६॥
(५,१.७ ) उतामृतासुर्व्रत एमि कृन्वन्न् असुरात्मा तन्वस्तत्सुमद्गुः ।
(५,१.७ ) उत वा शक्रो रत्नं दधात्यूर्जया वा यत्सचते हविर्दाः ॥७॥
(५,१.८ ) उत पुत्रः पितरं क्षत्रमीडे ज्येष्ठं मर्यादमह्वयन्त्स्वस्तये ।
(५,१.८ ) दर्शन् नु ता वरुण यास्ते विष्ठा आवर्व्रततः कृणवो वपूंषि ॥८॥
(५,१.९ ) अर्धमर्धेन पयसा पृणक्ष्यर्धेन शुष्म वर्धसे अमुर ।
(५,१.९ ) अविं वृधाम शग्मियं सखायं वरुणं पुत्रमदित्या इषिरम् ।
(५,१.९ ) कविशस्तान्यस्मै वपूंष्यवोचाम रोदसी सत्यवाचा ॥९॥
(५,२.१ ) तदिदास भुवनेषु ज्येष्ठं यतो यज्ञ उग्रस्त्वेषनृम्णः ।
(५,२.१ ) सद्यो जज्ञानो नि रिणाति शत्रून् अनु यदेनं मदन्ति विश्व ऊमाः ॥१॥
(५,२.२ ) ववृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।
(५,२.२ ) अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥२॥
(५,२.३ ) त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः ।
(५,२.३ ) स्वदोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥३॥
(५,२.४ ) यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः ।
(५,२.४ ) ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥४॥
(५,२.५ ) त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।
(५,२.५ ) चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥५॥
(५,२.६ ) नि तद्दधिषेऽवरे परे च यस्मिन्न् आविथावसा दुरोणे ।
(५,२.६ ) आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि ॥६॥
(५,२.७ ) स्तुष्व वर्ष्मन् पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम् ।
(५,२.७ ) आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥७॥
(५,२.८ ) इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्रियः स्वर्षाः ।
(५,२.८ ) महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥८॥
(५,२.९ ) एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव ।
(५,२.९ ) स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥९॥
(५,३.१ ) ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम ।
(५,३.१ ) मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥१॥
(५,३.२ ) अग्ने मन्युं प्रतिनुदन् परेषां त्वं नो गोपाः परि पाहि विश्वतः ।
(५,३.२ ) अपाञ्चो यन्तु निवता दुरस्यवोऽमैषां चित्तं प्रबुधां वि नेशत्॥२॥
(५,३.३ ) मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः ।
(५,३.३ ) ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामायास्मै ॥३॥
(५,३.४ ) मह्यं यजन्तां मम यानीष्टाकूतिः सत्या मनसो मे अस्तु ।
(५,३.४ ) एनो मा नि गां कतमच्चनाहं विश्वे देवा अभि रक्षन्तु मेह ॥४॥
(५,३.५ ) मयि देवा द्रविणमा यजन्तां मयि आशीरस्तु मयि देवहूतिः ।
(५,३.५ ) दैवाः होतारः सनिषन् न एतदरिष्टाः स्याम तन्वा सुवीराः ॥५॥
(५,३.६ ) दैवीः षडुर्वीरुरु नः कृणोत विश्वे देवास इह मादयध्वम् ।
(५,३.६ ) मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥६॥
(५,३.७ ) तिस्रो देवीर्महि नः शर्म यछत प्रजायै नस्तन्वे यच्च पुष्टम् ।
(५,३.७ ) मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥७॥
(५,३.८ ) उरुव्यचा नो महिषः शर्म यछत्वस्मिन् हवे पुरुहूतः पुरुक्षु ।
(५,३.८ ) स नः प्रजायै हर्यश्व मृडेन्द्र मा नो रीरिषो मा परा दाः ॥८॥
(५,३.९ ) धाता विधाता भुवनस्य यस्पतिर्देवः सविताभिमातिषाहः ।
(५,३.९ ) आदित्या रुद्रा अश्विनोभा देवाः पान्तु यजमानं निरृथात्॥९॥
(५,३.१० ) ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामह एनान् ।
(५,३.१० ) आदित्या रुद्रा उपरिस्पृशो नो उग्रं चेत्तारमधिराजमक्रत ॥१०॥
(५,३.११ ) अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः ।
(५,३.११ ) इमं नो यज्ञं विहवे शृणोत्वस्माकमभूर्हर्यश्व मेदी ॥११॥
(५,४.१ ) यो गिरिष्वजायथा वीरुधां बलवत्तमः ।
(५,४.१ ) कुष्ठेहि तक्मनाशन तक्मानं नाशयन्न् इतः ॥१॥
(५,४.२ ) सुपर्णसुवने गिरौ जातं हिमवतस्परि ।
(५,४.२ ) धनैरभि श्रुत्वा यन्ति विदुर्हि तक्मनाशनम् ॥२॥
(५,४.३ ) अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि ।
(५,४.३ ) तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥३॥
(५,४.४ ) हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि ।
(५,४.४ ) तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत ॥४॥
(५,४.५ ) हिरण्ययाः पन्थान आसन्न् अरित्राणि हिरण्यया ।
(५,४.५ ) नावो हिरण्ययीरासन् याभिः कुष्ठं निरावहन् ॥५॥
(५,४.६ ) इमं मे कुष्ठ पूरुषं तमा वह तं निष्कुरु ।
(५,४.६ ) तमु मे अगदं कृधि ॥६॥
(५,४.७ ) देवेभ्यो अधि जातोऽसि सोमस्यासि सखा हितः ।
(५,४.७ ) स प्राणाय व्यानाय चक्षुषे मे अस्मै मृड ॥७॥
(५,४.८ ) उदङ्जातो हिमवतः स प्राच्यां नीयसे जनम् ।
(५,४.८ ) तत्र कुष्ठस्य नामान्युत्तमानि वि भेजिरे ॥८॥
(५,४.९ ) उत्तमो नाम कुष्ठस्युत्तमो नाम ते पिता ।
(५,४.९ ) यक्ष्मं च सर्वं नाशय तक्मानं चारसं कृधि ॥९॥
(५,४.१० ) शीर्षामयमुपहत्यामक्ष्योस्तन्वो रपः ।
(५,४.१० ) कुष्ठस्तत्सर्वं निष्करद्दैवं समह वृष्ण्यम् ॥१०॥
(५,५.१ ) रात्री माता नभः पितार्यमा ते पितामहः ।
(५,५.१ ) सिलाची नाम वा असि सा देवानामसि स्वसा ॥१॥
(५,५.२ ) यस्त्वा पिबति जीवति त्रायसे पुरुषं त्वम् ।
(५,५.२ ) भर्त्री हि शश्वतामसि जनानां च न्यञ्चनी ॥२॥
(५,५.३ ) वृक्षंवृक्षमा रोहसि वृषण्यन्तीव कन्यला ।
(५,५.३ ) जयन्ती प्रत्यातिष्ठन्ती स्परणी नाम वा असि ॥३॥
(५,५.४ ) यद्दण्डेन यदिष्वा यद्वारुर्हरसा कृतम् ।
(५,५.४ ) तस्य त्वमसि निष्कृतिः सेमं निष्कृधि पूरुषम् ॥४॥
(५,५.५ ) भद्रात्प्लक्षान् निस्तिष्ठस्यश्वत्थात्खदिराद्धवात्।
(५,५.५ ) भद्रान् न्यग्रोधात्पर्णात्सा न एह्यरुन्धति ॥५॥
(५,५.६ ) हिरण्यवर्णे सुभगे सूर्यवर्णे वपुष्टमे ।
(५,५.६ ) रुतं गछासि निष्कृते निष्कृतिर्नाम वा असि ॥६॥
(५,५.७ ) हिरण्यवर्णे सुभगे शुष्मे लोमशवक्षने ।
(५,५.७ ) अपामसि स्वसा लाक्षे वातो हात्मा बभूव ते ॥७॥
(५,५.८ ) सिलाची नाम कानीनोऽजबभ्रु पिता तव ।
(५,५.८ ) अश्वो यमस्य यः श्यावस्तस्य हास्नास्युक्षिता ॥८॥
(५,५.९ ) अश्वस्यास्नः संपतिता सा वृक्षामभि सिष्यदे ।
(५,५.९ ) सरा पतत्रिणी भूत्वा सा न एह्यरुन्धति ॥९॥
(५,६.१ ) ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ।
(५,६.१ ) स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥१॥
(५,६.२ ) अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे ।
(५,६.२ ) वीरान् नो अत्र मा दभन् तद्व एतत्पुरो दधे ॥२॥
(५,६.३ ) सहस्रधार एव ते समस्वरन् दिवो नाके मधुजिह्वा असश्चतः ।
(५,६.३ ) तस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवे ॥३॥
(५,६.४ ) पर्यू षु प्र धन्वा वाजसातये परि वृत्राणि सक्षणिः ।
(५,६.४ ) द्विषस्तदध्यर्णवेनेयसे सनिस्रसो नामासि त्रयोदशो मास इन्द्रस्य गृहः ॥४॥
(५,६.५ ) न्वेतेनारात्सीरसौ स्वाहा ।
(५,६.५ ) तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥५॥
(५,६.६ ) अवैतेनारात्सीरसौ स्वाहा ।
(५,६.६ ) तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥६॥
(५,६.७ ) अपैतेनारात्सीरसौ स्वाहा ।
(५,६.७ ) तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥७॥
(५,६.८ ) मुमुक्तमस्मान् दुरितादवद्याज्जुषेथां यज्ञममृतमस्मासु धत्तम् ॥८॥
(५,६.९ ) चक्षुषो हेते मनसो हेते ब्रह्मणो हेते तपसश्च हेते ।
(५,६.९ ) मेन्या मेनिरस्यमेनयस्ते सन्तु येऽस्मामभ्यघायन्ति ॥९॥
(५,६.१० ) योऽस्मांश्चक्षुषा मनसा चित्त्याकूत्या च यो अघायुरभिदासात्।
(५,६.१० ) त्वं तान् अग्ने मेन्यामेनीन् कृणु स्वाहा ॥१०॥
(५,६.११ ) इन्द्रस्य गृहोऽसि ।
(५,६.११ ) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥११॥
(५,६.१२ ) इन्द्रस्य शर्मासि ।
(५,६.१२ ) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१२॥
(५,६.१३ ) इन्द्रस्य वर्मासि ।
(५,६.१३ ) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१३॥
(५,६.१४ ) इन्द्रस्य वरूथमसि ।
(५,६.१४ ) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१४॥
(५,७.१ ) आ नो भर मा परि ष्ठा अराते मा नो रक्षीर्दक्षिणां नीयमानाम् ।
(५,७.१ ) नमो वीर्त्साया असमृद्धये नमो अस्त्वरातये ॥१॥
(५,७.२ ) यमराते पुरोधत्से पुरुषं परिरापिणम् ।
(५,७.२ ) नमस्ते तस्मै कृण्मो मा वनिं व्यथयीर्मम ॥२॥
(५,७.३ ) प्र णो वनिर्देवकृता दिवा नक्तं च कल्पताम् ।
(५,७.३ ) अरातिमनुप्रेमो वयं नमो अस्त्वरातये ॥३॥
(५,७.४ ) सरस्वतीमनुमतिं भगं यन्तो हवामहे ।
(५,७.४ ) वाचं जुष्टां मधुमतीमवादिषं देवानां देवहूतिषु ॥४॥
(५,७.५ ) यं याचाम्यहं वाचा सरस्वत्या मनोयुजा ।
(५,७.५ ) श्रद्धा तमद्य विन्दतु दत्ता सोमेन बभ्रुणा ॥५॥
(५,७.६ ) मा वनिं मा वाचं नो वीर्त्सीरुभाविन्द्राग्नी आ भरतां नो वसूनि ।
(५,७.६ ) सर्वे नो अद्य दित्सन्तोऽरातिं प्रति हर्यत ॥६॥
(५,७.७ ) परोऽपेह्यसमृद्धे वि ते हेतिं नयामसि ।
(५,७.७ ) वेद त्वाहं निमीवन्तीं नितुदन्तीमराते ॥७॥
(५,७.८ ) उत नग्ना बोभुवती स्वप्नया सचसे जनम् ।
(५,७.८ ) अराते चित्तं वीर्त्सन्त्याकूतिं पुरुषस्य च ॥८॥
(५,७.९ ) या महती महोन्माना विश्वा आशा व्यानशे ।
(५,७.९ ) तस्यै हिरण्यकेश्यै निरृत्या अकरं नमः ॥९॥
(५,७.१० ) हिरण्यवर्णा सुभगा हिरण्यकशिपुर्मही ।
(५,७.१० ) तस्यै हिरण्यद्रापयेऽरात्या अकरं नमः ॥१०॥
(५,८.१ ) वैकङ्कतेनेध्मेन देवेभ्य आज्यं वह ।
(५,८.१ ) अग्ने तामिह मादय सर्व आ यन्तु मे हवम् ॥१॥
(५,८.२ ) इन्द्रा याहि मे हवमिदं करिष्यामि तच्छृणु ।
(५,८.२ ) इम ऐन्द्रा अतिसरा आकूतिं सं नमन्तु मे ।
(५,८.२ ) तेभिः शकेम वीर्यं जातवेदस्तनूवशिन् ॥२॥
(५,८.३ ) यदसावमुतो देवा अदेवः संश्चिकीर्षति ।
(५,८.३ ) मा तस्याग्निर्हव्यं वाक्षीद्धवं देवा अस्य मोप गुर्ममैव हवमेतन ॥३॥
(५,८.४ ) अति धावतातिसरा इन्द्रस्य वचसा हत ।
(५,८.४ ) अविं वृक इव मथ्नीत स वो जीवन् मा मोचि प्राणमस्यापि नह्यत ॥४॥
(५,८.५ ) यममी पुरोदधिरे ब्रह्माणमपभूतये ।
(५,८.५ ) इन्द्र स ते अधस्पदं तं प्रत्यस्यामि मृत्यवे ॥५॥
(५,८.६ ) यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे ।
(५,८.६ ) तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥६॥
(५,८.७ ) यान् असावतिसरांश्चकार कृणवच्च यान् ।
(५,८.७ ) त्वं तान् इन्द्र वृत्रहन् प्रतीचः पुनरा कृधि यथामुं तृणहां जनम् ॥७॥
(५,८.८ ) यथेन्द्र उद्वाचनं लब्ध्वा चक्रे अधस्पदम् ।
(५,८.८ ) कृण्वेऽहमधरान् तथा अमूञ्छश्वतीभ्यः समाभ्यः ॥८॥
(५,८.९ ) अत्रैनान् इन्द्र वृत्रहन्न् उग्रो मर्मणि विध्य ।
(५,८.९ ) अत्रैवैनान् अभि तिष्ठेन्द्र मेद्यहं तव ।
(५,८.९ ) अनु त्वेन्द्रा रभामहे स्याम सुमतौ तव ॥९॥
(५,९.१ ) दिवे स्वाहा ॥१॥
(५,९.२ ) पृथिव्यै स्वाहा ॥२॥
(५,९.३ ) अन्तरिक्षाय स्वाहा ॥३॥
(५,९.४ ) अन्तरिक्षाय स्वाहा ॥४॥
(५,९.५ ) दिवे स्वाहा ॥५॥
(५,९.६ ) पृथिव्यै स्वाहा ॥६॥
(५,९.७ ) सूर्यो मे चक्षुर्वातः प्राणोऽन्तरिक्षमात्मा पृथिवी शरीरम् ।
(५,९.७ ) अस्तृतो नामाहमयमस्मि स आत्मानं नि दधे द्यावापृथिवीभ्यां गोपीथाय ॥७॥
(५,९.८ ) उदायुरुद्बलमुत्कृतमुत्कृत्यामुन् मनीषामुदिन्द्रियम् ।
(५,९.८ ) आयुष्कृदायुष्पत्नी स्वधावन्तौ गोपा मे स्तं गोपायतं मा ।
(५,९.८ ) आत्मसदौ मे स्तं मा मा हिंसिष्टम् ॥८॥
(५,१०.१ ) अश्मवर्म मेऽसि यो मा प्राच्या दिशोऽघायुरभिदासात्।
(५,१०.१ ) एतत्स ऋछात्॥१॥
(५,१०.२ ) अश्मवर्म मेऽसि यो मा दक्षिणाया दिशोऽघायुरभिदासात्।
(५,१०.२ ) एतत्स ऋछात्॥२॥
(५,१०.३ ) अश्मवर्म मेऽसि यो मा प्रतीच्या दिशोऽघायुरभिदासात्।
(५,१०.३ ) एतत्स ऋछात्॥३॥
(५,१०.४ ) अश्मवर्म मेऽसि यो मोदीच्या दिशोऽघायुरभिदासात्।
(५,१०.४ ) एतत्स ऋछात्॥४॥
(५,१०.५ ) अश्मवर्म मेऽसि यो मा ध्रुवाया दिशोऽघायुरभिदासात्।
(५,१०.५ ) एतत्स ऋछात्॥५॥
(५,१०.६ ) अश्मवर्म मेऽसि यो मोर्ध्वाया दिशोऽघायुरभिदासात्।
(५,१०.६ ) एतत्स ऋछात्॥६॥
(५,१०.७ ) अश्मवर्म मेऽसि यो मा दिशामन्तर्देशेभ्योऽघायुरभिदासात्।
(५,१०.७ ) एतत्स ऋछात्॥७॥
(५,१०.८ ) बृहता मन उप ह्वये मातरिश्वना प्राणापानौ ।
(५,१०.८ ) सूर्याच्चक्षुरन्तरिक्षाच्छ्रोत्रं पृथिव्याः शरीरम् ।
(५,१०.८ ) सरस्वत्या वाचमुप ह्वयामहे मनोयुजा ॥८॥
(५,११.१ ) कथं महे असुरायाब्रवीरिह कथं पित्रे हरये त्वेषनृम्णः ।
(५,११.१ ) पृश्निं वरुण दक्षिणां ददावान् पुनर्मघ त्वं मनसाचिकित्सीः ॥१॥
(५,११.२ ) न कामेन पुनर्मघो भवामि सं चक्षे कं पृश्निमेतामुपाजे ।
(५,११.२ ) केन नु त्वमथर्वन् काव्येन केन जातेनासि जातवेदाः ॥२॥
(५,११.३ ) सत्यमहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः ।
(५,११.३ ) न मे दासो नार्यो महित्वा व्रतं मीमाय यदहं धरिष्ये ॥३॥
(५,११.४ ) न त्वदन्यः कवितरो न मेधया धीरतरो वरुण स्वधावन् ।
(५,११.४ ) त्वं ता विश्वा भुवनानि वेत्थ स चिन् नु त्वज्जनो मायी बिभाय ॥४॥
(५,११.५ ) त्वं ह्यङ्ग वरुण स्वधावन् विश्वा वेत्थ जनिम सुप्रणीते ।
(५,११.५ ) किं रजस एना परो अन्यदस्त्येना किं परेणावरममुर ॥५॥
(५,११.६ ) एकं रजस एना परो अन्यदस्त्येना पर एकेन दुर्णशं चिदर्वाक्।
(५,११.६ ) तत्ते विद्वान् वरुण प्र ब्रवीम्यधोवचसः पणयो भवन्तु नीचैर्दासा उप सर्पन्तु भूमिम् ॥६॥
(५,११.७ ) त्वं ह्यङ्ग वरुण ब्रवीषि पुनर्मघेष्ववद्यानि भूरि ।
(५,११.७ ) मो षु पणींरभ्येतावतो भून् मा त्वा वोचन्न् अराधसं जनासः ॥७॥
(५,११.८ ) मा मा वोचन्न् अराधसं जनासः पुनस्ते पृश्निं जरितर्ददामि ।
(५,११.८ ) स्तोत्रं मे विश्वमा याहि शचीभिरन्तर्विश्वासु मानुषीषु दिक्षु ॥८॥
(५,११.९ ) आ ते स्तोत्राण्युद्यतानि यन्त्वन्तर्विश्वासु मानुषीषु दिक्षु ।
(५,११.९ ) देहि नु मे यन् मे अदत्तो असि युज्यो मे सप्तपदः सखासि ॥९॥
(५,११.१० ) समा नौ बन्धुर्वरुण समा जा वेदाहं तद्यन् नावेषा समा जा ।
(५,११.१० ) ददामि तद्यत्ते अदत्तो अस्मि युज्यस्ते सप्तपदः सखास्मि ॥१०॥
(५,११.११ ) देवो देवाय गृणते वयोधा विप्रो विप्राय स्तुवते सुमेधाः ।
(५,११.११ ) अजीजनो हि वरुण स्वधावन्न् अथर्वाणं पितरं देवबन्धुम् ।
(५,११.११ ) तस्मा उ राधः कृणुहि सुप्रशस्तं सखा नो असि परमं च बन्धुः ॥११॥
(५,१२.१ ) समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः ।
(५,१२.१ ) आ च वह मित्रमहश्चिकित्वान् त्वं दूतः कविरसि प्रचेताः ॥१॥
(५,१२.२ ) तनूनपात्पथ ऋतस्य यानान् मध्वा समञ्जन्त्स्वदया सुजिह्व ।
(५,१२.२ ) मन्मानि धीभिरुत यज्ञमृन्धन् देवत्रा च कृणुह्यध्वरं नः ॥२॥
(५,१२.३ ) आजुह्वान ईड्यो बन्द्यश्चा याह्यग्ने वसुभिः सजोषाः ।
(५,१२.३ ) त्वं देवानामसि यह्व होता स एनान् यक्षीषितो यजीयान् ॥३॥
(५,१२.४ ) प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् ।
(५,१२.४ ) व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥४॥
(५,१२.५ ) व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।
(५,१२.५ ) देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥५॥
(५,१२.६ ) आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ ।
(५,१२.६ ) दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥६॥
(५,१२.७ ) दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।
(५,१२.७ ) प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥७॥
(५,१२.८ ) आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती ।
(५,१२.८ ) तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वतीः स्वपसः सदन्ताम् ॥८॥
(५,१२.९ ) य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा ।
(५,१२.९ ) तमद्य होतरिषितो यजीयान् देवं त्वष्टारमिह यक्षि विद्वान् ॥९॥
(५,१२.१० ) उपावसृज त्मन्या समञ्जन् देवानां पाथ ऋतुथा हवींषि ।
(५,१२.१० ) वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥१०॥
(५,१२.११ ) सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः ।
(५,१२.११ ) अस्य होतुः प्रशिष्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥११॥
(५,१३.१ ) ददिर्हि मह्यं वरुणो दिवः कविर्वचोभिरुग्रैर्नि रिणामि ते विषम् ।
(५,१३.१ ) खातमखातमुत सक्तमग्रभमिरेव धन्वन् नि जजास ते विषम् ॥१॥
(५,१३.२ ) यत्ते अपोदकं विषं तत्त एतास्वग्रभम् ।
(५,१३.२ ) गृह्णामि ते मध्यममुत्तमं रसमुतावमं भियसा नेशदादु ते ॥२॥
(५,१३.३ ) वृषा मे रवो नभसा न तन्यतुरुग्रेण ते वचसा बाध आदु ते ।
(५,१३.३ ) अहं तमस्य नृभिरग्रभं रसं तमस इव ज्योतिरुदेतु सूर्यः ॥३॥
(५,१३.४ ) चक्षुषा ते चक्षुर्हन्मि विषेण हन्मि ते विषम् ।
(५,१३.४ ) अहे म्रियस्व मा जीवीः प्रत्यगभ्येतु त्वा विषम् ॥४॥
(५,१३.५ ) कैरात पृश्न उपतृण्य बभ्र आ मे शृणुतासिता अलीकाः ।
(५,१३.५ ) मा मे सख्युः स्तामानमपि ष्ठाताश्रावयन्तो नि विषे रमध्वम् ॥५॥
(५,१३.६ ) असितस्य तैमातस्य बभ्रोरपोदकस्य च ।
(५,१३.६ ) सात्रासाहस्याहं मन्योरव ज्यामिव धन्वनो वि मुञ्चामि रथामिव ॥६॥
(५,१३.७ ) आलिगी च विलिगी च पिता च मता च ।
(५,१३.७ ) विद्म वः सर्वतो बन्ध्वरसाः किं करिष्यथ ॥७॥
(५,१३.८ ) उरुगूलाया दुहिता जाता दास्यसिक्न्या ।
(५,१३.८ ) प्रतङ्कं दद्रुषीणां सर्वासामरसं विषम् ॥८॥
(५,१३.९ ) कर्णा श्वावित्तदब्रवीद्गिरेरवचरन्तिका ।
(५,१३.९ ) याः काश्चेमाः खनित्रिमास्तासामरसतमं विषम् ॥९॥
(५,१३.१० ) ताबुवं न ताबुवं न घेत्त्वमसि ताबुवम् ।
(५,१३.१० ) ताबुवेनारसं विषम् ॥१०॥
(५,१३.११ ) तस्तुवं न तस्तुवं न घेत्त्वमसि तस्तुवम् ।
(५,१३.११ ) तस्तुवेनारसं विषम् ॥११॥
(५,१४.१ ) सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन् नसा ।
(५,१४.१ ) दिप्सौषधे त्वं दिप्सन्तमव कृत्याकृतं जहि ॥१॥
(५,१४.२ ) अव जहि यातुधानान् अव कृत्याकृतं जहि ।
(५,१४.२ ) अथो यो अस्मान् दिप्सति तमु त्वं जह्योषधे ॥२॥
(५,१४.३ ) रिश्यस्येव परीशासं परिकृत्य परि त्वचः ।
(५,१४.३ ) कृत्यां कृत्याकृते देवा निष्कमिव प्रति मुञ्चत ॥३॥
(५,१४.४ ) पुनः कृत्यां कृत्याकृते हस्तगृह्य परा णय ।
(५,१४.४ ) समक्षमस्मा आ धेहि यथा कृत्याकृतं हनत्॥४॥
(५,१४.५ ) कृत्याः सन्तु कृत्याकृते शपथः शपथीयते ।
(५,१४.५ ) सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥५॥
(५,१४.६ ) यदि स्त्री यदि वा पुमान् कृत्यां चकार पाप्मने ।
(५,१४.६ ) तामु तस्मै नयामस्यश्वमिवाश्वाभिधान्या ॥६॥
(५,१४.७ ) यदि वासि देवकृता यदि वा पुरुषैः कृता ।
(५,१४.७ ) तां त्वा पुनर्णयामसीन्द्रेण सयुजा वयम् ॥७॥
(५,१४.८ ) अग्ने पृतनाषाट्पृतनाः सहस्व ।
(५,१४.८ ) पुनः कृत्यां कृत्याकृते प्रतिहरणेन हरामसि ॥८॥
(५,१४.९ ) कृतव्यधनि विध्य तं यश्चकार तमिज्जहि ।
(५,१४.९ ) न त्वामचक्रुषे वयं वधाय सं शिशीमहि ॥९॥
(५,१४.१० ) पुत्र इव पितरं गछ स्वज इवाभिष्ठितो दश ।
(५,१४.१० ) बन्धमिवावक्रामी गछ कृत्ये कृत्याकृतं पुनः ॥१०॥
(५,१४.११ ) उदेणीव वारण्यभिस्कन्दं मृगीव ।
(५,१४.११ ) कृत्या कर्तारमृछतु ॥११॥
(५,१४.१२ ) इष्वा ऋजीयः पततु द्यावापृथिवी तं प्रति ।
(५,१४.१२ ) सा तं मृगमिव गृह्णातु कृत्या कृत्याकृतं पुनः ॥१२॥
(५,१४.१३ ) अग्निरिवैतु प्रतिकूलमनुकूलमिवोदकम् ।
(५,१४.१३ ) सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥१३॥
(५,१५.१ ) एका च मे दश च मेऽपवक्तार ओषधे ।
(५,१५.१ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥१॥
(५,१५.२ ) द्वे च मे विंशतिश्च मेऽपवक्तार ओषधे ।
(५,१५.२ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥२॥
(५,१५.३ ) तिस्रश्च मे त्रिंशच्च मेऽपवक्तार ओषधे ।
(५,१५.३ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥३॥
(५,१५.४ ) चतस्रश्च मे चत्वारिंशच्च मेऽपवक्तार ओषधे ।
(५,१५.४ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥४॥
(५,१५.५ ) पञ्च च मे पञ्चाशच्च मेऽपवक्तार ओषधे ।
(५,१५.५ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥५॥
(५,१५.६ ) षट्च मे षष्टिश्च मेऽपवक्तार ओषधे ।
(५,१५.६ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥६॥
(५,१५.७ ) सप्त च मे सप्ततिश्च मेऽपवक्तार ओषधे ।
(५,१५.७ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥७॥
(५,१५.८ ) अष्ट च मेऽशीतिश्च मेऽपवक्तार ओषधे ।
(५,१५.८ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥८॥
(५,१५.९ ) नव च मे नवतिश्च मेऽपवक्तार ओषधे ।
(५,१५.९ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥९॥
(५,१५.१० ) दश च मे शतं च मेऽपवक्तार ओषधे ।
(५,१५.१० ) ऋतजात ऋतावरि मधु मे मधुला करः ॥१०॥
(५,१५.११ ) शतं च मे सहस्रं चापवक्तार ओषधे ।
(५,१५.११ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥११॥
(५,१६.१ ) यद्येकवृषोऽसि सृजारसोऽसि ॥१॥
(५,१६.२ ) यदि द्विवृषोऽसि सृजारसोऽसि ॥२॥
(५,१६.३ ) यदि त्रिवृसोऽसि सृजारसोऽसि ॥३॥
(५,१६.४ ) यदि चतुर्वृषोऽसि सृजारसोऽसि ॥४॥
(५,१६.५ ) यदि पञ्चवृषोऽसि सृजारसोऽसि ॥५॥
(५,१६.६ ) यदि षड्वृषोऽसि सृजारसोऽसि ॥६॥
(५,१६.७ ) यदि सप्तवृषोऽसि सृजारसोऽसि ॥७॥
(५,१६.८ ) यद्यष्टवृषोऽसि सृजारसोऽसि ॥८॥
(५,१६.९ ) यदि नववृषोऽसि सृजारसोऽसि ॥९॥
(५,१६.१० ) यदि दशवृषोऽसि सृजारसोऽसि ॥१०॥
(५,१६.११ ) यद्येकादशोऽसि सोऽपोदकोऽसि ॥११॥
(५,१७.१ ) तेऽवदन् प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा ।
(५,१७.१ ) वीडुहरास्तप उग्रं मयोभूरापो देवीः प्रथमजा ऋतस्य ॥१॥
(५,१७.२ ) सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायछदहृणीयमानः ।
(५,१७.२ ) अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥२॥
(५,१७.३ ) हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेति चेदवोचत्।
(५,१७.३ ) न दूताय प्रहेया तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥३॥
(५,१७.४ ) यामाहुस्तारकैषा विकेशीति दुछुनां ग्राममवपद्यमानाम् ।
(५,१७.४ ) सा ब्रह्मजाया वि दुनोति राष्ट्रं यत्र प्रापादि शश उल्कुषीमान् ॥४॥
(५,१७.५ ) ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् ।
(५,१७.५ ) तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥५॥
(५,१७.६ ) देवा वा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसा ये निषेदुः ।
(५,१७.६ ) भीमा जाया ब्राह्मणस्यापनीता दुर्धां दधाति परमे व्योमन् ॥६॥
(५,१७.७ ) ये गर्भा अवपद्यन्ते जगद्यच्चापलुप्यते ।
(५,१७.७ ) वीरा ये तृह्यन्ते मिथो ब्रह्मजाया हिनस्ति तान् ॥७॥
(५,१७.८ ) उत यत्पतयो दश स्त्रियाः पूर्वे अब्राह्मणाः ।
(५,१७.८ ) ब्रह्मा चेद्धस्तमग्रहीत्स एव पतिरेकधा ॥८॥
(५,१७.९ ) ब्राह्मण एव पतिर्न राजन्यो न वैश्यः ।
(५,१७.९ ) तत्सूर्यः प्रब्रुवन्न् एति पञ्चभ्यो मानवेभ्यः ॥९॥
(५,१७.१० ) पुनर्वै देवा अददुः पुनर्मनुष्या अददुः ।
(५,१७.१० ) राजानः सत्यं गृह्णाना ब्रह्मजायां पुनर्ददुः ॥१०॥
(५,१७.११ ) पुनर्दाय ब्रह्मजायां कृत्वा देवैर्निकिल्बिषम् ।
(५,१७.११ ) ऊर्जं पृथिव्या भक्त्वोरुगायमुपासते ॥११॥
(५,१७.१२ ) नास्य जाया शतवाही कल्याणी तल्पमा शये ।
(५,१७.१२ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१२॥
(५,१७.१३ ) न विकर्णः पृथुशिरास्तस्मिन् वेश्मनि जायते ।
(५,१७.१३ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१३॥
(५,१७.१४ ) नास्य क्षत्ता निष्कग्रीवः सूनानामेत्यग्रतः ।
(५,१७.१४ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१४॥
(५,१७.१५ ) नास्य श्वेतः कृष्णकर्णो धुरि युक्तो महीयते ।
(५,१७.१५ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१५॥
(५,१७.१६ ) नास्य क्षेत्रे पुष्करिणी नाण्डीकं जायते बिसम् ।
(५,१७.१६ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१६॥
(५,१७.१७ ) नास्मै पृश्निं वि दुहन्ति येऽस्या दोहमुपासते ।
(५,१७.१७ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१७॥
(५,१७.१८ ) नास्य धेनुः कल्याणी नानड्वान्त्सहते धुरम् ।
(५,१७.१८ ) विजानिर्यत्र ब्रह्मणो रात्रिं वसति पापया ॥१८॥
(५,१८.१ ) नैतां ते देवा अददुस्तुभ्यं नृपते अत्तवे ।
(५,१८.१ ) मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम् ॥१॥
(५,१८.२ ) अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः ।
(५,१८.२ ) स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः ॥२॥
(५,१८.३ ) आविष्टिताघविषा पृदाकूरिव चर्मणा ।
(५,१८.३ ) सा ब्राह्मणस्य राजन्य तृष्टैषा गौरनाद्या ॥३॥
(५,१८.४ ) निर्वै क्षत्रं नयति हन्ति वर्चोऽग्निरिवारब्धो वि दुनोति सर्वम् ।
(५,१८.४ ) यो ब्राह्मणं मन्यते अन्नमेव स विषस्य पिबति तैमातस्य ॥४॥
(५,१८.५ ) य एनं हन्ति मृदुं मन्यमानो देवपीयुर्धनकामो न चित्तात्।
(५,१८.५ ) सं तस्येन्द्रो हृदयेऽग्निमिन्धे उभे एनं द्विष्टो नभसी चरन्तम् ॥५॥
(५,१८.६ ) न ब्राह्मणो हिंसितव्योऽग्निः प्रियतनोरिव ।
(५,१८.६ ) सोमो ह्यस्य दायाद इन्द्रो अस्याभिशस्तिपाः ॥६॥
(५,१८.७ ) शतापाष्ठां नि गिरति तां न शक्नोति निःखिदम् ।
(५,१८.७ ) अन्नं यो ब्रह्मणां मल्वः स्वाद्वद्मीति मन्यते ॥७॥
(५,१८.८ ) जिह्वा ज्या भवति कुल्मलं वाङ्नाडीका दन्तास्तपसाभिदिग्धाः ।
(५,१८.८ ) तेभिर्ब्रह्मा विध्यति देवपीयून् हृद्बलैर्धनुर्भिर्देवजूतैः ॥८॥
(५,१८.९ ) तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो यामस्यन्ति शरव्यां न सा मृषा ।
(५,१८.९ ) अनुहाय तपसा मन्युना चोत दुरादव भिन्दन्त्येनम् ॥९॥
(५,१८.१० ) ये सहस्रमराजन्न् आसन् दशशता उत ।
(५,१८.१० ) ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन् ॥१०॥
(५,१८.११ ) गौरेव तान् हन्यमाना वैतहव्यामवातिरत्।
(५,१८.११ ) ये केसरप्राबन्धायाश्चरमाजामपेचिरन् ॥११॥
(५,१८.१२ ) एकशतं ता जनता या भूमिर्व्यधूनुत ।
(५,१८.१२ ) प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥१२॥
(५,१८.१३ ) देवपीयुश्चरति मर्त्येषु गरगीर्णो भवत्यस्थिभूयान् ।
(५,१८.१३ ) यो ब्राह्मणं देवबन्धुं हिनस्ति न स पितृयाणमप्येति लोकम् ॥१३॥
(५,१८.१४ ) अग्निर्वै नः पदवायः सोमो दायाद उच्यते ।
(५,१८.१४ ) हन्ताभिशस्तेन्द्रस्तथा तद्वेधसो विदुः ॥१४॥
(५,१८.१५ ) इषुरिव दिग्धा नृपते पृदाकूरिव गोपते ।
(५,१८.१५ ) सा ब्राह्मणस्येषुर्घोरा तया विध्यति पीयतः ॥१५॥
(५,१९.१ ) अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन् ।
(५,१९.१ ) भृगुं हिंसित्वा सृञ्जया वैतहव्याः पराभवन् ॥१॥
(५,१९.२ ) ये बृहत्सामानमाङ्गिरसमार्पयन् ब्राह्मणं जनाः ।
(५,१९.२ ) पेत्वस्तेषामुभयादमविस्तोकान्यावयत्॥२॥
(५,१९.३ ) ये ब्राह्मणं प्रत्यष्ठीवन् ये वास्मिञ्छुल्कमीषिरे ।
(५,१९.३ ) अस्नस्ते मध्ये कुल्यायाः केशान् खादन्त आसते ॥३॥
(५,१९.४ ) ब्रह्मगवी पच्यमाना यावत्साभि विजङ्गहे ।
(५,१९.४ ) तेजो राष्ट्रस्य निर्हन्ति न वीरो जायते वृषा ॥४॥
(५,१९.५ ) क्रूरमस्या आशसनं तृष्टं पिशितमस्यते ।
(५,१९.५ ) क्षीरं यदस्याः पीयते तद्वै पितृषु किल्बिषम् ॥५॥
(५,१९.६ ) उग्रो राजा मन्यमानो ब्राह्मणं यो जिघत्सति ।
(५,१९.६ ) परा तत्सिच्यते राष्ट्रं ब्राह्मणो यत्र जीयते ॥६॥
(५,१९.७ ) अष्टापदी चतुरक्षी चतुःश्रोत्रा चतुर्हनुः ।
(५,१९.७ ) द्व्यास्या द्विजिह्वा भूत्वा सा राष्ट्रमव धूनुते ब्रह्मज्यस्य ॥७॥
(५,१९.८ ) तद्वै राष्ट्रमा स्रवति नावं भिन्नामिवोदकम् ।
(५,१९.८ ) ब्रह्माणं यत्र हिंसन्ति तद्राष्ट्रं हन्ति दुछुना ॥८॥
(५,१९.९ ) तं वृक्षा अप सेधन्ति छायां नो मोप गा इति ।
(५,१९.९ ) यो ब्राह्मणस्य सद्धनमभि नारद मन्यते ॥९॥
(५,१९.१० ) विषमेतद्देवकृतं राजा वरुणोऽब्रवीत्।
(५,१९.१० ) न ब्राह्मणस्य गां जग्ध्वा रास्त्रे जागार कश्चन ॥१०॥
(५,१९.११ ) नवैव ता नवतयो या भूमिर्व्यधूनुत ।
(५,१९.११ ) प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥११॥
(५,१९.१२ ) यां मृतायानुबध्नन्ति कूद्यं पदयोपनीम् ।
(५,१९.१२ ) तद्वै ब्रह्मज्य ते देवा उपस्तरणमब्रुवन् ॥१२॥
(५,१९.१३ ) अश्रूणि कृपमानस्य यानि जीतस्य वावृतुः ।
(५,१९.१३ ) तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥१३॥
(५,१९.१४ ) येन मृतं स्नपयन्ति श्मश्रूणि येनोन्दते ।
(५,१९.१४ ) तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥१४॥
(५,१९.१५ ) न वर्षं मैत्रावरुणं ब्रह्मज्यमभि वर्षति ।
(५,१९.१५ ) नास्मै समितिः कल्पते न मित्रं नयते वशम् ॥१५॥
(५,२०.१ ) उच्चैर्घोषो दुन्दुभिः सत्वनायन् वानस्पत्यः संभृत उसृइयाभिः ।
(५,२०.१ ) वाचं क्षुणुवानो दमयन्त्सपत्नान्त्सिंह इव जेष्यन्न् अभि तंस्तनीहि ॥१॥
(५,२०.२ ) सिंह इवास्तानीद्द्रुवयो विबद्धोऽभिक्रन्दन्न् ऋषभो वासितामिव ।
(५,२०.२ ) वृषा त्वं वध्रयस्ते सपत्ना ऐन्द्रस्ते शुष्मो अभिमातिषाहः ॥२॥
(५,२०.३ ) वृषेव यूथे सहसा विदानो गव्यन्न् अभि रुव संधनाजित्।
(५,२०.३ ) शुचा विध्य हृदयं परेषां हित्वा ग्रामान् प्रच्युता यन्तु शत्रवः ॥३॥
(५,२०.४ ) संजयन् पृतना ऊर्ध्वमायुर्गृह्या गृह्णानो बहुधा वि चक्ष्व ।
(५,२०.४ ) दैवीं वाचं दुन्दुभ आ गुरस्व वेधाः शत्रूणामुप भरस्व वेदः ॥४॥
(५,२०.५ ) दुन्दुभेर्वाचं प्रयतां वदन्तीमाशृण्वती नाथिता घोषबुद्धा ।
(५,२०.५ ) नारी पुत्रं धावतु हस्तगृह्यामित्री भीता समरे वधानाम् ॥५॥
(५,२०.६ ) पूर्वो दुन्दुभे प्र वदासि वाचं भूम्याः पृष्ठे वद रोचमानः ।
(५,२०.६ ) अमित्रसेनामभिजञ्जभानो द्युमद्वद दुन्दुभे सूनृतावत्॥६॥
(५,२०.७ ) अन्तरेमे नभसी घोषो अस्तु पृथक्ते ध्वनयो यन्तु शीभम् ।
(५,२०.७ ) अभि क्रन्द स्तनयोत्पिपानः श्लोककृन् मित्रतूर्याय स्वर्धी ॥७॥
(५,२०.८ ) धीभिः कृतः प्र वदाति वाचमुद्धर्षय सत्वनामायुधानि ।
(५,२०.८ ) इन्द्रमेदी सत्वनो नि ह्वयस्व मित्रैरमित्रामव जङ्घनीहि ॥८॥
(५,२०.९ ) संक्रन्दनः प्रवदो धृष्णुषेणः प्रवेदकृद्बहुधा ग्रामघोषी ।
(५,२०.९ ) श्रियो वन्वनो वयुनानि विद्वान् कीर्तिं बहुभ्यो वि हर द्विराजे ॥९॥
(५,२०.१० ) श्रेयःकेतो वसुजित्सहीयान्त्संग्रामजित्संशितो ब्रह्मणासि ।
(५,२०.१० ) अंशून् इव ग्रावाधिषवणे अद्रिर्गव्यन् दुन्दुभेऽधि नृत्य वेदः ॥१०॥
(५,२०.११ ) शत्रूषाण्नीषादभिमातिषाहो गवेषणः सहमान उद्भित्।
(५,२०.११ ) वाग्वीव मन्त्रं प्र भरस्व वाचं सांग्रामजित्यायेषमुद्वदेह ॥११॥
(५,२०.१२ ) अच्युतच्युत्समदो गमिष्ठो मृधो जेता पुरएतायोध्यः ।
(५,२०.१२ ) इन्द्रेण गुप्तो विदथा निचिक्यद्धृद्द्योतनो द्विषतां याहि शीभम् ॥१२॥
(५,२१.१ ) विहृदयं वैमनस्यं वदामित्रेषु दुन्दुभे ।
(५,२१.१ ) विद्वेषं कश्मशं भयममित्रेषु नि दध्मस्यव एनान् दुन्दुभे जहि ॥१॥
(५,२१.२ ) उद्वेपमाना मनसा चक्षुषा हृदयेन च ।
(५,२१.२ ) धावन्तु बिभ्यतोऽमित्राः प्रत्रासेनाज्ये हुते ॥२॥
(५,२१.३ ) वानस्पत्यः संभृत उस्रियाभिर्विश्वगोत्र्यः ।
(५,२१.३ ) प्रत्रासममित्रेभ्यो वदाज्येनाभिघारितः ॥३॥
(५,२१.४ ) यथा मृगाः संविजन्त आरण्याः पुरुषादधि ।
(५,२१.४ ) एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥४॥
(५,२१.५ ) यथा वृकादजावयो धावन्ति बहु बिभ्यतीः ।
(५,२१.५ ) एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥५॥
(५,२१.६ ) यथा श्येनात्पतत्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनथोर्यथा ।
(५,२१.६ ) एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥६॥
(५,२१.७ ) परामित्रान् दुन्दुभिना हरिणस्याजिनेन च ।
(५,२१.७ ) सर्वे देवा अतित्रसन् ये संग्रामस्येषते ॥७॥
(५,२१.८ ) यैरिन्द्रः प्रक्रीडते पद्घोषैश्छायया सह ।
(५,२१.८ ) तैरमित्रास्त्रसन्तु नोऽमी ये यन्त्यनीकशः ॥८॥
(५,२१.९ ) ज्याघोषा दुन्दुभयोऽभि क्रोशन्तु या दिशः ।
(५,२१.९ ) सेनाः पराजिता यतीरमित्राणामनीकशः ॥९॥
(५,२१.१० ) आदित्य चक्षुरा दत्स्व मरीचयोऽनु धावत ।
(५,२१.१० ) पत्सङ्गिनीरा सजन्तु विगते बाहुवीर्ये ॥१०॥
(५,२१.११ ) यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृनीत शत्रून् ।
(५,२१.११ ) सोमो राजा वरुणो राजा महादेव उत मृत्युरिन्द्रः ॥११॥
(५,२१.१२ ) एता देवसेनाः सूर्यकेतवः सचेतसः ।
(५,२१.१२ ) अमित्रान् नो जयन्तु स्वाहा ॥१२॥
(५,२२.१ ) अग्निस्तक्मानमप बाधतामितः सोमो ग्रावा वरुणः पूतदक्षाः ।
(५,२२.१ ) वेदिर्बर्हिः समिधः शोशुचाना अप द्वेषांस्यमुया भवन्तु ॥१॥
(५,२२.२ ) अयं यो विश्वान् हरितान् कृणोष्युच्छोचयन्न् अग्निरिवाभिदुन्वन् ।
(५,२२.२ ) अधा हि तक्मन्न् अरसो हि भूया अधा न्यङ्ङधरान् वा परेहि ॥२॥
(५,२२.३ ) यः परुषः पारुषेयोऽवध्वंस इवारुणः ।
(५,२२.३ ) तक्मानं विश्वधावीर्याधराञ्चं परा सुवा ॥३॥
(५,२२.४ ) अधराञ्चं प्र हिणोमि नमः कृत्वा तक्मने ।
(५,२२.४ ) शकम्भरस्य मुष्टिहा पुनरेतु महावृषान् ॥४॥
(५,२२.५ ) ओको अस्य मूजवन्त ओको अस्य महावृषाः ।
(५,२२.५ ) यावज्जातस्तक्मंस्तावान् असि बल्हिकेषु न्योचरः ॥५॥
(५,२२.६ ) तक्मन् व्याल वि गद व्यङ्ग भूरि यावय ।
(५,२२.६ ) दासीं निष्टक्वरीमिछ तां वज्रेण समर्पय ॥६॥
(५,२२.७ ) तक्मन् मूजवतो गछ बल्हिकान् वा परस्तराम् ।
(५,२२.७ ) शूद्रामिछ प्रफर्व्यं तां तक्मन् वीव धूनुहि ॥७॥
(५,२२.८ ) महावृषान् मूजवतो बन्ध्वद्धि परेत्य ।
(५,२२.८ ) प्रैतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमा ॥८॥
(५,२२.९ ) अन्यक्षेत्रे न रमसे वशी सन् मृडयासि नः ।
(५,२२.९ ) अभूदु प्रार्थस्तक्मा स गमिष्यति बल्हिकान् ॥९॥
(५,२२.१० ) यत्त्वं शीतोऽथो रूरः सह कासावेपयः ।
(५,२२.१० ) भीमास्ते तक्मन् हेतयस्ताभिः स्म परि वृङ्ग्धि नः ॥१०॥
(५,२२.११ ) मा स्मैतान्त्सखीन् कुरुथा बलासं कासमुद्युगम् ।
(५,२२.११ ) मा स्मातोऽर्वाङैः पुनस्तत्त्वा तक्मन्न् उप ब्रुवे ॥११॥
(५,२२.१२ ) तक्मन् भ्रात्रा बलासेन स्वस्रा कासिकया सह ।
(५,२२.१२ ) पाप्मा भ्रातृव्येण सह गछामुमरणं जनम् ॥१२॥
(५,२२.१३ ) तृतीयकं वितृतीयं सदन्दिमुत शारदम् ।
(५,२२.१३ ) तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम् ॥१३॥
(५,२२.१४ ) गन्धारिभ्यो मूजवद्भ्योऽङ्गेभ्यो मगधेभ्यः ।
(५,२२.१४ ) प्रैष्यन् जनमिव शेवधिं तक्मानं परि दद्मसि ॥१४॥
(५,२३.१ ) ओते मे द्यावापृथिवी ओता देवी सरस्वती ।
(५,२३.१ ) ओतौ म इन्द्रश्चाग्निश्च क्रिमिं जम्भयतामिति ॥१॥
(५,२३.२ ) अस्येन्द्र कुमारस्य क्रिमीन् धनपते जहि ।
(५,२३.२ ) हता विश्वा अरातय उग्रेण वचसा मम ॥२॥
(५,२३.३ ) यो अक्ष्यौ परिसर्पति यो नासे परिसर्पति ।
(५,२३.३ ) दतां यो मध्यं गछति तं क्रिमिं जम्भयामसि ॥३॥
(५,२३.४ ) सरूपौ द्वौ विरूपौ द्वौ कृष्णौ द्वौ रोहितौ द्वौ ।
(५,२३.४ ) बभ्रुश्च बभ्रुकर्णश्च गृध्रः कोकश्च ते हताः ॥४॥
(५,२३.५ ) ये क्रिमयः शितिकक्षा ये कृष्णाः शितिबाहवः ।
(५,२३.५ ) ये के च विश्वरूपास्तान् क्रिमीन् जम्भयामसि ॥५॥
(५,२३.६ ) उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा ।
(५,२३.६ ) दृष्टांश्च घ्नन्न् अदृष्टांश्च सर्वांश्च प्रमृणन् क्रिमीन् ॥६॥
(५,२३.७ ) येवाषासः कष्कषास एजत्काः शिपवित्नुकाः ।
(५,२३.७ ) दृष्टश्च हन्यतां क्रिमिरुतादृष्टश्च हन्यताम् ॥७॥
(५,२३.८ ) हतो येवाषः क्रिमीणां हतो नदनिमोत ।
(५,२३.८ ) सर्वान् नि मष्मषाकरं दृषदा खल्वामिव ॥८॥
(५,२३.९ ) त्रिशीर्षाणं त्रिककुदं क्रिमिं सारङ्गमर्जुनम् ।
(५,२३.९ ) शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥९॥
(५,२३.१० ) अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्।
(५,२३.१० ) अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥१०॥
(५,२३.११ ) हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः ।
(५,२३.११ ) हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥११॥
(५,२३.१२ ) हतासो अस्य वेशसो हतासः परिवेशसः ।
(५,२३.१२ ) अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥१२॥
(५,२३.१३ ) सर्वेषां च क्रिमीणां सर्वासां च क्रिमीनाम् ।
(५,२३.१३ ) भिनद्म्यश्मना शिरो दहाम्यग्निना मुखम् ॥१३॥
(५,२४.१ ) सविता प्रसवानामधिपतिः स मावतु ।
(५,२४.१ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
(५,२४.१ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१॥
(५,२४.२ ) अग्निर्वनस्पतीनामधिपतिः स मावतु ।
(५,२४.२ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
(५,२४.२ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥२॥
(५,२४.३ ) द्यावापृथिवी दातॄणामधिपतिः स मावतु ।
(५,२४.३ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
(५,२४.३ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥३॥
(५,२४.४ ) वरुणोऽपामधिपतिः स मावतु ।
(५,२४.४ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
(५,२४.४ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥४॥
(५,२४.५ ) मित्रावरुणौ वृष्ट्याधिपती तौ मावताम् ।
(५,२४.५ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
(५,२४.५ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥५॥
(५,२४.६ ) मरुतः पर्वतानामधिपतयस्ते मावन्तु ।
(५,२४.६ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
(५,२४.६ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥६॥
(५,२४.७ ) सोमो वीरुधामधिपतिः स मावतु ।
(५,२४.७ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
(५,२४.७ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥७॥
(५,२४.८ ) वायुरन्तरिक्षस्याधिपतिः स मावतु ।
(५,२४.८ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
(५,२४.८ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥८॥
(५,२४.९ ) सूर्यश्चक्षुषामधिपतिः स मावतु ।
(५,२४.९ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
(५,२४.९ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥९॥
(५,२४.१० ) चन्द्रमा नक्षत्राणामधिपतिः स मावतु ।
(५,२४.१० ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
(५,२४.१० ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१०॥
(५,२४.११ ) इन्द्रो दिवोऽधिपतिः स मावतु ।
(५,२४.११ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
(५,२४.११ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥११॥
(५,२४.१२ ) मरुतां पिता पशूनामधिपतिः स मावतु ।
(५,२४.१२ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
(५,२४.१२ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१२॥
(५,२४.१३ ) मृत्युः प्रजानामधिपतिः स मावतु ।
(५,२४.१३ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
(५,२४.१३ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१३॥
(५,२४.१४ ) यमः पितॄणामधिपतिः स मावतु ।
(५,२४.१४ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
(५,२४.१४ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१४॥
(५,२४.१५ ) पितरः परे ते मावन्तु ।
(५,२४.१५ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
(५,२४.१५ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१५॥
(५,२४.१६ ) तता अवरे ते मावन्तु ।
(५,२४.१६ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिस्ठायामस्याम् ।
(५,२४.१६ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१६॥
(५,२४.१७ ) ततस्ततामहास्ते मावन्तु ।
(५,२४.१७ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
(५,२४.१७ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१७॥
(५,२५.१ ) पर्वताद्दिवो योनेरङ्गादङ्गात्समाभृतम् ।
(५,२५.१ ) शेपो गर्भस्य रेतोधाः सरौ पर्णमिवा दधत्॥१॥
(५,२५.२ ) यथेयं पृथिवी मही भूतानां गर्भमादधे ।
(५,२५.२ ) एवा दधामि ते गर्भं तस्मै त्वामवसे हुवे ॥२॥
(५,२५.३ ) गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
(५,२५.३ ) गर्भं ते अश्विनोभा धत्तां पुष्करस्रजा ॥३॥
(५,२५.४ ) गर्भं ते मित्रावरुणौ गर्भं देवो बृहस्पतिः ।
(५,२५.४ ) गर्भं त इन्द्रश्चाग्निश्च गर्भं धाता दधातु ते ॥४॥
(५,२५.५ ) विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
(५,२५.५ ) आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥५॥
(५,२५.६ ) यद्वेद राजा वरुणो यद्वा देवी सरस्वती ।
(५,२५.६ ) यदिन्द्रो वृत्रहा वेद तद्गर्भकरणं पिब ॥६॥
(५,२५.७ ) गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् ।
(५,२५.७ ) गर्भो विश्वस्य भूतस्य सो अग्ने गर्भमेह धाः ॥७॥
(५,२५.८ ) अधि स्कन्द वीरयस्व गर्भमा धेहि योन्याम् ।
(५,२५.८ ) वृषासि वृष्ण्यावन् प्रजायै त्वा नयामसि ॥८॥
(५,२५.९ ) वि जिहीष्व बार्हत्सामे गर्भस्ते योनिमा शयाम् ।
(५,२५.९ ) अदुष्टे देवाः पुत्रं सोमपा उभयाविनम् ॥९॥
(५,२५.१० ) धातः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।
(५,२५.१० ) पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१०॥
(५,२५.११ ) त्वष्टः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।
(५,२५.११ ) पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥११॥
(५,२५.१२ ) सवितः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।
(५,२५.१२ ) पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१२॥
(५,२५.१३ ) प्रजापते श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।
(५,२५.१३ ) पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१३॥
(५,२६.१ ) यजूंषि यज्ञे समिधः स्वाहाग्निः प्रविद्वान् इह वो युनक्तु ॥१॥
(५,२६.२ ) युनक्तु देवः सविता प्रजानन्न् अस्मिन् यज्ञे महिषः स्वाहा ॥२॥
(५,२६.३ ) इन्द्र उक्थामदान्यस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥३॥
(५,२६.४ ) प्रैषा यज्ञे निविदः स्वाहा शिष्टाः पत्नीभिर्वहतेह युक्ताः ॥४॥
(५,२६.५ ) छन्दांसि यज्ञे मरुतः स्वाहा मातेव पुत्रं पिपृतेह युक्ताः ॥५॥
(५,२६.६ ) एयमगन् बर्हिषा प्रोक्षणीभिर्यज्ञं तन्वानादितिः स्वाहा ॥६॥
(५,२६.७ ) विष्णुर्युनक्तु बहुधा तपांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥७॥
(५,२६.८ ) त्वष्टा युनक्तु बहुधा नु रूपा अस्मिन् यज्ञे युनक्तु सुयुजः स्वाहा ॥८॥
(५,२६.९ ) भगो युनक्त्वाशिषो न्वस्मा अस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥९॥
(५,२६.१० ) सोमो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥१०॥
(५,२६.११ ) इन्द्रो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥११॥
(५,२६.१२ ) अश्विना ब्रह्मणा यातमर्वाञ्चौ वषट्कारेण यज्ञं वर्धयन्तौ ।
(५,२६.१२ ) बृहस्पते ब्रह्मणा याह्यर्वाङ्यज्ञो अयं स्वरिदं यजमानाय स्वाहा ॥१२॥
(५,२७.१ ) ऊर्ध्वा अस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचीष्यग्नेः ।
(५,२७.१ ) द्युमत्तमा सुप्रतीकः ससूनुस्तनूनपादसुरो भूरिपाणिः ॥१॥
(५,२७.२ ) देवो देवेषु देवः पथो अनक्ति मध्वा घृतेन ॥२॥
(५,२७.३ ) मध्वा यज्ञं नक्षति प्रैणानो नराशंसो अग्निः सुकृद्देवः सविता विश्ववारः ॥३॥
(५,२७.४ ) अछायमेति शवसा घृता चिदीदानो वह्निर्नमसा ॥४॥
(५,२७.५ ) अग्निः स्रुचो अध्वरेषु प्रयक्षु स यक्षदस्य महिमानमग्नेः ॥५॥
(५,२७.६ ) तरी मन्द्रासु प्रयक्षु वसवश्चातिष्ठन् वसुधातरश्च ॥६॥
(५,२७.७ ) द्वारो देवीरन्वस्य विश्वे व्रतं रक्षन्ति विश्वहा ॥७॥
(५,२७.८ ) उरुव्यचसाग्नेर्धाम्ना पत्यमाने ।
(५,२७.८ ) आ सुष्वयन्ती यजते उपाके उषासानक्तेमं यज्ञमवतामध्वरं नः ॥८॥
(५,२७.९ ) दैवा होतार ऊर्ध्वमध्वरं नोऽग्नेर्जिह्वयाभि गृनत गृनता नः स्विष्टये ।
(५,२७.९ ) तिस्रो देवीर्बर्हिरेदं सदन्तामिडा सरस्वती मही भारती गृणाना ॥९॥
(५,२७.१० ) तन् नस्तुरीपमद्भुतं पुरुक्षु ।
(५,२७.१० ) देव त्वष्टा रायस्पोषं वि ष्य नाभिमस्य ॥१०॥
(५,२७.११ ) वनस्पतेऽव सृजा रराणः ।
(५,२७.११ ) त्मना देवेभ्यो अग्निर्हव्यं शमिता स्वदयतु ॥११॥
(५,२७.१२ ) अग्ने स्वाहा कृणुहि जातवेदः ।
(५,२७.१२ ) इन्द्राय यज्ञं विश्वे देवा हविरिदं जुषन्ताम् ॥१२॥
(५,२८.१ ) नव प्राणान् नवभिः सं मिमीते दीर्घायुत्वाय शतशारदाय ।
(५,२८.१ ) हरिते त्रीणि रजते त्रीण्ययसि त्रीणि तपसाविष्टितानि ॥१॥
(५,२८.२ ) अग्निः सूर्यश्चन्द्रमा भूमिरापो द्यौरन्तरिक्षं प्रदिशो दिशश्च ।
(५,२८.२ ) आर्तवा ऋतुभिः संविदाना अनेन मा त्रिवृता पारयन्तु ॥२॥
(५,२८.३ ) त्रयः पोषास्त्रिवृति श्रयन्तामनक्तु पूषा पयसा घृतेन ।
(५,२८.३ ) अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनां त इह श्रयन्ताम् ॥३॥
(५,२८.४ ) इममादित्या वसुना समुक्षतेममग्ने वर्धय ववृधानः ।
(५,२८.४ ) इममिन्द्र सं सृज वीर्येणास्मिन् त्रिवृच्छ्रयतां पोषयिष्णु ॥४॥
(५,२८.५ ) भूमिष्ट्वा पातु हरितेन विश्वभृदग्निः पिपर्त्वयसा सजोषाः ।
(५,२८.५ ) वीरुद्भिष्टे अर्जुनं संविदानं दक्षं दधातु सुमनस्यमानम् ॥५॥
(५,२८.६ ) त्रेधा जातं जन्मनेदं हिरण्यमग्नेरेकं प्रियतमं बभूव सोमस्यैकं हिंसितस्य परापतत्।
(५,२८.६ ) अपामेकं वेधसां रेत आहुस्तत्ते हिरण्यं त्रिवृदस्त्वायुषे ॥६॥
(५,२८.७ ) त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् ।
(५,२८.७ ) त्रेधामृतस्य चक्षणं त्रीण्यायूंषि तेऽकरम् ॥७॥
(५,२८.८ ) त्रयः सुपर्णास्त्रिवृता यदायन्न् एकाक्षरमभिसंभूय शक्राः ।
(५,२८.८ ) प्रत्यौहन् मृत्युममृतेन साकमन्तर्दधाना दुरितानि विश्वा ॥८॥
(५,२८.९ ) दिवस्त्वा पातु हरितं मध्यात्त्वा पात्वर्जुनम् ।
(५,२८.९ ) भूम्या अयस्मयं पातु प्रागाद्देवपुरा अयम् ॥९॥
(५,२८.१० ) इमास्तिस्रो देवपुरास्तास्त्वा रक्षन्तु सर्वतः ।
(५,२८.१० ) तास्त्वं बिभ्रद्वर्चस्व्युत्तरो द्विषतां भव ॥१०॥
(५,२८.११ ) पुरं देवानाममृतं हिरण्यं य आबेधे प्रथमो देवो अग्रे ।
(५,२८.११ ) तस्मै नमो दश प्राचीः कृणोम्यनु मन्यतां त्रिवृदाबधे मे ॥११॥
(५,२८.१२ ) आ त्वा चृतत्वर्यमा पूषा बृहस्पतिः ।
(५,२८.१२ ) अहर्जातस्य यन् नाम तेन त्वाति चृतामसि ॥१२॥
(५,२८.१३ ) ऋतुभिष्ट्वार्तवैरायुषे वर्चसे त्वा ।
(५,२८.१३ ) संवत्सरस्य तेजसा तेन संहनु कृण्मसि ॥१३॥
(५,२८.१४ ) घृतादुल्लुप्तं मधुना समक्तं भूमिदृंहमच्युतं पारयिष्णु ।
(५,२८.१४ ) भिन्दत्सपत्नान् अधरांश्च कृण्वदा मा रोह महते सौभगाय ॥१४॥
(५,२९.१ ) पुरस्ताद्युक्तो वह जातवेदोऽग्ने विद्धि क्रियमाणं यथेदम् ।
(५,२९.१ ) त्वं भिषग्भेषजस्यासि कर्ता त्वया गामश्वं पुरुषं सनेम ॥१॥
(५,२९.२ ) तथा तदग्ने कृणु जातवेदो विश्वेभिर्देवैः सह संविदानः ।
(५,२९.२ ) यो नो दिदेव यतमो जघास यथा सो अस्य परिधिष्पताति ॥२॥
(५,२९.३ ) यथा सो अस्य परिधिष्पताति तथा तदग्ने कृणु जातवेदः ।
(५,२९.३ ) विश्वेभिर्देवैर्सह संविदानः ॥३॥
(५,२९.४ ) अक्ष्यौ नि विध्य हृदयं नि विध्य जिह्वां नि तृन्द्धि प्र दतो मृणीहि ।
(५,२९.४ ) पिशाचो अस्य यतमो जघासाग्ने यविष्ठ प्रति शृणीहि ॥४॥
(५,२९.५ ) यदस्य हृतं विहृतं यत्पराभृतमात्मनो जग्धं यतमत्पिशाचैः ।
(५,२९.५ ) तदग्ने विद्वान् पुनरा भर त्वं शरीरे मांसमसुमेरयामः ॥५॥
(५,२९.६ ) आमे सुपक्वे शबले विपक्वे यो मा पिशाचो अशने ददम्भ ।
(५,२९.६ ) तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥६॥
(५,२९.७ ) क्षिरे मा मन्थे यतमो ददम्भाकृष्टपच्ये अशने धान्ये यः ।
(५,२९.७ ) तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥७॥
(५,२९.८ ) अपां मा पाने यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम् ।
(५,२९.८ ) तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥८॥
(५,२९.९ ) दिवा मा नक्तं यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम् ।
(५,२९.९ ) तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥९॥
(५,२९.१० ) क्रव्यादमग्ने रुधिरं पिशाचं मनोहनं जहि जातवेदः ।
(५,२९.१० ) तमिन्द्रो वाजी वज्रेण हन्तु छिनत्तु सोमः शिरो अस्य धृष्णुः ॥१०॥
(५,२९.११ ) सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः ।
(५,२९.११ ) सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥११॥
(५,२९.१२ ) समाहर जातवेदो यद्धृतं यत्पराभृतम् ।
(५,२९.१२ ) गात्राण्यस्य वर्धन्तामंशुरिवा प्यायतामयम् ॥१२॥
(५,२९.१३ ) सोमस्येव जातवेदो अंशुरा प्यायतामयम् ।
(५,२९.१३ ) अग्ने विरप्शिनं मेध्यमयक्ष्मं कृणु जीवतु ॥१३॥
(५,२९.१४ ) एतास्ते अग्ने समिधः पिशाचजम्भनीः ।
(५,२९.१४ ) तास्त्वं जुषस्व प्रति चैना गृहाण जातवेदः ॥१४॥
(५,२९.१५ ) तार्ष्टाघीरग्ने समिधः प्रति गृह्णाह्यर्चिषा ।
(५,२९.१५ ) जहातु क्रव्याद्रूपं यो अस्य मांसं जिहीर्षति ॥१५॥
(५,३०.१ ) आवतस्त आवतः परावतस्त आवतः ।
(५,३०.१ ) इहैव भव मा नु गा मा पूर्वान् अनु गाः पितॄन् असुं बध्नामि ते दृढम् ॥१॥
(५,३०.२ ) यत्त्वाभिचेरुः पुरुषः स्वो यदरणो जनः ।
(५,३०.२ ) उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥२॥
(५,३०.३ ) यद्दुद्रोहिथ शेपिषे स्त्रियै पुंसे अचित्त्या ।
(५,३०.३ ) उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥३॥
(५,३०.४ ) यतेनसो मातृकृताच्छेषे पितृकृताच्च यत्।
(५,३०.४ ) उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥४॥
(५,३०.५ ) यत्ते माता यत्ते पिता जमिर्भ्राता च सर्जतः ।
(५,३०.५ ) प्रत्यक्सेवस्व भेषजं जरदष्टिं कृणोमि त्वा ॥५॥
(५,३०.६ ) इहैधि पुरुष सर्वेण मनसा सह ।
(५,३०.६ ) दूतौ यमस्य मानु गा अधि जीवपुरा इहि ॥६॥
(५,३०.७ ) अनुहूतः पुनरेहि विद्वान् उदयनं पथः ।
(५,३०.७ ) आरोहणमाक्रमणं जीवतोजीवतोऽयनम् ॥७॥
(५,३०.८ ) मा बिभेर्न मरिष्यसि जरदष्टिं कृणोमि त्वा ।
(५,३०.८ ) निरवोचमहं यक्ष्ममङ्गेभ्यो अङ्गज्वरं तव ॥८॥
(५,३०.९ ) अङ्गभेदो अङ्गज्वरो यश्च ते हृदयामयः ।
(५,३०.९ ) यक्ष्मः श्येन इव प्रापप्तद्वचा साढः परस्तराम् ॥९॥
(५,३०.१० ) ऋषी बोधप्रतीबोधावस्वप्नो यश्च जागृविः ।
(५,३०.१० ) तौ ते प्राणस्य गोप्तारौ दिवा नक्तं च जागृताम् ॥१०॥
(५,३०.११ ) अयमग्निरुपसद्य इह सूर्य उदेतु ते ।
(५,३०.११ ) उदेहि मृत्योर्गम्भीरात्कृष्णाच्चित्तमसस्परि ॥११॥
(५,३०.१२ ) नमो यमाय नमो अस्तु मृत्यवे नमः पितृभ्य उत ये नयन्ति ।
(५,३०.१२ ) उत्पारणस्य यो वेद तमग्निं पुरो दधेऽस्मा अरिष्टतातये ॥१२॥
(५,३०.१३ ) ऐतु प्राण ऐतु मन ऐतु चक्षुरथो बलम् ।
(५,३०.१३ ) शरीरमस्य सं विदां तत्पद्भ्यां प्रति तिष्ठतु ॥१३॥
(५,३०.१४ ) प्राणेनाग्ने चक्षुषा सं सृजेमं समीरय तन्वा सं बलेन ।
(५,३०.१४ ) वेत्थामृतस्य मा नु गान् मा नु भूमिगृहो भुवत्॥१४॥
(५,३०.१५ ) मा ते प्राण उप दसन् मो अपानोऽपि धायि ते ।
(५,३०.१५ ) सूर्यस्त्वाधिपतिर्मृत्योरुदायछतु रश्मिभिः ॥१५॥
(५,३०.१६ ) इयमन्तर्वदति जिह्वा बद्धा पनिष्पदा ।
(५,३०.१६ ) त्वया यक्ष्मं निरवोचं शतं रोपीश्च तक्मनः ॥१६॥
(५,३०.१७ ) अयं लोकः प्रियतमो देवानामपराजितः ।
(५,३०.१७ ) यस्मै त्वमिह मृत्यवे दिष्टः पुरुष जज्ञिषे ।
(५,३०.१७ ) स च त्वानु ह्वयामसि मा पुरा जरसो मृथाः ॥१७॥
(५,३१.१ ) यां ते चक्रुरामे पात्रे यां चक्रुर्मिश्रधान्ये ।
(५,३१.१ ) आमे मांसे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥१॥
(५,३१.२ ) यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणि ।
(५,३१.२ ) अव्यां ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥२॥
(५,३१.३ ) यां ते चक्रुरेकशफे पशूनामुभयादति ।
(५,३१.३ ) गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥३॥
(५,३१.४ ) यां ते चक्रुरमूलायां वलगं वा नराच्याम् ।
(५,३१.४ ) क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥४॥
(५,३१.५ ) यां ते चक्रुर्गार्हपत्ये पूर्वाग्नावुत दुश्चितः ।
(५,३१.५ ) शालायां कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥५॥
(५,३१.६ ) यां ते चक्रुः सभायां यां चक्रुरधिदेवने ।
(५,३१.६ ) अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥६॥
(५,३१.७ ) यां ते चक्रुः सेनायां यां चक्रुरिष्वायुधे ।
(५,३१.७ ) दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥७॥
(५,३१.८ ) यां ते कृत्यां कूपेऽवदधुः श्मशाने वा निचख्नुः ।
(५,३१.८ ) सद्मनि कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥८॥
(५,३१.९ ) यां ते चक्रुः पुरुषास्थे अग्नौ संकसुके च याम् ।
(५,३१.९ ) म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम् ॥९॥
(५,३१.१० ) अपथेना जभारैनां तां पथेतः प्र हिण्मसि ।
(५,३१.१० ) अधीरो मर्याधीरेभ्यः सं जभाराचित्त्या ॥१०॥
(५,३१.११ ) यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् ।
(५,३१.११ ) चकार भद्रमस्मभ्यमभगो भगवद्भ्यः ॥११॥
(५,३१.१२ ) कृत्याकृतं वलगिनं मूलिनं शपथेय्यम् ।
(५,३१.१२ ) इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया ॥१२॥
(६,१.१ ) दोषो गाय बृहद्गाय द्युमद्धेहि ।
(६,१.१ ) आथर्वण स्तुहि देवं सवितारम् ॥१॥
(६,१.२ ) तमु ष्टुहि यो अन्तः सिन्धौ सूनुः ।
(६,१.२ ) सत्यस्य युवानमद्रोघवाचं सुशेवम् ॥२॥
(६,१.३ ) स घा नो देवः सविता साविषदमृतानि भूरि ।
(६,१.३ ) उभे सुष्टुती सुगातवे ॥३॥
(६,२.१ ) इन्द्राय सोममृत्विजः सुनोता च धावत ।
(६,२.१ ) स्तोतुर्यो वचः शृणवद्धवं च मे ॥१॥
(६,२.२ ) आ यं विशन्तीन्दवो वयो न वृक्षमन्धसः ।
(६,२.२ ) विरप्शिन् वि मृधो जहि रक्षस्विनीः ॥२॥
(६,२.३ ) सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे ।
(६,२.३ ) युवा जेतेशानः स पुरुष्टुतः ॥३॥
(६,३.१ ) पातं न इन्द्रापूषणादितिः पान्तु मरुतः ।
(६,३.१ ) अपां नपात्सिन्धवः सप्त पातन पातु नो विष्णुरुत द्यौः ॥१॥
(६,३.२ ) पातां नो द्यावापृथिवी अभिष्टये पातु ग्रावा पातु सोमो नो अंहसः ।
(६,३.२ ) पातु नो देवी सुभगा सरस्वती पात्वग्निः शिवा ये अस्य पायवः ॥२॥
(६,३.३ ) पातां नो देवाश्विना शुभस्पती उषासानक्तोत न उरुष्यताम् ।
(६,३.३ ) अपां नपादभिह्रुती गयस्य चिद्देव त्वष्टर्वर्धय सर्वतातये ॥३॥
(६,४.१ ) त्वष्टा मे दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः ।
(६,४.१ ) पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रायमाणं सहः ॥१॥
(६,४.२ ) अंशो भगो वरुणो मित्रो अर्यमादितिः पान्तु मरुतः ।
(६,४.२ ) अप तस्य द्वेषो गमेदभिह्रुतो यावयच्छत्रुमन्तितम् ॥२॥
(६,४.३ ) धिये समश्विना प्रावतं न उरुष्या ण उरुज्मन्न् अप्रयुछन् ।
(६,४.३ ) द्यौष्पितर्यावय दुछुना या ॥३॥
(६,५.१ ) उदेनमुत्तरं नयाग्ने घृतेनाहुत ।
(६,५.१ ) समेनं वर्चसा सृज प्रजया च बहुं कृधि ॥१॥
(६,५.२ ) इन्द्रेमं प्रतरं कृधि सजातानामसद्वशी ।
(६,५.२ ) रायस्पोषेण सं सृज जीवातवे जरसे नय ॥२॥
(६,५.३ ) यस्य कृण्मो हविर्गृहे तमग्ने वर्धया त्वम् ।
(६,५.३ ) तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥३॥
(६,६.१ ) योऽस्मान् ब्रह्मणस्पतेऽदेवो अभिमन्यते ।
(६,६.१ ) सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥१॥
(६,६.२ ) यो नः सोम सुशंसिनो दुःशंस आदिदेशति ।
(६,६.२ ) वज्रेणास्य मुखे जहि स संपिष्टो अपायति ॥२॥
(६,६.३ ) यो नः सोमाभिदासति सनाभिर्यश्च निष्ट्यः ।
(६,६.३ ) अप तस्य बलं तिर महीव द्यौर्वधत्मना ॥३॥
(६,७.१ ) येन सोमादितिः पथा मित्रा वा यन्त्यद्रुहः ।
(६,७.१ ) तेना नोऽवसा गहि ॥१॥
(६,७.२ ) येन सोम साहन्त्यासुरान् रन्धयासि नः ।
(६,७.२ ) तेना नो अधि वोचत ॥२॥
(६,७.३ ) येन देवा असुराणामोजांस्यवृणीध्वम् ।
(६,७.३ ) तेना नः शर्म यछत ॥३॥
(६,८.१ ) यथा वृक्षं लिबुजा समन्तं परिषस्वजे ।
(६,८.१ ) एवा परि ष्वजस्व मां यथा मां कामिन्यसो यथा मन् नापगा असः ॥१॥
(६,८.२ ) यथा सुपर्णः प्रपतन् पक्षौ निहन्ति भूम्याम् ।
(६,८.२ ) एवा नि हन्मि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥२॥
(६,८.३ ) यथेमे द्यावापृथिवी सद्यः पर्येति सूर्यः ।
(६,८.३ ) एवा पर्येमि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥३॥
(६,९.१ ) वाञ्छ मे तन्वं पादौ वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ ।
(६,९.१ ) अक्ष्यौ वृषण्यन्त्याः केशा मां ते कामेन शुष्यन्तु ॥१॥
(६,९.२ ) मम त्वा दोषणिश्रिषं कृणोमि हृदयश्रिषम् ।
(६,९.२ ) यथा मम क्रतावसो मम चित्तमुपायसि ॥२॥
(६,९.३ ) यासां नाभिरारेहणं हृदि संवननं कृतं गावो घृतस्य मातरोऽमूं सं वानयन्तु मे ॥३॥
(६,१०.१ ) पृथिव्यै श्रोत्राय वनस्पतिभ्योऽग्नयेऽधिपतये स्वाहा ॥१॥
(६,१०.२ ) प्राणायान्तरिक्षाय वयोभ्यो वायवेऽधिपतये स्वाहा ॥२॥
(६,१०.३ ) दिवे चक्षुषे नक्षत्रेभ्यः सूर्यायाधिपतये स्वाहा ॥३॥
(६,११.१ ) शमीमश्वत्थ आरूढस्तत्र पुंसुवनं कृतम् ।
(६,११.१ ) तद्वै पुत्रस्य वेदनं तत्स्त्रीष्वा भरामसि ॥१॥
(६,११.२ ) पुंसि वै रेतो भवति तत्स्त्रियामनु षिच्यते ।
(६,११.२ ) तद्वै पुत्रस्य वेदनं तत्प्रजापतिरब्रवीत्॥२॥
(६,११.३ ) प्रजापतिरनुमतिः सिनीवाल्यचीकॢपत्।
(६,११.३ ) स्त्रैषूयमन्यत्र दधत्पुमांसमु दधतिह ॥३॥
(६,१२.१ ) परि द्यामिव सूर्योऽहीनां जनिमागमम् ।
(६,१२.१ ) रात्री जगदिवान्यद्धंसात्तेना ते वारये विषम् ॥१॥
(६,१२.२ ) यद्ब्रह्मभिर्यदृषिभिर्यद्देवैर्विदितं पुरा ।
(६,१२.२ ) यद्भूतं भव्यमासन्वत्तेना ते वारये विषम् ॥२॥
(६,१२.३ ) मध्वा पृञ्चे नद्यः पर्वता गिरयो मधु ।
(६,१२.३ ) मधु परुष्णी शीपाला शमास्ने अस्तु शं हृदे ॥३॥
(६,१३.१ ) नमो देववधेभ्यो नमो राजवधेभ्यः ।
(६,१३.१ ) अथो ये विश्यानां वधास्तेभ्यो मृत्यो नमोऽस्तु ते ॥१॥
(६,१३.२ ) नमस्ते अधिवाकाय परावाकाय ते नमः ।
(६,१३.२ ) सुमत्यै मृत्यो ते नमो दुर्मत्यै ते इदं नमः ॥२॥
(६,१३.३ ) नमस्ते यातुधानेभ्यो नमस्ते भेषजेभ्यः ।
(६,१३.३ ) नमस्ते मृत्यो मूलेभ्यो ब्राह्मणेभ्य इदं नमः ॥३॥
(६,१४.१ ) अस्थिस्रंसं परुस्रंसमास्थितं हृदयामयम् ।
(६,१४.१ ) बलासं सर्वं नाशयाङ्गेष्ठा यश्च पर्वसु ॥१॥
(६,१४.२ ) निर्बलासं बलासिनः क्षिणोमि मुष्करं यथा ।
(६,१४.२ ) छिनद्म्यस्य बन्धनं मूलमुर्वार्वा इव ॥२॥
(६,१४.३ ) निर्बलासेतः प्र पताशुङ्गः शिशुको यथा ।
(६,१४.३ ) अथो इत इव हायनोऽप द्राह्यवीरहा ॥३॥
(६,१५.१ ) उत्तमो अस्योषधीनां तव वृक्षा उपस्तयः ।
(६,१५.१ ) उपस्तिरस्तु सोऽस्माकं यो अस्मामभिदासति ॥१॥
(६,१५.२ ) सबन्धुश्चासबन्धुश्च यो अस्मामभिदासति ।
(६,१५.२ ) तेषां सा वृक्षाणामिवाहं भूयासमुत्तमः ॥२॥
(६,१५.३ ) यथा सोम ओषधीनामुत्तमो हविषां कृतः ।
(६,१५.३ ) तलाशा वृक्षाणामिवाहं भूयासमुत्तमः ॥३॥
(६,१६.१ ) आबयो अनाबयो रसस्त उग्र आबयो ।
(६,१६.१ ) आ ते करम्भमद्मसि ॥१॥
(६,१६.२ ) विहह्लो नाम ते पिता मदावती नाम ते माता ।
(६,१६.२ ) स हिन त्वमसि यस्त्वमात्मानमावयः ॥२॥
(६,१६.३ ) तौविलिकेऽवेलयावायमैलब ऐलयीत्।
(६,१६.३ ) बभ्रुश्च बभ्रुकर्णश्चापेहि निराल ॥३॥
(६,१६.४ ) अलसालासि पूर्व सिलाञ्जालास्युत्तरा ।
(६,१६.४ ) नीलागलसाल ॥४॥
(६,१७.१ ) यथेयं पृथिवी मही भूतानां गर्भमादधे ।
(६,१७.१ ) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥१॥
(६,१७.२ ) यथेयं पृथिवी मही दाधारेमान् वनस्पतीन् ।
(६,१७.२ ) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥२॥
(६,१७.३ ) यथेयं पृथिवी मही दाधार पर्वतान् गिरीन् ।
(६,१७.३ ) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥३॥
(६,१७.४ ) यथेयं पृथिवी मही दाधार विष्ठितं जगत्।
(६,१७.४ ) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥४॥
(६,१८.१ ) ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम् ।
(६,१८.१ ) अग्निं हृदय्यं शोकं तं ते निर्वापयामसि ॥१॥
(६,१८.२ ) यथा भूमिर्मृतमना मृतान् मृतमनस्तरा ।
(६,१८.२ ) यथोत मम्रुषो मन एवेर्ष्योर्मृतं मनः ॥२॥
(६,१८.३ ) अदो यत्ते हृदि श्रितं मनस्कं पतयिष्णुकम् ।
(६,१८.३ ) ततस्त ईर्ष्यां मुञ्चामि निरूष्माणं दृतेरिव ॥३॥
(६,१९.१ ) पुनन्तु मा देवजनाः पुनन्तु मनवो धिया ।
(६,१९.१ ) पुनन्तु विश्वा भूतानि पवमानः पुनातु मा ॥१॥
(६,१९.२ ) पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे ।
(६,१९.२ ) अथो अरिष्टतातये ॥२॥
(६,१९.३ ) उभाभ्यां देव सवितः पवित्रेण सवेन च ।
(६,१९.३ ) अस्मान् पुनीहि चक्षसे ॥३॥
(६,२०.१ ) अग्नेरिवास्य दहत एति शुष्मिण उतेव मत्तो विलपन्न् अपायति ।
(६,२०.१ ) अन्यमस्मदिछतु कं चिदव्रतस्तपुर्वधाय नमो अस्तु तक्मने ॥१॥
(६,२०.२ ) नमो रुद्राय नमो अस्तु तक्मने नमो राज्ञे वरुणाय त्विषीमते ।
(६,२०.२ ) नमो दिवे नमः पृथिव्यै नम ओषधीभ्यः ॥२॥
(६,२०.३ ) अयं यो अभिशोचयिष्णुर्विश्वा रूपाणि हरिता कृणोषि ।
(६,२०.३ ) तस्मै तेऽरुणाय बभ्रवे नमः कृणोमि वन्याय तक्मने ॥३॥
(६,२१.१ ) इमा यास्तिस्रः पृथिवीस्तासां ह भूमिरुत्तमा ।
(६,२१.१ ) तासामधि त्वचो अहं भेषजं समु जग्रभम् ॥१॥
(६,२१.२ ) श्रेष्ठमसि भेषजानां वसिष्ठं वीरुधानाम् ।
(६,२१.२ ) सोमो भग इव यामेषु देवेषु वरुणो यथा ॥२॥
(६,२१.३ ) रेवतीरनाधृषः सिषासवः सिषासथ ।
(६,२१.३ ) उत स्थ केशदृम्हणीरथो ह केशवर्धनीः ॥३॥
(६,२२.१ ) कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
(६,२२.१ ) त आववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः ॥१॥
(६,२२.२ ) पयस्वतीः कृणुथाप ओषधीः शिवा यदेजथा मरुतो रुक्मवक्षसः ।
(६,२२.२ ) ऊर्जं च तत्र सुमतिं च पिन्वत यत्रा नरो मरुतः सिञ्चथा मधु ॥२॥
(६,२२.३ ) उदप्रुतो मरुतस्तामियर्त वृष्टिर्या विश्वा निवतस्पृणाति ।
(६,२२.३ ) एजाति ग्लहा कन्येव तुन्नैरुं तुन्दाना पत्येव जाया ॥३॥
(६,२३.१ ) सस्रुषीस्तदपसो दिवा नक्तं च सस्रुषीः ।
(६,२३.१ ) वरेण्यक्रतुरहमपो देवीरुप ह्वये ॥१॥
(६,२३.२ ) ओता आपः कर्मण्या मुञ्चन्त्वितः प्रणीतये ।
(६,२३.२ ) सद्यः कृण्वन्त्वेतवे ॥२॥
(६,२३.३ ) देवस्य सवितुः सवे कर्म कृण्वन्तु मानुषाः ।
(६,२३.३ ) शं नो भवन्त्वप ओषधीः शिवाः ॥३॥
(६,२४.१ ) हिमवतः प्र स्रवन्ति सिन्धौ समह सङ्गमः ।
(६,२४.१ ) आपो ह मह्यं तद्देवीर्ददन् हृद्द्योतभेषजम् ॥१॥
(६,२४.२ ) यन् मे अक्ष्योरादिद्योत पार्ष्ण्योः प्रपदोश्च यत्।
(६,२४.२ ) आपस्तत्सर्वं निष्करन् भिषजां सुभिषक्तमाः ॥२॥
(६,२४.३ ) सिन्धुपत्नीः सिन्धुराज्ञीः सर्वा या नद्य स्थन ।
(६,२४.३ ) दत्त नस्तस्य भेषजं तेना वो भुनजामहै ॥३॥
(६,२५.१ ) पञ्च च याः पञ्चाशच्च संयन्ति मन्या अभि ।
(६,२५.१ ) इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥१॥
(६,२५.२ ) सप्त च याः सप्ततिश्च संयन्ति ग्रैव्या अभि ।
(६,२५.२ ) इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥२॥
(६,२५.३ ) नव च या नवतिश्च संयन्ति स्कन्ध्या अभि ।
(६,२५.३ ) इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥३॥
(६,२६.१ ) अव मा पाप्मन्त्सृज वशी सन् मृदयासि नः ।
(६,२६.१ ) आ मा भद्रस्य लोके पाप्मन् धेह्यविह्रुतम् ॥१॥
(६,२६.२ ) यो नः पाप्मन् न जहासि तमु त्वा जहिमो वयम् ।
(६,२६.२ ) पथामनु व्यावर्तनेऽन्यं पाप्मानु पद्यताम् ॥२॥
(६,२६.३ ) अन्यत्रास्मन् न्युच्यतु सहस्राक्षो अमर्त्यः ।
(६,२६.३ ) यं द्वेषाम तमृछतु यमु द्विष्मस्तमिज्जहि ॥३॥
(६,२७.१ ) देवाः कपोत इषितो यदिछन् दूतो निरृत्या इदमाजगाम ।
(६,२७.१ ) तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥१॥
(६,२७.२ ) शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहं नः ।
(६,२७.२ ) अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नो वृणक्तु ॥२॥
(६,२७.३ ) हेतिः पक्षिणी न दभात्यस्मान् आष्ट्री पदं कृणुते अग्निधाने ।
(६,२७.३ ) शिवो गोभ्य उत पुरुषेभ्यो नो अस्तु मा नो देवा इह हिंसीत्कपोत ॥३॥
(६,२८.१ ) ऋचा कपोतं नुदत प्रणोदमिषं मदन्तः परि गां नयामः ।
(६,२८.१ ) संलोभयन्तो दुरिता पदानि हित्वा न ऊर्जं प्र पदात्पथिष्ठः ॥१॥
(६,२८.२ ) परीमेऽग्निमर्षत परीमे गामनेषत ।
(६,२८.२ ) देवेष्वक्रत श्रवः क इमामा दधर्षति ॥२॥
(६,२८.३ ) यः प्रथमः प्रवतमाससाद बहुभ्यः पन्थामनुपस्पशानः ।
(६,२८.३ ) योऽस्येशे द्विपदो यश्चतुष्पदस्तस्मै यमाय नमो अस्तु मृत्यवे ॥३॥
(६,२९.१ ) अमून् हेतिः पतत्रिणी न्येतु यदुलूको वदति मोघमेतत्।
(६,२९.१ ) यद्वा कपोत पदमग्नौ कृणोति ॥१॥
(६,२९.२ ) यौ ते दूतौ निरृत इदमेतोऽप्रहितौ प्रहितौ वा गृहं नः ।
(६,२९.२ ) कपोतोलूकाभ्यामपदं तदस्तु ॥२॥
(६,२९.३ ) अवैरहत्यायेदमा पपत्यात्सुवीरताया इदमा ससद्यात्।
(६,२९.३ ) पराङेव परा वद पराचीमनु संवतम् ।
(६,२९.३ ) यथा यमस्य त्वा गृहेऽरसं प्रतिचाकशान् आभूकं प्रतिचाकशान् ॥३॥
(६,३०.१ ) देवा इमं मधुना संयुतं यवं सरस्वत्यामधि मणावचर्कृषुः ।
(६,३०.१ ) इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानवः ॥१॥
(६,३०.२ ) यस्ते मदोऽवकेशो विकेशो येनाभिहस्यं पुरुषं कृणोषि ।
(६,३०.२ ) आरात्त्वदन्या वनानि वृक्षि त्वं शमि शतवल्शा वि रोह ॥२॥
(६,३०.३ ) बृहत्पलाशे सुभगे वर्षवृद्ध ऋतावरि ।
(६,३०.३ ) मातेव पुत्रेभ्यो मृड केशेभ्यः शमि ॥३॥
(६,३१.१ ) आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः ।
(६,३१.१ ) पितरं च प्रयन्त्स्वः ॥१॥
(६,३१.२ ) अन्तश्चरति रोचना अस्य प्राणादपानतः ।
(६,३१.२ ) व्यख्यन् महिषः स्वः ॥२॥
(६,३१.३ ) त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्।
(६,३१.३ ) प्रति वस्तोरहर्द्युभिः ॥३॥
(६,३२.१ ) अन्तर्दावे जुहुत स्वेतद्यातुधानक्षयणं घृतेन ।
(६,३२.१ ) आराद्रक्षांसि प्रति दह त्वमग्ने न नो गृहाणामुप तीतपासि ॥१॥
(६,३२.२ ) रुद्रो वो ग्रीवा अशरैत्पिशाचाः पृष्टीर्वोऽपि शृणातु यातुधानाः ।
(६,३२.२ ) वीरुद्वो विश्वतोवीर्या यमेन समजीगमत्॥२॥
(६,३२.३ ) अभयं मित्रावरुणाविहास्तु नोऽर्चिषात्त्रिणो नुदतं प्रतीचः ।
(६,३२.३ ) मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥३॥
(६,३३.१ ) यस्येदमा रजो युजस्तुजे जना नवं स्वः ।
(६,३३.१ ) इन्द्रस्य रन्त्यं बृहत्॥१॥
(६,३३.२ ) नाधृष आ दधृषते धृषाणो धृषितः शवः ।
(६,३३.२ ) पुरा यथा व्यथिः श्रव इन्द्रस्य नाधृषे शवः ॥२॥
(६,३३.३ ) स नो ददातु तां रयिमुरुं पिशङ्गसंदृशम् ।
(६,३३.३ ) इन्द्रः पतिस्तुविष्टमो जनेष्वा ॥३॥
(६,३४.१ ) प्राग्नये वाचमीरय वृषभाय क्षितीनाम् ।
(६,३४.१ ) स नः पर्षदति द्विषः ॥१॥
(६,३४.२ ) यो रक्षांसि निजूर्वत्यग्निस्तिग्मेन शोचिषा ।
(६,३४.२ ) स नः पर्षदति द्विषः ॥२॥
(६,३४.३ ) यः परस्याः परावतस्तिरो धन्वातिरोचते ।
(६,३४.३ ) स नः पर्षदति द्विषः ॥३॥
(६,३४.४ ) यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
(६,३४.४ ) स नः पर्षदति द्विषः ॥४॥
(६,३४.५ ) यो अस्य पारे रजसः शुक्रो अग्निरजायत ।
(६,३४.५ ) स नः पर्षदति द्विषः ॥५॥
(६,३५.१ ) वैश्वानरो न ऊतय आ प्र यातु परावतः ।
(६,३५.१ ) अग्निर्नः सुष्टुतीरुप ॥१॥
(६,३५.२ ) वैश्वानरो न आगमदिमं यज्ञं सजूरुप ।
(६,३५.२ ) अग्निरुक्थेष्वंहसु ॥२॥
(६,३५.३ ) वैश्वानरोऽङ्गिरसां स्तोममुक्थं च चाकॢपत्।
(६,३५.३ ) ऐषु द्युम्नं स्वर्यमत्॥३॥
(६,३६.१ ) ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् ।
(६,३६.१ ) अजस्रं घर्ममीमहे ॥१॥
(६,३६.२ ) स विश्वा प्रति चाकॢप ऋतूंरुत्सृजते वशी ।
(६,३६.२ ) यज्ञस्य वय उत्तिरन् ॥२॥
(६,३६.३ ) अग्निः परेषु धामसु कामो भूतस्य भव्यस्य ।
(६,३६.३ ) सम्रादेको वि राजति ॥३॥
(६,३७.१ ) उप प्रागात्सहस्राक्षो युक्त्वा शपथो रथम् ।
(६,३७.१ ) शप्तारमन्विछन् मम वृक इवाविमतो गृहम् ॥१॥
(६,३७.२ ) परि णो वृङ्ग्धि शपथ ह्रदमग्निरिवा दहन् ।
(६,३७.२ ) शप्तारमत्र नो जहि दिवो वृक्षमिवाशनिः ॥२॥
(६,३७.३ ) यो नः शपादशपतः शपतो यश्च नः शपात्।
(६,३७.३ ) शुने पेष्ट्रमिवावक्षामं तं प्रत्यस्यामि मृत्यवे ॥३॥
(६,३८.१ ) सिंहे व्याघ्र उत या पृदाकौ त्विषिरग्नौ ब्राह्मणे सूर्ये या ।
(६,३८.१ ) इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥१॥
(६,३८.२ ) या हस्तिनि द्वीपिनि या हिरण्ये त्विषिरप्सु गोषु या पुरुषेषु ।
(६,३८.२ ) इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥२॥
(६,३८.३ ) रथे अक्षेष्वृषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे ।
(६,३८.३ ) इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥३॥
(६,३८.४ ) राजन्ये दुन्दुभावायतायामश्वस्य वाजे पुरुषस्य मायौ ।
(६,३८.४ ) इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा सम्विदाना ॥४॥
(६,३९.१ ) यशो हविर्वर्धतामिन्द्रजूतं सहस्रवीर्यं सुभृतं सहस्कृतम् ।
(६,३९.१ ) प्रसर्स्राणमनु दीर्घाय चक्षसे हविष्मन्तं मा वर्धय ज्येष्ठतातये ॥१॥
(६,३९.२ ) अछा न इन्द्रं यशसं यशोभिर्यशस्विनं नमसाना विधेम ।
(६,३९.२ ) स नो रास्व राष्ट्रमिन्द्रजूतं तस्य ते रातौ यशसः स्याम ॥२॥
(६,३९.३ ) यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत ।
(६,३९.३ ) यशा विश्वस्य भूतस्य अहमस्मि यशस्तमः ॥३॥
(६,४०.१ ) अभयं द्यावापृथिवी इहास्तु नोऽभयं सोमः सविता नः कृणोतु ।
(६,४०.१ ) अभयं नोऽस्तूर्वन्तरिक्षं सप्तऋषीणां च हविषाभयं नो अस्तु ॥१॥
(६,४०.२ ) अस्मै ग्रामाय प्रदिशश्चतस्र ऊर्जं सुभूतं स्वस्ति सविता नः कृणोतु ।
(६,४०.२ ) अशत्र्विन्द्रो अभयं नः कृणोत्वन्यत्र राज्ञामभि यातु मन्युः ॥२॥
(६,४०.३ ) अनमित्रं नो अधरादनमित्रं न उत्तरात्।
(६,४०.३ ) इन्द्रानमित्रं नः पश्चादनमित्रं पुरस्कृधि ॥३॥
(६,४१.१ ) मनसे चेतसे धिय आकूतय उत चित्तये ।
(६,४१.१ ) मत्यै श्रुताय चक्षसे विधेम हविषा वयम् ॥१॥
(६,४१.२ ) अपानाय व्यानाय प्राणाय भूरिधायसे ।
(६,४१.२ ) सरस्वत्या उरुव्यचे विधेम हविषा वयम् ॥२॥
(६,४१.३ ) मा नो हासिषुरृषयो दैव्या ये तनूपा ये नस्तन्वस्तनूजाः ।
(६,४१.३ ) अमर्त्या मर्त्यामभि नः सचध्वमायुर्धत्त प्रतरं जीवसे नः ॥३॥
(६,४२.१ ) अव ज्यामिव धन्वनो मन्युं तनोमि ते हृदः ।
(६,४२.१ ) यथा संमनसौ भूत्वा सखायाविव सचावहै ॥१॥
(६,४२.२ ) सखायाविव सचावहा अव मन्युं तनोमि ते ।
(६,४२.२ ) अधस्ते अश्मनो मन्युमुपास्यामसि यो गुरुः ॥२॥
(६,४२.३ ) अभि तिष्ठामि ते मन्युं पार्ष्ण्या प्रपदेन च ।
(६,४२.३ ) यथावशो न वादिषो मम चित्तमुपायसि ॥३॥
(६,४३.१ ) अयं दर्भो विमन्युकः स्वाय चारणाय च ।
(६,४३.१ ) मन्योर्विमन्युकस्यायं मन्युशमन उच्यते ॥१॥
(६,४३.२ ) अयं यो भूरिमूलः समुद्रमवतिष्ठति ।
(६,४३.२ ) दर्भः पृथिव्या उत्थितो मन्युशमन उच्यते ॥२॥
(६,४३.३ ) वि ते हनव्यां शरणिं वि ते मुख्यां नयामसि ।
(६,४३.३ ) यथावशो न वादिषो मम चित्तमुपायसि ॥३॥
(६,४४.१ ) अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्।
(६,४४.१ ) अस्थुर्वृक्षा ऊर्ध्वस्वप्नास्तिष्ठाद्रोगो अयं तव ॥१॥
(६,४४.२ ) शतं या भेषजानि ते सहस्रं संगतानि च ।
(६,४४.२ ) श्रेष्ठमास्रावभेषजं वसिष्ठं रोगनाशनम् ॥२॥
(६,४४.३ ) रुद्रस्य मूत्रमस्यमृतस्य नाभिः ।
(६,४४.३ ) विषाणका नाम वा असि पितॄणां मूलादुत्थिता वातीकृतनाशनी ॥३॥
(६,४५.१ ) परोऽपेहि मनस्पाप किमशस्तानि शंससि ।
(६,४५.१ ) परेहि न त्वा कामये वृक्षां वनानि सं चर गृहेषु गोषु मे मनः ॥१॥
(६,४५.२ ) अवशसा निःशसा यत्पराशसोपारिम जाग्रतो यत्स्वपन्तः ।
(६,४५.२ ) अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥२॥
(६,४५.३ ) यदिन्द्र ब्रह्मणस्पतेऽपि मृषा चरामसि ।
(६,४५.३ ) प्रचेता न आङ्गिरसो दुरितात्पात्वंहसः ॥३॥
(६,४६.१ ) यो न जीवोऽसि न मृतो देवानाममृतगर्भोऽसि स्वप्न ।
(६,४६.१ ) वरुणानी ते माता यमः पिताररुर्नामासि ॥१॥
(६,४६.२ ) विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः ।
(६,४६.२ ) अन्तकोऽसि मृत्युरसि तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥२॥
(६,४६.३ ) यथा कलां यथा शफं यथर्णं संनयन्ति ।
(६,४६.३ ) एवा दुष्वप्न्यं सर्वं द्विषते सं नयामसि ॥३॥
(६,४७.१ ) अग्निः प्रातःसवने पात्वस्मान् वैश्वानरो विश्वकृद्विश्वशंभूः ।
(६,४७.१ ) स नः पावको द्रविणे दधात्वायुष्मन्तः सहभक्षाः स्याम ॥१॥
(६,४७.२ ) विश्वे देवा मरुत इन्द्रो अस्मान् अस्मिन् द्वितीये सवने न जह्युः ।
(६,४७.२ ) आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्याम ॥२॥
(६,४७.३ ) इदं तृतीयं सवनं कवीनामृतेन ये चमसमैरयन्त ।
(६,४७.३ ) ते सौधन्वनाः स्वरानशानाः स्विष्टिं नो अभि वस्यो नयन्तु ॥३॥
(६,४८.१ ) श्येनोऽसि गायत्रछन्दा अनु त्वा रभे ।
(६,४८.१ ) स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥१॥
(६,४८.२ ) ऋभुरसि जगछन्दा अनु त्वा रभे ।
(६,४८.२ ) स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥२॥
(६,४८.३ ) वृषासि त्रिष्टुप्छन्दा अनु त्वा रभे ।
(६,४८.३ ) स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥३॥
(६,४९.१ ) नहि ते अग्ने तन्वः क्रूरमानंश मर्त्यः ।
(६,४९.१ ) कपिर्बभस्ति तेजनं स्वं जरायु गौरिव ॥१॥
(६,४९.२ ) मेष इव वै सं च वि चोर्वच्यसे यदुत्तरद्रावुपरश्च खादतः ।
(६,४९.२ ) शीर्ष्णा शिरोऽप्ससाप्सो अर्दयन्न् अंशून् बभस्ति हरितेभिरासभिः ॥२॥
(६,४९.३ ) सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः ।
(६,४९.३ ) नि यन् नियन्ति उपरस्य निष्कृतिं पुरू रेतो दधिरे सूर्यश्रितः ॥३॥
(६,५०.१ ) हतं तर्दं समङ्कमाखुमश्विना छिन्तं शिरो अपि पृष्टीः शृणीतम् ।
(६,५०.१ ) यवान् नेददान् अपि नह्यतं मुखमथाभयं कृणुतं धान्याय ॥१॥
(६,५०.२ ) तर्द है पतङ्ग है जभ्य हा उपक्वस ।
(६,५०.२ ) ब्रह्मेवासंस्थितं हविरनदन्त इमान् यवान् अहिंसन्तो अपोदित ॥२॥
(६,५०.३ ) तर्दापते वघापते तृष्टजम्भा आ शृणोत मे ।
(६,५०.३ ) य आरण्या व्यद्वरा ये के च स्थ व्यद्वरास्तान्त्सर्वान् जम्भयामसि ॥३॥
(६,५१.१ ) वायोः पूतः पवित्रेण प्रत्यङ्सोमो अति द्रुतः ।
(६,५१.१ ) इन्द्रस्य युजः सखा ॥१॥
(६,५१.२ ) आपो अस्मान् मातरः सूदयन्तु घृतेन नो घृतप्वः पुनन्तु ।
(६,५१.२ ) विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ॥२॥
(६,५१.३ ) यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरन्ति ।
(६,५१.३ ) अचित्त्या चेत्तव धर्म युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥३॥
(६,५२.१ ) उत्सूर्यो दिव एति पुरो रक्षांसि निजूर्वन् ।
(६,५२.१ ) आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥१॥
(६,५२.२ ) नि गावो गोष्ठे असदन् नि मृगासो अविक्षत ।
(६,५२.२ ) न्यूर्मयो नदीनं न्यदृष्टा अलिप्सत ॥२॥
(६,५२.३ ) आयुर्ददं विपश्चितं श्रुतां कण्वस्य वीरुधम् ।
(६,५२.३ ) आभारिषं विश्वभेषजीमस्यादृष्टान् नि शमयत्॥३॥
(६,५३.१ ) द्यौश्च म इदं पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणया पिपर्तु ।
(६,५३.१ ) अनु स्वधा चिकितां सोमो अग्निर्वायुर्नः पातु सविता भगश्च ॥१॥
(६,५३.२ ) पुनः प्राणः पुनरात्मा न ऐतु पुनश्चक्षुः पुनरसुर्न ऐतु ।
(६,५३.२ ) वैश्वानरो नो अदब्धस्तनूपा अन्तस्तिष्ठाति दुरितानि विश्वा ॥२॥
(६,५३.३ ) सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन ।
(६,५३.३ ) त्वष्टा नो अत्र वरीयः कृणोत्वनु नो मार्ष्टु तन्वो यद्विरिष्टम् ॥३॥
(६,५४.१ ) इदं तद्युज उत्तरमिन्द्रं शुम्भाम्यष्टये ।
(६,५४.१ ) अस्य क्षत्रं श्रियं महीं वृष्टिरिव वर्धया तृणम् ॥१॥
(६,५४.२ ) अस्मै क्षत्रमग्नीषोमावस्मै धारयतं रयिम् ।
(६,५४.२ ) इमं राष्ट्रस्याभीवर्गे कृणुतं युज उत्तरम् ॥२॥
(६,५४.३ ) सबन्धुश्चासबन्धुश्च यो अस्मामभिदासति ।
(६,५४.३ ) सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥३॥
(६,५५.१ ) ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति ।
(६,५५.१ ) तेषामज्यानिं यतमो वहाति तस्मै मा देवाः परि दत्तेह सर्वे ॥१॥
(६,५५.२ ) ग्रीष्मो हेमन्तः शिशिरो वसन्तः शरद्वर्षाः स्विते नो दधात ।
(६,५५.२ ) आ नो गोषु भजता प्रजायां निवात इद्वः शरणे स्याम ॥२॥
(६,५५.३ ) इदावत्सराय परिवत्सराय संवत्सराय कृणुता बृहन् नमः ।
(६,५५.३ ) तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौ मनसे स्याम ॥३॥
(६,५६.१ ) मा नो देवा अहिर्वधीत्सतोकान्त्सहपुरुषान् ।
(६,५६.१ ) सम्यतं न वि ष्परद्व्यात्तं न सं यमन् नमो देवजनेभ्यः ।
(६,५६.२ ) नमोऽस्त्वसिताय नमस्तिरश्चिराजये ।
(६,५६.२ ) स्वजाय बभ्रवे नमो नमो देवजनेभ्यः ॥२॥
(६,५६.३ ) सं ते हन्मि दता दतः समु ते हन्वा हनू ।
(६,५६.३ ) सं ते जिह्वया जिह्वां सं वास्नाह आस्यम् ॥३॥
(६,५७.१ ) इदमिद्वा उ भेषजमिदं रुद्रस्य भेषजम् ।
(६,५७.१ ) येनेषुमेकतेजनां शतशल्यामपब्रवत्॥१॥
(६,५७.२ ) जालाषेणाभि षिञ्चत जालाषेणोप सिञ्चत ।
(६,५७.२ ) जालाषमुग्रं भेषजं तेन नो मृड जीवसे ॥२॥
(६,५७.३ ) शं च नो मयश्च नो मा च नः किं चनाममत्।
(६,५७.३ ) क्षमा रपो विश्वं नो अस्तु भेषजं सर्वं नो अस्तु भेषजम् ॥३॥
(६,५८.१ ) यशसं मेन्द्रो मघवान् कृणोतु यशसं द्यावापृथिवी उभे इमे ।
(६,५८.१ ) यशसं मा देवः सविता कृणोतु प्रियो दातुर्दक्षिणाया इह स्याम् ॥१॥
(६,५८.२ ) यथेन्द्रो द्यावापृथिव्योर्यशस्वान् यथाप ओषधीषु यशस्वतीः ।
(६,५८.२ ) एवा विश्वेषु देवेषु वयं सर्वेषु यशसः स्याम ॥२॥
(६,५८.३ ) यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत ।
(६,५८.३ ) यशा विश्वस्य भूतस्याहमस्मि यशस्तमः ॥३॥
(६,५९.१ ) अनडुद्भ्यस्त्वं प्रथमं धेनुभ्यस्त्वमरुन्धति ।
(६,५९.१ ) अधेनवे वयसे शर्म यछ चतुष्पदे ॥१॥
(६,५९.२ ) शर्म यछत्वोषधिः सह देवीररुन्धती ।
(६,५९.२ ) करत्पयस्वन्तं गोष्ठमयक्ष्मामुत पूरुषान् ॥२॥
(६,५९.३ ) विश्वरूपां सुभगामछावदामि जीवलाम् ।
(६,५९.३ ) सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः ॥३॥
(६,६०.१ ) अयमा यात्यर्यमा पुरस्ताद्विषितस्तुपः ।
(६,६०.१ ) अस्या इछन्न् अग्रुवै पतिमुत जायामजानये ॥१॥
(६,६०.२ ) अश्रमदियमर्यमन्न् अन्यासां समनं यती ।
(६,६०.२ ) अङ्गो न्वर्यमन्न् अस्या अन्याः समनमायति ॥२॥
(६,६०.३ ) धाता दाधार पृथिवीं धाता द्यामुत सूर्यम् ।
(६,६०.३ ) धातास्या अग्रुवै पतिं दधातु प्रतिकाम्यम् ॥३॥
(६,६१.१ ) मह्यमापो मधुमदेरयन्तां मह्यं सूरो अभरज्ज्योतिषे कम् ।
(६,६१.१ ) मह्यं देवा उत विश्वे तपोजा मह्यं देवः सविता व्यचो धात्॥१॥
(६,६१.२ ) अहं विवेच पृथिवीमुत द्यामहमृतूंरजनयं सप्त साकम् ।
(६,६१.२ ) अहं सत्यमनृतं यद्वदाम्यहं दैवीं परि वाचं विशश्च ॥२॥
(६,६१.३ ) अहं जजान पृथिवीमुत द्यामहमृतूंरजनयं सप्त सिन्धून् ।
(६,६१.३ ) अहं सत्वमनृतं यद्वदामि यो अग्नीषोमावजुषे सखाया ॥३॥
(६,६२.१ ) वैश्वानरो रश्मिभिर्नः पुनातु वातः प्राणेनेषिरो नभोभिः ।
(६,६२.१ ) द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये न पुनीताम् ॥१॥
(६,६२.२ ) वैश्वानरीं सूनृतामा रभध्वं यस्या आशास्तन्वो वीतपृष्ठाः ।
(६,६२.२ ) तया गृणन्तः सधमादेषु वयं स्याम पतयो रयीनाम् ॥२॥
(६,६२.३ ) वैश्वानरीं वर्चस आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः ।
(६,६२.३ ) इहेडया सधमादं मदन्तो ज्योक्पश्येम सूर्यमुच्चरन्तम् ॥३॥
(६,६३.१ ) यत्ते देवी निरृतिराबबन्ध दाम ग्रीवास्वविमोक्यं यत्।
(६,६३.१ ) तत्ते वि ष्याम्यायुषे वर्चसे बलायादोमदमन्नमद्धि प्रसूतः ॥१॥
(६,६३.२ ) नमोऽस्तु ते निरृते तिग्मतेजोऽयस्मयान् वि चृता बन्धपाशान् ।
(६,६३.२ ) यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥२॥
(६,६३.३ ) अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम् ।
(६,६३.३ ) यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् ॥३॥
(६,६३.४ ) संसमिद्युवसे वृषन्न् अग्ने विश्वान्यर्य आ ।
(६,६३.४ ) इडस्पदे समिध्यसे स नो वसून्या भर ॥४॥
(६,६४.१ ) सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम् ।
(६,६४.१ ) देवा भागं यथा पूर्वे सम्जानाना उपासते ॥१॥
(६,६४.२ ) समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तमेषाम् ।
(६,६४.२ ) समानेन वो हविषा जुहोमि समानं चेतो अभिसंविशध्वम् ॥२॥
(६,६४.३ ) समानी व आकूतिः समाना हृदयानि वः ।
(६,६४.३ ) समानमस्तु वो मनः यथा वः सुसहासति ॥३॥
(६,६५.१ ) अव मन्युरवायताव बाहू मनोयुजा ।
(६,६५.१ ) पराशर त्वं तेषां पराञ्चं शुष्ममर्दयाधा नो रयिमा कृधि ॥१॥
(६,६५.२ ) निर्हस्तेभ्यो नैर्हस्तं यं देवाः शरुमस्यथ ।
(६,६५.२ ) वृश्चामि शत्रूणां बाहून् अनेन हविषाऽहम् ॥२॥
(६,६५.३ ) इन्द्रश्चकार प्रथमं नैर्हस्तमसुरेभ्यः ।
(६,६५.३ ) जयन्तु सत्वानो मम स्थिरेणेन्द्रेण मेदिना ॥३॥
(६,६६.१ ) निर्हस्तः शत्रुरभिदासन्न् अस्तु ये सेनाभिर्युधमायन्त्यस्मान् ।
(६,६६.१ ) समर्पयेन्द्र महता वधेन द्रात्वेषामघहारो विविद्धः ॥१॥
(६,६६.२ ) आतन्वाना आयछन्तोऽस्यन्तो ये च धावथ ।
(६,६६.२ ) निर्हस्ताः शत्रवः स्थनेन्द्रो वोऽद्य पराशरीत्॥२॥
(६,६६.३ ) निर्हस्ताः सन्तु शत्रवोऽङ्गैषां म्लापयामसि ।
(६,६६.३ ) अथैषामिन्द्र वेदांसि शतशो वि भजामहै ॥३॥
(६,६७.१ ) परि वर्त्मानि सर्वत इन्द्रः पूषा च सस्रतुः ।
(६,६७.१ ) मुह्यन्त्वद्यामूः सेना अमित्राणां परस्तराम् ॥१॥
(६,६७.२ ) मूढा अमित्राश्चरताशीर्षाण इवाहयः ।
(६,६७.२ ) तेषां वो अग्निमूढानामिन्द्रो हन्तु वरंवरम् ॥२॥
(६,६७.३ ) ऐषु नह्य वृषाजिनं हरिणस्य भियं कृधि ।
(६,६७.३ ) पराङमित्र एषत्वर्वाची गौरुपेषतु ॥३॥
(६,६८.१ ) आयमगन्त्सविता क्षुरेणोष्णेन वाय उदकेनेहि ।
(६,६८.१ ) आदित्या रुद्रा वसव उन्दन्तु सचेतसः सोमस्य राज्ञो वपत प्रचेतसः ॥१॥
(६,६८.२ ) अदितिः श्मश्रु वपत्वाप उन्दन्तु वर्चसा ।
(६,६८.२ ) चिकित्सतु प्रजापतिर्दीर्घायुत्वाय चक्षसे ॥२॥
(६,६८.३ ) येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् ।
(६,६८.३ ) तेन ब्रह्माणो वपतेदमस्य गोमान् अश्ववान् अयमस्तु प्रजावान् ॥३॥
(६,६९.१ ) गिरावरगराटेषु हिरन्ये गोषु यद्यशः ।
(६,६९.१ ) सुरायां सिच्यमानायां कीलाले मधु तन् मयि ॥१॥
(६,६९.२ ) अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती ।
(६,६९.२ ) यथा भर्गस्वतीं वाचमावदानि जनामनु ॥२॥
(६,६९.३ ) मयि वर्चो अथो यशोऽथो यज्ञस्य यत्पयः ।
(६,६९.३ ) तन् मयि प्रजापतिर्दिवि द्यामिव दृंहतु ॥३॥
(६,७०.१ ) यथा मांसं यथा सुरा यथाक्षा अधिदेवने ।
(६,७०.१ ) यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।
(६,७०.१ ) एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥१॥
(६,७०.२ ) यथा हस्ती हस्तिन्याः पदेन पदमुद्युजे ।
(६,७०.२ ) यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।
(६,७०.२ ) एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥२॥
(६,७०.३ ) यथा प्रधिर्यथोपधिर्यथा नभ्यं प्रधावधि ।
(६,७०.३ ) यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।
(६,७०.३ ) एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥३॥
(६,७१.१ ) यदन्नमद्मि बहुधा विरूपं हिरण्यमश्वमुत गामजामविम् ।
(६,७१.१ ) यदेव किं च प्रतिजग्रहाहमग्निष्टद्धोता सुहुतं कृनोतु ॥१॥
(६,७१.२ ) यन् मा हुतमहुतमाजगाम दत्तं पितृभिरनुमतं मनुष्यैः ।
(६,७१.२ ) यस्मान् मे मन उदिव रारजीत्यग्निष्टद्धोता सुहुतं कृणोतु ॥२॥
(६,७१.३ ) यदन्नमद्म्यनृतेन देवा दास्यन्न् अदास्यन्न् उत संगृणामि ।
(६,७१.३ ) वैश्वानरस्य महतो महिम्ना शिवं मह्यं मधुमदस्त्वन्नम् ॥३॥
(६,७२.१ ) यथासितः प्रथयते वशामनु वपूंषि कृण्वन्न् असुरस्य मायया ।
(६,७२.१ ) एवा ते शेपः सहसायमर्कोऽङ्गेनाङ्गं संसमकं कृणोतु ॥१॥
(६,७२.२ ) यथा पसस्तायादरं वातेन स्थूलभं कृतम् ।
(६,७२.२ ) यावत्परस्वतः पसस्तावत्ते वर्धतां पसः ॥२॥
(६,७२.३ ) यावदङ्गीनं पारस्वतं हास्तिनं गार्दभं च यत्।
(६,७२.३ ) यावदश्वस्य वाजिनस्तावत्ते वर्धतां पसः ॥३॥
(६,७३.१ ) एह यातु वरुणः सोमो अग्निर्बृहस्पतिर्वसुभिरेह यातु ।
(६,७३.१ ) अस्य श्रियमुपसंयात सर्व उग्रस्य चेत्तुः संमनसः सजाताः ॥१॥
(६,७३.२ ) यो वः शुष्मो हृदयेष्वन्तराकूतिर्या वो मनसि प्रविष्टा ।
(६,७३.२ ) तान्त्सीवयामि हविषा घृतेन मयि सजाता रमतिर्वो अस्तु ॥२॥
(६,७३.३ ) इहैव स्त माप याताध्यस्मत्पूषा परस्तादपथं वः कृणोतु ।
(६,७३.३ ) वास्तोष्पतिरनु वो जोहवीतु मयि सजाता रमतिः वो अस्तु ॥३॥
(६,७४.१ ) सं वः पृच्यन्तां तन्वः सं मनांसि समु व्रता ।
(६,७४.१ ) सं वोऽयं ब्रह्मणस्पतिर्भगः सं वो अजीगमत्॥१॥
(६,७४.२ ) सम्ज्ञपनं वो मनसोऽथो सम्ज्ञपनं हृदः ।
(६,७४.२ ) अथो भगस्य यच्छ्रान्तं तेन संज्ञपयामि वः ॥२॥
(६,७४.३ ) यथादित्या वसुभिः सम्बभूवुर्मरुद्भिरुग्रा अहृणीयमानाः ।
(६,७४.३ ) एवा त्रिणामन्न् अहृणीयमान इमान् जनान्त्संमनसस्कृधीह ॥३॥
(६,७५.१ ) निरमुं नुद ओकसः सपत्नो यः पृतन्यति ।
(६,७५.१ ) नैर्बाध्येन हविषेन्द्र एनं पराशरीत्॥१॥
(६,७५.२ ) परमां तं परावतमिन्द्रो नुदतु वृत्रहा ।
(६,७५.२ ) यतो न पुनरायति शश्वतीभ्यः समाभ्यः ॥२॥
(६,७५.३ ) एतु तिस्रः परावत एतु पञ्च जनामति ।
(६,७५.३ ) एतु तिस्रोऽति रोचना यतो न पुनरायति ।
(६,७५.३ ) शश्वतीभ्यः समाभ्यो यावत्सूर्यो असद्दिवि ॥३॥
(६,७६.१ ) य एनं परिषीदन्ति समादधति चक्षसे ।
(६,७६.१ ) संप्रेद्धो अग्निर्जिह्वाभिरुदेतु हृदयादधि ॥१॥
(६,७६.२ ) अग्नेः साम्तपनस्याहमायुषे पदमा रभे ।
(६,७६.२ ) अद्धातिर्यस्य पश्यति धूममुद्यन्तमास्यतः ॥२॥
(६,७६.३ ) यो अस्य समिधं वेद क्षत्रियेण समाहिताम् ।
(६,७६.३ ) नाभिह्वारे पदं नि दधाति स मृत्यवे ॥३॥
(६,७६.४ ) नैनं घ्नन्ति पर्यायिणो न सन्नामव गछति ।
(६,७६.४ ) अग्नेर्यः क्षत्रियो विद्वान् नाम गृह्नाति आयुषे ॥४॥
(६,७७.१ ) अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्।
(६,७७.१ ) आस्थाने पर्वता अस्थु स्थाम्न्यश्वामतिष्ठिपम् ॥१॥
(६,७७.२ ) य उदानत्परायणं य उदानण्न्यायनम् ।
(६,७७.२ ) आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥२॥
(६,७७.३ ) जातवेदो नि वर्तय शतं ते सन्त्वावृतः ।
(६,७७.३ ) सहस्रं त उपावृतस्ताभिर्नः पुनरा कृधि ॥३॥
(६,७८.१ ) तेन भूतेन हविषायमा प्यायतां पुनः ।
(६,७८.१ ) जायां यामस्मा आवाक्षुस्तां रसेनाभि वर्धताम् ॥१॥
(६,७८.२ ) अभि वर्धतां पयसाभि राष्ट्रेण वर्धताम् ।
(६,७८.२ ) रय्या सहस्रवर्चसेमौ स्तामनुपक्षितौ ॥२॥
(६,७८.३ ) त्वष्टा जायामजनयत्त्वष्टास्यै त्वां पतिम् ।
(६,७८.३ ) त्वष्टा सहस्रमायुंषि दीर्घमायुः कृणोतु वाम् ॥३॥
(६,७९.१ ) अयं नो नभसस्पतिः संस्फानो अभि रक्षतु ।
(६,७९.१ ) असमातिं गृहेषु नः ॥१॥
(६,७९.२ ) त्वं नो नभसस्पते ऊर्जं गृहेसु धारय ।
(६,७९.२ ) आ पुष्टमेत्वा वसु ॥२॥
(६,७९.३ ) देव संस्फान सहस्रापोषस्येशिषे ।
(६,७९.३ ) तस्य नो रास्व तस्य नो धेहि तस्य ते भक्तिवाम्सः स्याम ॥३॥
(६,८०.१ ) अन्तरिक्षेण पतति विश्वा भूतावचाकशत्।
(६,८०.१ ) शुनो दिव्यस्य यन् महस्तेना ते हविषा विधेम ॥१॥
(६,८०.२ ) ये त्रयः कालकाञ्जा दिवि देवा इव श्रिताः ।
(६,८०.२ ) तान्त्सर्वान् अह्व ऊतयेऽस्मा अरिष्टतातये ॥२॥
(६,८०.३ ) अप्सु ते जन्म दिवि ते सधस्थं समुद्रे अन्तर्महिमा ते पृथिव्याम् ।
(६,८०.३ ) शुनो दिव्यस्य यन् महस्तेना ते हविषा विधेम ॥३॥
(६,८१.१ ) यन्तासि यछसे हस्तावप रक्षांसि सेधसि ।
(६,८१.१ ) प्रजां धनं च गृह्णानः परिहस्तो अभूदयम् ॥१॥
(६,८१.२ ) परिहस्त वि धारय योनिं गर्भाय धातवे ।
(६,८१.२ ) मर्यादे पुत्रमा धेहि तं त्वमा गमयागमे ॥२॥
(६,८१.३ ) यं परिहस्तमबिभरदितिः पुत्रकाम्या ।
(६,८१.३ ) त्वष्टा तमस्या आ बध्नाद्यथा पुत्रं जनाद्॥३॥
(६,८२.१ ) आगछत आगतस्य नाम गृह्णाम्यायतः ।
(६,८२.१ ) इन्द्रस्य वृत्रघ्नो वन्वे वासवस्य शतक्रतोः ॥१॥
(६,८२.२ ) येन सूर्यां सावित्रीमश्विनोहतुः पथा ।
(६,८२.२ ) तेन मामब्रवीद्भगो जयामा वहतादिति ॥२॥
(६,८२.३ ) यस्तेऽङ्कुशो वसुदानो बृहन्न् इन्द्र हिरण्ययः ।
(६,८२.३ ) तेना जनियते जायां मह्यं धेहि शचीपते ॥३॥
(६,८३.१ ) अपचितः प्र पतत सुपर्णो वसतेरिव ।
(६,८३.१ ) सूर्यः कृणोतु भेषजं चन्द्रमा वोऽपोछतु ॥१॥
(६,८३.२ ) एन्येका श्येन्येका कृष्णैका रोहिणी द्वे ।
(६,८३.२ ) सर्वासामग्रभं नामावीरघ्नीरपेतन ॥२॥
(६,८३.३ ) असूतिका रामायण्यपचित्प्र पतिष्यति ।
(६,८३.३ ) ग्लौरितः प्र पतिष्यति स गलुन्तो नशिष्यति ॥३॥
(६,८३.४ ) वीहि स्वामाहुतिं जुषानो मनसा स्वाहा मनसा यदिदं जुहोमि ॥४॥
(६,८४.१ ) यस्यास्त आसनि घोरे जुहोम्येषां बद्धानामवसर्जनाय कम् ।
(६,८४.१ ) भूमिरिति त्वाभिप्रमन्वते जना निरृतिरिति त्वाहं परि वेद सर्वतः ॥१॥
(६,८४.२ ) भूते हविष्मती भवैष ते भागो यो अस्मासु ।
(६,८४.२ ) मुञ्चेमान् अमून् एनसः स्वाहा ॥२॥
(६,८४.३ ) एवो ष्वस्मन् निरृतेऽनेहा त्वमयस्मयान् वि चृता बन्धपाशान् ।
(६,८४.३ ) यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥३॥
(६,८४.४ ) अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम् ।
(६,८४.४ ) यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् ॥४॥
(६,८५.१ ) वरणो वारयाता अयं देवो वनस्पतिः ।
(६,८५.१ ) यक्ष्मो यो अस्मिन्न् आविष्टस्तमु देवा अवीवरन् ॥१॥
(६,८५.२ ) इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च ।
(६,८५.२ ) देवानां सर्वेषां वाचा यक्ष्मं ते वारयामहे ॥२॥
(६,८५.३ ) यथा वृत्र इमा आपस्तस्तम्भ विश्वधा यतीः ।
(६,८५.३ ) एवा ते अग्निना यक्ष्मं वैश्वानरेण वारये ॥३॥
(६,८६.१ ) वृषेन्द्रस्य वृषा दिवो वृसा पृथिव्या अयम् ।
(६,८६.१ ) वृषा विश्वस्य भूतस्य त्वमेकवृषो भव ॥१॥
(६,८६.२ ) समुद्र ईशे स्रवतामग्निः पृथिव्या वशी ।
(६,८६.२ ) चन्द्रमा नक्षत्राणामीशे त्वमेकवृषो भव ॥२॥
(६,८६.३ ) सम्राडस्यसुराणां ककुन् मनुष्यानाम् ।
(६,८६.३ ) देवानामर्धभागसि त्वमेकवृषो भव ॥३॥
(६,८७.१ ) आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाविचाचलत्।
(६,८७.१ ) विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत्॥१॥
(६,८७.२ ) इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलत्।
(६,८७.२ ) इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥२॥
(६,८७.३ ) इन्द्र एतमदीधरत्ध्रुवं ध्रुवेण हविषा ।
(६,८७.३ ) तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥३॥
(६,८८.१ ) ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत्।
(६,८८.१ ) ध्रुवासः पर्वता इमे ध्रुवो राजा विशामयम् ॥१॥
(६,८८.२ ) ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ।
(६,८८.२ ) ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥२॥
(६,८८.३ ) ध्रुवोऽच्युतः प्र मृणीहि शत्रून् छत्रूयतोऽधरान् पादयस्व ।
(६,८८.३ ) सर्वा दिशः संमनसः सध्रीचीर्ध्रुवाय ते समितिः कल्पतामिह ॥३॥
(६,८९.१ ) इदं यत्प्रेण्यः शिरो दत्तं सोमेन वृष्ण्यम् ।
(६,८९.१ ) ततः परि प्रजातेन हार्दिं ते शोचयामसि ॥१॥
(६,८९.२ ) शोचयामसि ते हार्दिं शोचयामसि ते मनः ।
(६,८९.२ ) वातं धूम इव सध्र्यङ्मामेवान्वेतु ये मनः ॥२॥
(६,८९.३ ) मह्यं त्वा मित्रावरुणौ मह्यं देवी सरस्वती ।
(६,८९.३ ) मह्यं त्वा मध्यं भूम्या उभावन्तौ समस्यताम् ॥३॥
(६,९०.१ ) यां ते रुद्र इषुमास्यदङ्गेभ्यो हृदयाय च ।
(६,९०.१ ) इदं तामद्य त्वद्वयं विषूचीं वि वृहामसि ॥१॥
(६,९०.२ ) यास्ते शतं धमनयोऽङ्गान्यनु विष्ठिताः ।
(६,९०.२ ) तासां ते सर्वासां वयं निर्विषाणि ह्वयामसि ॥२॥
(६,९०.३ ) नमस्ते रुद्रास्यते नमः प्रतिहितायै ।
(६,९०.३ ) नमो विसृज्यमानायै नमो निपतितायै ॥३॥
(६,९१.१ ) इमं यवमष्टायोगैः षद्योगेभिरचर्कृषुः ।
(६,९१.१ ) तेना ते तन्वो रपोऽपाचीनमप व्यये ॥१॥
(६,९१.२ ) न्यग्वातो वाति न्यक्तपति सूर्यः ।
(६,९१.२ ) नीचीनमघ्न्या दुहे न्यग्भवतु ते रपः ॥२॥
(६,९१.३ ) आप इद्वा उ भेषजीरापो अमीवचातनीः ।
(६,९१.३ ) आपो विश्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥३॥
(६,९२.१ ) वातरंहा भव वाजिन् युजमान इन्द्रस्य याहि प्रसवे मनोजवाः ।
(६,९२.१ ) युञ्जन्तु त्वा मरुतो विश्ववेदस आ ते त्वस्ता पत्सु जवं दधातु ॥१॥
(६,९२.२ ) जवस्ते अर्वन् निहितो गुहा यः श्येने वाते उत योऽचरत्परीत्तः ।
(६,९२.२ ) तेन त्वं वाजिन् बलवान् बलेनाजिं जय समने परयिष्णुः ॥२॥
(६,९२.३ ) तनूष्टे वाजिन् तन्वं नयन्ती वाममस्मभ्यं धावतु शर्म तुभ्यम् ।
(६,९२.३ ) अह्रुतो महो धरुणाय देवो दिवीव ज्योतिः स्वमा मिमीयात्॥३॥
(६,९३.१ ) यमो मृत्युरघमारो निरृथो बभ्रुः शर्वोऽस्ता नीलशिखण्डः ।
(६,९३.१ ) देवजनाः सेनयोत्तस्थिवांसस्ते अस्माकं परि वृञ्जन्तु वीरान् ॥१॥
(६,९३.२ ) मनसा होमैर्हरसा घृतेन शर्वायास्त्र उत राज्ञे भवाय ।
(६,९३.२ ) नमस्येभ्यो नम एभ्यः कृणोम्यन्यत्रास्मदघविषा नयन्तु ॥२॥
(६,९३.३ ) त्रायध्वं नो अघविषाभ्यो वधाद्विश्वे देवा मरुतो विश्ववेदसः ।
(६,९३.३ ) अग्नीषोमा वरुणः पूतदक्षा वातापर्जन्ययोः सुमतौ स्याम ॥३॥
(६,९४.१ ) सं वो मनांसि सं व्रता समाकूतीर्नमामसि ।
(६,९४.१ ) अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥१॥
(६,९४.२ ) अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत ।
(६,९४.२ ) मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥२॥
(६,९४.३ ) ओते मे द्यावापृथिवी ओता देवी सरस्वती ।
(६,९४.३ ) ओतौ म इन्द्रश्चाग्निश्च र्ध्यास्मेदं सरस्वति ॥३॥
(६,९५.१ ) अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि ।
(६,९५.१ ) तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥१॥
(६,९५.२ ) हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि ।
(६,९५.२ ) तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत ॥२॥
(६,९५.३ ) गर्भो अस्योषधीनां गर्भो हिमवतामुत ।
(६,९५.३ ) गर्भो विश्वस्य भूतस्येमं मे अगदं कृधि ॥३॥
(६,९६.१ ) या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।
(६,९६.१ ) बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥१॥
(६,९६.२ ) मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।
(६,९६.२ ) अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२॥
(६,९६.३ ) यच्चक्षुषा मनसा यच्च वाचोपारिम जाग्रतो यत्स्वपन्तः ।
(६,९६.३ ) सोमस्तानि स्वधया नः पुनातु ॥३॥
(६,९७.१ ) अभिभूर्यज्ञो अभिभूरग्निरभिभूः सोमो अभिभूरिन्द्रः ।
(६,९७.१ ) अभ्यहं विश्वाः पृतना यथासान्येवा विधेमाग्निहोत्रा इदं हविः ॥१॥
(६,९७.२ ) स्वधास्तु मित्रावरुणा विपश्चिता प्रजावत्क्षत्रं मधुनेह पिन्वतम् ।
(६,९७.२ ) बाधेथां दूरं निरृतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत्॥२॥
(६,९७.३ ) इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम् ।
(६,९७.३ ) ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥३॥
(६,९८.१ ) इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै ।
(६,९८.१ ) चर्कृत्य ईड्यो वन्द्यश्चोपसद्यो नमस्य्श्भवेह ॥१॥
(६,९८.२ ) त्वमिन्द्राधिराजः श्रवस्युस्त्वं भूरभिभूतिर्जनानाम् ।
(६,९८.२ ) त्वं दैवीर्विश इमा वि राजायुष्मत्क्षत्रमजरं ते अस्तु ॥२॥
(६,९८.३ ) प्राच्या दिशस्त्वमिन्द्रासि राजोतोदीच्या दिशो वृत्रहन् छत्रुहोऽसि ।
(६,९८.३ ) यत्र यन्ति स्रोत्यास्तज्जितं ते दक्षिणतो वृषभ एषि हव्यः ॥३॥
(६,९९.१ ) अभि त्वेन्द्र वरिमतः पुरा त्वांहूरणाद्धुवे ।
(६,९९.१ ) ह्वयाम्युग्रं चेत्तारं पुरुणामानमेकजम् ॥१॥
(६,९९.२ ) यो अद्य सेन्यो वधो जिघांसन् न उदीरते ।
(६,९९.२ ) इन्द्रस्य तत्र बाहू समन्तं परि दद्मः ॥२॥
(६,९९.३ ) परि दद्म इन्द्रस्य बाहू समन्तं त्रातुस्त्रायतां नः ।
(६,९९.३ ) देव सवितः सोम राजन्त्सुमनसं मा कृणु स्वस्तये ॥३॥
(६,१००.१ ) देवा अदुः सूर्यो द्यौरदात्पृथिव्यदात्।
(६,१००.१ ) तिस्रः सरस्वतिरदुः सचित्ता विषदूषणम् ॥१॥
(६,१००.२ ) यद्वो देवा उपजीका आसिञ्चन् धन्वन्युदकम् ।
(६,१००.२ ) तेन देवप्रसूतेनेदं दूषयता विषम् ॥२॥
(६,१००.३ ) असुराणां दुहितासि सा देवानामसि स्वसा ।
(६,१००.३ ) दिवस्पृथिव्याः संभूता सा चकर्थारसं विषम् ॥३॥
(६,१०१.१ ) आ वृषायस्व श्वसिहि वर्धस्व प्रथयस्व च ।
(६,१०१.१ ) यथाङ्गं वर्धतां शेपस्तेन योषितमिज्जहि ॥१॥
(६,१०१.२ ) येन कृषं वाजयन्ति येन हिन्वन्त्यातुरम् ।
(६,१०१.२ ) तेनास्य ब्रह्मणस्पते धनुरिवा तानया पसः ॥२॥
(६,१०१.३ ) आहं तनोमि ते पसो अधि ज्यामिव धन्वनि ।
(६,१०१.३ ) क्रमस्व ऋष इव रोहितमनवग्लायता सदा ॥३॥
(६,१०२.१ ) यथायं वाहो अश्विना समैति सं च वर्तते ।
(६,१०२.१ ) एवा मामभि ते मनः समैतु सं च वर्तताम् ॥१॥
(६,१०२.२ ) आहं खिदामि ते मनो राजाश्वः पृष्ट्यामिव ।
(६,१०२.२ ) रेष्मछिन्नं यथा तृणं मयि ते वेष्टतां मनः ॥२॥
(६,१०२.३ ) आञ्जनस्य मदुघस्य कुष्ठस्य नलदस्य च ।
(६,१०२.३ ) तुरो भगस्य हस्ताभ्यामनुरोधनमुद्भरे ॥३॥
(६,१०३.१ ) संदानं वो बृहस्पतिः संदानं सविता करत्।
(६,१०३.१ ) संदानं मित्रो अर्यमा संदानं भगो अश्विना ॥१॥
(६,१०३.२ ) सं परमान्त्समवमान् अथो सं द्यामि मध्यमान् ।
(६,१०३.२ ) इन्द्रस्तान् पर्यहार्दाम्ना तान् अग्ने सं द्या त्वम् ॥२॥
(६,१०३.३ ) अमी ये युधमायन्ति केतून् कृत्वानीकशः ।
(६,१०३.३ ) इन्द्रस्तान् पर्यहार्दाम्न तान् अग्ने सं द्या त्वम् ॥३॥
(६,१०४.१ ) आदानेन संदानेनामित्रान् आ द्यामसि ।
(६,१०४.१ ) अपाना ये चैषां प्राणा असुनासून्त्समछिदन् ॥१॥
(६,१०४.२ ) इदमादानमकरं तपसेन्द्रेण संशितम् ।
(६,१०४.२ ) अमित्रा येऽत्र नः सन्ति तान् अग्न आ द्या त्वम् ॥२॥
(६,१०४.३ ) ऐनान् द्यतामिन्द्राग्नी सोमो राजा च मेदिनौ ।
(६,१०४.३ ) इन्द्रो मरुत्वान् आदानममित्रेभ्यः कृणोतु नः ॥३॥
(६,१०५.१ ) यथा मनो मनस्केतैः परापतत्याशुमत्।
(६,१०५.१ ) एवा त्वं कासे प्र पत मनसोऽनु प्रवाय्यम् ॥१॥
(६,१०५.२ ) यथा बाणः सुसंशितः परापतत्याशुमत्।
(६,१०५.२ ) एवा त्वं कासे प्र पत पृथिव्या अनु संवतम् ॥२॥
(६,१०५.३ ) यथा सूर्यस्य रश्मयः परापतन्त्याशुमत्।
(६,१०५.३ ) एवा त्वं कासे प्र पत समुद्रस्यानु विक्षरम् ॥३॥
(६,१०६.१ ) आयने ते परायने दूर्वा रोहन्तु पुष्पिणीः ।
(६,१०६.१ ) उत्सो वा तत्र जायतां ह्रदो वा पुण्डरीकवान् ॥१॥
(६,१०६.२ ) अपामिदं न्ययनं समुद्रस्य निवेशनम् ।
(६,१०६.२ ) मध्ये ह्रदस्य नो गृहाः पराचीना मुखा कृधि ॥२॥
(६,१०६.३ ) हिमस्य त्वा जरायुणा शाले परि व्ययामसि ।
(६,१०६.३ ) शीतह्रदा हि नो भुवोऽग्निष्कृणोतु भेषजम् ॥३॥
(६,१०७.१ ) विश्वजित्त्रायमाणायै मा परि देहि ।
(६,१०७.१ ) त्रायमाणे द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥१॥
(६,१०७.२ ) त्रायमाणे विश्वजिते मा परि देहि ।
(६,१०७.२ ) विश्वजिद्द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥२॥
(६,१०७.३ ) विश्वजित्कल्याण्यै मा परि देहि ।
(६,१०७.३ ) कल्याणि द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥३॥
(६,१०७.४ ) कल्याणि सर्वविदे मा परि देहि ।
(६,१०७.४ ) सर्वविद्द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥४॥
(६,१०८.१ ) त्वं नो मेधे प्रथमा गोभिरश्वेभिरा गहि ।
(६,१०८.१ ) त्वं सूर्यस्य रश्मिभिस्त्वं नो असि यज्ञिया ॥१॥
(६,१०८.२ ) मेधामहं प्रथमां ब्रह्मण्वतीं ब्रह्मजूतामृषिष्टुताम् ।
(६,१०८.२ ) प्रपीतां ब्रह्मचारिभिर्देवानामवसे हुवे ॥२॥
(६,१०८.३ ) यां मेधामृभवो विदुर्यां मेधामसुरा विदुः ।
(६,१०८.३ ) ऋषयो भद्रां मेधां यां विदुस्तां मय्या वेशयामसि ॥३॥
(६,१०८.४ ) यामृषयो भूतकृतो मेधां मेधाविनो विदुः ।
(६,१०८.४ ) तया मामद्य मेधयाग्ने मेधाविनं कृणु ॥४॥
(६,१०८.५ ) मेधां सायं मेधां प्रातर्मेधां मध्यन्दिनं परि ।
(६,१०८.५ ) मेधां सूर्यस्य रश्मिभिर्वचसा वेशयामहे ॥५॥
(६,१०९.१ ) पिप्पली क्षिप्तभेषज्युतातिविद्धभेषजी ।
(६,१०९.१ ) तां देवाः समकल्पयन्न् इयं जीवितवा अलम् ॥१॥
(६,१०९.२ ) पिप्पल्यः समवदन्तायतीर्जननादधि ।
(६,१०९.२ ) यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥२॥
(६,१०९.३ ) असुरास्त्वा न्यखनन् देवास्त्वोदवपन् पुनः ।
(६,१०९.३ ) वातीकृतस्य भेषजीमथो क्षिप्तस्य भेषजीम् ॥३॥
(६,११०.१ ) प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि ।
(६,११०.१ ) स्वां चाग्ने तन्वं पिप्रायस्वास्मभ्यं च सौभगमा यजस्व ॥१॥
(६,११०.२ ) ज्येष्ठघ्न्यां जातो विचृतोर्यमस्य मूलबर्हणात्परि पाह्येनम् ।
(६,११०.२ ) अत्येनं नेषद्दुरितानि विश्वा दीर्घायुत्वाय शतशारदाय ॥२॥
(६,११०.३ ) व्याघ्रेऽह्न्यजनिष्ट वीरो नक्षत्रजा जायमानः सुवीरः ।
(६,११०.३ ) स मा वधीत्पितरं वर्धमानो मा मातरं प्र मिनीज्जनित्रीम् ॥३॥
(६,१११.१ ) इमं मे अग्ने पुरुषं मुमुग्ध्ययं यो बद्धः सुयतो लालपीति ।
(६,१११.१ ) अतोऽधि ते कृणवद्भागधेयं यदानुन्मदितोऽसति ॥१॥
(६,१११.२ ) अग्निष्टे नि शमयतु यदि ते मन उद्युतम् ।
(६,१११.२ ) कृणोमि विद्वान् भेषजं यथानुन्मदितोऽससि ॥२॥
(६,१११.३ ) देवैनसादुन्मदितमुन्मत्तं रक्षसस्परि ।
(६,१११.३ ) कृणोमि विद्वान् भेषजं यदानुन्मदितोऽसति ॥३॥
(६,१११.४ ) पुनस्त्वा दुरप्सरसः पुनरिन्द्रः पुनर्भगः ।
(६,१११.४ ) पुनस्त्वा दुर्विश्वे देवा यथानुन्मदितोऽससि ॥४॥
(६,११२.१ ) मा ज्येष्ठं वधीदयमग्न एषां मूलबर्हणात्परि पाह्येनम् ।
(६,११२.१ ) स ग्राह्याः पाशान् वि चृत प्रजानन् तुभ्यं देवा अनु जानन्तु विश्वे ॥१॥
(६,११२.२ ) उन् मुञ्च पाशांस्त्वमग्न एषां त्रयस्त्रिभिरुत्सिता येभिरासन् ।
(६,११२.२ ) स ग्राह्याः पाशान् वि चृत प्रजानन् पितापुत्रौ मातरं मुञ्च सर्वान् ॥२॥
(६,११२.३ ) येभिः पाशैः परिवित्तो विबद्धोऽङ्गेअङ्ग आर्पित उत्सितश्च ।
(६,११२.३ ) वि ते मुच्यन्तं विमुचो हि सन्ति भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व ॥३॥
(६,११३.१ ) त्रिते देवा अमृजतैतदेनस्त्रित एनन् मनुष्येषु ममृजे ।
(६,११३.१ ) ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु ॥१॥
(६,११३.२ ) मरीचीर्धूमान् प्र विशानु पाप्मन्न् उदारान् गछोत वा नीहारान् ।
(६,११३.२ ) नदीनं फेनामनु तान् वि नश्य भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व ॥२॥
(६,११३.३ ) द्वादशधा निहितं त्रितस्यापमृष्टं मनुष्यैनसानि ।
(६,११३.३ ) ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु ॥३॥
(६,११४.१ ) यद्देवा देवहेडनं देवासश्चकृम वयम् ।
(६,११४.१ ) आदित्यास्तस्मान् नो युयमृतस्य ऋतेन मुञ्चत ॥१॥
(६,११४.२ ) ऋतस्य ऋतेनादित्या यजत्रा मुञ्चतेह नः ।
(६,११४.२ ) यज्ञं यद्यज्ञवाहसः शिक्षन्तो नोपशेकिम ॥२॥
(६,११४.३ ) मेदस्वता यजमानाः स्रुचाज्यानि जुह्वतः ।
(६,११४.३ ) अकामा विश्वे वो देवाः शिक्षन्तो नोप शेकिम ॥३॥
(६,११५.१ ) यद्विद्वांसो यदविद्वांस एनांसि चकृमा वयम् ।
(६,११५.१ ) यूयं नस्तस्मान् मुञ्चत विश्वे देवाः सजोषसः ॥१॥
(६,११५.२ ) यदि जाग्रद्यदि स्वपन्न् एन एनस्योऽकरम् ।
(६,११५.२ ) भूतं मा तस्माद्भव्यं च द्रुपदादिव मुञ्चताम् ॥२॥
(६,११५.३ ) द्रुपदादिव मुमुचानः स्विन्नः स्नात्वा मलादिव ।
(६,११५.३ ) पूतं पवित्रेणेवाज्यं विश्वे शुम्भन्तु मैनसः ॥३॥
(६,११६.१ ) यद्यामं चक्रुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया ।
(६,११६.१ ) वैवस्वते राजनि तज्जुहोम्यथ यज्ञियं मधुमदस्तु नोऽन्नम् ॥१॥
(६,११६.२ ) वैवस्वतः कृणवद्भागधेयं मधुभागो मधुना सं सृजाति ।
(६,११६.२ ) मातुर्यदेन इषितं न आगन् यद्वा पिताऽपराद्धो जिहीदे ॥२॥
(६,११६.३ ) यदीदं मातुर्यदि पितुर्नः परि भ्रातुः पुत्राच्चेतस एन आगन् ।
(६,११६.३ ) यावन्तो अस्मान् पितरः सचन्ते तेषां सर्वेषां शिवो अस्तु मन्युः ॥३॥
(६,११७.१ ) अपमित्यमप्रतीत्तं यदस्मि यमस्य येन बलिना चरामि ।
(६,११७.१ ) इदं तदग्ने अनृणो भवामि त्वं पाशान् विचृतं वेत्थ सर्वान् ॥१॥
(६,११७.२ ) इहैव सन्तः प्रति दद्म एनज्जीवा जीवेभ्यो नि हराम एनत्।
(६,११७.२ ) अपमित्य धान्यं यज्जघसाहमिदं तदग्ने अनृणो भवामि ॥२॥
(६,११७.३ ) अनृणा अस्मिन्न् अनृणाः परस्मिन् तृतीये लोके अनृणाः स्याम ।
(६,११७.३ ) ये देवयानाः पितृयाणश्च लोकाः सर्वान् पथो अनृणा आ क्षियेम ॥३॥
(६,११८.१ ) यद्धस्ताभ्यां चकृम किल्बिषाण्यक्षाणां गत्नुमुपलिप्समानाः ।
(६,११८.१ ) उग्रंपश्ये उग्रजितौ तदद्याप्सरसावनु दत्तामृणं नः ॥१॥
(६,११८.२ ) उग्रंपश्ये राष्ट्रभृत्किल्बिषाणि यदक्षवृत्तमनु दत्तं न एतत्।
(६,११८.२ ) ऋणान् नो न ऋणमेर्त्समानो यमस्य लोके अधिरज्जुरायत्॥२॥
(६,११८.३ ) यस्मा ऋणं यस्य जायामुपैमि यं याचमानो अभ्यैमि देवाः ।
(६,११८.३ ) ते वाचं वादिषुर्मोत्तरां मद्देवपत्नी अप्सरसावधीतम् ॥३॥
(६,११९.१ ) यददीव्यन्न् ऋणमहं कृणोम्यदास्यन्न् अग्ने उत संगृणामि ।
(६,११९.१ ) वैश्वानरो नो अधिपा वसिष्ठ उदिन् नयाति सुकृतस्य लोकम् ॥१॥
(६,११९.२ ) वैश्वानराय प्रति वेदयामि यदि ऋणं संगरो देवतासु ।
(६,११९.२ ) स एतान् पाशान् विचृतं वेद सर्वान् अथ पक्वेन सह सं भवेम ॥२॥
(६,११९.३ ) वैश्वानरः पविता मा पुनातु यत्संगरमभिधावाम्याशाम् ।
(६,११९.३ ) अनाजानन् मनसा याचमानो यत्तत्रैनो अप तत्सुवामि ॥३॥
(६,१२०.१ ) यदन्तरिक्षं पृथिवीमुत द्यां यन् मातरं पितरं वा जिहिंसिम ।
(६,१२०.१ ) अयं तस्माद्गार्हपत्यो नो अग्निरुदिन् नयाति सुकृतस्य लोकम् ॥१॥
(६,१२०.२ ) भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्त्या नः ।
(६,१२०.२ ) द्यौर्नः पिता पित्र्याच्छं भवाति जामिमृत्वा माव पत्सि लोकात्॥२॥
(६,१२०.३ ) यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः ।
(६,१२०.३ ) अश्लोना अङ्गैरह्रुताः स्वर्गे तत्र पश्येम पितरौ च पुत्रान् ॥३॥
(६,१२१.१ ) विषाणा पाशान् वि ष्याध्यस्मद्य उत्तमा अधमा वारुणा ये ।
(६,१२१.१ ) दुष्वप्न्यं दुरितं नि ष्वास्मदथ गछेम सुकृतस्य लोकम् ॥१॥
(६,१२१.२ ) यद्दारुणि बध्यसे यच्च रज्ज्वां यद्भूम्यां बध्यसे यच्च वाचा ।
(६,१२१.२ ) अयं तस्माद्गार्हपत्यो नो अग्निरुदिन् नयाति सुकृतस्य लोकम् ॥२॥
(६,१२१.३ ) उदगातां भगवती विचृतौ नाम तारके ।
(६,१२१.३ ) प्रेहामृतस्य यछतां प्रैतु बद्धकमोचनम् ॥३॥
(६,१२१.४ ) वि जिहीष्व लोकं कृणु बन्धान् मुञ्चासि बद्धकम् ।
(६,१२१.४ ) योन्या इव प्रच्युतो गर्भः पथः सर्वामनु क्षिय ॥४॥
(६,१२२.१ ) एतं भागं परि ददामि विद्वान् विश्वकर्मन् प्रथमजा ऋतस्य ।
(६,१२२.१ ) अस्माभिर्दत्तं जरसः परस्तादछिन्नं तन्तुमनु सं तरेम ॥१॥
(६,१२२.२ ) ततं तन्तुमन्वेके तरन्ति येषां दत्तं पित्र्यमायनेन ।
(६,१२२.२ ) अबन्ध्वेके ददतः प्रयछन्तो दातुं चेच्छिक्षान्त्स स्वर्ग एव ॥२॥
(६,१२२.३ ) अन्वारभेथामनुसंरभेथामेतं लोकं श्रद्दधानाः सचन्ते ।
(६,१२२.३ ) यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दम्पती सं श्रयेथाम् ॥३॥
(६,१२२.४ ) यज्ञं यन्तं मनसा बृहन्तमन्वारोहामि तपसा सयोनिः ।
(६,१२२.४ ) उपहूता अग्ने जरसः परस्तात्तृतीये नाके सधमादं मदेम ॥४॥
(६,१२२.५ ) शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि ।
(६,१२२.५ ) यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददातु तन् मे ॥५॥
(६,१२३.१ ) एतं सधस्थाः परि वो ददामि यं शेवधिमावहाज्जातवेदः ।
(६,१२३.१ ) अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन् ॥१॥
(६,१२३.२ ) जानीत स्मैनं परमे व्योमन् देवाः सधस्था विद लोकमत्र ।
(६,१२३.२ ) अन्वागन्ता यजमानः स्वस्तीष्टापूर्तं स्म कृणुताविरस्मै ॥२॥
(६,१२३.३ ) देवाः पितरः पितरो देवाः ।
(६,१२३.३ ) यो अस्मि सो अस्मि ॥३॥
(६,१२३.४ ) स पचामि स ददामि ।
(६,१२३.४ ) स यजे स दत्तान् मा यूषम् ॥४॥
(६,१२३.५ ) नाके राजन् प्रति तिष्ठ तत्रैतत्प्रति तिष्ठतु ।
(६,१२३.५ ) विद्धि पूर्तस्य नो राजन्त्स देव सुमना भव ॥५॥
(६,१२४.१ ) दिवो नु मां बृहतो अन्तरिक्षादपां स्तोको अभ्यपप्तद्रसेन ।
(६,१२४.१ ) समिन्द्रियेन पयसाहमग्ने छन्दोभिर्यज्ञैः सुकृतां कृतेन ॥१॥
(६,१२४.२ ) यदि वृक्षादभ्यपप्तत्फलं तद्यद्यन्तरिक्षात्स उ वायुरेव ।
(६,१२४.२ ) यत्रास्पृक्षत्तन्वो यच्च वासस आपो नुदन्तु निरृतिं पराचैः ॥२॥
(६,१२४.३ ) अभ्यञ्जनं सुरभि सा समृद्धिर्हिरण्यं वर्चस्तदु पूत्रिममेव ।
(६,१२४.३ ) सर्वा पवित्रा वितताध्यस्मत्तन् मा तारीन् निरृतिर्मो अरातिः ॥३॥
(६,१२५.१ ) वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः ।
(६,१२५.१ ) गोभिः संनद्धो असि वीडयस्वास्थाता ते जयतु जेत्वानि ॥१॥
(६,१२५.२ ) दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः ।
(६,१२५.२ ) अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज ॥२॥
(६,१२५.३ ) इन्द्रस्यौजो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।
(६,१२५.३ ) स इमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥३॥
(६,१२६.१ ) उप श्वासय पृथिवीमुत द्यं पुरुत्रा ते वन्वतां विष्ठितं जगत्।
(६,१२६.१ ) स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ॥१॥
(६,१२६.२ ) आ क्रन्दय बलमोजो न आ धा अभि ष्टन दुरिता बाधमानः ।
(६,१२६.२ ) अप सेध दुन्दुभे दुछुनामित इन्द्रस्य मुष्टिरसि वीडयस्व ॥२॥
(६,१२६.३ ) प्रामूं जयाभीमे जयन्तु केतुमद्दुन्दुभिर्वावदीतु ।
(६,१२६.३ ) समश्वपर्णाः पतन्तु नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥३॥
(६,१२७.१ ) विद्रधस्य बलासस्य लोहितस्य वनस्पते ।
(६,१२७.१ ) विसल्पकस्यौषधे मोच्छिषः पिशितं चन ॥१॥
(६,१२७.२ ) यौ ते बलास तिष्ठतः कक्षे मुष्कावपश्रितौ ।
(६,१२७.२ ) वेदाहं तस्य भेषजं चीपुद्रुरभिचक्षणम् ॥२॥
(६,१२७.३ ) यो अङ्ग्यो यः कर्ण्यो यो अक्ष्योर्विसल्पकः ।
(६,१२७.३ ) वि वृहामो विसल्पकं विद्रधं हृदयामयम् ।
(६,१२७.३ ) परा तमज्ञातं यक्ष्ममधराञ्चं सुवामसि ॥३॥
(६,१२८.१ ) शकधूमं नक्षत्राणि यद्राजानमकुर्वत ।
(६,१२८.१ ) भद्राहमस्मै प्रायछन् इदं राष्ट्रमसादिति ॥१॥
(६,१२८.२ ) भद्राहं नो मध्यंदिने भद्राहं सायमस्तु नः ।
(६,१२८.२ ) भद्राहं नो अह्नां प्राता रात्री भद्राहमस्तु नः ॥२॥
(६,१२८.३ ) अहोरात्राभ्यां नक्षत्रेभ्यः सुर्याचन्द्रमसाभ्याम् ।
(६,१२८.३ ) भद्राहमस्मभ्यं राजन् छकधूम त्वं कृधि ॥३॥
(६,१२८.४ ) यो नो भद्राहमकरः सायं नक्तमथो दिवा ।
(६,१२८.४ ) तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥४॥
(६,१२९.१ ) भगेन मा शांशपेन साकमिन्द्रेण मेदिना ।
(६,१२९.१ ) कृणोमि भगिनं माप द्रान्त्वरातयः ॥१॥
(६,१२९.२ ) येन वृक्षामभ्यभवो भगेन वर्चसा सह ।
(६,१२९.२ ) तेन मा भगिनं कृण्वप द्रान्त्वरातयः ॥२॥
(६,१२९.३ ) यो अन्धो यः पुनःसरो भगो वृक्षेष्वाहितः ।
(६,१२९.३ ) तेन मा भगिनं कृण्वप द्रान्त्वरातयः ॥३॥
(६,१३०.१ ) रथजितां राथजितेयीनामप्सरसामयं स्मरः ।
(६,१३०.१ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥१॥
(६,१३०.२ ) असौ मे स्मरतादिति प्रियो मे स्मरतादिति ।
(६,१३०.२ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥२॥
(६,१३०.३ ) यथा मम स्मरादसौ नामुष्याहं कदा चन ।
(६,१३०.३ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥३॥
(६,१३०.४ ) उन् मादयत मरुत उदन्तरिक्ष मादय ।
(६,१३०.४ ) अग्न उन् मादया त्वमसौ मामनु शोचतु ॥४॥
(६,१३१.१ ) नि शीर्षतो नि पत्तत आध्यो नि तिरामि ते ।
(६,१३१.१ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥१॥
(६,१३१.२ ) अनुमतेऽन्विदं मन्यस्वाकुते समिदं नमः ।
(६,१३१.२ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥२॥
(६,१३१.३ ) यद्धावसि त्रियोजनं पञ्चयोजनमाश्विनम् ।
(६,१३१.३ ) ततस्त्वं पुनरायसि पुत्राणां नो असः पिता ॥३॥
(६,१३२.१ ) यं देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या ।
(६,१३२.१ ) तं ते तपामि वरुणस्य धर्मणा ॥१॥
(६,१३२.२ ) यं विश्वे देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या ।
(६,१३२.२ ) तं ते तपामि वरुणस्य धर्मणा ॥२॥
(६,१३२.३ ) यमिन्द्राणी स्मरमसिञ्चदप्स्वन्तः शोशुचानं सहाध्या ।
(६,१३२.३ ) तं ते तपामि वरुणस्य धर्मणा ॥३॥
(६,१३२.४ ) यमिन्द्राग्नी स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या ।
(६,१३२.४ ) तं ते तपामि वरुणस्य धर्मणा ॥४॥
(६,१३२.५ ) यं मित्रावरुणौ स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या ।
(६,१३२.५ ) तं ते तपामि वरुणस्य धर्मणा ॥५॥
(६,१३३.१ ) य इमां देवो मेखलामाबबन्ध यः संननाह य उ नो युयोज ।
(६,१३३.१ ) यस्य देवस्य प्रशिषा चरामः स पारमिछात्स उ नो वि मुञ्चात्॥१॥
(६,१३३.२ ) आहुतास्यभिहुत ऋषीणामस्यायुधम् ।
(६,१३३.२ ) पूर्वा व्रतस्य प्राश्नती वीरघ्नी भव मेखले ॥२॥
(६,१३३.३ ) मृत्योरहं ब्रह्मचारी यदस्मि निर्याचन् भूतात्पुरुषं यमाय ।
(६,१३३.३ ) तमहं ब्रह्मणा तपसा श्रमेणानयैनं मेखलया सिनामि ॥३॥
(६,१३३.४ ) श्रद्धाया दुहिता तपसोऽधि जाता स्वसा ऋषीणां भूतकृतां बभूव ।
(६,१३३.४ ) सा नो मेखले मतिमा धेहि मेधामथो नो धेहि तप इन्द्रियं च ॥४॥
(६,१३३.५ ) यां त्वा पूर्वे भूतकृत ऋषयः परिबेधिरे ।
(६,१३३.५ ) सा त्वं परि ष्वजस्व मां दीर्घायुत्वाय मेखले ॥५॥
(६,१३४.१ ) अयं वज्रस्तर्पयतामृतस्यावास्य राष्ट्रमप हन्तु जीवितम् ।
(६,१३४.१ ) शृणातु ग्रीवाः प्र शृणातूष्णिहा वृत्रस्येव शचीपतिः ॥१॥
(६,१३४.२ ) अधरोऽधर उत्तरेभ्यो गूढः पृथिव्या मोत्सृपत्।
(६,१३४.२ ) वज्रेणावहतः शयाम् ॥२॥
(६,१३४.३ ) यो जिनाति तमन्विछ यो जिनाति तमिज्जहि ।
(६,१३४.३ ) जिनतो वज्र त्वं सीमन्तमन्वञ्चमनु पातय ॥३॥
(६,१३५.१ ) यदश्नामि बलं कुर्व इत्थं वज्रमा ददे ।
(६,१३५.१ ) स्कन्धान् अमुष्य शातयन् वृत्रस्येव शचीपतिः ॥१॥
(६,१३५.२ ) यत्पिबामि सं पिबामि समुद्र इव संपिबः ।
(६,१३५.२ ) प्राणान् अमुष्य संपाय सं पिबामो अमुं वयम् ॥२॥
(६,१३५.३ ) यद्गिरामि सं गिरामि समुद्र इव संगिरः ।
(६,१३५.३ ) प्राणान् अमुष्य संगीर्य सं गिरामो अमुं वयम् ॥३॥
(६,१३६.१ ) देवी देव्यामधि जाता पृथिव्यामस्योषधे ।
(६,१३६.१ ) तां त्वा नितत्नि केशेभ्यो दृंहणाय खनामसि ॥१॥
(६,१३६.२ ) दृंह प्रत्नान् जनयाजातान् जातान् उ वर्षीयसस्कृधि ॥२॥
(६,१३६.३ ) यस्ते केशोऽवपद्यते समूलो यश्च वृश्चते ।
(६,१३६.३ ) इदं तं विश्वभेषज्याभि षिञ्चामि वीरुधा ॥३॥
(६,१३७.१ ) यां जमदग्निरखनद्दुहित्रे केशवर्धनीम् ।
(६,१३७.१ ) तां वीतहव्य आभरदसितस्य गृहेभ्यः ॥१॥
(६,१३७.२ ) अभीशुना मेया आसन् व्यामेनानुमेयाः ।
(६,१३७.२ ) केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥२॥
(६,१३७.३ ) दृंह मूलमाग्रं यछ वि मध्यं यामयौषधे ।
(६,१३७.३ ) केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥३॥
(६,१३८.१ ) त्वं वीरुधां श्रेष्ठतमाभिश्रुतास्योषधे ।
(६,१३८.१ ) इमं मे अद्य पुरुषं क्लीबमोपशिनं कृधि ॥१॥
(६,१३८.२ ) क्लीबं कृध्योपशिनमथो कुरीरिणं कृधि ।
(६,१३८.२ ) अथास्येन्द्रो ग्रावभ्यामुभे भिनत्त्वाण्ड्यौ ॥२॥
(६,१३८.३ ) क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरमरसारसं त्वाकरम् ।
(६,१३८.३ ) कुरीरमस्य शीर्षणि कुम्बं चाधिनिदध्मसि ॥३॥
(६,१३८.४ ) ये ते नाद्यौ देवकृते ययोस्तिष्ठति वृष्ण्यम् ।
(६,१३८.४ ) ते ते भिनद्मि शम्ययामुष्या अधि मुष्कयोः ॥४॥
(६,१३८.५ ) यथा नडं कशिपुने स्त्रियो भिन्दन्त्यश्मना ।
(६,१३८.५ ) एवा भिनद्मि ते शेपोऽमुष्या अधि मुष्कयोः ॥५॥
(६,१३९.१ ) न्यस्तिका रुरोहिथ सुभगंकरणी मम ।
(६,१३९.१ ) शतं तव प्रतानास्त्रयस्त्रिंशन् नितानाः ॥
(६,१३९.१ ) तया सहस्रपर्ण्या हृदयं शोषयामि ते ॥१॥
(६,१३९.२ ) शुष्यतु मयि ते हृदयमथो शुष्यत्वास्यम् ।
(६,१३९.२ ) अथो नि शुष्य मां कामेनाथो शुष्कास्या चर ॥२॥
(६,१३९.३ ) संवननी समुष्पला बभ्रु कल्याणि सं नुद ।
(६,१३९.३ ) अमूं च मां च सं नुद समानं हृदयं कृधि ॥३॥
(६,१३९.४ ) यथोदकमपपुषोऽपशुष्यत्यास्यम् ।
(६,१३९.४ ) एवा नि शुष्य मां कामेनाथो शुष्कास्या चर ॥४॥
(६,१३९.५ ) यथा नकुलो विछिद्य संदधात्यहिं पुनः ।
(६,१३९.५ ) एवा कामस्य विछिन्नं सं धेहि वीर्यावति ॥५॥
(६,१४०.१ ) यौ व्याघ्राववरूधौ जिघत्सतः पितरं मातरं च ।
(६,१४०.१ ) तौ दन्तं ब्रह्मणस्पते शिवौ कृणु जातवेदः ॥१॥
(६,१४०.२ ) व्रीहिमत्तं यवमत्तमथो माषमथो तिलम् ।
(६,१४०.२ ) एष वां भागो निहितो रत्नधेयाय दन्तौ मा हिंसिष्टं पितरं मातरं च ॥२॥
(६,१४०.३ ) उपहूतौ सयुजौ स्योनौ दन्तौ सुमङ्गलौ ।
(६,१४०.३ ) अन्यत्र वां घोरं तन्वः परैतु दन्तौ मा हिंसिष्टं पितरं मातरं च ॥३॥
(६,१४१.१ ) वायुरेनाः समाकरत्त्वष्टा पोषाय ध्रियताम् ।
(६,१४१.१ ) इन्द्र आभ्यो अधि ब्रवद्रुद्रो भूम्ने चिकित्सतु ॥१॥
(६,१४१.२ ) लोहितेन स्वधितिना मिथुनं कर्णयोः कृधि ।
(६,१४१.२ ) अकर्तामश्विना लक्ष्म तदस्तु प्रजया बहु ॥२॥
(६,१४१.३ ) यथा चक्रुर्देवासुरा यथा मनुष्या उत ।
(६,१४१.३ ) एवा सहस्रपोषाय कृणुतं लक्ष्माश्विना ॥३॥
(६,१४२.१ ) उच्छ्रयस्व बहुर्भव स्वेन महसा यव ।
(६,१४२.१ ) मृणीहि विश्वा पात्राणि मा त्वा दिव्याशनिर्वधीत्॥१॥
(६,१४२.२ ) आशृण्वन्तं यवं देवं यत्र त्वाछावदामसि ।
(६,१४२.२ ) तदुच्छ्रयस्व द्यौरिव समुद्र इवैध्यक्षितः ॥२॥
(६,१४२.३ ) अक्षितास्त उपसदोऽक्षिताः सन्तु राशयः ।
(६,१४२.३ ) पृणन्तो अक्षिताः सन्त्वत्तारः सन्त्वक्षिताः ॥३॥
(७,१.१ ) धीती वा ये अनयन् वाचो अग्रं मनसा वा येऽवदन्न् ऋतानि ।
(७,१.१ ) तृतीयेन ब्रह्मणा वावृधानास्तुरीयेणामन्वत नाम धेनोः ॥१॥
(७,१.२ ) स वेद पुत्रः पितरं स मातरं स सूनुर्भुवत्स भुवत्पुनर्मघः ।
(७,१.२ ) स द्यामौर्णोदन्तरिक्षं स्वः स इदं विश्वमभवत्स आभरत्॥२॥
(७,२.१ ) अथर्वाणं पितरं देवबन्धुं मातुर्गर्भं पितुरसुं युवानम् ।
(७,२.१ ) य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः ॥१॥
(७,३.१ ) अया विष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः ।
(७,३.१ ) स प्रत्युदैद्धरुणं मध्वो अग्रं स्वया तन्वा तन्वमैरयत ॥१॥
(७,४.१ ) एकया च दशभिश्च सुहुते द्वाभ्यामिष्टये विंशत्या च ।
(७,४.१ ) तिसृभिश्च वहसे त्रिंशता च वियुग्भिर्वाय इह ता वि मुञ्च ॥१॥
(७,५.१ ) यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
(७,५.१ ) ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१॥
(७,५.२ ) यज्ञो बभूव स आ बभूव स प्र जज्ञे स उ वावृधे पुनः ।
(७,५.२ ) स देवानामधिपतिर्बभूव सो अस्मासु द्रविणमा दधातु ॥२॥
(७,५.३ ) यद्देवा देवान् हविषाऽयजन्तामर्त्यान् मनसा मर्त्येन ।
(७,५.३ ) मदेम तत्र परमे व्योमन् पश्येम तदुदितौ सूर्यस्य ॥३॥
(७,५.४ ) यत्पुरुषेण हविषा यज्ञं देवा अतन्वत ।
(७,५.४ ) अस्ति नु तस्मादोजीयो यद्विहव्येनेजिरे ॥४॥
(७,५.५ ) मुग्धा देवा उत शुनाऽयजन्तोत गोरङ्गैः पुरुधाऽयजन्त ।
(७,५.५ ) य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः ॥५॥
(७,६.१ ) अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
(७,६.१ ) विश्वे देवा अदितिर्पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥१॥
(७,६.२ ) महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हवामहे ।
(७,६.२ ) तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम् ॥२॥
(७,६.३ ) सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् ।
(७,६.३ ) दैवीं नावं स्वरित्रामनागसो अस्रवन्तीमा रुहेमा स्वस्तये ॥१॥
(७,६.४ ) वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे ।
(७,६.४ ) यस्या उपस्थ उर्वन्तरिक्षं सा नः शर्म त्रिवरूथं नि यछात्॥२॥
(७,७.१ ) दितेः पुत्राणामदितेरकारिषमव देवानां बृहतामनर्मणाम् ।
(७,७.१ ) तेषां हि धाम गभिषक्समुद्रियं नैनान् नमसा परो अस्ति कश्चन ॥१॥
(७,८.१ ) भद्रादधि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्तु ।
(७,८.१ ) अथेममस्या वर आ पृथिव्या आरेशत्रुं कृणुहि सर्ववीरम् ॥१॥
(७,९.१ ) प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः ।
(७,९.१ ) उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥१॥
(७,९.२ ) पूषेमा आशा अनु वेद सर्वाः सो अस्मामभयतमेन नेषत्।
(७,९.२ ) स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुछन् पुर एतु प्रजानन् ॥२॥
(७,९.३ ) पूषन् तव व्रते वयं न रिष्येम कदा चन ।
(७,९.३ ) स्तोतारस्त इह स्मसि ॥३॥
(७,९.४ ) परि पूषा परस्ताद्धस्तं दधातु दक्षिणम् ।
(७,९.४ ) पुनर्नो नष्टमाजतु सं नष्टेन गमेमहि ॥४॥
(७,१०.१ ) यस्ते स्तनः शशयुर्यो मयोभूर्यः सुम्नयुः सुहवो यः सुदत्रः ।
(७,१०.१ ) येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे कः ॥१॥
(७,११.१ ) यस्ते पृथु स्तनयित्नुर्य ऋष्वो दैवः केतुर्विश्वमाभूषतीदम् ।
(७,११.१ ) मा नो वधीर्विद्युता देव सस्यं मोत वधी रश्मिभिः सूर्यस्य ॥१॥
(७,१२.१ ) सभा च मा समितिश्चावतां प्रजापतेर्दुहितरौ संविदाने ।
(७,१२.१ ) येना संगछा उप मा स शिक्षाच्चारु वदानि पितरः संगतेषु ॥१॥
(७,१२.२ ) विद्म ते सभे नाम नरिष्टा नाम वा असि ।
(७,१२.२ ) ये ते के च सभासदस्ते मे सन्तु सवाचसः ॥२॥
(७,१२.३ ) एषामहं समासीनानां वर्चो विज्ञानमा ददे ।
(७,१२.३ ) अस्याः सर्वस्याः संसदो मामिन्द्र भगिनं कृणु ॥३॥
(७,१२.४ ) यद्वो मनः परागतं यद्बद्धमिह वेह वा ।
(७,१२.४ ) तद्व आ वर्तयामसि मयि वो रमतां मनः ॥४॥
(७,१३.१ ) यथा सूर्यो नक्षत्राणामुद्यंस्तेजांस्याददे ।
(७,१३.१ ) एवा स्त्रीणां च पुंसां च द्विषतां वर्च आ ददे ॥१॥
(७,१३.२ ) यावन्तो मा सपत्नानामायन्तं प्रतिपश्यथ ।
(७,१३.२ ) उद्यन्त्सूर्य इव सुप्तानां द्विषतां वर्च आ ददे ॥२॥
(७,१४.१ ) अभि त्यं देवं सवितारमोण्योः कविक्रतुम् ।
(७,१४.१ ) अर्चामि सत्यसवं रत्नधामभि प्रियं मतिम् ॥१॥
(७,१४.२ ) उर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि ।
(७,१४.२ ) हिरण्यपाणिरमिमीत सुक्रतुः कृपात्स्वः ॥२॥
(७,१४.३ ) सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै ।
(७,१४.३ ) अथास्मभ्यं सवितर्वार्याणि दिवोदिव आ सुवा भूरि पश्वः ॥३॥
(७,१४.४ ) दमूना देवः सविता वरेण्यो दधद्रत्नं पितृभ्य आयूंषि ।
(७,१४.४ ) पिबात्सोमं ममददेनमिष्टे परिज्मा चित्क्रमते अस्य धर्मणि ॥४॥
(७,१५.१ ) तां सवितः सत्यसवां सुचित्रामाहं वृणे सुमतिं विश्ववाराम् ।
(७,१५.१ ) यामस्य कण्वो अदुहत्प्रपीनां सहस्रधारां महिषो भगाय ॥१॥
(७,१६.१ ) बृहस्पते सवितर्वर्धयैनं ज्योतयैनं महते सौभगाय ।
(७,१६.१ ) संशितं चित्संतरं सं शिशाधि विश्व एनमनु मदन्तु देवाः ॥१॥
(७,१७.१ ) धाता दधातु नो रयिमीशानो जगतस्पतिः ।
(७,१७.१ ) स नः पूर्णेन यछतु ॥१॥
(७,१७.२ ) धाता दधातु दाशुषे प्राचीं जीवातुमक्षिताम् ।
(७,१७.२ ) वयं देवस्य धीमहि सुमतिं विश्वराधसः ॥२॥
(७,१७.३ ) धाता विश्वा वार्या दधातु प्रजाकामाय दाशुषे दुरोणे ।
(७,१७.३ ) तस्मै देवा अमृतं सं व्ययन्तु विश्वे देवा अदितिः सजोषाः ॥३॥
(७,१७.४ ) धाता रातिः सवितेदं जुषन्तां प्रजापतिर्निधिपतिर्नो अग्निः ।
(७,१७.४ ) त्वष्टा विष्णुः प्रजया संरराणो यजमानाय द्रविणं दधातु ॥४॥
(७,१८.१ ) प्र नभस्व पृथिवि भिन्द्धीदं दिव्यं नभः ।
(७,१८.१ ) उद्नो दिव्यस्य नो धातरीशानो वि ष्या दृतिम् ॥१॥
(७,१८.२ ) न घ्रंस्तताप न हिमो जघान प्र नभतां पृथिवी जीरदानुः ।
(७,१८.२ ) आपश्चिदस्मै घृतमित्क्षरन्ति यत्र सोमः सदमित्तत्र भद्रम् ॥२॥
(७,१९.१ ) प्रजापतिर्जनयति प्रजा इमा धाता दधातु सुमनस्यमानः ।
(७,१९.१ ) संजानानाः संमनसः सयोनयो मयि पुष्टं पुष्टपतिर्दधातु ॥१॥
(७,२०.१ ) अन्वद्य नोऽनुमतिर्यज्ञं देवेषु मन्यताम् ।
(७,२०.१ ) अग्निश्च हव्यवाहनो भवतां दाशुषे मम ॥१॥
(७,२०.२ ) अन्विदनुमते त्वं मंससे शं च नस्कृधि ।
(७,२०.२ ) जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥२॥
(७,२०.३ ) अनु मन्यतामनुमन्यमानः प्रजावन्तं रयिमक्षीयमाणम् ।
(७,२०.३ ) तस्य वयं हेडसि मापि भूम सुमृडीके अस्य सुमतौ स्याम ॥३॥
(७,२०.४ ) यत्ते नाम सुहवं सुप्रणीतेऽनुमते अनुमतं सुदानु ।
(७,२०.४ ) तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥४॥
(७,२०.५ ) एमं यज्ञमनुमतिर्जगाम सुक्षेत्रतायै सुवीरतायै सुजातम् ।
(७,२०.५ ) भद्रा ह्यस्याः प्रमतिर्बभूव सेमं यज्ञमवतु देवगोपा ॥५॥
(७,२०.६ ) अनुमतिः सर्वमिदं बभूव यत्तिष्ठति चरति यदु च विश्वमेजति ।
(७,२०.६ ) तस्यास्ते देवि सुमतौ स्यामानुमते अनु हि मंससे नः ॥६॥
(७,२१.१ ) समेत विश्वे वचसा पतिं दिव एको विभूरतिथिर्जनानाम् ।
(७,२१.१ ) स पूर्व्यो नूतनमाविवासत्तं वर्तनिरनु वावृत एकमित्पुरु ॥१॥
(७,२२.१ ) अयं सहस्रमा नो दृशे कवीनां मतिर्ज्योतिर्विधर्मणि ॥१॥
(७,२२.२ ) ब्रध्नः समीचीरुषसः समैरयन् ।
(७,२२.२ ) अरेपसः सचेतसः स्वसरे मन्युमत्तमाश्चिते गोः ॥२॥
(७,२३.१ ) दौष्वप्न्यं दौर्जीवित्यं रक्षो अभ्वमराय्यः ।
(७,२३.१ ) दुर्णाम्नीः सर्वा दुर्वाचस्ता अस्मन् नाशयामसि ॥१॥
(७,२४.१ ) यन् न इन्द्रो अखनद्यदग्निर्विश्वे देवा मरुतो यत्स्वर्काः ।
(७,२४.१ ) तदस्मभ्यं सविता सत्यधर्मा प्रजापतिरनुमतिर्नि यछात्॥१॥
(७,२५.१ ) ययोरोजसा स्कभिता रजांसि यौ वीर्यैर्वीरतमा शविष्ठा ।
(७,२५.१ ) यौ पत्येते अप्रतीतौ सहोभिर्विष्णुमगन् वरुणं पूर्वहूतिः ॥१॥
(७,२५.२ ) यस्येदं प्रदिशि यद्विरोचते प्र चानति वि च चष्टे शचीभिः ।
(७,२५.२ ) पुरा देवस्य धर्मणा सहोभिर्विष्णुमगन् वरुणं पूर्वहूतिः ॥२॥
(७,२६.१ ) विष्णोर्नु कं प्रा वोचं वीर्याणि यः पार्थिवानि विममे रजांसि ।
(७,२६.१ ) यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥१॥
(७,२६.२ ) प्र तद्विष्णु स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः ।
(७,२६.२ ) परावत आ जगम्यात्परस्याः ॥२॥
(७,२६.३ ) यस्योरुषु त्रिषु विक्रमनेष्वधिक्षियन्ति भुवनानि विश्वा ।
(७,२६.३ ) उरु विष्णो वि क्रमस्वोरु क्षयाय नस्कृधि ।
(७,२६.३ ) घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर ॥३॥
(७,२६.४ ) इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदा ।
(७,२६.४ ) समूढमस्य पंसुरे ॥४॥
(७,२६.५ ) त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।
(७,२६.५ ) इतो धर्माणि धारयन् ॥५॥
(७,२६.६ ) विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
(७,२६.६ ) इन्द्रस्य युज्यः सखा ॥६॥
(७,२६.७ ) तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
(७,२६.७ ) दिवीव चक्षुराततम् ॥७॥
(७,२६.८ ) दिवो विष्ण उत पृथिव्या महो विष्ण उरोरन्तरिक्षात्।
(७,२६.८ ) हस्तौ पृणस्व बहुभिर्वसव्यैराप्रयछ दक्षिणादोत सव्यात्॥८॥
(७,२७.१ ) इडैवास्मामनु वस्तां व्रतेन यस्याः पदे पुनते देवयन्तः ।
(७,२७.१ ) घृतपदी शक्वरी सोमपृष्ठोप यज्ञमस्थित वैश्वदेवी ॥१॥
(७,२८.१ ) वेदः स्वस्तिर्द्रुघणः स्वस्तिः परशुर्वेदिः परशुर्नः स्वस्ति ।
(७,२८.१ ) हविष्कृतो यज्ञिया यज्ञकामास्ते देवासो यज्ञमिमं जुषन्ताम् ॥१॥
(७,२९.१ ) अग्नाविष्णू महि तद्वां महित्वं पाथो घृतस्य गुह्यस्य नाम ।
(७,२९.१ ) दमेदमे सप्त रत्ना दधानौ प्रति वां जिह्वा घृतमा चरण्यात्॥१॥
(७,२९.२ ) अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणौ ।
(७,२९.२ ) दमेदमे सुष्टुत्या वावृधानौ प्रति वां जिह्वा घृतमुच्चरण्यात्॥२॥
(७,३०.१ ) स्वाक्तं मे द्यावापृथिवी स्वाक्तं मित्रो अकरयम् ।
(७,३०.१ ) स्वाक्तं मे ब्रह्मणस्पतिः स्वाक्तं सविता करत्॥१॥
(७,३१.१ ) इन्द्रोतिभिर्बहुलाभिर्नो अद्य यावच्छ्रेष्ठाभिर्मघवन् छूर जिन्व ।
(७,३१.१ ) यो नो द्वेष्ट्यधर सस्पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु ॥१॥
(७,३२.१ ) उप प्रियं पनिप्नतं युवानमाहुतीवृधम् ।
(७,३२.१ ) अगन्म बिभ्रतो नमो दीर्घमायुः कृणोतु मे ॥१॥
(७,३३.१ ) सं मा सिञ्चन्तु मरुतः सं पूषा सं बृहस्पतिः ।
(७,३३.१ ) सं मायमग्निः सिञ्चतु प्रजया च धनेन च दीर्घमायुः कृणोतु मे ॥१॥
(७,३४.१ ) अग्ने जातान् प्र णुदा मे सपत्नान् प्रत्यजातान् जातवेदो नुदस्व ।
(७,३४.१ ) अधस्पदं कृणुष्व ये पृतन्यवोऽनागसस्ते वयमदितये स्याम ॥१॥
(७,३५.१ ) प्रान्यान्त्सपत्नान्त्सहसा सहस्व प्रत्यजातान् जातवेदो नुदस्व ।
(७,३५.१ ) इदं राष्ट्रं पिपृहि सौभगाय विश्व एनमनु मदन्तु देवाः ॥१॥
(७,३५.२ ) इमा यास्ते शतं हिराः सहस्रं धमनीरुत ।
(७,३५.२ ) तासां ते सर्वासामहमश्मना बिलमप्यधाम् ॥२॥
(७,३५.३ ) परं योनेरवरं ते कृणोमि मा त्वा प्रजाभि भून् मोत सूतुः ।
(७,३५.३ ) अस्वं त्वाप्रजसं कृणोम्यश्मानं ते अपिधानं कृणोमि ॥३॥
(७,३६.१ ) अक्ष्यौ नौ मधुसंकाशे अनीकं नौ समञ्जनम् ।
(७,३६.१ ) अन्तः कृष्णुष्व मां हृदि मन इन् नौ सहासति ॥१॥
(७,३७.१ ) अभि त्वा मनुजातेन दधामि मम वाससा ।
(७,३७.१ ) याथाऽसो मम केवलो नान्यासां कीर्तयाश्चन ॥१॥
(७,३८.१ ) इदं खनामि भेषजं मांपश्यमभिरोरुदम् ।
(७,३८.१ ) परायतो निवर्तनमायतः प्रतिनन्दनम् ॥१॥
(७,३८.२ ) येना निचक्र आसुरीन्द्रं देवेभ्यस्परि ।
(७,३८.२ ) तेना नि कुर्वे त्वामहं यथा तेऽसानि सुप्रिया ॥२॥
(७,३८.३ ) प्रतीची सोममसि प्रतीची उत सूर्यम् ।
(७,३८.३ ) प्रतीची विश्वान् देवान् तां त्वाछावदामसि ॥३॥
(७,३८.४ ) अहं वदामि नेत्त्वं सभायामह त्वं वद ।
(७,३८.४ ) ममेदसस्त्वं केवलो नान्यासां कीर्तयाश्चन ॥४॥
(७,३८.५ ) यदि वासि तिरोजनं यदि वा नद्यस्तिरःि ।
(७,३८.५ ) इयं ह मह्यं त्वामोषधिर्बद्ध्वेव न्यानयत्॥५॥
(७,३९.१ ) दिव्यं सुपर्णं पयसं बृहन्तमपां गर्भं वृषभमोषधीनाम् ।
(७,३९.१ ) अभीपतो वृष्ट्या तर्पयन्तमा नो गोष्ठे रयिष्ठां स्थापयाति ॥१॥
(७,४०.१ ) यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रत उपतिष्ठन्त आपः ।
(७,४०.१ ) यस्य व्रते पुष्टपतिर्निविष्टस्तं सरस्वन्तमवसे हवामहे ॥१॥
(७,४०.२ ) आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टपतिं रयिष्ठाम् ।
(७,४०.२ ) रायस्पोषं श्रवस्युं वसाना इह सदनं रयीणाम् ॥२॥
(७,४१.१ ) अति धन्वान्यत्यपस्ततर्द श्येनो नृचक्षा अवसानदर्शः ।
(७,४१.१ ) तरन् विश्वान्यवरा रजंसीन्द्रेण सख्या शिव आ जगम्यात्॥१॥
(७,४१.२ ) श्येनो नृचक्षा दिव्यः सुपर्णः सहस्रपाच्छतयोनिर्वयोधाः ।
(७,४१.२ ) स नो नि यछाद्वसु यत्पराभृतमस्माकमस्तु पितृषु स्वधावत्॥२॥
(७,४२.१ ) सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश ।
(७,४२.१ ) बाधेथां दूरं निरृतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत्॥१॥
(७,४२.२ ) सोमारुद्रा युवमेतान्यस्मद्विश्वा तनूषु भेषजानि धत्तम् ।
(७,४२.२ ) अव स्यतं मुञ्चतं यन् नो असत्तनूषु बद्धं कृतमेनो अस्मत्॥२॥
(७,४३.१ ) शिवास्त एका अशिवास्त एकाः सर्वा बिभर्षि सुमनस्यमानः ।
(७,४३.१ ) तिस्रो वाचो निहिता अन्तरस्मिन् तासामेका वि पपातानु घोषम् ॥१॥
(७,४४.१ ) उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनयोः ।
(७,४४.१ ) इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम् ॥१॥
(७,४५.१ ) जनाद्विश्वजनीनात्सिन्धुतस्पर्याभृतम् ।
(७,४५.१ ) दूरात्त्वा मन्य उद्भृतमीर्ष्याया नाम भेषजम् ॥१॥
(७,४५.२ ) अग्नेरिवास्य दहतो दावस्य दहतः पृथक्।
(७,४५.२ ) एतामेतस्येर्ष्यामुद्राग्निमिव शमय ॥१॥
(७,४६.१ ) सिनीवालि पृथुष्टुके या देवानामसि स्वसा ।
(७,४६.१ ) जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥१॥
(७,४६.२ ) या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी ।
(७,४६.२ ) तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥२॥
(७,४६.३ ) या विश्पत्नीन्द्रमसि प्रतीची सहस्रस्तुकाभियन्ती देवी ।
(७,४६.३ ) विष्णोः पत्नि तुभ्यं राता हवींषि पतिं देवि राधसे चोदयस्व ॥३॥
(७,४७.१ ) कुहूं देवीं सुकृतं विद्मनापसमस्मिन् यज्ञे सुहवा जोहवीमि ।
(७,४७.१ ) सा नो रयिं विश्ववारं नि यछाद्ददातु वीरं शतदायमुक्थ्यम् ॥१॥
(७,४७.२ ) कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषो जुषेत ।
(७,४७.२ ) शृनोतु यज्ञमुशती नो अद्य रायस्पोषं चिकितुषी दधातु ॥२॥
(७,४८.१ ) राकामहं सुहवा सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।
(७,४८.१ ) सीव्यत्वपः सूच्याछिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥१॥
(७,४८.२ ) यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि ।
(७,४८.२ ) ताभिर्नो अद्य सुमना उपागहि सहस्रापोषं सुभगे रराणा ॥२॥
(७,४९.१ ) देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये ।
(७,४९.१ ) याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यछन्तु ॥१॥
(७,४९.२ ) उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट्।
(७,४९.२ ) आ रोदसी वरुनानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनाम् ॥२॥
(७,५०.१ ) यथा वृक्षमशनिर्विश्वाहा हन्त्यप्रति ।
(७,५०.१ ) एवाहमद्य कितवान् अक्षैर्बध्यासमप्रति ॥१॥
(७,५०.२ ) तुराणामतुराणां विशामवर्जुषीणाम् ।
(७,५०.२ ) समैतु विश्वतो भगो अन्तर्हस्तं कृतं मम ॥२॥
(७,५०.३ ) ईडे अग्निं स्वावसुं नमोभिरिह प्रसक्तो वि चयत्कृतं नः ।
(७,५०.३ ) रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणं मरुतां स्तोममृध्याम् ॥३॥
(७,५०.४ ) वयं जयेम त्वया युजा वृतमस्माकमंशमुदव भरेभरे ।
(७,५०.४ ) अस्मभ्यमिन्द्र वरीयः सुगं कृधि प्र शत्रूणां मघवन् वृष्ण्या रुज ॥४॥
(७,५०.५ ) अजैषं त्वा संलिखितमजैषमुत संरुधम् ।
(७,५०.५ ) अविं वृको यथा मथदेवा मथ्नामि ते कृतम् ॥५॥
(७,५०.६ ) उत प्रहामतिदीवा जयति कृतमिव श्वघ्नी वि चिनोति काले ।
(७,५०.६ ) यो देवकामो न धनं रुणद्धि समित्तं रायः सृजति स्वधाभिः ॥६॥
(७,५०.७ ) गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे ।
(७,५०.७ ) वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम ॥७॥
(७,५०.८ ) कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ।
(७,५०.८ ) गोजिद्भूयासमश्वजिद्धनंजयो हिरण्यजित्॥८॥
(७,५०.९ ) अक्षाः फलवतीं द्युवं दत्त गां क्षीरिणीमिव ।
(७,५०.९ ) सं मा कृतस्य धारया धनुः स्नाव्नेव नह्यत ॥९॥
(७,५१.१ ) बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः ।
(७,५१.१ ) इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु ॥१॥
(७,५२.१ ) संज्ञानं नः स्वेभिः संज्ञानमरणेभिः ।
(७,५२.१ ) संज्ञानमश्विना युवमिहास्मासु नि यछतम् ॥१॥
(७,५२.२ ) सं जानामहै मनसा सं चिकित्वा मा युष्महि मनसा दैव्येन ।
(७,५२.२ ) मा घोषा उत्स्थुर्बहुले विनिर्हते मेषुः पप्तदिन्द्रस्याहन्यागते ॥२॥
(७,५३.१ ) अमुत्रभूयादधि यद्यमस्य बृहस्पते अभिशस्तेरमुञ्चः ।
(७,५३.१ ) प्रत्यौहतामश्विना मृत्युमस्मद्देवानामग्ने भिषजा शचीभिः ॥१॥
(७,५३.२ ) सं क्रामतं मा जहीतं शरीरं प्राणापानौ ते सयुजाविह स्ताम् ।
(७,५३.२ ) शतं जीव शरदो वर्धमानोऽग्निष्टे गोपा अधिपा वसिष्ठः ॥२॥
(७,५३.३ ) आयुर्यत्ते अतिहितं पराचैरपानः प्राणः पुनरा ताविताम् ।
(७,५३.३ ) अग्निष्टदाहार्निरृतेरुपस्थात्तदात्मनि पुनरा वेशयामि ते ॥३॥
(७,५३.४ ) मेमं प्राणो हासीन् मो अपानोऽवहाय परा गात्।
(७,५३.४ ) सप्तर्षिभ्य एनं परि ददामि ते एनं स्वस्ति जरसे वहन्तु ॥४॥
(७,५३.५ ) प्र विषतं प्राणापानावनड्वाहाविव व्रजम् ।
(७,५३.५ ) अयं जरिम्नः शेवधिररिष्ट इह वर्धताम् ॥५॥
(७,५३.६ ) आ ते प्राणं सुवामसि परा यक्ष्मं सुवामि ते ।
(७,५३.६ ) आयुर्नो विश्वतो दधदयमग्निर्वरेण्यः ॥६॥
(७,५३.७ ) उद्वयं तमसस्परि रोहन्तो नाकमुत्तमम् ।
(७,५३.७ ) देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥७॥
(७,५४.१ ) ऋचं साम यजामहे याभ्यां कर्माणि कुर्वते ।
(७,५४.१ ) एते सदसि राजतो यज्ञं देवेषु यछतः ॥१॥
(७,५४.२ ) ऋचं साम यदप्राक्षं हविरोजो यजुर्बलम् ।
(७,५४.२ ) एष मा तस्मान् मा हिंसीद्वेदः पृष्टः शचीपते ॥१॥
(७,५५.१ ) ये ते पन्थानोऽव दिवो येभिर्विश्वमैरयः ।
(७,५५.१ ) तेभिः सुम्नया धेहि नो वसो ॥२॥
(७,५६.१ ) तिरश्चिराजेरसितात्पृदाकोः परि संभृतम् ।
(७,५६.१ ) तत्कङ्कपर्वणो विषमियं वीरुदनीनशत्॥१॥
(७,५६.२ ) इयं वीरुन् मधुजाता मधुश्चुन् मधुला मधूः ।
(७,५६.२ ) सा विह्रुतस्य भेषज्यथो मशकजम्भनी ॥२॥
(७,५६.३ ) यतो दष्टं यतो धीतं ततस्ते निर्ह्वयामसि ।
(७,५६.३ ) अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम् ॥३॥
(७,५६.४ ) अयं यो वक्रो विपरुर्व्यङ्गो मुखानि वक्रा वृजिना कृणोषि ।
(७,५६.४ ) तानि त्वं ब्रह्मणस्पते इषीकामिव सं नमः ॥४॥
(७,५६.५ ) अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः ।
(७,५६.५ ) विषं ह्यस्यादिष्यथो एनमजीजभम् ॥५॥
(७,५६.६ ) न ते बाह्वोर्बलमस्ति न शीर्षे नोत मध्यतः ।
(७,५६.६ ) अथ किं पापयाऽमुया पुछे बिभर्ष्यर्भकम् ॥६॥
(७,५६.७ ) अदन्ति त्वा पिपीलिका वि वृश्चन्ति मयूर्यः ।
(७,५६.७ ) सर्वे भल ब्रवाथ शार्कोटमरसं विषम् ॥७॥
(७,५६.८ ) य उभाभ्यां प्रहरसि पुछेन चास्येन च ।
(७,५६.८ ) आस्ये न ते विषं किमु ते पुछधावसत्॥८॥
(७,५७.१ ) यदाशसा वदतो मे विचुक्षुभे यद्याचमानस्य चरतो जनामनु ।
(७,५७.१ ) यदात्मनि तन्वो मे विरिष्टं सरस्वती तदा पृणद्घृतेन ॥१॥
(७,५७.२ ) सप्त क्षरन्ति सिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवृतन्न् ऋतानि ।
(७,५७.२ ) उभे इदस्योभे अस्य राजत उभे यतेते उभे अस्य पुष्यतः ॥२॥
(७,५८.१ ) इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रतौ ।
(७,५८.१ ) युवो रथो अध्वरो देववीतये प्रति स्वसरमुप यातु पीतये ॥१॥
(७,५८.२ ) इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् ।
(७,५८.२ ) इदं वामन्धः परिषिक्तमासद्यास्मिन् बर्हिषि मादयेथाम् ॥२॥
(७,५९.१ ) यो नः शपादशपतः शपतो यश्च नः शपात्।
(७,५९.१ ) वृक्ष इव विद्युता हत आ मूलादनु शुष्यतु ॥१॥
(७,६०.१ ) ऊर्जं बिभ्रद्वसुवनिः सुमेधा अघोरेण चक्षुषा मित्रियेण ।
(७,६०.१ ) गृहान् ऐमि सुमना वन्दमानो रमध्वं मा बिभीत मत्॥१॥
(७,६०.२ ) इमे गृहा मयोभुव ऊर्जस्वन्तः पयस्वन्तः ।
(७,६०.२ ) पूर्णा वामेन तिष्ठन्तस्ते नो जानन्त्वायतः ॥२॥
(७,६०.३ ) येषामध्येति प्रवसन् येषु सौमनसो बहुः ।
(७,६०.३ ) गृहान् उप ह्वयामहे ते नो जानन्त्वायतः ॥३॥
(७,६०.४ ) उपहूता भूरिधनाः सखायः स्वादुसंमुदः ।
(७,६०.४ ) अक्षुध्या अतृष्या स्त गृहा मास्मद्बिभीतन ॥४॥
(७,६०.५ ) उपहूता इह गाव उपहूता अजावयः ।
(७,६०.५ ) अथो अन्नस्य कीलाल उपहूतो गृहेषु ॥५॥
(७,६०.६ ) सूनृतावन्तः सुभगा इरावन्तो हसामुदाः ।
(७,६०.६ ) अतृष्या अक्षुध्या स्त गृहा मास्मद्बिभीतन ॥६॥
(७,६०.७ ) इहैव स्त मानु गात विश्वा रूपाणि पुष्यत ।
(७,६०.७ ) ऐष्यामि भद्रेणा सह भूयांसो भवता मया ॥७॥
(७,६१.१ ) यदग्ने तपसा तप उपतप्यामहे तपः ।
(७,६१.१ ) प्रियाः श्रुतस्य भूयास्मायुष्मन्तः सुमेधसः ॥१॥
(७,६१.२ ) अग्ने तपस्तप्यामह उप तप्यामहे तपः ।
(७,६१.२ ) श्रुतानि शृण्वन्तः वयमायुष्मन्तः सुमेधसः ॥२॥
(७,६२.१ ) अयमग्निः सत्पतिर्वृद्धवृष्णो रथीव पत्तीन् अजयत्पुरोहितः ।
(७,६२.१ ) नाभा पृथिव्यां निहितो दविद्युतदधस्पदं कृणुतां ये पृतन्यवः ॥१॥
(७,६३.१ ) पृतनाजितं सहमानमग्निमुक्थ्यैर्हवामहे परमात्सधस्थात्।
(७,६३.१ ) स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवोऽति दुरितान्यग्निः ॥१॥
(७,६४.१ ) इदं यत्कृष्णः शकुनिरभिनिष्पतन्न् अपीपतत्।
(७,६४.१ ) आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः ॥१॥
(७,६४.२ ) इदं यत्कृष्णः शकुनिरवामृक्षन् निरृते ते मुखेन ।
(७,६४.२ ) अग्निर्मा तस्मादेनसो गार्हपत्यः प्र मुञ्चतु ॥२॥
(७,६५.१ ) प्रतीचीनफलो हि त्वमपामार्ग रुरोहिथ ।
(७,६५.१ ) सर्वान् मच्छपथामधि वरीयो यवया इतः ॥१॥
(७,६५.२ ) यद्दुष्कृतं यच्छमलं यद्वा चेरिम पापया ।
(७,६५.२ ) त्वया तद्विश्वतोमुखापामार्गाप मृज्महे ॥२॥
(७,६५.३ ) श्यावदता कुनखिना बण्डेन यत्सहासिम ।
(७,६५.३ ) अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥३॥
(७,६६.१ ) यद्यन्तरिक्षे यदि वात आस यदि वृक्षेषु यदि वोलपेषु ।
(७,६६.१ ) यदश्रवन् पशव उद्यमानं तद्ब्राह्मणं पुनरस्मान् उपैतु ॥१॥
(७,६७.१ ) पुनर्मैत्विन्द्रियं पुनरात्मा द्रविणं ब्राह्मणं च ।
(७,६७.१ ) पुनरग्नयो धिष्ण्या यथास्थाम कल्पयन्तामिहैव ॥१॥
(७,६८.१ ) सरस्वति व्रतेषु ते दिव्येषु देवि धामसु ।
(७,६८.१ ) जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥१॥
(७,६८.२ ) इदं ते हव्यं घृतवत्सरस्वतीदं पितॄणां हविरास्यं यत्।
(७,६८.२ ) इमानि त उदिता शम्तमानि तेभिर्वयं मधुमन्तः स्याम ॥२॥
(७,६८.३ ) शिवा नः शंतमा भव सुमृडीका सरस्वति ।
(७,६८.३ ) मा ते युयोम संदृशः ॥१॥
(७,६९.१ ) शं नो वातो वातु शं नस्तपतु सूर्यः ।
(७,६९.१ ) अहानि शं भवन्तु नः शं रात्री प्रति धीयताम् ।
(७,६९.१ ) शमुषा नो व्युछतु ॥१॥
(७,७०.१ ) यत्किं चासौ मनसा यच्च वाचा यज्ञैर्जुहोति हविषा यजुषा ।
(७,७०.१ ) तन् मृत्युना निरृतिः संविदाना पुरा सत्यादाहुतिं हन्त्वस्य ॥१॥
(७,७०.२ ) यातुधाना निरृतिरादु रक्षस्ते अस्य घ्नन्त्वनृतेन सत्यम् ।
(७,७०.२ ) इन्द्रेषिता देवा आजमस्य मथ्नन्तु मा तत्सं पादि यदसौ जुहोति ॥२॥
(७,७०.३ ) अजिराधिराजौ श्येनौ संपातिनाविव ।
(७,७०.३ ) आज्यं पृतन्यतो हतां यो नः कश्चाभ्यघायति ॥३॥
(७,७०.४ ) अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम् ।
(७,७०.४ ) अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः ॥४॥
(७,७०.५ ) अपि नह्यामि ते बाहू अपि नह्याम्यास्यम् ।
(७,७०.५ ) अग्नेर्घोरस्य मन्युना तेनऽवधिषं हविः ॥५॥
(७,७१.१ ) परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
(७,७१.१ ) धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥१॥
(७,७२.१ ) उत्तिष्ठताव पश्यतेन्द्रस्य भागमृत्वियम् ।
(७,७२.१ ) यदि श्रातं जुहोतन यद्यश्रातं ममत्तन ॥१॥
(७,७२.२ ) श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो वि मध्यम् ।
(७,७२.२ ) परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् ॥२॥
(७,७२.३ ) श्रातं मन्य ऊधनि श्रातमग्नौ सुशृतं मन्ये तदृतं नवीयः ।
(७,७२.३ ) माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज्जुषाणः ॥१॥
(७,७३.१ ) समिद्धो अग्निर्वृषणा रथी दिवस्तप्तो घर्मो दुह्यते वामिषे मधु ।
(७,७३.१ ) वयं हि वां पुरुदमासो अश्विना हवामहे सधमादेषु कारवः ॥१॥
(७,७३.२ ) समिद्धो अग्निरश्विना तप्तो वां घर्म आ गतम् ।
(७,७३.२ ) दुह्यन्ते नूनं वृषणेह धेनवो दस्रा मदन्ति वेधसः ॥२॥
(७,७३.३ ) इवाहाकृतः शुचिर्देवेषु यज्ञो यो अश्विनोश्चमसो देवपानः ।
(७,७३.३ ) तमु विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति ॥३॥
(७,७३.४ ) यदुस्रियास्वाहुतं घृतं पयोऽयं स वामश्विना भाग आ गतम् ।
(७,७३.४ ) माध्वी धर्तारा विदथस्य सत्पती तप्तं घर्मं पिबतं दिवः ॥४॥
(७,७३.५ ) तप्तो वां घर्मो नक्षतु स्वहोता प्र वामध्वर्युश्चरतु पयस्वान् ।
(७,७३.५ ) मधोर्दुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियायाः ॥५॥
(७,७३.६ ) उप द्रव पयसा गोधुगोषमा घर्मे सिञ्च पय उस्रियायाः ।
(७,७३.६ ) वि नाकमख्यत्सविता वरेण्योऽनुप्रयाणमुषसो वि राजति ॥६॥
(७,७३.७ ) उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् ।
(७,७३.७ ) श्रेष्ठं सवं सविता साविषन् नोऽभीद्धो घर्मस्तदु षु प्र वोचत्॥७॥
(७,७३.८ ) हिङ्कृण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसा न्यागन् ।
(७,७३.८ ) दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥८॥
(७,७३.९ ) जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान् ।
(७,७३.९ ) विश्वा अग्ने अभियुजो विहत्य शत्रूयतामा भरा भोजनानि ॥९॥
(७,७३.१० ) अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु ।
(७,७३.१० ) सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि ॥१०॥
(७,७३.११ ) सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम ।
(७,७३.११ ) अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥११॥
(७,७४.१ ) अपचितां लोहिनीनां कृष्णा मातेति शुश्रुम ।
(७,७४.१ ) मुनेर्देवस्य मूलेन सर्वा विध्यामि ता अहम् ॥१॥
(७,७४.२ ) विध्याम्यासां प्रथमां विध्यामि उत मध्यमाम् ।
(७,७४.२ ) इदं जघन्यामासामा छिनद्मि स्तुकामिव ॥२॥
(७,७४.३ ) त्वाष्ट्रेणाहं वचसा वि त ईर्ष्याममीमदम् ।
(७,७४.३ ) अथो यो मन्युष्टे पते तमु ते शमयामसि ॥३॥
(७,७४.४ ) व्रतेन त्वं व्रतपते समक्तो विश्वाहा सुमना दीदिहीह ।
(७,७४.४ ) तं त्वा वयं जातवेदः समिद्धं प्रजावन्त उप सदेम सर्वे ॥४॥
(७,७५.१ ) प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।
(७,७५.१ ) मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥१॥
(७,७५.२ ) पदज्ञा स्थ रमतयः संहिता विश्वनाम्नीः ।
(७,७५.२ ) उप मा देवीर्देवेभिरेत ।
(७,७५.२ ) इमं गोष्ठमिदं सदो घृतेनास्मान्त्समुक्षत ॥२॥
(७,७६.१ ) आ सुस्रसः सुस्रसो असतीभ्यो असत्तराः ।
(७,७६.१ ) सेहोररसतरा हवणाद्विक्लेदीयसीः ॥१॥
(७,७६.२ ) या ग्रैव्या अपचितोऽथो या उपपक्ष्याः ।
(७,७६.२ ) विजाम्नि या अपचितः स्वयंस्रसः ॥२॥
(७,७६.३ ) यः कीकसाः प्रशृणाति तलीद्यमवतिष्ठति ।
(७,७६.३ ) निर्हास्तं सर्वं जायान्यं यः कश्च ककुदि श्रितः ॥३॥
(७,७६.४ ) पक्षी जायान्यः पतति स आ विशति पूरुषम् ।
(७,७६.४ ) तदक्षितस्य भेषजमुभयोः सुक्षतस्य च ॥४॥
(७,७६.५ ) विद्म वै ते जायान्य जानं यतो जायान्य जायसे ।
(७,७६.५ ) कथं ह तत्र त्वं हनो यस्य कृण्मो हविर्गृहे ॥१॥
(७,७६.६ ) धृषत्पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम् ।
(७,७६.६ ) माध्यन्दिने सवन आ वृषस्व रयिष्ठानो रयिमस्मासु धेहि ॥२॥
(७,७७.१ ) सांतपना इदं हविर्मरुतस्तज्जुजुष्टन ।
(७,७७.१ ) अस्माकोती रिशादसः ॥१॥
(७,७७.२ ) यो नो मर्तो मरुतो दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति ।
(७,७७.२ ) द्रुहः पाशान् प्रति मुञ्चतां सस्तपिष्ठेन तपसा हन्तना तम् ॥२॥
(७,७७.३ ) सम्वत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषासः ।
(७,७७.३ ) ते अस्मत्पाशान् प्र मुञ्चन्त्वेनसस्सांतपना मत्सरा मादयिष्णवः ॥३॥
(७,७८.१ ) वि ते मुञ्चामि रशनां वि योक्त्रं वि नियोजनम् ।
(७,७८.१ ) इहैव त्वमजस्र एध्यग्ने ॥१॥
(७,७८.२ ) अस्मै क्षत्राणि धारयन्तमग्ने युनज्मि त्वा ब्रह्मणा दैव्येन ।
(७,७८.२ ) दीदिह्यस्मभ्यं द्रविणेह भद्रं प्रेमं वोचो हविर्दां देवतासु ॥२॥
(७,७९.१ ) यत्ते देवा अकृण्वन् भागधेयममावास्ये संवसन्तो महित्वा ।
(७,७९.१ ) तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥१॥
(७,७९.२ ) अहमेवास्म्यमावास्या मामा वसन्ति सुकृतो मयीमे ।
(७,७९.२ ) मयि देवा उभये साद्याश्चेन्द्रज्येष्ठाः समगछन्त सर्वे ॥२॥
(७,७९.३ ) आगन् रात्री सङ्गमनी वसूनामूर्जं पुष्टं वस्वावेशयन्ती ।
(७,७९.३ ) अमावास्यायै हविष विधेमोर्जं दुहाना पयसा न आगन् ॥३॥
(७,७९.४ ) अमावास्ये न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान ।
(७,७९.४ ) यत्कामास्ते जुहुमस्तन् नो अस्तु वयं स्याम पतयो रयिणाम् ॥४॥
(७,८०.१ ) पौर्णमासी जिगाय ।
(७,८०.१ ) तस्यां देवैः संवसन्तो महित्वा नाकस्य पृष्ठे समिषा मदेम ॥१॥
(७,८०.२ ) वृषभं वाजिनं वयं पौर्णमासं यजामहे ।
(७,८०.२ ) स नो ददात्वक्षितां रयिमनुपदस्वतीम् ॥२॥
(७,८०.३ ) प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान ।
(७,८०.३ ) यत्कामास्ते जुहुमस्तन् नो अस्तु वयं स्याम पतयो रयीणाम् ॥३॥
(७,८०.४ ) पौर्णमासी प्रथमा यज्ञियासीदह्नां रात्रीणामतिशर्वरेषु ।
(७,८०.४ ) ये त्वां यज्ञैर्यज्ञिये अर्धयन्त्यमी ते नाके सुकृतः प्रविष्टाः ॥४॥
(७,८१.१ ) पूर्वापरं चरतो मययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् ।
(७,८१.१ ) विश्वान्यो भुवना विचष्ट ऋतूंरन्यो विदधज्जायसे नवः ॥१॥
(७,८१.२ ) नवोनवो भवसि जायमानोऽह्नां केतुरुषसामेष्यग्रम् ।
(७,८१.२ ) भागं देवेभ्यो वि दधास्यायन् प्र चन्द्रमस्तिरसे धीर्घमायुः ॥२॥
(७,८१.३ ) सोमस्याम्शो युधां पतेऽनूनो नाम वा असि ।
(७,८१.३ ) अनूनं दर्श मा कृधि प्रजया च धनेन च ॥३॥
(७,८१.४ ) दर्शोऽसि दर्शतोऽसि समग्रोऽसि समन्तः ।
(७,८१.४ ) समग्रः समन्तो भूयासं गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥४॥
(७,८१.५ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तस्य त्वं प्राणेना प्यायस्व ।
(७,८१.५ ) आ वयं प्यासिषीमहि गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥५॥
(७,८१.६ ) यं देवा अंशुमाप्याययन्ति यमक्षितमक्षिता भक्षयन्ति ।
(७,८१.६ ) तेनास्मान् इन्द्रो वरुणो बृहस्पतिरा प्याययन्तु भुवनस्य गोपाः ॥६॥
(७,८२.१ ) अभ्यर्चत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त ।
(७,८२.१ ) इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ताम् ॥१॥
(७,८२.२ ) मय्यग्रे अग्निं गृह्णामि सह क्षत्रेण वर्चसा बलेन ।
(७,८२.२ ) मयि प्रजां मय्यायुर्दधामि स्वाहा मय्यग्निम् ॥२॥
(७,८२.३ ) इहैवाग्ने अध्य्धारया रयिं मा त्वा नि क्रन् पूर्वचित्ता निकारिणः ।
(७,८२.३ ) क्षत्रेणाग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धतां ते अनिष्टृतः ॥३॥
(७,८२.४ ) अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः ।
(७,८२.४ ) अनु सूर्य उषसो अनु रश्मीन् अनु द्यावापृथिवी आ विवेश ॥४॥
(७,८२.५ ) प्रत्यग्निरुषसामग्रमख्यत्प्रति अहानि प्रथमो जातवेदाः ।
(७,८२.५ ) प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥५॥
(७,८२.६ ) घृतं ते अग्ने दिव्ये सधस्थे घृतेन त्वां मनुरद्या समिन्धे ।
(७,८२.६ ) घृतं ते देवीर्नप्त्य आ वहन्तु घृतं तुभ्यं दुह्रतां गावो अग्ने ॥६॥
(७,८३.१ ) अप्सु ते राजन् वरुण गृहो हिरण्ययो मितः ।
(७,८३.१ ) ततो धृतव्रतो राजा सर्वा धामानि मुञ्चतु ॥१॥
(७,८३.२ ) दाम्नोदाम्नो राजन्न् इतो वरुण मुञ्च नः ।
(७,८३.२ ) यदापो अघ्न्या इति वरुणेति यदूचिम ततो वरुण मुञ्च नः ॥२॥
(७,८३.३ ) उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय ।
(७,८३.३ ) अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥३॥
(७,८३.४ ) प्रास्मत्पाशान् वरुण मुञ्च सर्वान् य उत्तमा अधमा वारुणा ये ।
(७,८३.४ ) दुष्वप्न्यं दुरितं नि ष्वास्मदथ गछेम सुकृतस्य लोकम् ॥४॥
(७,८४.१ ) अनाधृष्यो जातवेदा अमर्त्यो विराडग्ने क्षत्रभृद्दीदिहीह ।
(७,८४.१ ) विश्वा अमीवाः प्रमुञ्चन् मानुषीभिः शिवाभिरद्य परि पाहि नो गयम् ॥१॥
(७,८४.२ ) इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् ।
(७,८४.२ ) अपानुदो जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥२॥
(७,८४.३ ) मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगम्यात्परस्याः ।
(७,८४.३ ) सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥३॥
(७,८५.१ ) त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम् ।
(७,८५.१ ) अरिष्टनेमिं पृतनाजिमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥१॥
(७,८६.१ ) त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् ।
(७,८६.१ ) हुवे नु शक्रं पुरुहूतमिन्द्रं स्वस्ति न इन्द्रो मघवान् कृणोतु ॥१॥
(७,८७.१ ) यो अग्नौ रुद्रो यो अप्स्वन्तर्य ओषधीर्वीरुध आविवेश ।
(७,८७.१ ) य इमाविश्वा भुवनानि चाकॢपे तस्मै रुद्राय नमो अस्त्वग्नये ॥१॥
(७,८८.१ ) अपेह्यरिरस्यरिर्वा असि विषे विषमपृक्था विषमिद्वा अपृक्थाः ।
(७,८८.१ ) अहिमेवाभ्यपेहि तं जहि ॥१॥
(७,८९.१ ) अपो दिव्या अचायिषं रसेन समपृक्ष्महि ।
(७,८९.१ ) पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥१॥
(७,८९.२ ) सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।
(७,८९.२ ) विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥२॥
(७,८९.३ ) इदमापः प्र वहतावद्यं च मलं च यत्।
(७,८९.३ ) यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणम् ॥३॥
(७,८९.४ ) एधोऽस्येधिषीय समिदसि समेधिषीय ।
(७,८९.४ ) तेजोऽसि तेजो मयि धेहि ॥४॥
(७,९०.१ ) अपि वृश्च पुराणवद्व्रततेरिव गुष्पितम् ।
(७,९०.१ ) ओजो दासस्य दम्भय ॥१॥
(७,९०.२ ) वयं तदस्य सम्भृतं वस्विन्द्रेन वि भजामहै ।
(७,९०.२ ) म्लापयामि भ्रजः शिभ्रं वरुणस्य व्रतेन ते ॥२॥
(७,९०.३ ) यथा शेपो अपायातै स्त्रीषु चासदनावयाः ।
(७,९०.३ ) अवस्थस्य क्नदीवतः शाङ्कुरस्य नितोदिनः ।
(७,९०.३ ) यदाततमव तत्तनु यदुत्ततं नि तत्तनु ॥३॥
(७,९१.१ ) इन्द्रः सुत्रामा स्ववामवोभिः सुमृडीको भवतु विश्ववेदाः ।
(७,९१.१ ) बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥१॥
(७,९२.१ ) स सुत्रामा स्ववामिन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु ।
(७,९२.१ ) तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥१॥
(७,९३.१ ) इन्द्रेण मन्युना वयमभि ष्याम पृतन्यतः ।
(७,९३.१ ) घ्नन्तो वृत्राण्यप्रति ॥१॥
(७,९४.१ ) ध्रुवं ध्रुवेण हविषाव सोमं नयामसि ।
(७,९४.१ ) यथा न इन्द्रः केवलीर्विशः संमनसस्करत्॥१॥
(७,९५.१ ) उदस्य श्यावौ विथुरौ गृध्रौ द्यामिव पेततुः ।
(७,९५.१ ) उच्छोचनप्रशोचनवस्योच्छोचनौ हृदः ॥१॥
(७,९५.२ ) अहमेनावुदतिष्ठिपं गावौ श्रान्तसदाविव ।
(७,९५.२ ) कुर्कुराविव कूजन्तावुदवन्तौ वृकाविव ॥२॥
(७,९५.३ ) आतोदिनौ नितोदिनावथो संतोदिनावुत ।
(७,९५.३ ) अपि नह्याम्यस्य मेढ्रं य इतः स्त्री पुमान् जभार ॥३॥
(७,९६.१ ) असदन् गावः सदनेऽपप्तद्वसतिं वयः ।
(७,९६.१ ) आस्थाने पर्वता अस्थुः स्थाम्नि वृक्कावतिष्ठिपम् ॥१॥
(७,९७.१ ) यदद्य त्वा प्रयति यज्ञे अस्मिन् होतश्चिकित्वन्न् अवृणीमहीह ।
(७,९७.१ ) ध्रुवमयो ध्रुवमुता शविष्ठैप्रविद्वान् यज्ञमुप याहि सोमम् ॥१॥
(७,९७.२ ) समिन्द्र नो मनसा नेष गोभिः सं सूरिभिर्हरिवन्त्सं स्वस्त्या ।
(७,९७.२ ) सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमतौ यज्ञियानाम् ॥२॥
(७,९७.३ ) यान् आवह उशतो देव देवांस्तान् प्रेरय स्वे अग्ने सधस्थे ।
(७,९७.३ ) जक्षिवांसः पपिवांसो मधून्यस्मै धत्त वसवो वसूनि ॥३॥
(७,९७.४ ) सुगा वो देवाः सदना अकर्म य आजग्म सवने मा जुषाणाः ।
(७,९७.४ ) वहमाना भरमाणाः स्वा वसूनि वसुं घर्मं दिवमा रोहतानु ॥४॥
(७,९७.५ ) यज्ञ यज्ञं गछ यज्ञपतिं गछ ।
(७,९७.५ ) स्वां योनिं गछ स्वाहा ॥५॥
(७,९७.६ ) एष ते यज्ञो यज्ञपते सहसूक्तवाकः ।
(७,९७.६ ) सुवीर्यः स्वाहा ॥६॥
(७,९७.७ ) वषड्धुतेभ्यो वषडहुतेभ्यः ।
(७,९७.७ ) देवा गातुविदो गातुं वित्त्वा गातुमित ॥७॥
(७,९७.८ ) मनसस्पत इमं नो दिवि देवेषु यज्ञम् ।
(७,९७.८ ) स्वाहा दिवि स्वाहा पृथिव्यां स्वाहान्तरिक्षे स्वाहा वाते धां स्वाहा ॥८॥
(७,९८.१ ) सं बर्हिरक्तं हविषा घृतेन समिन्द्रेण वसुना सं मरुद्भिः ।
(७,९८.१ ) सं देवैर्विश्वदेवेभिरक्तमिन्द्रं गछतु हविः स्वाहा ॥१॥
(७,९९.१ ) परि स्तृणीहि परि धेहि वेदिं मा जामिं मोषीरमुया शयानाम् ।
(७,९९.१ ) होतृषदनं हरितं हिरण्ययं निष्का एते यजमानस्य लोके ॥१॥
(७,१००.१ ) पर्यावर्ते दुष्वप्न्यात्पापात्स्वप्न्यादभूत्याः ।
(७,१००.१ ) ब्रह्माहमन्तरं कृण्वे परा स्वप्नमुखाः शुचः ॥१॥
(७,१०१.१ ) यत्स्वप्ने अन्नमश्नामि न प्रातरधिगम्यते ।
(७,१०१.१ ) सर्वं तदस्तु मे शिवं नहि तद्दृष्यते दिवा ॥१॥
(७,१०२.१ ) नमस्कृत्य द्यावापृथिवीभ्यामन्तरिक्षाय मृत्यवे ।
(७,१०२.१ ) मेक्षाम्यूर्ध्वस्तिष्ठन् मा मा हिंसिषुरीश्वराः ॥१॥
(७,१०३.१ ) को अस्या नो द्रुहोऽवद्यवत्या उन् नेष्यति क्षत्रियो वस्य इछन् ।
(७,१०३.१ ) को यज्ञकामः क उ पूर्तिकामः को देवेषु वनुते दीर्घमायुः ॥१॥
(७,१०४.१ ) कः पृश्निं धेनुं वरुणेन दत्तामथर्वने सुदुघां नित्यवत्साम् ।
(७,१०४.१ ) बृहस्पतिना सख्यं जुषणो यथावशं तन्वः कल्पयाति ॥१॥
(७,१०५.१ ) अपक्रामन् पौरुषेयाद्वृणानो दैव्यं वचः ।
(७,१०५.१ ) प्रणीतीरभ्यावर्तस्व विश्वेभिः सखिभिः सह ॥१॥
(७,१०६.१ ) यदस्मृति चकृम किं चिदग्न उपारिम चरणे जातवेदः ।
(७,१०६.१ ) ततः पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वमस्तु नः ॥१॥
(७,१०७.१ ) अव दिवस्तारयन्ति सप्त सूर्यस्य रश्मयः ।
(७,१०७.१ ) आपः समुद्रिया धारास्तास्शल्यमसिस्रसन् ॥१॥
(७,१०८.१ ) यो न स्तायद्दिप्सति यो न आविः स्वो विद्वान् अरणो वा नो अग्ने ।
(७,१०८.१ ) प्रतीच्येत्वरणी दत्वती तान् मैषामग्ने वास्तु भून् मो अपत्यम् ॥१॥
(७,१०८.२ ) यो नः सुप्तान् जाग्रतो वाभिदासात्तिष्ठतो वा चरतो जातवेदः ।
(७,१०८.२ ) वैश्वानरेण सयुजा सजोषास्तान् प्रतीचो निर्दह जातवेदः ॥२॥
(७,१०९.१ ) इदमुग्राय बभ्रवे नमो यो अक्षेषु तनूवशी ।
(७,१०९.१ ) घृतेन कलिं शिक्षामि स नो मृडातीदृशे ॥१॥
(७,१०९.२ ) घृतमप्सराभ्यो वह त्वमग्ने पांसून् अक्षेभ्यः सिकता अपश्च ।
(७,१०९.२ ) यथाभगं हव्यदातिं जुषाणा मदन्ति देवा उभयानि हव्या ॥२॥
(७,१०९.३ ) अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च ।
(७,१०९.३ ) ता मे हस्तौ सं सृजन्तु घृतेन सपत्नं मे कितवं रन्धयन्तु ॥३॥
(७,१०९.४ ) आदिनवं प्रतिदीव्ने घृतेनास्मामभि क्षर ।
(७,१०९.४ ) वृक्षमिवाशन्या जहि यो अस्मान् प्रतिदीव्यति ॥४॥
(७,१०९.५ ) यो नो द्युवे धनमिदं चकार यो अक्षाणां ग्लहनं शेषणं च ।
(७,१०९.५ ) स नो देवो हविरिदं जुषाणो गन्धर्वेभिः सधमादं मदेम ॥५॥
(७,१०९.६ ) संवसव इति वो नामधेयमुग्रंपश्या राष्ट्रभृतो ह्यक्षाः ।
(७,१०९.६ ) तेभ्यो व इन्दवो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥६॥
(७,१०९.७ ) देवान् यन् नाथितो हुवे ब्रह्मचर्यं यदूषिम ।
(७,१०९.७ ) अक्षान् यद्बभ्रून् आलभे ते नो मृडन्त्वीदृशे ॥७॥
(७,११०.१ ) अग्न इन्द्रश्च दाशुषे हतो वृत्राण्यप्रति ।
(७,११०.१ ) उभा हि वृत्रहन्तमा ॥१॥
(७,११०.२ ) याभ्यामजयन्त्स्वरग्र एव यावातस्थतुर्भुवनानि विश्वा ।
(७,११०.२ ) प्र चर्षणीवृषणा वज्रबाहू अग्निमिन्द्रं वृत्रहणा हुवेऽहम् ॥२॥
(७,११०.३ ) उप त्वा देवो अग्रमीच्चमसेन बृहस्पतिः ।
(७,११०.३ ) इन्द्र गीर्भिर्न आ विश यजमानाय सुन्वते ॥३॥
(७,१११.१ ) इन्द्रस्य कुक्षिरसि सोमधान आत्मा देवानामुत मानुषाणाम् ।
(७,१११.१ ) इह प्रजा जनय यास्त आसु या अन्यत्रेह तास्ते रमन्ताम् ॥१॥
(७,११२.१ ) शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते ।
(७,११२.१ ) आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः ॥१॥
(७,११२.२ ) मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।
(७,११२.२ ) अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२॥
(७,११३.१ ) तृष्टिके तृष्टवन्दन उदमूं छिन्धि तृष्टिके ।
(७,११३.१ ) यथा कृतद्विष्टासोऽमुष्मै शेप्यावते ॥१॥
(७,११३.२ ) तृष्टासि तृष्टिका विषा विषातक्यसि ।
(७,११३.२ ) परिवृक्ता यथासस्यृषभस्य वशेव ॥२॥
(७,११४.१ ) आ ते ददे वक्षणाभ्य आ तेऽहं हृदयाद्ददे ।
(७,११४.१ ) आ ते मुखस्य सङ्काशात्सर्वं ते वर्च आ ददे ॥१॥
(७,११४.२ ) प्रेतो यन्तु व्याध्यः प्रानुध्याः प्रो अशस्तयः ।
(७,११४.२ ) अग्नी रक्षस्विनीर्हन्तु सोमो हन्तु दुरस्यतीः ॥२॥
(७,११५.१ ) प्र पतेतः पापि लक्ष्मि नश्येतः प्रामुतः पत ।
(७,११५.१ ) अयस्मयेनाङ्केन द्विषते त्वा सजामसि ॥१॥
(७,११५.२ ) या मा लक्ष्मीः पतयालूरजुष्टाभिचस्कन्द वन्दनेव वृक्षम् ।
(७,११५.२ ) अन्यत्रास्मत्सवितस्तामितो धा हिरण्यहस्तो वसु नो रराणः ॥२॥
(७,११५.३ ) एकशतं लक्ष्म्यो मर्त्यस्य साकं तन्वा जनुषोऽधि जाताः ।
(७,११५.३ ) तासां पापिष्ठा निरितः प्र हिण्मः शिवा अस्मभ्यं जातवेदो नियछ ॥३॥
(७,११५.४ ) एता एना व्याकरं खिले गा विष्ठिता इव ।
(७,११५.४ ) रमन्तां पुण्या लक्ष्मीर्याः पापीस्ता अनीनशम् ॥४॥
(७,११६.१ ) नमो रूराय च्यवनाय नोदनाय धृष्णवे ।
(७,११६.१ ) नमः शीताय पूर्वकामकृत्वने ॥१॥
(७,११६.२ ) यो अन्येद्युरुभयद्युरभ्येतीमं मण्डूकम् ।
(७,११६.२ ) अभ्येत्वव्रतः ॥२॥
(७,११७.१ ) आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ।
(७,११७.१ ) मा त्वा के चिद्वि यमन् विं न पाशिनोऽति धन्वेव तामिहि ॥१॥
(७,११८.१ ) मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् ।
(७,११८.१ ) उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥१॥
(८,१.१ ) अन्तकाय मृत्यवे नमः प्राना अपाना इह ते रमन्ताम् ।
(८,१.१ ) इहायमस्तु पुरुषः सहासुना सूर्यस्य भागे अमृतस्य लोके ॥१॥
(८,१.२ ) उदेनं भगो अग्रभीदुदेनं सोमो अंशुमान् ।
(८,१.२ ) उदेनं मरुतो देवा उदिन्द्राग्नी स्वस्तये ॥२॥
(८,१.३ ) इह तेऽसुरिह प्राण इहायुरिह ते मनः ।
(८,१.३ ) उत्त्वा निरृत्याः पाशेभ्यो दैव्या वचा भरामसि ॥३॥
(८,१.४ ) उत्क्रामातः पुरुष माव पत्था मृत्योः पड्वीषमवमुञ्चमानः ।
(८,१.४ ) मा छित्था अस्माल्लोकादग्नेः सूर्यस्य संदृशः ॥४॥
(८,१.५ ) तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्वमृतान्यापः ।
(८,१.५ ) सूर्यस्ते तन्वे शं तपाति त्वां मृत्युर्दयतां मा प्र मेष्ठाः ॥५॥
(८,१.६ ) उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं कृनोमि ।
(८,१.६ ) आ हि रोहेमममृतं सुखं रथमथ जिर्विर्विदथमा वदासि ॥६॥
(८,१.७ ) मा ते मनस्तत्र गान् मा तिरो भून् मा जीवेभ्यः प्र मदो मानु गाः पितॄन् ।
(८,१.७ ) विश्वे देवा अभि रक्षन्तु त्वेह ॥७॥
(८,१.८ ) मा गतानामा दीधीथा ये नयन्ति परावतम् ।
(८,१.८ ) आ रोह तमसो ज्योतिरेह्या ते हस्तौ रभामहे ॥८॥
(८,१.९ ) श्यामश्च त्वा मा शबलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ ।
(८,१.९ ) अर्वाङेहि मा वि दीध्यो मात्र तिष्ठः पराङ्मनाः ॥९॥
(८,१.१० ) मैतं पन्थामनु गा भीम एष येन पूर्वं नेयथ तं ब्रवीमि ।
(८,१.१० ) तम एतत्पुरुष मा प्र पत्था भयं परस्तादभयं ते अर्वाक्॥१०॥ {१}
(८,१.११ ) रक्षन्तु त्वाग्नयो ये अप्स्वन्ता रक्षतु त्वा मनुष्या यमिन्धते ।
(८,१.११ ) वैश्वानरो रक्षतु जातवेदा दिव्यस्त्वा मा प्र धाग्विद्युता सह ॥११॥
(८,१.१२ ) मा त्वा क्रव्यादभि मंस्तारात्संकसुकाच्चर रक्षतु त्वा द्यौ रक्षतु ।
(८,१.१२ ) पृथिवी सूर्यश्च त्वा रक्षतां चन्द्रमाश्च ।
(८,१.१२ ) अन्तरिक्षं रक्षतु देवहेत्याः ॥१२॥
(८,१.१३ ) बोधश्च त्वा प्रतिबोधश्च रक्षतामस्वप्नश्च त्वानवद्राणश्च रक्षताम् ।
(८,१.१३ ) गोपायंश्च त्वा जागृविश्च रक्षताम् ॥१३॥
(८,१.१४ ) ते त्वा रक्षन्तु ते त्वा गोपायन्तु तेभ्यो नमस्तेभ्यः स्वाहा ॥१४॥
(८,१.१५ ) जीवेभ्यस्त्वा समुदे वायुरिन्द्रो धाता दधातु सविता त्रायमाणः ।
(८,१.१५ ) मा त्वा प्राणो बलं हासीदसुं तेऽनु ह्वयामसि ॥१५॥
(८,१.१६ ) मा त्वा जम्भः संहनुर्मा तमो विदन् मा जिह्वा बर्हिस्प्रमयुः कथा स्याः ।
(८,१.१६ ) उत्त्वादित्या वसवो भरन्तूदिन्द्राग्नी स्वस्तये ॥१६॥
(८,१.१७ ) उत्त्वा द्यौरुत्पृथिव्युत्प्रजापतिरग्रभीत्।
(८,१.१७ ) उत्त्वा मृत्योरोषधयः सोमराज्ञीरपीपरन् ॥१७॥
(८,१.१८ ) अयं देवा इहैवास्त्वयं मामुत्र गादितः ।
(८,१.१८ ) इमं सहस्रवीर्येण मृत्योरुत्पारयामसि ॥१८॥
(८,१.१९ ) उत्त्वा मृत्योरपीपरं सं धमन्तु वयोधसः ।
(८,१.१९ ) मा त्वा व्यस्तकेश्यो मा त्वाघरुदो रुदन् ॥१९॥
(८,१.२० ) आहार्षमविदं त्वा पुनरागाः पुनर्णवः ।
(८,१.२० ) सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥२०॥
(८,१.२१ ) व्यवात्ते ज्योतिरभूदप त्वत्तमो अक्रमीत्।
(८,१.२१ ) अप त्वन् मृत्युं निरृतिमप यक्ष्मं नि दध्मसि ॥२१॥ {२}
(८,२.१ ) आ रभस्वेमाममृतस्य श्नुष्टिमछिद्यमाना जरदष्टिरस्तु ते ।
(८,२.१ ) असुं त आयुः पुनरा भरामि रजस्तमो मोप गा मा प्र मेष्ठाः ॥१॥
(८,२.२ ) जीवतां ज्योतिरभ्येह्यर्वाङा त्वा हरामि शतशारदाय ।
(८,२.२ ) अवमुञ्चन् मृत्युपाशान् अशस्तिं द्राघीय आयुः प्रतरं ते दधामि ॥२॥
(८,२.३ ) वातात्ते प्रानमविदं सूर्याच्चक्षुरहं तव ।
(८,२.३ ) यत्ते मनस्त्वयि तद्धारयामि सं वित्स्वाङ्गैर्वद जिह्वयालपन् ॥३॥
(८,२.४ ) प्राणेन त्वा द्विपदां चतुष्पदामग्निमिव जातमभि सं धमामि ।
(८,२.४ ) नमस्ते मृत्यो चक्षुषे नमः प्राणाय तेऽकरम् ॥४॥
(८,२.५ ) अयं जीवतु मा मृतेमं समीरयामसि ।
(८,२.५ ) कृणोम्यस्मै भेषजं मृत्यो मा पुरुषं वधीः ॥५॥
(८,२.६ ) जीवलां नघारिषां जीवन्तीमोषधीमहम् ।
(८,२.६ ) त्रायमाणां सहमानां सहस्वतीमिह हुवेऽस्मा अरिष्टतातये ॥६॥
(८,२.७ ) अधि ब्रूहि मा रभथाः सृजेमं तवैव सन्त्सर्वहायाः इहास्तु ।
(८,२.७ ) भवाशर्वौ मृडतं शर्म यछतमपसिध्य दुरितं धत्तमायुः ॥७॥
(८,२.८ ) अस्मै मृत्यो अधि ब्रूहीमं दयस्वोदितोऽयमेतु ।
(८,२.८ ) अरिष्टः सर्वाङ्गः सुश्रुज्जरसा शतहायन आत्मना भुजमश्नुताम् ॥८॥
(८,२.९ ) देवानां हेतिः परि त्वा वृणक्तु पारयामि त्वा रजस उत्त्वा मृत्योरपीपरम् ।
(८,२.९ ) आरादग्निं क्रव्यादं निरूहं जीवातवे ते परिधिं दधामि ॥९॥
(८,२.१० ) यत्ते नियानं रजसं मृत्यो अनवधर्ष्यम् ।
(८,२.१० ) पथ इमं तस्माद्रक्षन्तो ब्रह्मास्मै वर्म कृण्मसि ॥१०॥ {३}
(८,२.११ ) कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घमायुः स्वस्ति ।
(८,२.११ ) वैवस्वतेन प्रहितान् यमदूतांश्चरतोऽप सेधामि सर्वान् ॥११॥
(८,२.१२ ) आरादरातिं निरृतिं परो ग्राहिं क्रव्यादः पिशाचान् ।
(८,२.१२ ) रक्षो यत्सर्वं दुर्भूतं तत्तम इवाप हन्मसि ॥१२॥
(८,२.१३ ) अग्नेष्ट प्रानममृतादायुष्मतो वन्वे जातवेदसः ।
(८,२.१३ ) यथा न रिष्या अमृतः सजूरसस्तत्ते कृणोमि तदु ते समृध्यताम् ॥१३॥
(८,२.१४ ) शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ ।
(८,२.१४ ) शं ते सूर्य आ तपतु शं वातो वातु ते हृदे ।
(८,२.१४ ) शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः ॥१४॥
(८,२.१५ ) शिवास्ते सन्त्वोषधय उत्त्वाहार्षमधरस्या उत्तरां पृथिवीमभि ।
(८,२.१५ ) तत्र त्वादित्यौ रक्षतां सूर्याचन्द्रमसावुभा ॥१५॥
(८,२.१६ ) यत्ते वासः परिधानं यां नीविं कृणुषे त्वम् ।
(८,२.१६ ) शिवं ते तन्वे तत्कृण्मः संस्पर्शेऽद्रूक्ष्णमस्तु ते ॥१६॥
(८,२.१७ ) यत्क्षुरेण मर्चयता सुतेजसा वप्ता वपसि केशश्मश्रु ।
(८,२.१७ ) शुभं मुखं मा न आयुः प्र मोषीः ॥१७॥
(८,२.१८ ) शिवौ ते स्तां व्रीहियवावबलासावदोमधौ ।
(८,२.१८ ) एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः ॥१८॥
(८,२.१९ ) यदश्नासि यत्पिबसि धान्यं कृष्याः पयः ।
(८,२.१९ ) यदाद्यं यदनाद्यं सर्वं ते अन्नमविषं कृणोमि ॥१९॥
(८,२.२० ) अह्ने च त्वा रात्रये चोभाभ्यां परि दद्मसि ।
(८,२.२० ) अरायेभ्यो जिघत्सुभ्य इमं मे परि रक्षत ॥२०॥ {४}
(८,२.२१ ) शतं तेऽयुतं हायनान् द्वे युगे त्रीणि चत्वारि कृण्मः ।
(८,२.२१ ) इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥२१॥
(८,२.२२ ) शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि ।
(८,२.२२ ) वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः ॥२२॥
(८,२.२३ ) मृत्युरीशे द्विपदां मृत्युरीशे चतुष्पदाम् ।
(८,२.२३ ) तस्मात्त्वां मृत्योर्गोपतेरुद्भरामि स मा बिभेः ॥२३॥
(८,२.२४ ) सोऽरिष्ट न मरिष्यसि न मरिष्यसि मा बिभेः ।
(८,२.२४ ) न वै तत्र म्रियन्ते नो यन्ति अधमं तमः ॥२४॥
(८,२.२५ ) सर्वो वै तत्र जीवति गौरश्वः पुरुषः पशुः ।
(८,२.२५ ) यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कम् ॥२५॥
(८,२.२६ ) परि त्वा पातु समानेभ्योऽभिचारात्सबन्धुभ्यः ।
(८,२.२६ ) अमम्रिर्भवामृतोऽतिजीवो मा ते हासिषुरसवः शरीरम् ॥२६॥
(८,२.२७ ) ये मृत्यव एकशतं या नाष्ट्रा अतितार्याः ।
(८,२.२७ ) मुञ्चन्तु तस्मात्त्वां देवा अग्नेर्वैश्वानरादधि ॥२७॥
(८,२.२८ ) अग्नेः शरीरमसि पारयिष्णु रक्षोहासि सपत्नहा ।
(८,२.२८ ) अथो अमीवचातनः पूतुद्रुर्नाम भेषजम् ॥२८॥ {५}
(८,३.१ ) रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म ।
(८,३.१ ) शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥१॥
(८,३.२ ) अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः ।
(८,३.२ ) आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृष्ट्वापि धत्स्वासन् ॥२॥
(८,३.३ ) उभोभयाविन्न् उप धेहि दंष्ट्रौ हिंस्रः शिशानोऽवरं परं च ।
(८,३.३ ) उतान्तरिक्षे परि याह्यग्ने जम्भैः सं धेह्यभि यातुधानान् ॥३॥
(८,३.४ ) अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम् ।
(८,३.४ ) प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोत्वेनम् ॥४॥
(८,३.५ ) यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम् ।
(८,३.५ ) उतान्तरिक्षे पतन्तं यातुधानं तमस्ता विध्य शर्वा शिशानः ॥५॥
(८,३.६ ) यज्ञैरिषूः संनममानो अग्ने इवाचा शल्यामशनिभिर्दिहानः ।
(८,३.६ ) ताभिर्विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ग्ध्येषाम् ॥६॥
(८,३.७ ) उतारब्धान्त्स्पृनुहि जातवेद उतारेभाणामृष्टिभिर्यातुधानान् ।
(८,३.७ ) अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः ॥७॥
(८,३.८ ) इह प्र ब्रूहि यतमः सो अग्ने यातुधानो य इदं कृणोति ।
(८,३.८ ) तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम् ॥८॥
(८,३.९ ) तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः ।
(८,३.९ ) हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन् यातुधाना नृचक्षः ॥९॥
(८,३.१० ) नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्यग्रा ।
(८,३.१० ) तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥१०॥ {६}
(८,३.११ ) त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति ।
(८,३.११ ) तमर्चिषा स्फूर्जयन् जातवेदः समक्षमेनं गृणते नि युङ्ग्धि ॥११॥
(८,३.१२ ) यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः ।
(८,३.१२ ) मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥१२॥
(८,३.१३ ) परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि ।
(८,३.१३ ) परार्चिषा मूरदेवान् छृणीहि परासुतृपः शोशुचतः शृणीहि ॥१३॥
(८,३.१४ ) पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु सृष्टाः ।
(८,३.१४ ) वाचास्तेनं शरव ऋछन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः ॥१४॥
(८,३.१५ ) यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः ।
(८,३.१५ ) यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥१५॥
(८,३.१६ ) विषं गवां यातुधाना भरन्तामा वृश्चन्तामदितये दुरेवाः ।
(८,३.१६ ) परैणान् देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥१६॥
(८,३.१७ ) संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः ।
(८,३.१७ ) पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मणि ॥१७॥
(८,३.१८ ) सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः ।
(८,३.१८ ) सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥१८॥
(८,३.१९ ) त्वं नो अग्ने अधरादुदक्तस्त्वं पश्चादुत रक्षा पुरस्तात्।
(८,३.१९ ) प्रति त्ये ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥१९॥
(८,३.२० ) पश्चात्पुरस्तादधरादुतोत्तरात्कविः काव्येन परि पाह्यग्ने ।
(८,३.२० ) सखा सखायमजरो जरिम्ने अग्ने मर्ताममर्त्यस्त्वं नः ॥२०॥ {७}
(८,३.२१ ) तदग्ने चक्षुः प्रति धेहि रेभे शफारुजो येन पश्यसि यातुधानान् ।
(८,३.२१ ) अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष ॥२१॥
(८,३.२२ ) परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
(८,३.२२ ) धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥२२॥
(८,३.२३ ) विषेण भङ्गुरावतः प्रति स्म रक्षसो जहि ।
(८,३.२३ ) अग्ने तिग्मेन शोचिषा तपुरग्राभिरर्चिभिः ॥२३॥
(८,३.२४ ) वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा ।
(८,३.२४ ) प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षोभ्यो विनिक्षे ॥२४॥
(८,३.२५ ) ये ते शृङ्गे अजरे जातवेदस्तिग्महेती ब्रह्मसंशिते ।
(८,३.२५ ) ताभ्यां दुर्हार्दमभिदासन्तं किमीदिनम् ।
(८,३.२५ ) प्रत्यञ्चमर्चिषा जातवेदो वि निक्ष्व ॥२५॥
(८,३.२६ ) अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः ।
(८,३.२६ ) शुचिः पावक ईड्यः ॥२६॥ {८}
(८,४.१ ) इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः ।
(८,४.१ ) परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्त्रिणः ॥१॥
(८,४.२ ) इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निमामिव ।
(८,४.२ ) ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥२॥
(८,४.३ ) इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम् ।
(८,४.३ ) यतो नैषां पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥३॥
(८,४.४ ) इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् ।
(८,४.४ ) उत्तक्षतं स्वर्यं१ पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥४॥
(८,४.५ ) इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः ।
(८,४.५ ) तपुर्वधेभिरजरेभिरत्त्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥५॥
(८,४.६ ) इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना ।
(८,४.६ ) यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपती इव जिन्वतम् ॥६॥
(८,४.७ ) प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः ।
(८,४.७ ) इन्द्रासोमा दुष्कृते मा सुगं भूद्यो मा कदा चिदभिदासति द्रुहुः ॥७॥
(८,४.८ ) यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः ।
(८,४.८ ) आप इव काशिना सम्गृभीता असन्न् अस्त्वसतः इन्द्र वक्ता ॥८॥
(८,४.९ ) ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः ।
(८,४.९ ) अहये वा तान् प्रददातु सोम आ वा दधातु निरृतेरुपष्ठे ॥९॥
(८,४.१० ) यो नो रसं दिप्सति पित्वो अग्ने अश्वानां गवां यस्तनूनाम् ।
(८,४.१० ) रिपु स्तेन स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥१०॥ {९}
(८,४.११ ) परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः ।
(८,४.११ ) प्रति शुष्यतु यशो अस्य देवा यो मा दिवा दिप्सति यश्च नक्तम् ॥११॥
(८,४.१२ ) सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते ।
(८,४.१२ ) तस्योर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यसत्॥१२॥
(८,४.१३ ) न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् ।
(८,४.१३ ) हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥१३॥
(८,४.१४ ) यदि वाहमनृतदेवो अस्मि मोघं वा देवामप्यूहे अग्ने ।
(८,४.१४ ) किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निरृथं सचन्ताम् ॥१४॥
(८,४.१५ ) अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पुरुषस्य ।
(८,४.१५ ) अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥१५॥
(८,४.१६ ) यो मायातुं यातुधानेत्याह यो वा रक्षाः शिचिरस्मीत्याह ।
(८,४.१६ ) इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥१६॥
(८,४.१७ ) प्र या जिगाति खर्गलेव नक्तमप द्रुहुस्तन्वं१ गूहमाना ।
(८,४.१७ ) वव्रमनन्तमव सा पदीष्टिअ ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥१७॥
(८,४.१८ ) वि तिष्ठध्वं मरुतो विक्ष्विछत गृभायत रक्षसः सं पिनष्टन् ।
(८,४.१८ ) वयो ये भूत्वा पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥१८॥
(८,४.१९ ) प्र वर्तय दिवोऽश्मानमिन्द्र सोमशितं मघवन्त्सं शिशाधि ।
(८,४.१९ ) प्राक्तो अपाक्तो अधरादुदक्तोऽभि जहि रक्षसः पर्वतेन ॥१९॥
(८,४.२० ) एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम् ।
(८,४.२० ) शिशीते शक्रः पिशुनेभ्यो वधं नुनं सृजदशनिं यातुमद्भ्यः ॥२०॥ {१०}
(८,४.२१ ) इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम् ।
(८,४.२१ ) अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्त्सत एतु रक्षसः ॥२१॥
(८,४.२२ ) उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम् ।
(८,४.२२ ) सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥२२॥
(८,४.२३ ) मा नो रक्षो अभि नड्यातुमावदपोछन्तु मिथुना ये किमीदिनः ।
(८,४.२३ ) पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥२३॥
(८,४.२४ ) इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् ।
(८,४.२४ ) विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त्सूर्यमुच्चरन्तम् ॥२४॥
(८,४.२५ ) प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् ।
(८,४.२५ ) रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥२५॥ {११}
(८,५.१ ) अयं प्रतिसरो मणिर्वीरो वीराय बध्यते ।
(८,५.१ ) वीर्यवान्त्सपत्नहा शूरवीरः परिपाणः सुमङ्गलः ॥१॥
(८,५.२ ) अयं मणिः सपत्नहा सुवीरः सहस्वान् वाजी सहमान उग्रः ।
(८,५.२ ) प्रत्यक्कृत्या दूषयन्न् एति वीरः ॥२॥
(८,५.३ ) अनेनेन्द्रो मणिना वृत्रमहन्न् अनेनासुरान् पराभावयन् मनीषी ।
(८,५.३ ) अनेनाजयद्द्यावापृथिवी उभे इमे अनेनाजयत्प्रदिशश्चतस्रः ॥३॥
(८,५.४ ) अयं स्राक्त्यो मणिः प्रतीवर्तः प्रतिसरः ।
(८,५.४ ) ओजस्वान् विमृधो वशी सो अस्मान् पातु सर्वतः ॥४॥
(८,५.५ ) तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः ।
(८,५.५ ) ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥५॥
(८,५.६ ) अन्तर्दधे द्यावापृथिवी उताहरुत सूर्यम् ।
(८,५.६ ) ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥६॥
(८,५.७ ) ये स्राक्त्यं मणिं जना वर्माणि कृण्वते ।
(८,५.७ ) सूर्य इव दिवमारुह्य वि कृत्या बाधते वशी ॥७॥
(८,५.८ ) स्राक्त्येन मणिना ऋषिणेव मनीषिणा ।
(८,५.८ ) अजैषं सर्वाः पृतना वि मृधो हन्मि रक्षसः ॥८॥
(८,५.९ ) याः कृत्या आङ्गिरसीर्याः कृत्या आसुरीर्याः ।
(८,५.९ ) कृत्याः स्वयंकृता या उ चान्येभिराभृताः ।
(८,५.९ ) उभयीस्ताः परा यन्तु परावतो नवतिं नाव्या अति ॥९॥
(८,५.१० ) अस्मै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः ।
(८,५.१० ) प्रजापतिः परमेष्ठी विराड्वैश्वानर ऋषयश्च सर्वे ॥१०॥ {१२}
(८,५.११ ) उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव ।
(८,५.११ड्) यमैछामाविदाम तं प्रतिस्पाशनमन्तितम् ॥११॥
(८,५.१२ ) स इद्व्याघ्रो भवत्यथो सिंहो अथो वृषा ।
(८,५.१२ ) अथो सपत्नकर्शनो यो बिभर्तीमं मणिम् ॥१२॥
(८,५.१३ ) नैनं घ्नन्त्यप्सरसो न गन्धर्वा न मर्त्याः ।
(८,५.१३ ) सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ॥१३॥
(८,५.१४ ) कश्यपस्त्वामसृजत कश्यपस्त्वा समैरयत्।
(८,५.१४ ) अबिभस्त्वेन्द्रो मानुषे बिभ्रत्संश्रेषिणेऽजयत्।
(८,५.१४ ) मणिं सहस्रवीर्यं वर्म देवा अकृण्वत ॥१४॥
(८,५.१५ ) यस्त्वा कृत्याभिर्यस्त्वा दीक्षाभिर्यज्ञैर्यस्त्वा जिघांसति ।
(८,५.१५ ) प्रत्यक्त्वमिन्द्र तं जहि वज्रेण शतपर्वणा ॥१५॥
(८,५.१६ ) अयमिद्वै प्रतीवर्त ओजस्वान् संजयो मणिः ।
(८,५.१६ ) प्रजां धनं च रक्षतु परिपाणः सुमङ्गलः ॥१६॥
(८,५.१७ ) असपत्नं नो अधरादसपत्नं न उत्तरात्।
(८,५.१७ ) इन्द्रासपत्नं नः पश्चाज्ज्योतिः शूर पुरस्कृधि ॥१७॥
(८,५.१८ ) वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः ।
(८,५.१८ ) वर्म म इन्द्रश्चाग्निश्च वर्म धाता दधातु मे ॥१८॥
(८,५.१९ ) ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सर्वे ।
(८,५.१९ ) तन् मे तन्वं त्रायतां सर्वतो बृहदायुष्मां जरदष्टिर्यथासानि ॥१९॥
(८,५.२० ) आ मारुक्षद्देवमणिर्मह्या अरिष्टतातये ।
(८,५.२० ) इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे ॥२०॥
(८,५.२१ ) अस्मिन्न् इन्द्रो नि दधातु नृम्णमिमं देवासो अभिसंविशध्वम् ।
(८,५.२१ ) दीर्घायुत्वाय शतशारदायायुष्मान् जरदष्टिर्यथासत्॥२१॥
(८,५.२२ ) स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी ।
(८,५.२२ ) इन्द्रो बध्नातु ते मणिं जिगीवामपराजितः ।
(८,५.२२ ) सोमपा अभयङ्करो वृषा ।
(८,६.१ ) यौ ते मातोन्ममार्ज जातायाः पतिवेदनौ ।
(८,६.१ ) दुर्णामा तत्र मा गृधदलिंश उत वत्सपः ॥१॥
(८,६.२ ) पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम् ।
(८,६.२ ) आश्रेषं वव्रिवाससमृक्षग्रीवं प्रमीलिनम् ॥२॥
(८,६.३ ) मा सं वृतो मोप सृप ऊरू माव सृपोऽन्तरा ।
(८,६.३ ) कृणोम्यस्यै भेषजं बजं दुर्णामचातनम् ॥३॥
(८,६.४ ) दुर्णामा च सुनामा चोभा सम्वृतमिछतः ।
(८,६.४ ) अरायान् अप हन्मः सुनामा स्त्रैणमिछताम् ॥४॥
(८,६.५ ) यः कृष्णः केश्यसुर स्तम्बज उत तुण्डिकः ।
(८,६.५ ) अरायान् अस्या मुष्काभ्यां भंससोऽप हन्मसि ॥५॥
(८,६.६ ) अनुजिघ्रं प्रमृशन्तं क्रव्यादमुत रेरिहम् ।
(८,६.६ ) अरायां छ्वकिष्किणो बजः पिङ्गो अनीनशत्॥६॥
(८,६.७ ) यस्त्वा स्वप्ने निपद्यते भ्राता भूत्वा पितेव च ।
(८,६.७ ) बजस्तान्त्सहतामितः क्लीबरूपांस्तिरीटिनः ॥७॥
(८,६.८ ) यस्त्वा स्वपन्तीं त्सरति यस्त्वा दिप्सति जाग्रतीम् ।
(८,६.८ ) छायामिव प्र तान्त्सूर्यः परिक्रामन्न् अनीनशत्॥८॥
(८,६.९ ) यः कृणोति मृतवत्सामवतोकामिमां स्त्रियम् ।
(८,६.९ ) तमोषधे त्वं नाशयास्याः कमलमञ्जिवम् ॥९॥
(८,६.१० ) ये शालाः परिनृत्यन्ति सायं गर्दभनादिनः ।
(८,६.१० ) कुसूला ये च कुक्षिलाः ककुभाः करुमाः स्रिमाः ।
(८,६.१० ) तान् ओषधे त्वं गन्धेन विषूचीनान् वि नाशय ॥१०॥ {१४}
(८,६.११ ) ये कुकुन्धाः कुकिरभाः कृत्तीर्दूर्शानि बिभ्रति ।
(८,६.११ ) क्लीबा इव प्रनृत्यन्तो वने ये कुर्वते घोषं तान् इतो नाशयामसि ॥११॥
(८,६.१२ ) ये सूर्यं न तितिक्षन्त आतपन्तममुं दिवः ।
(८,६.१२ ) अरायान् बस्तवासिनो दुर्गन्धींल्लोहितास्यान् मककान् नाशयामसि ॥१२॥
(८,६.१३ ) य आत्मानमतिमात्रमंस आधाय बिभ्रति ।
(८,६.१३ ) स्त्रीणां श्रोणिप्रतोदिन इन्द्र रक्षांसि नाशय ॥१३॥
(८,६.१४ ) ये पूर्वे बध्वो यन्ति हस्ते शृङ्गानि बिभ्रतः ।
(८,६.१४ ) आपाकेस्थाः प्रहासिन स्तम्बे ये कुर्वते ज्योतिस्तान् इतो नाशयामसि ॥१४॥
(८,६.१५ ) येषां पश्चात्प्रपदानि पुरः पार्ष्णीः पुरो मुखा ।
(८,६.१५ ) खलजाः शकधूमजा उरुण्डा ये च मट्मटाः कुम्भमुष्का अयाशवः ।
(८,६.१५ ) तान् अस्या ब्रह्मणस्पते प्रतीबोधेन नाशय ॥१५॥
(८,६.१६ ) पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणाः सन्तु पण्डगाः ।
(८,६.१६ ) अव भेषज पादय य इमां संविवृत्सत्यपतिः स्वपतिं स्त्रियम् ॥१६॥
(८,६.१७ ) उद्धर्षिणं मुनिकेशं जम्भयन्तं मरीमृशम् ।
(८,६.१७ ) उपेषन्तमुदुम्बलं तुण्डेलमुत शालुडम् ।
(८,६.१७ ) पदा प्र विध्य पार्ष्ण्या स्थालीं गौरिव स्पन्दना ॥१७॥
(८,६.१८ ) यस्ते गर्भं प्रतिमृशाज्जातं वा मारयाति ते ।
(८,६.१८ ) पिङ्गस्तमुग्रधन्वा कृणोतु हृदयाविधम् ॥१८॥
(८,६.१९ ) ये अम्नो जतान् मारयन्ति सूतिका अनुशेरते ।
(८,६.१९ ) स्त्रीभागान् पिङ्गो गन्धर्वान् वातो अभ्रमिवाजतु ॥१९॥
(८,६.२० ) परिसृष्टं धरयतु यद्धितं माव पादि तत्।
(८,६.२० ) गर्भं त उग्रौ रक्षतां भेषजौ नीविभार्यौ ॥२०॥ {१५}
(८,६.२१ ) पवीनसात्तङ्गल्वाच्छायकादुत नग्नकात्।
(८,६.२१ ) प्रजायै पत्ये त्वा पिङ्गः परि पातु किमीदिनः ॥२१॥
(८,६.२२ ) द्व्यास्याच्चतुरक्षात्पञ्चपदादनङ्गुरेः ।
(८,६.२२ ) वृन्तादभि प्रसर्पतः परि पाहि वरीवृतात्॥२२॥
(८,६.२३ ) य आमं मांसमदन्ति पौरुषेयं च ये क्रविः ।
(८,६.२३ ) गर्भान् खादन्ति केशवास्तान् इतो नाशयामसि ॥२३॥
(८,६.२४ ) ये सूर्यात्परिसर्पन्ति स्नुषेव श्वशुरादधि ।
(८,६.२४ ) बजश्च तेषां पिङ्गश्च हृदयेऽधि नि विध्यताम् ॥२४॥
(८,६.२५ ) पिङ्ग रक्ष जायमानं मा पुमांसं स्त्रियं क्रन् ।
(८,६.२५ ) आण्डादो गर्भान् मा दभन् बाधस्वेतः किमीदिनः ॥२५॥
(८,६.२६ ) अप्रजास्त्वं मार्तवत्समाद्रोदमघमावयम् ।
(८,६.२६ ) वृक्षादिव स्रजं कृत्वाप्रिये प्रति मुञ्च तत्॥२६॥ {१६}
(८,७.१ ) या बभ्रवो याश्च शुक्रा रोहिणीरुत पृश्नयः ।
(८,७.१ ) असिक्नीः कृष्णा ओषधीः सर्वा अछावदामसि ॥१॥
(८,७.२ ) त्रायन्तामिमं पुरुसं यक्ष्माद्देवेषितादधि ।
(८,७.२ ) यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ॥२॥
(८,७.३ ) आपो अग्रं दिव्या ओषधयः ।
(८,७.३ ) तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशन् ॥३॥
(८,७.४ ) प्रस्तृणती स्तम्बिनीरेकशुङ्गाः प्रतन्वतीरोषधीरा वदामि ।
(८,७.४ ) अंशुमतीः कण्डिनीर्या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीरुग्राः पुरुषजीवनीः ॥४॥
(८,७.५ ) यद्वः सहः सहमाना वीर्यं१ यच्च वो बलम् ।
(८,७.५ ) तेनेममस्माद्यक्ष्मात्पुरुषं मुञ्चतौषधीरथो कृणोमि भेषजम् ॥५॥
(८,७.६ ) जीवलां नघारिषां जीवन्तीमोषधीमहम् ।
(८,७.६ ) अरुन्धतीमुन्नयन्तीं पुष्पां मधुमतीमिह हुवेऽस्मा अरिष्टतातये ॥६॥
(८,७.७ ) इहा यन्तु प्रचेतसो मेदिनीर्वचसो मम ।
(८,७.७ ) यथेमं पारयामसि पुरुषं दुरितादधि ॥७॥
(८,७.८ ) अग्नेर्घासो अपां गर्भो या रोहन्ति पुनर्णवाः ।
(८,७.८ ) ध्रुवाः सहस्रनाम्नीर्भेषजीः सन्त्वाभृताः ॥८॥
(८,७.९ ) अवकोल्बा उदकात्मान ओषधयः ।
(८,७.९ ) व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्यः ॥९॥
(८,७.१० ) उन्मुञ्चन्तीर्विवरुणा उग्रा या विषदूषनीः ।
(८,७.१० ) अथो बलासनाशनीः कृत्यादूषणीश्च यास्ता इहा यन्त्वोषधीः ॥१०॥ {१७}
(८,७.११ ) अपक्रीताः सहीयसीर्वीरुधो या अभिष्टुताः ।
(८,७.११ ) त्रायन्तामस्मिन् ग्रामे गामश्वं पुरुषं पशुम् ॥११॥
(८,७.१२ ) मधुमन् मूलं मधुमदग्रमासां मधुमन् मध्यं वीरुधां बभूव ।
(८,७.१२ ) मधुमत्पर्णं मधुमत्पुष्पमासां मधोः सम्भक्ता अमृतस्य भक्षो घृतमन्नं दुह्रतां गोपुरोगवम् ॥१२॥
(८,७.१३ ) यावतीः कियतीश्चेमाः पृथिव्यामध्योषधीः ।
(८,७.१३ ) ता मा सहस्रपर्ण्यो मृत्योर्मुञ्चन्त्वंहसः ॥१३॥
(८,७.१४ ) वैयाघ्रो मणिर्वीरुधां त्रायमानोऽभिशस्तिपाः ।
(८,७.१४ ) अमीवाः सर्वा रक्षांस्यप हन्त्वधि दूरमस्मत्॥१४॥
(८,७.१५ ) सिंहस्येव स्तनथोः सं विजन्तेऽग्नेरिव विजन्ते आभृताभ्यः ।
(८,७.१५ ) गवां यक्ष्मः पुरुषाणां वीरुद्भिरतिनुत्तो नाव्या एतु स्रोत्याः ॥१५॥
(८,७.१६ ) मुमुचाना ओषधयोऽग्नेर्वैश्वानरादधि ।
(८,७.१६ ) भूमिं संतन्वतीरित यासां राजा वनस्पतिः ॥१६॥
(८,७.१७ ) या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च ।
(८,७.१७ ) ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे ॥१७॥
(८,७.१८ ) याश्चाहं वेद वीरुधो याश्च पश्यामि चक्षुषा ।
(८,७.१८ ) अज्ञाता जानीमश्च या यासु विद्म च संभृतम् ॥१८॥
(८,७.१९ ) सर्वाः समग्रा ओषधीर्बोधन्तु वचसो मम ।
(८,७.१९ ) यथेमं पारयामसि पुरुषं दुरितादधि ॥१९॥
(८,७.२० ) अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः ।
(८,७.२० ) व्रीहिर्यवश्च भेषजौ दिवसि पुत्रावमर्त्यौ ॥२०॥ {१८}
(८,७.२१ ) उज्जिहीध्वे स्तनयत्यभिक्रन्दत्योषधीः ।
(८,७.२१ ) यदा वः पृश्निमातरः पर्जन्यो रेतसावति ॥२१॥
(८,७.२२ ) तस्यामृतस्येमं बलं पुरुषं पययामसि ।
(८,७.२२ ) अथो कृणोमि भेषजं यथासच्छतहायनः ॥२२॥
(८,७.२३ ) वराहो वेद वीरुधं नकुलो वेद भेषजीम् ।
(८,७.२३ ) सर्पा गन्धर्वा या विदुस्ता अस्मा अवसे हुवे ॥२३॥
(८,७.२४ ) याः सुपर्णा आङ्गिरसीर्दिव्या या रघतो विदुः ।
(८,७.२४ ) वयांसि हंसा या विदुर्यास्च सर्वे पतत्रिणः ।
(८,७.२४ ) मृगा या विदुरोषधीस्ता अस्मा अवसे हुवे ॥२४॥
(८,७.२५ ) यावतीनामोषधीनां गावः प्राश्नन्त्यघ्न्या यवतीनामजावयः ।
(८,७.२५ ) तावतीस्तुभ्यमोषधीः शर्म यछन्त्वाभृताः ॥२५॥
(८,७.२६ ) यावतीषु मनुष्या भेषजं भिषजो विदुः ।
(८,७.२६ ) तावतीर्विश्वभेषजीरा भरामि त्वामभि ॥२६॥
(८,७.२७ ) पुष्पवतीः प्रसूमतीः फलिनीरफला उत ।
(८,७.२७ ) संमातर इव दुह्रामस्मा अरिष्टतातये ॥२७॥
(८,७.२८ ) उत्त्वाहार्षं पञ्चशलादथो दशशलादुत ।
(८,७.२८ ) अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२८॥ {१९}
(८,८.१ ) इन्द्रो मन्थतु मन्थिता शक्रः शूरः पुरंदरः ।
(८,८.१ ) यथा हनाम सेना अमित्राणां सहस्रशः ॥१॥
(८,८.२ ) पूतिरज्जुरुपध्मानी पूतिं सेनां कृणोत्वमूम् ।
(८,८.२ ) धूममग्निं परादृश्याऽमित्रा हृत्स्वा दधतां भयम् ॥२॥
(८,८.३ ) अमून् अश्वत्थ निः शृणीहि खादामून् खदिराजिरम् ।
(८,८.३ ) ताजद्भङ्ग इव भजन्तां हन्त्वेनान् वधको वधैः ॥३॥
(८,८.४ ) परुषान् अमून् परुषाह्वः कृणोतु हन्त्वेनान् वधको वधैः ।
(८,८.४ ) क्षिप्रं शर इव भजन्तां बृहज्जालेन संदिताः ॥४॥
(८,८.५ ) अन्तरिक्षं जालमासीज्जालदण्डा दिशो महीः ।
(८,८.५ ) तेनाभिधाय दस्यूनां शक्रः सेनामपावपत्॥५॥
(८,८.६ ) बृहद्धि जालं बृहतः शक्रस्य वाजिनीवतः ।
(८,८.६ ) तेन शत्रून् अभि सर्वान् न्युब्ज यथा न मुच्यातै कतमश्चनैषाम् ॥६॥
(८,८.७ ) बृहत्ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य ।
(८,८.७ ) तेन शतं सहस्रमयुतं न्यर्बुदं जघान शक्रो दस्यूनामभिधाय सेनया ॥७॥
(८,८.८ ) अयं लोको जालमासीच्छक्रस्य महतो महान् ।
(८,८.८ ) तेनाहमिन्द्रजालेनामूंस्तमसाभि दधामि सर्वान् ॥८॥
(८,८.९ ) सेदिरुग्रा व्यृद्धिरार्तिश्चानपवाचना ।
(८,८.९ ) श्रमस्तन्द्रीश्च मोहश्च तैरमून् अभि दधामि सर्वान् ॥९॥
(८,८.१० ) मृत्यवेऽमून् प्र यछामि मृत्युपाशैरमी सिताः ।
(८,८.१० ) मृत्योर्ये अघला दूतास्तेभ्य एनान् प्रति नयामि बद्ध्वा ॥१०॥ {२०}
(८,८.११ ) नयतामून् मृत्युदूता यमदूता अपोम्भत ।
(८,८.११ ) परःसहस्रा हन्यन्तां तृणेढ्वेनान् मत्यं भवस्य ॥११॥
(८,८.१२ ) साध्या एकं जालदण्डमुद्यत्य यन्त्योजसा ।
(८,८.१२ ) रुद्रा एकं वसव एकमादित्यैरेक उद्यतः ॥१२॥
(८,८.१३ ) विश्वे देवाः उपरिष्टादुब्जन्तो यन्त्वोजसा ।
(८,८.१३ ) मध्येन घ्नन्तो यन्तु सेनामङ्गिरसो महीम् ॥१३॥
(८,८.१४ ) वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः ।
(८,८.१४ ) द्विपाच्चतुष्पादिष्णामि यथा सेनाममूं हनन् ॥१४॥
(८,८.१५ ) गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।
(८,८.१५ ) दृष्टान् अदृष्टान् इष्णामि यथा सेनाममूं हनन् ॥१५॥
(८,८.१६ ) इम उप्ता मृत्युपाशा यान् आक्रम्य न मुच्यसे ।
(८,८.१६ ) अमुष्या हन्तु सेनाया इदं कूटं सहस्रशः ॥१६॥
(८,८.१७ ) घर्मः समिद्धो अग्निनायं होमः सहस्रहः ।
(८,८.१७ ) भवश्च पृश्निबाहुश्च शर्व सेनाममूं हतम् ॥१७॥
(८,८.१८ ) मृत्योराषमा पद्यन्तां क्षुधं सेदिं वधं भयम् ।
(८,८.१८ ) इन्द्रश्चाक्षुजालाभ्यां शर्व सेनाममूं हतम् ॥१८॥
(८,८.१९ ) पराजिताः प्र त्रसतामित्रा नुत्ता धावत ब्रह्मणा ।
(८,८.१९ ) बृहस्पतिप्रनुत्तानां मामीषां मोचि कश्चन ॥१९॥
(८,८.२० ) अव पद्यन्तामेषामायुधानि मा शकन् प्रतिधामिषुम् ।
(८,८.२० ) अथैषां बहु बिभ्यतामिषवः घ्नन्तु मर्मणि ॥२०॥
(८,८.२१ ) सं क्रोशतामेनान् द्यावापृथिवी समन्तरिक्षं सह देवताभिः ।
(८,८.२१ ) मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥२१॥
(८,८.२२ ) दिशश्चतस्रोऽश्वतर्यो देवरथस्य पुरोदाशाः शफा अन्तरिक्षमुद्धिः ।
(८,८.२२ ) द्यावापृथिवी पक्षसी ऋतवोऽभीशवोऽन्तर्देशाः किम्करा वाक्परिरथ्यम् ॥२२॥
(८,८.२३ ) संवत्सरो रथः परिवत्सरो रथोपस्थो विराडीषाग्नी रथमुखम् ।
(८,८.२३ ) इन्द्रः सव्यष्ठाश्चन्द्रमाः सारथिः ॥२३॥
(८,८.२४ ) इतो जयेतो वि जय सं जय जय स्वाहा ।
(८,८.२४ ) इमे जयन्तु परामी जयन्तां स्वाहैभ्यो दुराहामीभ्यः ।
(८,८.२४ ) नीललोहितेनामून् अभ्यवतनोमि ॥२४॥ {२१}
(८,९.१ ) कुतस्तौ जातौ कतमः सो अर्धः कस्माल्लोकात्कतमस्याः पृथिव्याः ।
(८,९.१ ) वत्सौ विराजः सलिलादुदैतां तौ त्वा पृछामि कतरेण दुग्धा ॥१॥
(८,९.२ ) यो अक्रन्दयत्सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयानः ।
(८,९.२ ) वत्सः कामदुघो विराजः स गुहा चक्रे तन्वः पराचैः ॥२॥
(८,९.३ ) यानि त्रीणि बृहन्ति येषां चतुर्थं वियुनक्ति वाचम् ।
(८,९.३ ) ब्रह्मैनद्विद्यात्तपसा विपश्चिद्यस्मिन्न् एकं युज्यते यस्मिन्न् एकम् ॥३॥
(८,९.४ ) बृहतः परि सामानि षष्ठात्पञ्चाधि निर्मिता ।
(८,९.४ ) बृहद्बृहत्या निर्मितं कुतोऽधि बृहती मिता ॥४॥
(८,९.५ ) बृहती परि मात्राया मातुर्मात्राधि निर्मिता ।
(८,९.५ ) माया ह जज्ञे मायाया मायाया मातली परि ॥५॥
(८,९.६ ) वैश्वानरस्य प्रतिमोपरि द्यौर्यावद्रोदसी विबबाधे अग्निः ।
(८,९.६ ) ततः षष्ठादामुतो यन्ति स्तोमा उदितो यन्त्यभि षष्ठमह्नः ॥६॥
(८,९.७ ) षट्त्वा पृछाम ऋषयः कश्यपेमे त्वं हि युक्तं युयुक्षे योग्यं च ।
(८,९.७ ) विराजमाहुर्ब्रह्मणः पितरं तां नो वि धेहि यतिधा सखिभ्यः ॥७॥
(८,९.८ ) यां प्रच्युतामनु यज्ञाः प्रच्यवन्त उपतिष्ठन्त उपतिष्ठमानाम् ।
(८,९.८ ) यस्या व्रते प्रसवे यक्षमेजति सा विराटृषयः परमे व्योमन् ॥८॥
(८,९.९ ) अप्राणैति प्राणेन प्राणतीनां विराट्स्वराजमभ्येति पश्चात्।
(८,९.९ ) विश्वं मृशन्तीमभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्त्येनाम् ॥९॥
(८,९.१० ) को विराजो मिथुनत्वं प्र वेद क ऋतून् क उ कल्पमस्याः ।
(८,९.१० ) क्रमान् को अस्याः कतिधा विदुग्धान् को अस्या धाम कतिधा व्युष्टीः ॥१०॥ {२२}
(८,९.११ ) इयमेव सा या प्रथमा व्यौछदास्वितरासु चरति प्रविष्टा ।
(८,९.११ ) महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री ॥११॥
(८,९.१२ ) छन्दःपक्षे उषसा पेपिशाने समानं योनिमनु सं चरेमे ।
(८,९.१२ ) सूर्यपत्नी सं चरतः प्रजानती केतुमती अजरे भूरिरेतसा ॥१२॥
(८,९.१३ ) ऋतस्य पन्थामनु तिस्र आगुस्त्रयो घर्मा अनु रेत आगुः ।
(८,९.१३ ) प्रजामेका जिन्वत्यूर्जमेका राष्ट्रमेका रक्षति देवयूनाम् ॥१३॥
(८,९.१४ ) अग्नीषोमावदधुर्या तुरीयासीद्यज्ञस्य पक्षावृषयः कल्पयन्तः ।
(८,९.१४ ) गायत्रीं त्रिष्टुभं जगतीमनुष्टुभं बृहदर्कीं यजमानाय स्वराभरन्तीम् ॥१४॥
(८,९.१५ ) पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च ।
(८,९.१५ ) पञ्च दिशः पञ्चदशेन कॢप्तास्ता एकमूर्ध्नीरभि लोकमेकम् ॥१५॥
(८,९.१६ ) षट्जाता भूता प्रथमजा ऋतस्य षटु सामानि षटहं वहन्ति ।
(८,९.१६ ) षट्योगं सीरमनु सामसाम षटाहुर्द्यावापृथिवीः षटुर्वीः ॥१६॥
(८,९.१७ ) षडाहुः शीतान् षडु मास उष्णान् ऋतुं नो ब्रूत यतमोऽतिरिक्तः ।
(८,९.१७ ) सप्त सुपर्णाः कवयो नि षेदुः सप्त छन्दांस्यनु सप्त दीक्षाः ॥१७॥
(८,९.१८ ) सप्त होमाः समिधो ह सप्त मधूनि सप्त ऋतवो ह सप्त ।
(८,९.१८ ) सप्ताज्यानि परि भूतमायन् ताः सप्तगृध्रा इति शुश्रुमा वयम् ॥१८॥
(८,९.१९ ) सप्त छन्दांसि चतुरुत्तराण्यन्यो अन्यस्मिन्न् अध्यार्पितानि ।
(८,९.१९ ) कथं स्तोमाः प्रति तिष्ठन्ति तेषु तानि स्तोमेषु कथमार्पितानि ॥१९॥
(८,९.२० ) कथं गायत्री त्रिवृतं व्याप कथं त्रिष्टुप्पञ्चदशेन कल्पते ।
(८,९.२० ) त्रयस्त्रिंशेन जगती कथमनुष्टुप्कथमेकविंशः ॥२०॥ {२३}
(८,९.२१ ) अष्ट जाता भूता प्रथमजा ऋतस्याष्टेन्द्र ऋत्विजो दैव्या ये ।
(८,९.२१ ) अष्टयोनिरदितिरष्टपुत्रास्तमीं रात्रिमभि हव्यमेति ॥२१॥
(८,९.२२ ) इत्थं श्रेयो मन्यमानेदमागमं युष्माकं सख्ये अहमस्मि शेवा ।
(८,९.२२ ) समानजन्मा क्रतुरस्ति वः शिवः स वः सर्वाः सं चरति प्रजानन् ॥२२॥
(८,९.२३ ) अष्टेन्द्रस्य षड्यमस्य ऋषीणां सप्त सप्तधा ।
(८,९.२३ ) अपो मनुष्यान् ओषधीस्तामु पञ्चानु सेचिरे ॥२३॥
(८,९.२४ ) केवलीन्द्राय दुदुहे हि गृष्टिर्वशं पीयूषं प्रथमं दुहाना ।
(८,९.२४ ) अथातर्पयच्चतुरश्चतुर्धा देवान् मनुष्यामसुरान् उत ऋषीन् ॥२४॥
(८,९.२५ ) को नु गौः क एकऋषिः किमु धाम का आशिषः ।
(८,९.२५ ) यक्षं पृथिव्यामेकवृदेकर्तुः कतमो नु सः ॥२५॥
(८,९.२६ ) एको गौरेक एकऋषिरेकं धामैकधाशिषः ।
(८,९.२६ ) यक्षं पृथिव्यामेकवृदेकर्तुर्नाति रिच्यते ॥२६॥ {२४}
(८,१०.१ ) विराड्वा इदमग्र आसीत्तस्या जातायाः सर्वमबिभेदियमेवेदं भविष्यतीति ॥१॥
(८,१०.२ ) सोदक्रामत्सा गार्हपत्ये न्यक्रामत्।
(८,१०.२ ) गृहमेधी गृहपतिर्भवति य एवं वेद ॥२॥
(८,१०.३ ) सोदक्रामत्साहवनीये न्यक्रामत्।
(८,१०.३ ) यन्त्यस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद ॥३॥
(८,१०.४ ) सोदक्रामत्सा दक्षिणाग्नौ न्यक्रामत्।
(८,१०.४ ) यज्ञर्तो दक्षिणीयो वासतेयो भवति य एवं वेद ॥४॥
(८,१०.५ ) सोदक्रामत्सा सभायां न्यक्रामत्।
(८,१०.५ ) यन्त्यस्य सभां सभ्यो भवति य एवं वेद ॥५॥
(८,१०.६ ) सोदक्रामत्सा समितौ न्यक्रामत्।
(८,१०.६ ) यन्त्यस्य समितिं सामित्यो भवति य एवं वेद ॥६॥
(८,१०.७ ) सोदक्रामत्सामन्त्रणे न्यक्रामत्।
(८,१०.७ ) यन्त्यस्यामन्त्रणमामन्त्रणीयो भवति य एवं वेद ॥७॥ {२५}
(८,१०.८ ) सोदक्रामत्सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत्॥८॥
(८,१०.९ ) तां देवमनुष्या अब्रुवन्न् इयमेव तद्वेद यदुभय उपजीवेमेमामुप ह्वयामहा इति ॥९॥
(८,१०.१० ) तामुपाह्वयन्त ॥१०॥
(८,१०.११ ) ऊर्ज एहि स्वध एहि सूनृत एहीरावत्येहीति ॥११॥
(८,१०.१२ ) तस्या इन्द्रो वत्स आसीद्गायत्र्यभिधान्यभ्रमूधः ॥१२॥
(८,१०.१३ ) बृहच्च रथंतरं च द्वौ स्तनावास्तां यज्ञायज्ञियं च वामदेव्यं च द्वौ ॥१३॥
(८,१०.१४ ) ओषधीरेव रथंतरेण देवा अदुह्रन् व्यचो बृहता ॥१४॥
(८,१०.१५ ) अपो वामदेव्येन यज्ञं यज्ञायज्ञियेन ॥१५॥
(८,१०.१६ ) ओषधीरेवास्मै रथंतरं दुहे व्यचो बृहत्॥१६॥
(८,१०.१७ ) अपो वामदेव्यं यज्ञं यज्ञायज्ञियं य वेद ॥१७॥ {२६}
(८,१०.१८ ) सोदक्रामत्सा वनस्पतीन् आगछत्तां वनस्पतयोऽघ्नत सा संवत्सरे समभवत्।
(८,१०.१८ ) तस्माद्वनस्पतीनां संवत्सरे वृक्णमपि रोहति वृश्चतेऽस्याप्रियो भ्रातृव्यो य एवं वेद ॥१८॥
(८,१०.१९ ) सोदक्रामत्सा पितॄन् आगछत्तां पितरोऽघ्नत सा मासि समभवत्।
(८,१०.१९ ) तस्मात्पितृभ्यो मास्युपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद ॥१९॥
(८,१०.२० ) सोदक्रामत्सा देवान् आगछत्तां देवा अघ्नत सार्धमासे समभवत्।
(८,१०.२० ) तस्माद्देवेभ्योऽर्धमासे वषट्कुर्वन्ति प्र देवयानं पन्थां जानाति य एवं वेद ॥२०॥
(८,१०.२१ ) सोदक्रामत्सा मनुष्यान् आगछत्तां मनुष्या अघ्नत सा सद्यः समभवत्।
(८,१०.२१ ) तस्मान् मनुष्येभ्य उभयद्युरुप हरन्त्युपास्य गृहे हरन्ति य एवं वेद ॥२१॥ {२७}
(८,१०.२२ ) सोदक्रामत्सासुरान् आगछत्तामसुरा उपाह्वयन्त माय एहीति ।
(८,१०.२२ ) तस्या विरोचनः प्राह्रादिर्वत्स आसीदयस्पात्रं पात्रम् ।
(८,१०.२२ ) तां द्विमूर्धार्त्व्योऽधोक्तां मायामेवाधोक्॥
(८,१०.२२ ) तां मायामसुरा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२२॥
(८,१०.२३ ) सोदक्रामत्सा पितॄन् आगछत्तां पितर उपाह्वयन्त स्वध एहीति ।
(८,१०.२३ ) तस्या यमो राजा वत्स आसीद्रजतपात्रं पात्रम् ।
(८,१०.२३ ) तामन्तको मार्त्यवोऽधोक्तां स्वधामेवाधोक्।
(८,१०.२३ ) तां स्वधां पितर उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२३॥
(८,१०.२४ ) सोदक्रामत्सा मनुष्यान् आगछत्तां मनुष्या उपाह्वयन्तेरावत्येहीति ।
(८,१०.२४ ) तस्या मनुर्वैवस्वतो वत्स आसीत्पृथिवी पात्रम् ।
(८,१०.२४ ) तां पृथी वैन्योऽधोक्तां कृषिं च सस्यं चाधोक्।
(८,१०.२४ ) ते स्वधां कृषिं च सस्यं च मनुष्या उप जीवन्ति कृष्टराधिरुपजीवनीयो भवति य एवं वेद ॥२४॥
(८,१०.२५ ) सोदक्रामत्सा सप्तऋषीन् आगछत्तां सप्तऋषय उपाह्वयन्त ब्रह्मण्वत्येहीति ।
(८,१०.२५ ) तस्याः सोमो राजा वत्स आसीच्छन्दः पात्रम् ।
(८,१०.२५ ) तां बृहस्पतिराङ्गिरसोऽधोक्तां ब्रह्म च तपश्चाधोक्।
(८,१०.२५ ) तद्ब्रह्म च तपश्च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्युपजीवनीयो भवति य एवं वेद ॥२५॥ {२८}
(८,१०.२६ ) सोदक्रामत्सा देवान् आगछत्तां देवा उपाह्वयन्तोर्ज एहीति ।
(८,१०.२६ ) तस्या इन्द्रो वत्स आसीच्चमसः पात्रम् ।
(८,१०.२६ ) तां देवः सविताधोक्तामूर्जामेवाधोक्।
(८,१०.२६ ) तामूर्जां देवा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२६॥
(८,१०.२७ ) सोदक्रामत्सा गन्धर्वाप्सरस आगछत्तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति ।
(८,१०.२७ ) तस्याश्चित्ररथः सौर्यवर्चसो वत्स आसीत्पुष्करपर्णं पात्रम् ।
(८,१०.२७ ) तां वसुरुचिः सौर्यवर्चसोऽधोक्तां पुण्यमेव गन्धमधोक्।
(८,१०.२७ ) तं पुण्यं गन्धं गन्धर्वाप्सरस उप जीवन्ति पुण्यगन्धिरुपजीवनीयो भवति य एवं वेद ॥२७॥
(८,१०.२८ ) सोदक्रामत्सेतरजनान् आगछत्तामितरजना उपाह्वयन्त तिरोध एहीति ।
(८,१०.२८ ) तस्याः कुबेरो वैश्रवणो वत्स आसीदामपात्रं पात्रम् ।
(८,१०.२८ ) तां रजतनाभिः कबेरकोऽधोक्तां तिरोधामेवाधोक्।
(८,१०.२८ ) तां तिरोधामतिरजना पितर उप जीवन्ति तिरो धत्ते सर्वं पाप्मानमुपजीवनीयो भवति य एवं वेद ॥२८॥
(८,१०.२९ ) सोदक्रामत्सा सर्पान् आगछत्तां सर्पा उपाह्वयन्त विषवत्येहीति ।
(८,१०.२९ ) तस्यास्तक्षको वैशलेयो वत्स आसीदलाबुपात्रं पात्रम् ।
(८,१०.२९ ) तां धृतराष्ट्र ऐरावतोऽधोक्तां विषमेवाधोक्।
(८,१०.२९ ) तद्विषं सर्वा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२९॥ {२९}
(८,१०.३० ) तद्यस्मा एवं विदुषेऽलाबुनाभिषिञ्चेत्प्रत्याहन्यात्॥३०॥
(८,१०.३१ ) न च प्रत्याहन्यान् मनसा त्वा प्रत्याहन्मीति प्रत्याहन्यात्॥३१॥
(८,१०.३२ ) यत्प्रत्याहन्ति विषमेव तत्प्रत्याहन्ति ॥३२॥
(८,१०.३३ ) विषमेवास्याप्रियं भ्रातृव्यमनुविषिच्यते य एवं वेद ॥३३॥ {३०}
(९,१.१ ) दिवस्पृथिव्या अन्तरिक्षात्समुद्रादग्नेर्वातान् मधुकशा हि जज्ञे ।
(९,१.१ ) तां चायित्वामृतं वसानां हृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः ॥१॥
(९,१.२ ) महत्पयो विश्वरूपमस्याः समुद्रस्य त्वोत रेत आहुः ।
(९,१.२ ) यत ऐति मधुकशा रराणा तत्प्राणस्तदमृतं निविष्टम् ॥२॥
(९,१.३ ) पश्यन्त्यस्याश्चरितं पृथिव्यां पृथङ्नरो बहुधा मीमांसमानाः ।
(९,१.३ ) अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः ॥३॥
(९,१.४ ) मातादित्यानां दुहिता वसूनां प्राणः प्रजानाममृतस्य नाभिः ।
(९,१.४ ) हिरण्यवर्णा मधुकशा घृताची महान् भर्गश्चरति मर्त्येषु ॥४॥
(९,१.५ ) मधोः कशामजनयन्त देवास्तस्या गर्भो अभवद्विश्वरूपः ।
(९,१.५ ) तं जातं तरुणं पिपर्ति माता स जातो विश्वा भुवना वि चष्टे ॥५॥
(९,१.६ ) कस्तं प्र वेद क उ तं चिकेत यो अस्या हृदः कलशः सोमधानो अक्षितः ।
(९,१.६ ) ब्रह्मा सुमेधाः सो अस्मिन् मदेत ॥६॥
(९,१.७ ) स तौ प्र वेद स उ तौ चिकेत यावस्याः स्तनौ सहस्रधारावक्षितौ ।
(९,१.७ ) ऊर्जं दुहाते अनपस्फुरन्तौ ॥७॥
(९,१.८ ) हिङ्करिक्रती बृहती वयोधा उच्चैर्घोषाभ्येति या व्रतम् ।
(९,१.८ ) त्रीन् घर्मान् अभि वावशाना मिमाति मायुं पयते पयोभिः ॥८॥
(९,१.९ ) यामापीनामुपसीदन्त्यापः शाक्वरा वृषभा ये स्वराजः ।
(९,१.९ ) ते वर्षन्ति ते वर्षयन्ति तद्विदे काममूर्जमापः ॥९॥
(९,१.१० ) स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यामधि ।
(९,१.१० ) अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः ॥१०॥ {१}
(९,१.११ ) यथा सोमः प्रातःसवने अश्विनोर्भवति प्रियः ।
(९,१.११ ) एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥११॥
(९,१.१२ ) यथा सोमो द्वितीये सवन इन्द्राग्न्योर्भवति प्रियः ।
(९,१.१२ ) एवा म इन्द्राग्नी वर्च आत्मनि ध्रियताम् ॥१२॥
(९,१.१३ ) यथा सोमस्तृतीये सवन ऋभूणां भवति प्रियः ।
(९,१.१३ ) एवा म ऋभवो वर्च आत्मनि ध्रियताम् ॥१३॥
(९,१.१४ ) मधु जनिषीय मधु वंसिषीय ।
(९,१.१४ ) पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥१४॥
(९,१.१५ ) सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।
(९,१.१५ ) विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥१५॥
(९,१.१६ ) यथा मधु मधुकृतः संभरन्ति मधावधि ।
(९,१.१६ ) एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥१६॥
(९,१.१७ ) यथा मक्षाः इदं मधु न्यञ्जन्ति मधावधि ।
(९,१.१७ ) एवा मे अश्विना वर्चस्तेजो बलमोजश्च ध्रियताम् ॥१७॥
(९,१.१८ ) यद्गिरिषु पर्वतेषु गोष्वश्वेषु यन् मधु ।
(९,१.१८ ) सुरायां सिच्यमानायां यत्तत्र मधु तन् मयि ॥१८॥
(९,१.१९ ) अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती ।
(९,१.१९ ) यथा वर्चस्वतीं वाचमावदानि जनामनु ॥१९॥
(९,१.२० ) स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यां दिवि ।
(९,१.२० ) तां पशव उप जीवन्ति सर्वे तेनो सेषमूर्जं पिपर्ति ॥२०॥
(९,१.२१ ) पृथिवी दण्डोऽन्तरिक्षं गर्भो द्यौः कशा विद्युत्प्रकशो हिरण्ययो बिन्दुः ॥२१॥
(९,१.२२ ) यो वै कशायाः सप्त मधूनि वेद मधुमान् भवति ।
(९,१.२२ ) ब्राह्मणश्च राजा च धेनुश्चानड्वांश्च व्रीहिश्च यवश्च मधु सप्तमम् ॥२२॥
(९,१.२३ ) मधुमान् भवति मधुमदस्याहार्यं भवति ।
(९,१.२३ ) मधुमतो लोकान् जयति य एवं वेद ॥२३॥
(९,१.२४ ) यद्वीध्रे स्तनयति प्रजापतिरेव तत्प्रजाभ्यः प्रादुर्भवति ।
(९,१.२४ ) तस्मात्प्राचीनोपवीतस्तिष्ठे प्रजापतेऽनु मा बुध्यस्वेति ।
(९,१.२४ ) अन्वेनं प्रजा अनु प्रजापतिर्बुध्यते य एवं वेद ॥२४॥ {२}
(९,२.१ ) सपत्नहनमृषभं घृतेन कामं शिक्षामि हविषाज्येन ।
(९,२.१ ) नीचैः सपत्नान् मम पदय त्वमभिष्टुतो महता वीर्येण ॥१॥
(९,२.२ ) यन् मे मनसो न प्रियं चक्षुषो यन् मे बभस्ति नाभिनन्दति ।
(९,२.२ ) तद्दुष्वप्न्यं प्रति मुञ्चामि सपत्ने कामं स्तुत्वोदहं भिदेयम् ॥२॥
(९,२.३ ) दुष्वप्न्यं काम दुरितं च कमाप्रजस्तामस्वगतामवर्तिम् ।
(९,२.३ ) उग्र ईशानः प्रति मुञ्च तस्मिन् यो अस्मभ्यमंहूरणा चिकित्सात्॥३॥
(९,२.४ ) नुदस्व काम प्र णुदस्व कामावर्तिं यन्तु मम ये सपत्नाः ।
(९,२.४ ) तेषां नुत्तानामधमा तमांस्यग्ने वास्तूनि निर्दह त्वम् ॥४॥
(९,२.५ ) सा ते काम दुहिता धेनुरुच्यते यामाहुर्वाचं कवयो विराजम् ।
(९,२.५ ) तया सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु ॥५॥
(९,२.६ ) कामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर्बलेन सवितुः सवेन ।
(९,२.६ ) अग्नेर्होत्रेण प्र णुदे सपत्नां छम्बीव नावमुदकेषु धीरः ॥६॥
(९,२.७ ) अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यमसपत्नमेव ।
(९,२.७ ) विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवमा यन्तु म इमम् ॥७॥
(९,२.८ ) इदमाज्यं घृतवज्जुषाणाः कामज्येष्ठा इह मादयध्वम् ।
(९,२.८ ) कृण्वन्तो मह्यमसपत्नमेव ॥८॥
(९,२.९ ) इन्द्राग्नी काम सरथं हि भूत्वा नीचैः सपत्नान् मम पादयाथः ।
(९,२.९ ) तेषां पन्नानामधमा तमांस्यग्ने वास्तून्यनुनिर्दह त्वम् ॥९॥
(९,२.१० ) जहि त्वं काम मम ये सपत्ना अन्धा तमांस्यव पादयैनान् ।
(९,२.१० ) निरिन्द्रिया अरसाः सन्तु सर्वे मा ते जीविषुः कतमच्चनाहः ॥१०॥ {३}
(९,२.११ ) अवधीत्कामो मम ये सपत्ना उरुं लोकमकरन् मह्यमेधतुम् ।
(९,२.११ ) मह्यं नमन्तां प्रदिशश्चतस्रो मह्यं षडुर्वीर्घृतमा वहन्तु ॥११॥
(९,२.१२ ) तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्।
(९,२.१२ ) न सायकप्रणुत्तानां पुनरस्ति निवर्तनम् ॥१२॥
(९,२.१३ ) अग्निर्यव इन्द्रो यवः सोमो यवः ।
(९,२.१३ ) यवयावानो देवा यवयन्त्वेनम् ॥१३॥
(९,२.१४ ) असर्ववीरश्चरतु प्रणुत्तो द्वेष्यो मित्रानां परिवर्ग्यः स्वानाम् ।
(९,२.१४ ) उत पृथिव्यामव स्यन्ति विद्युत उग्रो वो देवः प्र मृणत्सपत्नान् ॥१४॥
(९,२.१५ ) च्युता चेयं बृहत्यच्युता च विद्युद्बिभर्ति स्तनयित्नूंश्च सर्वान् ।
(९,२.१५ ) उद्यन्न् आदित्यो द्रविणेन तेजसा नीचैः सपत्नान् नुदतां मे सहस्वान् ॥१५॥
(९,२.१६ ) यत्ते काम शर्म त्रिवरूथमुद्भु ब्रह्म वर्म विततमनतिव्याध्यं कृतम् ।
(९,२.१६ ) तेन सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु ॥१६॥
(९,२.१७ ) येन देवा असुरान् प्राणुदन्त येनेन्द्रो दस्यून् अधमं तमो निनाय ।
(९,२.१७ ) तेन त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम् ॥१७॥
(९,२.१८ ) यथा देवा असुरान् प्राणुदन्त यथेन्द्रो दस्यून् अधमं तमो बबाधे ।
(९,२.१८ ) तथा त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम् ॥१८॥
(९,२.१९ ) कामो जज्ञे प्रथमो नैनं देवा आपुः पितरो न मर्त्याः ।
(९,२.१९ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृनोमि ॥१९॥
(९,२.२० ) यावती द्यावापृथिवी वरिम्णा यावदापः सिष्यदुर्यावदग्निः ।
(९,२.२० ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२०॥ {४}
(९,२.२१ ) यावतीर्दिशः प्रदिशो विषूचीर्यावतीराशा अभिचक्षणा दिवः ।
(९,२.२१ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२१॥
(९,२.२२ ) यावतीर्भृङ्गा जत्वः कुरूरवो यावतीर्वघा वृक्षसर्प्यो बभूवुः ।
(९,२.२२ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२२॥
(९,२.२३ ) ज्यायान् निमिषतोऽसि तिष्ठतो ज्यायान्त्समुद्रादसि काम मन्यो ।
(९,२.२३ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृनोमि ॥२३॥
(९,२.२४ ) न वै वातश्चन काममाप्नोति नाग्निः सूर्यो नोत चन्द्रमाः ।
(९,२.२४ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२४॥
(९,२.२५ ) यास्ते शिवास्तन्वः काम भद्रा याभिः सत्यं भवति यद्वृणिषे ।
(९,२.२५ ) ताभिष्ट्वमस्मामभिसंविशस्वान्यत्र पापीरप वेशया धियः ॥२५॥ {५}
(९,३.१ ) उपमितां प्रतिमितामथो परिमितामुत ।
(९,३.१ ) शालाया विश्ववाराया नद्धानि वि चृतामसि ॥१॥
(९,३.२ ) यत्ते नद्धं विश्ववारे पाशो ग्रन्थिश्च यः कृतः ।
(९,३.२ ) बृहस्पतिरिवाहं बलं वाचा वि स्रंसयामि तत्॥२॥
(९,३.३ ) आ ययाम सं बबर्ह ग्रन्थींश्चकार ते दृढान् ।
(९,३.३ ) परूंषि विद्वां छस्तेवेन्द्रेण वि चृतामसि ॥३॥
(९,३.४ ) वंशानां ते नहनानां प्राणाहस्य तृणस्य च ।
(९,३.४ ) पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि ॥४॥
(९,३.५ ) संदंशानां पलदानां परिष्वञ्जल्यस्य च ।
(९,३.५ ) इदं मानस्य पत्न्या नद्धानि वि चृतामसि ॥५॥
(९,३.६ ) यानि तेऽन्तः शिक्यान्याबेधू रण्याय कम् ।
(९,३.६ ) प्र ते तानि चृतामसि शिवा मानस्य पत्नि न उद्धिता तन्वे भव ॥६॥
(९,३.७ ) हविर्धानमग्निशालं पत्नीनां सदनं सदः ।
(९,३.७ ) सदो देवानामसि देवि शाले ॥७॥
(९,३.८ ) अक्षुमोपशं विततं सहस्राक्षं विषूवति ।
(९,३.८ ) अवनद्धमभिहितं ब्रह्मणा वि चृतामसि ॥८॥
(९,३.९ ) यस्त्वा शाले प्रतिगृह्णाति येन चासि मिता त्वम् ।
(९,३.९ ) उभौ मानस्य पत्नि तौ जीवतां जरदष्टी ॥९॥
(९,३.१० ) अमुत्रैनमा गछताद्दृढा नद्धा परिष्कृता ।
(९,३.१० ) यस्यास्ते विचृतामस्यङ्गमङ्गं परुष्परुः ॥१०॥ {६}
(९,३.११ ) यस्त्वा शाले निमिमाय संजभार वनस्पतीन् ।
(९,३.११ ) प्रजायै चक्रे त्वा शाले परमेष्ठी प्रजापतिः ॥११॥
(९,३.१२ ) नमस्तस्मै नमो दात्रे शालापतये च कृण्मः ।
(९,३.१२ ) नमोऽग्नये प्रचरते पुरुषाय च ते नमः ॥१२॥
(९,३.१३ ) गोभ्यो अश्वेभ्यो नमो यच्छालायां विजायते ।
(९,३.१३ ) विजावति प्रजावति वि ते पाशांश्चृतामसि ॥१३॥
(९,३.१४ ) अग्निमन्तश्छादयसि पुरुषान् पशुभिः सह ।
(९,३.१४ ) विजावति प्रजावति वि ते पाशांश्चृतामसि ॥१४॥
(९,३.१५ ) अन्तरा द्यां च पृथिवीं च यद्व्यचस्तेन शालां प्रति गृह्णामि त इमाम् ।
(९,३.१५ ) यदन्तरिक्षं रजसो विमानं तत्कृण्वेऽहमुदरं शेवधिभ्यः ।
(९,३.१५ ) तेन शालां प्रति गृह्णामि तस्मै ॥१५॥
(९,३.१६ ) ऊर्जस्वती पयस्वती पृथिव्यां निमिता मिता ।
(९,३.१६ ) विश्वान्नं बिभ्रती शाले मा हिंसीः प्रतिगृह्णतः ॥१६॥
(९,३.१७ ) तृणैरावृता पलदान् वसाना रात्रीव शाला जगतो निवेशनी ।
(९,३.१७ ) मिता पृथिव्यां तिष्ठसि हस्तिनीव पद्वती ॥१७॥
(९,३.१८ ) इटस्य ते वि चृताम्यपिनद्धमपोर्णुवन् ।
(९,३.१८ ) वरुणेन समुब्जितां मित्रः प्रातर्व्युब्जतु ॥१८॥
(९,३.१९ ) ब्रह्मणा शालां निमितां कविभिर्निमितां मिताम् ।
(९,३.१९ ) इन्द्राग्नी रक्षतां शालाममृतौ सोम्यं सदः ॥१९॥
(९,३.२० ) कुलायेऽधि कुलायं कोशे कोशः समुब्जितः ।
(९,३.२० ) तत्र मर्तो वि जायते यस्माद्विश्वं प्रजायते ॥२०॥ {७}
(९,३.२१ ) या द्विपक्षा चतुष्पक्षा षट्पक्षा या निमीयते ।
(९,३.२१ ) अष्टापक्षां दशपक्षां शालां मानस्य पत्नीमग्निर्गर्भ इवा शये ॥२१॥
(९,३.२२ ) प्रतीचीं त्वा प्रतीचीनः शाले प्रैम्यहिंसतीम् ।
(९,३.२२ ) अग्निर्ह्यन्तरापश्च ऋतस्य प्रथमा द्वाः ॥२२॥
(९,३.२३ ) इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः ।
(९,३.२३ ) गृहान् उप प्र सीदाम्यमृतेन सहाग्निना ॥२३॥
(९,३.२४ ) मा नः पाशं प्रति मुचो गुरुर्भारो लघुर्भव ।
(९,३.२४ ) वधूमिव त्वा शाले यत्रकामं भरामसि ॥२४॥
(९,३.२५ ) प्राच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२५॥
(९,३.२६ ) दक्षिणाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२६॥
(९,३.२७ ) प्रतीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२७॥
(९,३.२८ ) उदीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२८॥
(९,३.२९ ) ध्रुवाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२९॥
(९,३.३० ) ऊर्ध्वाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥३०॥
(९,३.३१ ) दिशोदिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥३१॥ {८}
(९,४.१ ) साहस्रस्त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत्।
(९,४.१ ) भद्रं दात्रे यजमानाय शीक्षन् बार्हस्पत्य उस्रियस्तन्तुमातान् ॥१॥
(९,४.२ ) अपां यो अग्ने प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी ।
(९,४.२ ) पिता वत्सानां पतिरघ्न्यानां साहस्रे पोषे अपि नः कृणोतु ॥२॥
(९,४.३ ) पुमान् अन्तर्वान्त्स्थविरः पयस्वान् वसोः कबन्धमृषभो बिभर्ति ।
(९,४.३ ) तमिन्द्राय पथिभिर्देवयानैर्हुतमग्निर्वहतु जातवेदाः ॥३॥
(९,४.४ ) पिता वत्सानां पतिरघ्न्यानामथो पिता महतां गर्गराणाम् ।
(९,४.४ ) वत्सो जरायु प्रतिधुक्पीयूष आमिक्षा घृतं तद्वस्य रेतः ॥४॥
(९,४.५ ) देवानां भाग उपनाह एषोऽपां रस ओषधीनां घृतस्य ।
(९,४.५ ) सोमस्य भक्षमवृणीत शक्रो बृहन्न् अद्रिरभवद्यच्छरीरम् ॥५॥
(९,४.६ ) सोमेन पूर्णं कलशं बिभर्षि त्वस्ता रुपाणां जनिता पशूनाम् ।
(९,४.६ ) शिवास्ते सन्तु प्रजन्व इह या इमा न्यस्मभ्यं स्वधिते यछ या अमूः ॥६॥
(९,४.७ ) आजं बिभर्ति घृतमस्य रेतः साहस्रः पोषस्तमु यज्ञमाहुः ।
(९,४.७ ) इन्द्रस्य रूपमृषभो वसानः सो अस्मान् देवाः शिव ऐतु दत्तः ॥७॥
(९,४.८ ) इन्द्रस्यौजो वरुणस्य बाहू अश्विनोरंसौ मरुतामियं ककुत्।
(९,४.८ ) बृहस्पतिं संभृतमेतमाहुर्ये धीरासः कवयो ये मनीषिणः ॥८॥
(९,४.९ ) दैवीर्विशः पयस्वान् आ तनोषि त्वामिन्द्रं त्वां सरस्वन्तमाहुः ।
(९,४.९ ) सहस्रं स एकमुखा ददाति यो ब्राह्मण ऋषभमाजुहोति ॥९॥
(९,४.१० ) बृहस्पतिः सविता ते वयो दधौ त्वष्टुर्वायोः पर्यात्मा त आभृतः ।
(९,४.१० ) अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष्टे द्यावापृथिवी उभे स्ताम् ॥१०॥ {९}
(९,४.११ ) य इन्द्र इव देवेषु गोष्वेति विवावदत्।
(९,४.११ ) तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया ॥११॥
(९,४.१२ ) पार्श्वे आस्तामनुमत्या भगस्यास्तामनूवृजौ ।
(९,४.१२ ) अष्ठीवन्तावब्रवीन् मित्रो ममैतौ केवलाविति ॥१२॥
(९,४.१३ ) भसदासीदादित्यानां श्रोणी आस्तां बृहस्पतेः ।
(९,४.१३ ) पुछं वातस्य देवस्य तेन धूनोत्योषधीः ॥१३॥
(९,४.१४ ) गुदा आसन्त्सिनीवाल्याः सूर्यायास्त्वचमब्रुवन् ।
(९,४.१४ ) उत्थातुरब्रुवन् पद ऋषभं यदकल्पयन् ॥१४॥
(९,४.१५ ) क्रोड आसीज्जामिशंसस्य सोमस्य क्लशो धृतः ।
(९,४.१५ ) देवाः संगत्य यत्सर्व ऋषभं व्यकल्पयन् ॥१५॥
(९,४.१६ ) ते कुष्ठिकाः सरमायै कुर्मेभ्यो अदधुः शफान् ।
(९,४.१६ ) ऊबध्यमस्य कीतेभ्यः श्ववर्तेभ्यो अधारयन् ॥१६॥
(९,४.१७ ) शृङ्गाभ्यां रक्ष ऋषत्यवर्तिं हन्ति चक्षुषा ।
(९,४.१७ ) शृणोति भद्रं कर्णाभ्यां गवां यः पतिरघ्न्यः ॥१७॥
(९,४.१८ ) शतयाजं स यजते नैनं दुन्वन्त्यग्नयः ।
(९,४.१८ ) जिन्वन्ति विश्वे तं देवा यो ब्राह्मण ऋषभमाजुहोति ॥१८॥
(९,४.१९ ) ब्राह्मणेभ्य ऋषभं दत्त्वा वरीयः कृणुते मनः ।
(९,४.१९ ) पुष्टिं सो अघ्न्यानां स्वे गोष्ठेऽव पश्यते ॥१९॥
(९,४.२० ) गावः सन्तु प्रजाः सन्त्वथो अस्तु तनूबलम् ।
(९,४.२० ) तत्सर्वमनु मन्यन्तां देवा ऋषभदायिने ॥२०॥
(९,४.२१ ) अयं पिपान इन्द्र इद्रयिं दधातु चेतनीम् ।
(९,४.२१ ) अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः ॥२१॥
(९,४.२२ ) पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो न आगन् ।
(९,४.२२ ) आयुरस्मभ्यं दधत्प्रजां च रायश्च पोषैरभि नः सचताम् ॥२२॥
(९,४.२३ ) उपेहोपपर्चनास्मिन् गोष्ठ उप पृञ्च नः ।
(९,४.२३ ) उप ऋषभस्य यद्रेत उपेन्द्र तव वीर्यम् ॥२३॥
(९,४.२४ ) एतं वो युवानं प्रति दध्मो अत्र तेन क्रीडन्तीश्चरत वशामनु ।
(९,४.२४ ) मा नो हासिष्ट जनुषा सुभागा रायश्च पोषैरभि नः सचध्वम् ॥२४॥ {१०}
(९,५.१ ) आ नयैतमा रभस्व सुकृतां लोकमपि गछतु प्रजानन् ।
(९,५.१ ) तीर्त्वा तमांसि बहुधा महान्त्यजो नाकमा क्रमतां तृतीयम् ॥१॥
(९,५.२ ) इन्द्राय भागं परि त्वा नयाम्यस्मिन् यज्ञे यजमानाय सूरिम् ।
(९,५.२ ) ये नो द्विषन्त्यनु तान् रभस्वानागसो यजमानस्य वीराः ॥२॥
(९,५.३ ) प्र पदोऽव नेनिग्धि दुश्चरितं यच्चचार शुद्धैः शफैरा क्रमतां प्रजानन् ।
(९,५.३ ) तीर्त्वा तमांसि बहुधा विपश्यन्न् अजो नाकमा क्रमतां तृतीयम् ॥३॥
(९,५.४ ) अनुछ्य श्यामेन त्वचमेतां विशस्तर्यथापर्वसिना माभि मंस्थाः ।
(९,५.४ ) माभि द्रुहः परुशः कल्पयैनं तृतीये नाके अधि वि श्रयैनम् ॥४॥
(९,५.५ ) ऋचा कुम्भीमध्यग्नौ श्रयाम्या सिञ्चोदकमव धेह्येनम् ।
(९,५.५ ) पर्याधत्ताग्निना शमितारः शृतो गछतु सुकृतां यत्र लोकः ॥५॥
(९,५.६ ) उत्क्रामातः परि चेदतप्तस्तप्ताच्चरोरधि नाकं तृतीयम् ।
(९,५.६ ) अग्नेरग्निरधि सं बभूविथ ज्योतिष्मन्तमभि लोकं जयैतम् ॥६॥
(९,५.७ ) अजो अग्निरजमु ज्योतिराहुरजं जीवता ब्रह्मणे देयमाहुः ।
(९,५.७ ) अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥७॥
(९,५.८ ) पञ्चौदनः पञ्चधा वि क्रमतामाक्रंस्यमानस्त्रीणि ज्योतींषि ।
(९,५.८ ) ईजानानां सुकृतां प्रेहि मध्यं तृतीये नाके अधि वि श्रयस्व ॥८॥
(९,५.९ ) अजा रोह सुकृतां यत्र लोकः शरभो न चत्तोऽति दुर्गान्येषः ।
(९,५.९ ) पञ्चौदनो ब्रह्मणे दीयमानः स दातारं तृप्त्या तर्पयाति ॥९॥
(९,५.१० ) अजस्त्रिनाके त्रिदिवे त्रिपृष्ठे नाकस्य पृष्ठे ददिवांसं दधाति ।
(९,५.१० ) पञ्चौदनो ब्रह्मणे दीयमानो विश्वरूपा धेनुः कामदुघास्येका ॥१०॥ {११}
(९,५.११ ) एतद्वो ज्योतिः पितरस्तृतीयं पञ्चौदनं ब्रह्मणेऽजं ददाति ।
(९,५.११ ) अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥११॥
(९,५.१२ ) ईजानानां सुकृतां लोकमीप्सन् पञ्चौदनं ब्रह्मणेऽजं ददाति ।
(९,५.१२ ) स व्याप्तिमभि लोकं जयैतं शिवोऽस्मभ्यं प्रतिगृहीतो अस्तु ॥१२॥
(९,५.१३ ) अजो ह्यग्नेरजनिष्ट शोकाद्विप्रो विप्रस्य सहसो विपश्चित्।
(९,५.१३ ) इष्टं पूर्तमभिपूर्तं वषट्कृतं तद्देवा ऋतुशः कल्पयन्तु ॥१३॥
(९,५.१४ ) अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम् ।
(९,५.१४ ) तथा लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ॥१४॥
(९,५.१५ ) एतास्त्वाजोप यन्तु धाराः सोम्या देवीर्घृतपृष्ठा मधुश्चुतः ।
(९,५.१५ ) स्तभान् पृथिवीमुत द्यां नाकस्य पृष्ठेऽधि सप्तरश्मौ ॥१५॥
(९,५.१६ ) अजोऽस्यज स्वर्गोऽसि त्वया लोकमङ्गिरसः प्राजानन् ।
(९,५.१६ ) तं लोकं पुण्यं प्र ज्ञेषम् ॥१६॥
(९,५.१७ ) येना सहस्रं वहसि येनाग्ने सर्ववेदसम् ।
(९,५.१७ ) तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ॥१७॥
(९,५.१८ ) अजः पक्वः स्वर्गे लोके दधाति पञ्चौदनो निरृतिं बाधमानः ।
(९,५.१८ ) तेन लोकान्त्सूर्यवतो जयेम ॥१८॥
(९,५.१९ ) यं ब्राह्मणे निदधे यं च विक्षु या विप्रुष ओदनानामजस्य ।
(९,५.१९ ) सर्वं तदग्ने सुकृतस्य लोके जानीतान् नः संगमने पथीनाम् ॥१९॥
(९,५.२० ) अजो वा इदमग्ने व्यक्रमत तस्योर इयमभवद्द्यौः पृष्टिहम् ।
(९,५.२० ) अन्तरिक्षं मध्यं दिशः पार्श्वे समुद्रौ कुक्षी ॥२०॥ {१२}
(९,५.२१ ) सत्यं च र्तं च चक्षुषी विश्वं सत्यं श्रद्धा प्राणो विराट्शिरः ।
(९,५.२१ ) एष वा अपरिमितो यज्ञो यदजः पञ्चौदनः ॥२१॥
(९,५.२२ ) अपरिमितमेव यज्ञमाप्नोत्यपरिमितं लोकमव रुन्द्धे ।
(९,५.२२ ) योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२२॥
(९,५.२३ ) नास्यास्थीनि भिन्द्यान् न मज्ज्ञो निर्धयेत्।
(९,५.२३ ) सर्वमेनं समादायेदमिदं प्र वेशयेत्॥२३॥
(९,५.२४ ) इदमिदमेवास्य रूपं भवति तेनैनं सं गमयति ।
(९,५.२४ ) इषं मह ऊर्जमस्मै दुहे योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२४॥
(९,५.२५ ) पञ्च रुक्मा पञ्च नवानि वस्त्रा पञ्चास्मै धेनवः कामदुघा भवन्ति ।
(९,५.२५ ) योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२५॥
(९,५.२६ ) पञ्च रुक्मा ज्योतिरस्मै भवन्ति वर्म वासांसि तन्वे भवन्ति ।
(९,५.२६ ) स्वर्गं लोकमश्नुते योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२६॥
(९,५.२७ ) या पूर्वं पतिं वित्त्वाऽथान्यं विन्दतेऽपरम् ।
(९,५.२७ ) पञ्चौदनं च तावजं ददातो न वि योषतः ॥२७॥
(९,५.२८ ) समानलोको भवति पुनर्भुवापरः पतिः ।
(९,५.२८ ) योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२८॥
(९,५.२९ ) अनुपूर्ववत्सां धेनुमनड्वाहमुपबर्हणम् ।
(९,५.२९ ) वासो हिरण्यं दत्त्वा ते यन्ति दिवमुत्तमाम् ॥२९॥
(९,५.३० ) आत्मानं पितरं पुत्रं पौत्रं पितामहम् ।
(९,५.३० ) जायां जनित्रीं मातरं ये प्रियास्तान् उप ह्वये ॥३०॥ {१३}
(९,५.३१ ) यो वै नैदाघं नाम र्तुं वेद ।
(९,५.३१ ) एष वै नैदाघो नाम र्तुर्यदजः पञ्चौदनः ।
(९,५.३१ ) निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।
(९,५.३२ ) यो वै कुर्वन्तं नाम र्तुं वेद ।
(९,५.३२ ) कुर्वतींकुर्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
(९,५.३२ ) एष वै कुर्वन् नाम र्तुर्यदजः पञ्चौदनः ।
(९,५.३३ ) यो वै संयन्तं नाम र्तुं वेद ।
(९,५.३३ ) संयतींसंयतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
(९,५.३३ ) एष वै संयन् नाम र्तुर्यदजः पञ्चौदनः ।
(९,५.३४ ) यो वै पिन्वन्तं नाम र्तुं वेद ।
(९,५.३४ ) पिन्वतींपिन्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
(९,५.३४ ) एष वै पिन्वन् नाम र्तुर्यदजः पञ्चौदनः ।
(९,५.३५ ) यो वा उद्यन्तं नाम र्तुं वेद ।
(९,५.३५ ) उद्यतींुद्यतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
(९,५.३५ ) एष वा उद्यन्न् नाम र्तुर्यदजः पञ्चौदनः ।
(९,५.३६ ) यो वा अभिभुवं नाम र्तुं वेद ।
(९,५.३६ ) अभिभवन्तीमभिभवन्तीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
(९,५.३६ ) एष वा अभिभूर्नाम र्तुर्यदजः पञ्चौदनः ।
(९,५.३७ ) अजं च पचत पञ्च चौदनान् ।
(९,५.३७ ) सर्वा दिशः संमनसः सध्रीचीः सान्तर्देशाः प्रति गृह्नन्तु त एतम् ॥३७॥
(९,५.३८ ) तास्ते रक्षन्तु तव तुभ्यमेतं ताभ्य आज्यं हविरिदं जुहोमि ॥३८॥ {१४}
(९,६.१ ) यो विद्याद्ब्रह्म प्रत्यक्षं परूंषि यस्य संभारा ऋचो यस्यानूक्यम् ॥१॥
(९,६.२ ) सामानि यस्य लोमानि यजुर्हृदयमुच्यते परिस्तरणमिद्धविः ॥२॥
(९,६.३ ) यद्वा अतिथिपतिरतिथीन् प्रतिपश्यति देवयजनं प्रेक्षते ॥३॥
(९,६.४ ) यदभिवदति दीक्षामुपैति यदुदकं याचत्यपः प्र णयति ॥४॥
(९,६.५ ) या एव यज्ञ आपः प्रणीयन्ते ता एव ताः ॥५॥
(९,६.६ ) यत्तर्पणमाहरन्ति य एवाग्नीषोमीयः पशुर्बध्यते स एव सः ॥६॥
(९,६.७ ) यदावसथान् कल्पयन्ति सदोहविर्धानान्येव तत्कल्पयन्ति ॥७॥
(९,६.८ ) यदुपस्तृणन्ति बर्हिरेव तत्॥८॥
(९,६.९ ) यदुपरिशयनमाहरन्ति स्वर्गमेव तेन लोकमव रुन्द्धे ॥९॥
(९,६.१० ) यत्कशिपूपबर्हणमाहरन्ति परिधय एव ते ॥१०॥
(९,६.११ ) यदाञ्जनाभ्यञ्जनमाहरन्त्याज्यमेव तत्॥११॥
(९,६.१२ ) यत्पुरा परिवेषात्स्वादमाहरन्ति पुरोदाशावेव तौ ॥१२॥
(९,६.१३ ) यदशनकृतं ह्वयन्ति हविष्कृतमेव तद्ध्वयन्ति ॥१३॥
(९,६.१४ ) ये व्रीहयो यवा निरुप्यन्तेऽंशव एव ते ॥१४॥
(९,६.१५ ) यान्युलूखलमुसलानि ग्रावाण एव ते ॥१५॥
(९,६.१६ ) शूर्पं पवित्रं तुषा ऋजीषाभिषवणीरापः ॥१६॥
(९,६.१७ ) स्रुग्दर्विर्नेक्षणमायवनं द्रोणकलशाः कुम्भ्यो वायव्यानि पात्राणीयमेव कृष्णाजिनम् ॥१७॥ {१५}
(९,६.१८ ) यजमानब्राह्मणं वा एतदतिथिपतिः कुरुते यदाहार्याणि प्रेक्षत इदं भूया३ इदा३ इति ॥१८॥
(९,६.१९ ) यदाह भूय उद्धरेति प्राणमेव तेन वर्षीयांसं कुरुते ॥१९॥
(९,६.२० ) उप हरति हवींष्या सादयति ॥२०॥
(९,६.२१ ) तेषामासन्नानामतिथिरात्मन् जुहोति ॥२१॥
(९,६.२२ ) स्रुचा हस्तेन प्राणे यूपे स्रुक्कारेण वषट्कारेण ॥२२॥
(९,६.२३ ) एते वै प्रियाश्चाप्रियाश्च र्त्विजः स्वर्गं लोकं गमयन्ति यदतिथयः ॥२३॥
(९,६.२४ ) स य एवं विद्वान् न द्विषन्न् अश्नीयान् न द्विषतोऽन्नमश्नीयान् न मीमांसितस्य न मीमांसमानस्य ॥२४॥
(९,६.२५ ) सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति ॥२५॥
(९,६.२६ ) सर्वो वा एसोऽजग्धपाप्मा यस्यान्नं नाश्नन्ति ॥२६॥
(९,६.२७ ) सर्वदा वा एष युक्तग्रावार्द्रपवित्रो वितताध्वर आहृतयज्ञक्रतुर्य उपहरति ॥२७॥
(९,६.२८ ) प्राजापत्यो वा एतस्य यज्ञो विततो य उपहरति ॥२८॥
(९,६.२९ ) प्रजापतेर्वा एष विक्रमान् अनुविक्रमते य उपहरति ॥२९॥
(९,६.३० ) योऽतिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन् पचन्ति स दक्षिणाग्निः ॥३०॥ {१६}
(९,६.३१ ) इष्टं च वा एष पूर्तं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३१॥
(९,६.३२ ) पयश्च वा एष रसं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३२॥
(९,६.३३ ) ऊर्जां च वा एष स्फातिं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३३॥
(९,६.३४ ) प्रजां वा एष पशूंश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३४॥
(९,६.३५ ) कीर्तिं वा एष यशश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३५॥
(९,६.३६ ) श्रियं वा एष संविदं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३६॥
(९,६.३७ ) एष वा अतिथिर्यच्छ्रोत्रियस्तस्मात्पूर्वो नाश्नीयात्॥३७॥
(९,६.३८ ) अशितावत्यतिथावश्नीयाद्यज्ञस्य सात्मत्वाय यज्ञस्याविछेदाय तद्व्रतम् ॥३८॥
(९,६.३९ ) एतद्वा उ स्वादीयो यदधिगवं क्षीरं वा मांसं वा तदेव नाश्नीयात्॥३९॥ {१७}
(९,६.४० ) स य एवं विद्वान् क्षीरमुपसिच्योपहरति ।
(९,६.४० ) यावदग्निष्टोमेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४०॥
(९,६.४१ ) स य एवं विद्वान्त्सर्पिरुपसिच्योपहरति ।
(९,६.४१ ) यावदतिरात्रेणेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४१॥
(९,६.४२ ) स य एवं विद्वान् मधूपसिच्योपहरति ।
(९,६.४२ ) यावद्सत्त्रसद्येनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४२॥
(९,६.४३ ) स य एवं विद्वान् मांसमुपसिच्योपहरति ।
(९,६.४३ ) यावद्द्वादशाहेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४३॥
(९,६.४४ ) स य एवं विद्वान् उदकमुपसिच्योपहरति ।
(९,६.४४ ) प्रजानां प्रजननाय गछति प्रतिष्ठां प्रियः प्रजानां भवति य एवं विद्वान् उपसिच्योपहरति ॥४४॥ {१८}
(९,६.४५ ) तस्मा उषा हिङ्कृणोति सविता प्र स्तौति ।
(९,६.४५ ) बृहस्पतिरूर्जयोद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम् ॥२॥
(९,६.४५ ) निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४५॥
(९,६.४६ ) तस्मा उद्यन्त्सूर्यो हिङ्कृणोति संगवः प्र स्तौति ।
(९,६.४६ ) मध्यन्दिन उद्गायत्यपराह्णः प्रति हरत्यस्तंयन् निधनम् ।
(९,६.४६ ) निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४६॥
(९,६.४७ ) तस्मा अभ्रो भवन् हिङ्कृणोति स्तनयन् प्र स्तौति ।
(९,६.४७ ) विद्योतमानः प्रति हरति वर्षन्न् उद्गायत्युद्गृह्णन् निधनम् ।
(९,६.४७ ) निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४७॥
(९,६.४८ ) अतिथीन् प्रति पश्यति हिङ्कृणोत्यभि वदति प्र स्तौत्युदकं याचत्युद्गायति ।
(९,६.४८ ) उप हरति प्रति हरत्युच्छिष्टं निधनम् ।
(९,६.४८ ) निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४८॥ {१९}
(९,६.४८ ) यत्क्षत्तारं ह्वयत्या श्रावयत्येव तत्॥४९॥
(९,६.५० ) यत्प्रतिशृणोति प्रत्याश्रावयत्येव तत्॥५०॥
(९,६.५१ ) यत्परिवेष्टारः पात्रहस्ताः पूर्वे चापरे च प्रपद्यन्ते चमसाध्वर्यव एव ते ॥५१॥
(९,६.५२ ) तेषां न कश्चनाहोता ॥५२॥
(९,६.५३ ) यद्वा अतिथिपतिरतिथीन् परिविष्य गृहान् उपोदैत्यवभृथमेव तदुपावैति ॥५३॥
(९,६.५४ ) यत्सभागयति दक्षिणाः सभागयति यदनुतिष्ठत उदवस्यत्येव तत्॥५४॥
(९,६.५५ ) स उपहूतः पृथिव्यां भक्षयत्युपहूतस्तस्मिन् यत्पृथिव्यां विश्वरूपम् ॥५५॥
(९,६.५६ ) स उपहूतोऽन्तरिक्षे भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५६॥
(९,६.५७ ) स उपहूतो दिवि भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५७॥
(९,६.५८ ) स उपहूतो देवेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५८॥
(९,६.५९ ) स उपहूतो लोकेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५९॥
(९,६.६० ) स उपहूत उपहूतः ॥६०॥
(९,६.६१ ) आप्नोतीमं लोकमाप्नोत्यमुम् ॥६१॥
(९,६.६२ ) ज्योतिष्मतो लोकान् जयति य एवं वेद ॥६२॥ {२०}
(९,७.१ ) प्रजापतिश्च परमेष्ठी च शृङ्गे इन्द्रः शिरो अग्निर्ललाटं यमः कृकाटम् ॥१॥
(९,७.२ ) सोमो राजा मस्तिष्को द्यौरुत्तरहनुः पृथिव्यधरहनुः ॥२॥
(९,७.३ ) विद्युज्जिह्वा मरुतो दन्ता रेवतिर्ग्रीवाः कृत्तिका स्कन्धा घर्मो वहः ॥३॥
(९,७.४ ) विश्वं वायुः स्वर्गो लोकः कृष्णद्रं विधरणी निवेष्यः ॥४॥
(९,७.५ ) श्येनः क्रोतोऽन्तरिक्षं पाजस्यं बृहस्पतिः ककुद्बृहतीः कीकसाः ॥५॥
(९,७.६ ) देवानां पत्नीः पृष्टय उपसदः पर्शवः ॥६॥
(९,७.७ ) मित्रश्च वरुणश्चांसौ त्वष्टा चार्यमा च दोषणी महादेवो बाहू ॥७॥
(९,७.८ ) इन्द्राणी भसद्वायुः पुछं पवमानो बालाः ॥८॥
(९,७.९ ) ब्रह्म च क्षत्रं च श्रोणी बलमूरू ॥९॥
(९,७.१० ) धाता च सविता चाष्ठीवन्तौ जङ्घा गन्धर्वा अप्सरसः कुष्ठिका अदितिः शफाः ॥१०॥
(९,७.११ ) चेतो हृदयं यकृन् मेधा व्रतं पुरीतत्॥११॥
(९,७.१२ ) क्षुत्कुक्षिरिरा वनिष्ठुः पर्वताः प्लाशयः ॥१२॥
(९,७.१३ ) क्रोधो वृक्कौ मन्युराण्डौ प्रजा शेपः ॥१३॥
(९,७.१४ ) नदी सूत्री वर्षस्य पतय स्तना स्तनयित्नुरूधः ॥१४॥
(९,७.१५ ) विश्वव्यचास्चर्मौषधयो लोमानि नक्षत्राणि रूपम् ॥१५॥
(९,७.१६ ) देवजना गुदा मनुष्या आन्त्राण्यत्रा उदरम् ॥१६॥
(९,७.१७ ) रक्षांसि लोहितमितरजना ऊबध्यम् ॥१७॥
(९,७.१८ ) अभ्रं पीबो मज्जा निधनम् ॥१८॥
(९,७.१९ ) अग्निरासीन उत्थितोऽश्विना ॥१९॥
(९,७.२० ) इन्द्रः प्राङ्तिष्ठन् दक्षिणा तिष्ठन् यमः ॥२०॥
(९,७.२१ ) प्रत्यङ्तिष्ठन् धातोदङ्तिष्ठन्त्सविता ॥२१॥
(९,७.२२ ) तृणानि प्राप्तः सोमो राजा ॥२२॥
(९,७.२३ ) मित्र ईक्षमाण आवृत्त आनन्दः ॥२३॥
(९,७.२४ ) युज्यमानो वैश्वदेवो युक्तः प्रजापतिर्विमुक्तः सर्वम् ॥२४॥
(९,७.२५ ) एतद्वै विश्वरूपं सर्वरूपं गोरूपम् ॥२५॥
(९,७.२६ ) उपैनं विश्वरूपाः सर्वरूपाः पशवस्तिष्ठन्ति य एवं वेद ॥२६॥ {२१}
(९,८.१ ) शीर्षक्तिं शीर्षामयं कर्णशूलं विलोहितम् ।
(९,८.१ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥१॥
(९,८.२ ) कर्णाभ्यां ते कङ्कूषेभ्यः कर्णशूलं विसल्पकम् ।
(९,८.२ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥२॥
(९,८.३ ) यस्य हेतोः प्रच्यवते यक्ष्मः कर्णतो आस्यतः ।
(९,८.३ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥३॥
(९,८.४ ) यः कृणोति प्रमोतमन्धं कृणोति पूरुषम् ।
(९,८.४ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥४॥
(९,८.५ ) अङ्गभेदमङ्गज्वरं विश्वाङ्ग्यं विसल्पकम् ।
(९,८.५ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥५॥
(९,८.६ ) यस्य भीमः प्रतीकाश उद्वेपयति पूरुषम् ।
(९,८.६ ) तक्मानं विश्वशारदं बहिर्निर्मन्त्रयामहे ॥६॥
(९,८.७ ) य ऊरू अनुसर्पत्यथो एति गवीनिके ।
(९,८.७ ) यक्ष्मं ते अन्तरङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥७॥
(९,८.८ ) यदि कामादपकामाद्धृदयाज्जायते परि ।
(९,८.८ ) हृदो बलासमङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥८॥
(९,८.९ ) हरिमाणं ते अङ्गेभ्योऽप्वामन्तरोदरात्।
(९,८.९ ) यक्ष्मोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे ॥९॥
(९,८.१० ) आसो बलासो भवतु मूत्रं भवत्वामयत्।
(९,८.१० ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१०॥ {२२}
(९,८.११ ) बहिर्बिलं निर्द्रवतु काहाबाहं तवोदरात्।
(९,८.११ ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥११॥
(९,८.१२ ) उदरात्ते क्लोम्नो नाभ्या हृदयादधि ।
(९,८.१२ ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१२॥
(९,८.१३ ) याः सीमानं विरुजन्ति मूर्धानं प्रत्यर्षनीः ।
(९,८.१३ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१३॥
(९,८.१४ ) या हृदयमुपर्षन्त्यनुतन्वन्ति कीकसाः ।
(९,८.१४ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१४॥
(९,८.१५ ) याः पार्श्वे उपर्षन्त्यनुनिक्षन्ति पृष्टीः ।
(९,८.१५ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१५॥
(९,८.१६ ) यास्तिरश्चीः उपर्षन्त्यर्षणीर्वक्षणासु ते ।
(९,८.१६ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१६॥
(९,८.१७ ) या गुदा अनुसर्पन्त्यान्त्राणि मोहयन्ति च ।
(९,८.१७ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१७॥
(९,८.१८ ) या मज्ज्ञो निर्धयन्ति परूंषि विरुजन्ति च ।
(९,८.१८ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१८॥
(९,८.१९ ) ये अङ्गानि मदयन्ति यक्ष्मासो रोपणास्तव ।
(९,८.१९ ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१९॥
(९,८.२० ) विसल्पस्य विद्रधस्य वातीकारस्य वालजेः ।
(९,८.२० ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥२०॥
(९,८.२१ ) पादाभ्यां ते जानुभ्यां श्रोणिभ्यां परि भंससः ।
(९,८.२१ ) अनूकादर्षणीरुष्णिहाभ्यः शीर्ष्णो रोगमनीनशम् ॥२१॥
(९,८.२२ ) सं ते शीर्ष्णः कपालानि हृदयस्य च यो विधुः ।
(९,८.२२ ) उद्यन्न् आदित्य रश्मिभिः शीर्ष्णो रोगमनीनशोऽङ्गभेदमशीशमः ॥२२॥ {२३}
(९,९.१ ) अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः ।
(९,९.१ ) तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥१॥
(९,९.२ ) सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।
(९,९.२ ) त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥२॥
(९,९.३ ) इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः ।
(९,९.३ ) सप्त स्वसारो अभि सं नवन्त यत्र गवां निहिता सप्त नाम ॥३॥
(९,९.४ ) को ददर्श प्रथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति ।
(९,९.४ ) भूम्या असुरसृगात्मा क्व स्वित्को विद्वांसमुप गात्प्रष्टुमेतत्॥४॥
(९,९.५ ) इह ब्रवीतु य ईमङ्ग वेदास्य वामस्य निहितं पदं वेः ।
(९,९.५ ) शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदाऽपुः ॥५॥
(९,९.६ ) पाकः पृछामि मनसाऽविजानन् देवानामेना निहिता पदानि ।
(९,९.६ ) वत्से बष्कयेऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ ॥६॥
(९,९.७ ) अचिकित्वांस्चिकितुषश्चिदत्र कवीन् पृछामि विद्वनो न विद्वान् ।
(९,९.७ ) वि यस्तस्तम्भ षटिमा रजांस्यजस्य रूपे किमपि स्विदेकम् ॥७॥
(९,९.८ ) माता पितरमृत आ बभाजऽधीत्यग्रे मनसा सं हि जग्मे ।
(९,९.८ ) सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ॥८॥
(९,९.९ ) युक्ता मातासिद्धुरि दक्षिणाया अतिष्ठद्गर्भो वृजनीष्वन्तः ।
(९,९.९ ) अमीमेद्वत्सो अनु गामपश्यद्विश्वरूप्यं त्रिषु योगनेषु ॥९॥
(९,९.१० ) तिस्रो मतॄस्त्रीन् पितॄन् बिभ्रदेक उर्ध्वस्तस्थौ नेमव ग्लापयन्त ।
(९,९.१० ) मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदो वाचमविश्वविन्नाम् ॥१०॥ {२४}
(९,९.११ ) पञ्चारे चक्रे परिवर्तमाने यस्मिन्न् आतस्थुर्भुवनानि विश्वा ।
(९,९.११ ) तस्य नाक्षस्तप्यते भूरिभारः सनादेव न छिद्यते सनाभिः ॥११॥
(९,९.१२ ) पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
(९,९.१२ ) अथेमे अन्य उपरे विचक्षणे सप्तचक्रे षडर आहुरर्पितम् ॥१२॥
(९,९.१३ ) द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य ।
(९,९.१३ ) आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥१३॥
(९,९.१४ ) सनेमि चक्रमजरं वि ववृत उत्तानायां दश युक्ता वहन्ति ।
(९,९.१४ ) सूर्यस्य चक्षू रजसैत्यावृतं यस्मिन्न् आतस्थुर्भुवनानि विश्वा ॥१४॥
(९,९.१५ ) स्त्रियः सतीस्तामु मे पुंसः आहुः पश्यदक्षण्वान्न् वि चेतदन्धः ।
(९,९.१५ ) कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात्स पितुष्पितासत्॥१५॥
(९,९.१६ ) साकंजानां सप्तथमाहुरेकजं षडिद्यमा ऋषयो देवजा इति ।
(९,९.१६ ) तेषामिष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥१६॥
(९,९.१७ ) अवः परेण पर एना अवरेण पदा वत्सं बिभ्रती गौरुदस्थात्।
(९,९.१७ ) सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन् ॥१७॥
(९,९.१८ ) अवः परेण पितरं यो अस्य वेदावः परेण पर एनावरेण ।
(९,९.१८ ) कवीयमानः क इह प्र वोचद्देवं मनः कुतो अधि प्रजातम् ॥१८॥
(९,९.१९ ) ये अर्वाञ्चस्तामु पराच आहुर्ये पराञ्चस्तामु अर्वाच आहुः ।
(९,९.१९ ) इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥१९॥
(९,९.२० ) द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते ।
(९,९.२० ) तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्न् अन्यो अभि चाकशीति ॥२०॥
(९,९.२१ ) यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे ।
(९,९.२१ ) तस्य यदाहुः पिप्पलं स्वाद्वग्रे तन् नोन् नशद्यः पितरं न वेद ॥२१॥
(९,९.२२ ) यत्रा सुपर्णा अमृतस्य भक्षमनिमेषं विदथाभिस्वरन्ति ।
(९,९.२२ ) एना विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥२२॥ {२५}
(९,१०.१ ) यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभं वा त्रैष्टुभान् निरतक्षत ।
(९,१०.१ ) यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानुशुः ॥१॥
(९,१०.२ ) गायत्रेण प्रति मिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् ।
(९,१०.२ ) वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥२॥
(९,१०.३ ) जगता सिन्धुं दिव्यस्कभायद्रथंतरे सूर्यं पर्यपश्यत्।
(९,१०.३ ) गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना प्र रिरिचे महित्वा ॥३॥
(९,१०.४ ) उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् ।
(९,१०.४ ) श्रेष्ठं सवं सविता साविषन् नोऽभीद्धो घर्मस्तदु षु प्र वोचत्॥४॥
(९,१०.५ ) हिङ्कृण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसाभ्यागात्।
(९,१०.५ ) दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥५॥
(९,१०.६ ) गौरमीमेदभि वत्सं मिषन्तं मूर्धानं हिङ्ङकृणोन् मातवा उ ।
(९,१०.६ ) सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥६॥
(९,१०.७ ) अयं स शिङ्क्ते येन गौरभिवृता मिमाति मयुं ध्वसनावधि श्रिता ।
(९,१०.७ ) सा चित्तिभिर्नि हि चकार मर्त्यान् विद्युद्भवन्ती प्रति वव्रिमौहत ॥७॥
(९,१०.८ ) अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम् ।
(९,१०.८ ) जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः ॥८॥
(९,१०.९ ) विधुं दद्राणं सलिलस्य पृष्ठे युवानं सन्तं पलितो जगार ।
(९,१०.९ ) देवस्य पश्य काव्यं महित्वाद्य ममार स ह्यः समान ॥९॥
(९,१०.१० ) य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन् नु तस्मात्।
(९,१०.१० ) स मातुर्योना परिवीतो अन्तर्बहुप्रजा निरृतिरा विवेश ॥१०॥ {२६}
(९,१०.११ ) अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् ।
(९,१०.११ ) स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥११॥
(९,१०.१२ ) द्यौर्नः पिता जनिता नाभिरत्र बन्धुर्नो माता पृथिवी महीयम् ।
(९,१०.१२ ) उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात्॥१२॥
(९,१०.१३ ) पृछामि त्वा परमन्तं पृथिव्याः पृछामि वृष्णो अश्वस्य रेतः ।
(९,१०.१३ ) पृछामि विश्वस्य भुवनस्य नाभिं पृछामि वाचः परमं व्योम ॥१३॥
(९,१०.१४ ) इयं वेदिः परो अन्तः पृथिव्या अयं सोमो वृष्णो अश्वस्य रेतः ।
(९,१०.१४ ) अयं यज्ञो विश्वस्य भुवनस्य नाभिर्ब्रह्मायं वाचः परमं व्योम ॥१४॥
(९,१०.१५ ) न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि ।
(९,१०.१५ ) यदा मागन् प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्याः ॥१५॥
(९,१०.१६ ) अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः ।
(९,१०.१६ ) ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम् ॥१६॥
(९,१०.१७ ) सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि ।
(९,१०.१७ ) ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥१७॥
(९,१०.१८ ) ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः ।
(९,१०.१८ ) यस्तन् न वेद किमृचा करिष्यति य इत्तद्विदुस्ते अमी समासते ॥१८॥
(९,१०.१९ ) ऋचः पदं मात्रया कल्पयन्तोऽर्धर्चेन चकॢपुर्विश्वमेजत्।
(९,१०.१९ ) त्रिपाद्ब्रह्म पुरुरूपं वि तष्ठे तेन जीवन्ति प्रदिशश्चतस्रः ॥१९॥
(९,१०.२० ) सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम ।
(९,१०.२० ) अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥२०॥ {२७}
(९,१०.२१ ) गौरिन् मिमाय सलिलानि तक्षती एकपदी द्विपदी सा चतुष्पदी ।
(९,१०.२१ ) अष्टापदी नवपदी बभूवुषी सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥२१॥
(९,१०.२२ ) कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
(९,१०.२२ ) तमाववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः ॥२२॥
(९,१०.२३ ) अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत ।
(९,१०.२३ ) गर्भो भारं भरत्या चिदस्या ऋतं पिपर्ति अनृतं नि पाति ॥२३॥
(९,१०.२४ ) विराड्वाग्विराट्पृथिवी विराडन्तरिक्षं विराट्प्रजापतिः ।
(९,१०.२४ ) विराण्मृत्युः साध्यानामधिराजो बभूव तस्य भूतं भव्यं वशे स मे भूतं भव्यं वशे कृणोतु ॥२४॥
(९,१०.२५ ) शकमयं धूममारादपश्यं विषूवता पर एनावरेण ।
(९,१०.२५ ) उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन् ॥२५॥
(९,१०.२६ ) त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् ।
(९,१०.२६ ) विश्वमन्यो अभिचष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम् ॥२६॥
(९,१०.२७ ) चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ।
(९,१०.२७ ) गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥२७॥
(९,१०.२८ ) इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।
(९,१०.२८ ) एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥२८॥ {२८}
(१०,१.१ ) यां कल्पयन्ति वहतौ वधूमिव विश्वरूपां हस्तकृतां चिकित्सवः ।
(१०,१.१ ) सारादेत्वप नुदाम एनाम् ॥१॥
(१०,१.२ ) शीर्षण्वती नस्वती कर्णिणी कृत्याकृता संभृता विश्वरूपा ।
(१०,१.२ ) सारादेत्वप नुदाम एनाम् ॥२॥
(१०,१.३ ) शूद्रकृता राजकृता स्त्रीकृता ब्रह्मभिः कृता ।
(१०,१.३ ) जाया पत्या नुत्तेव कर्तारं बन्ध्वृछतु ॥३॥
(१०,१.४ ) अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् ।
(१०,१.४ ) यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥४॥
(१०,१.५ ) अघमस्त्वघकृते शपथः शपथीयते ।
(१०,१.५ ) प्रत्यक्प्रतिप्रहिण्मो यथा कृत्याकृतं हनत्॥५॥
(१०,१.६ ) प्रतीचीन आङ्गिरसोऽध्यक्षो नः पुरोहितः ।
(१०,१.६ ) प्रतीचीः कृत्या आकृत्यामून् कृत्याकृतो जहि ॥६॥
(१०,१.७ ) यस्त्वोवाच परेहीति प्रतिकूलमुदाय्यम् ।
(१०,१.७ ) तं कृत्येऽभिनिवर्तस्व मास्मान् इछो अनागसः ॥७॥
(१०,१.८ ) यस्ते परूंषि संदधौ रथस्येव र्भुर्धिया ।
(१०,१.८ ) तं गछ तत्र तेऽयनमज्ञातस्तेऽयं जनः ॥८॥
(१०,१.९ ) ये त्वा कृत्वालेभिरे विद्वला अभिचारिणः ।
(१०,१.९ ) शंभ्विदं कृत्यादूषणं प्रतिवर्त्म पुनःसरं तेन त्वा स्नपयामसि ॥९॥
(१०,१.१० ) यद्दुर्भगां प्रस्नपितां मृतवत्सामुपेयिम ।
(१०,१.१० ) अपैतु सर्वं मत्पापं द्रविणं मोप तिष्ठतु ॥१०॥ {१}
(१०,१.११ ) यत्ते पितृभ्यो ददतो यज्ञे वा नाम जगृहुः ।
(१०,१.११ ) संदेश्यात्सर्वस्मात्पापादिमा मुञ्चन्तु त्वौषधीः ॥११॥
(१०,१.१२ ) देवैनसात्पित्र्यान् नामग्राहात्संदेश्यादभिनिष्कृतात्।
(१०,१.१२ ) मुञ्चन्तु त्वा वीरुधो वीर्येण ब्रह्मणा ऋग्भिः पयसा ऋषीणाम् ॥१२॥
(१०,१.१३ ) यथा वातश्च्यावयति भूम्या रेणुमन्तरिक्षाच्चाभ्रम् ।
(१०,१.१३ ) एवा मत्सर्वं दुर्भूतं ब्रह्मनुत्तमपायति ॥१३॥
(१०,१.१४ ) अप क्राम नानदती विनद्धा गर्दभीव ।
(१०,१.१४ ) कर्तॄन् नक्षस्वेतो नुत्ता ब्रह्मणा वीर्यावता ॥१४॥
(१०,१.१५ ) अयं पन्थाः कृत्येति त्वा नयामोऽभिप्रहितां प्रति त्वा प्र हिण्मः ।
(१०,१.१५ ) तेनाभि याहि भञ्जत्यनस्वतीव वाहिनी विश्वरूपा कुरूतिनी ॥१५॥
(१०,१.१६ ) पराक्ते ज्योतिरपथं ते अर्वागन्यत्रास्मदयना कृणुष्व ।
(१०,१.१६ ) परेणेहि नवतिं नाव्या अति दुर्गाः स्रोत्या मा क्षणिष्ठाः परेहि ॥१६॥
(१०,१.१७ ) वात इव वृक्षान् नि मृणीहि पादय मा गामश्वं पुरुषमुच्छिष एषाम् ।
(१०,१.१७ ) कर्तॄन् निवृत्येतः कृत्येऽप्रजास्त्वाय बोधय ॥१७॥
(१०,१.१८ ) यां ते बर्हिषि यां श्मशाने क्षेत्रे कृत्यां वलगं वा निचख्नुः ।
(१०,१.१८ ) अग्नौ वा त्वा गार्हपत्येऽभिचेरुः पाकं सन्तं धीरतरा अनागसम् ॥१८॥
(१०,१.१९ ) उपाहृतमनुबुद्धं निखातं वैरं त्सार्यन्वविदाम कर्त्रम् ।
(१०,१.१९ ) तदेतु यत आभृतं तत्राश्व इव वि वर्ततां हन्तु कृत्याकृतः प्रजाम् ॥१९॥
(१०,१.२० ) स्वायसा असयः सन्ति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि ।
(१०,१.२० ) उत्तिष्ठैव परेहीतोऽज्ञाते किमिहेछसि ॥२०॥ {२}
(१०,१.२१ ) ग्रीवास्ते कृत्ये पादौ चापि कर्त्स्यामि निर्द्रव ।
(१०,१.२१ ) इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती ॥२१॥
(१०,१.२२ ) सोमो राजाधिपा मृडिता च भूतस्य नः पतयो मृडयन्तु ॥२२॥
(१०,१.२३ ) भवाशर्वावस्यतां पापकृते कृत्याकृते ।
(१०,१.२३ ) दुष्कृते विद्युतं देवहेतिम् ॥२३॥
(१०,१.२४ ) यद्येयथ द्विपदी चतुष्पदी कृत्याकृता संभृता विश्वरूपा ।
(१०,१.२४ ) सेतोऽष्टापदी भूत्वा पुनः परेहि दुछुने ॥२४॥
(१०,१.२५ ) अभ्यक्ताक्ता स्वरंकृता सर्वं भरन्ती दुरितं परेहि ।
(१०,१.२५ ) जानीहि कृत्ये कर्तारं दुहितेव पितरं स्वम् ॥२५॥
(१०,१.२६ ) परेहि कृत्ये मा तिष्ठो विद्धस्येव पदं नय ।
(१०,१.२६ ) मृगः स मृगयुस्त्वं न त्वा निकर्तुमर्हति ॥२६॥
(१०,१.२७ ) उत हन्ति पूर्वासिनं प्रत्यादायापर इष्वा ।
(१०,१.२७ ) उत पूर्वस्य निघ्नतो नि हन्त्यपरः प्रति ॥२७॥
(१०,१.२८ ) एतद्धि शृणु मे वचोऽथेहि यत एयथ ।
(१०,१.२८ ) यस्त्वा चकार तं प्रति ॥२८॥
(१०,१.२९ ) अनागोहत्या वै भीमा कृत्ये मा नो गामश्वं पुरुषं वधीः ।
(१०,१.२९ ) यत्रयत्रासि निहिता ततस्त्वोत्थापयामसि पर्णाल्लघीयसी भव ॥२९॥
(१०,१.३० ) यदि स्थ तमसावृता जालेनभिहिता इव ।
(१०,१.३० ) सर्वाः संलुप्येतः कृत्याः पुनः कर्त्रे प्र हिण्मसि ॥३०॥
(१०,१.३१ ) कृत्याकृतो वलगिनोऽभिनिष्कारिणः प्रजाम् ।
(१०,१.३१ ) मृणीहि कृत्ये मोच्छिषोऽमून् कृत्याकृतो जहि ॥३१॥
(१०,१.३२ ) यथा सूर्यो मुच्यते तमसस्परि रात्रिं जहात्युषसश्च केतून् ।
(१०,१.३२ ) एवाहं सर्वं दुर्भूतं कर्त्रं कृत्याकृता कृतं हस्तीव रजो दुरितं जहामि ॥३२॥ {३}
(१०,२.१ ) केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ ।
(१०,२.१ ) केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम् ॥१॥
(१०,२.२ ) कस्मान् नु गुल्फावधरावकृण्वन्न् अष्ठीवन्तावुत्तरौ पुरुषस्य ।
(१०,२.२ ) जङ्घे निरृत्य न्यदधुः क्व स्विज्जानुनोः संधी क उ तच्चिकेत ॥२॥
(१०,२.३ ) चतुष्टयं युजते संहितान्तं जानुभ्यामूर्ध्वं शिथिरं कबन्धम् ।
(१०,२.३ ) श्रोणी यदूरू क उ तज्जजान याभ्यां कुसिन्धं सुदृढं बभूव ॥३॥
(१०,२.४ ) कति देवाः कतमे त आसन् य उरो ग्रीवाश्चिक्युः पुरुषस्य ।
(१०,२.४ ) कति स्तनौ व्यदधुः कः कफोदौ कति स्कन्धान् कति पृष्टीरचिन्वन् ॥४॥
(१०,२.५ ) को अस्य बाहू समभरद्वीर्यां करवादिति ।
(१०,२.५ ) अंसौ को अस्य तद्देवः कुसिन्धे अध्या दधौ ॥५॥
(१०,२.६ ) कः सप्त खानि वि ततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम् ।
(१०,२.६ ) येषां पुरुत्रा विजयस्य मह्ननि चतुष्पादो द्विपदो यन्ति यामम् ॥६॥
(१०,२.७ ) हन्वोर्हि जिह्वामदधात्पुरूचीमधा महीमधि शिश्राय वाचम् ।
(१०,२.७ ) स आ वरीवर्ति भुवनेष्वन्तरपो वसानः क उ तच्चिकेत ॥७॥
(१०,२.८ ) मस्तिष्कमस्य यतमो ललातं ककाटिकां प्रथमो यः कपालम् ।
(१०,२.८ ) चित्वा चित्यं हन्वोः पूरुषस्य दिवं रुरोह कतमः स देवः ॥८॥
(१०,२.९ ) प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्यः ।
(१०,२.९ ) आनन्दान् उग्रो नन्दांश्च कस्माद्वहति पूरुषः ॥९॥
(१०,२.१० ) आर्तिरवर्तिर्निरृतिः कुतो नु पुरुषेऽमतिः ।
(१०,२.१० ) राद्धिः समृद्धिरव्यृद्धिर्मतिरुदितयः कुतः ॥१०॥ {४}
(१०,२.११ ) को अस्मिन्न् आपो व्यदधात्विषूवृतः पुरूवृतः सिन्धुसृत्याय जाताः ।
(१०,२.११ ) तीव्रा अरुणा लोहिनीस्ताम्रधूम्रा ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः ॥११॥
(१०,२.१२ ) को अस्मिन् रूपमदधात्को मह्मानं च नाम च ।
(१०,२.१२ ) गातुं को अस्मिन् कः केतुं कश्चरित्रानि पुरुषे ॥१२॥
(१०,२.१३ ) को अस्मिन् प्राणमवयत्को अपानं व्यानमु ।
(१०,२.१३ ) समानमस्मिन् को देवोऽधि शिश्राय पुरुषे ॥१३॥
(१०,२.१४ ) को अस्मिन् यज्ञमदधादेको देवोऽधि पुरुषे ।
(१०,२.१४ ) को अस्मिन्त्सत्यं कोऽनृतं कुतो मृत्युः कुतोऽमृतम् ॥१४॥
(१०,२.१५ ) को अस्मै वासः पर्यदधात्को अस्यायुरकल्पयत्।
(१०,२.१५ ) बलं को अस्मै प्रायछत्को अस्याकल्पयज्जवम् ॥१५॥
(१०,२.१६ ) केनापो अन्वतनुत केनाहरकरोद्रुचे ।
(१०,२.१६ ) उषसं केनान्वैन्द्ध केन सायंभवं ददे ॥१६॥
(१०,२.१७ ) को अस्मिन् रेतो न्यदधात्तन्तुरा तायतामिति ।
(१०,२.१७ ) मेधां को अस्मिन्न् अध्यौहत्को बाणं को नृतो दधौ ॥१७॥
(१०,२.१८ ) केनेमां भूमिमौर्णोत्केन पर्यभवद्दिवम् ।
(१०,२.१८ ) केनाभि मह्ना पर्वतान् केन कर्माणि पुरुषः ॥१८॥
(१०,२.१९ ) केन पर्जन्यमन्वेति केन सोमं विचक्षणम् ।
(१०,२.१९ ) केन यज्ञं च श्रद्धां च केनास्मिन् निहितं मनः ॥१९॥
(१०,२.२० ) केन श्रोत्रियमाप्नोति केनेमं परमेष्ठिनम् ।
(१०,२.२० ) केनेममग्निं पूरुषः केन संवत्सरं ममे ॥२०॥ {५}
(१०,२.२१ ) ब्रह्म श्रोत्रियमाप्नोति ब्रह्मेमं परमेष्ठिनम् ।
(१०,२.२१ ) ब्रह्मेममग्निं पूरुषो ब्रह्म संवत्सरं ममे ॥२१॥
(१०,२.२२ ) केन देवामनु क्षियति केन दैवजनीर्विशः ।
(१०,२.२२ ) केनेदमन्यन् नक्षत्रं केन सत्क्षत्रमुच्यते ॥२२॥
(१०,२.२३ ) ब्रह्म देवामनु क्षियति ब्रह्म दैवजनीर्विशः ।
(१०,२.२३ ) ब्रह्मेदमन्यन् नक्षत्रं ब्रह्म सत्क्षत्रमुच्यते ॥२३॥
(१०,२.२४ ) केनेयं भूमिर्विहिता केन द्यौरुत्तरा हिता ।
(१०,२.२४ ) केनेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥२४॥
(१०,२.२५ ) ब्रह्मणा भूमिर्विहिता ब्रह्म द्यौरुत्तरा हिता ।
(१०,२.२५ ) ब्रह्मेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥२५॥
(१०,२.२६ ) मूर्धानमस्य संसीव्याथर्वा हृदयं च यत्।
(१०,२.२६ ) मस्तिष्कादूर्ध्वः प्रैरयत्पवमानोऽधि शीर्षतः ॥२६॥
(१०,२.२७ ) तद्वा अथर्वणः शिरो देवकोशः समुब्जितः ।
(१०,२.२७ ) तत्प्राणो अभि रक्षति शिरो अन्नमथो मनः ॥२७॥
(१०,२.२८ ) ऊर्ध्वो नु सृष्टा३ तिर्यङ्नु सृष्टा३ सर्वा दिशः पुरुष आ बभूवा३ ।
(१०,२.२८ ) पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥२८॥
(१०,२.२९ ) यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम् ।
(१०,२.२९ ) तस्मै ब्रह्म च ब्राह्माश्च चक्षुः प्राणं प्रजां ददुः ॥२९॥
(१०,२.३० ) न वै तं चक्षुर्जहाति न प्राणो जरसः पुरा ।
(१०,२.३० ) पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥३०॥
(१०,२.३१ ) अष्टाचक्रा नवद्वारा देवानां पूरयोध्या ।
(१०,२.३१ ) तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ॥३१॥
(१०,२.३२ ) तस्मिन् हिरण्यये कोशे त्र्यरे त्रिप्रतिष्ठिते ।
(१०,२.३२ ) तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥३२॥
(१०,२.३३ ) प्रभ्राजमानां हरिणीं यशसा संपरीवृताम् ।
(१०,२.३३ ) पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् ॥३३॥ {६}
(१०,३.१ ) अयं मे वरणो मणिः सपत्नक्षयणो वृषा ।
(१०,३.१ ) तेना रभस्व त्वं शत्रून् प्र मृणीहि दुरस्यतः ॥१॥
(१०,३.२ ) प्रैणान् छृणीहि प्र मृणा रभस्व मणिस्ते अस्तु पुरएता पुरस्तात्।
(१०,३.२ ) अवारयन्त वरणेन देवा अभ्याचारमसुराणां श्वःश्वः ॥२॥
(१०,३.३ ) अयं मणिर्वरणो विश्वभेषजः सहस्राक्षो हरितो हिरण्ययः ।
(१०,३.३ ) स ते शत्रून् अधरान् पादयाति पूर्वस्तान् दभ्नुहि ये त्वा द्विषन्ति ॥३॥
(१०,३.४ ) अयं ते कृत्यां विततां पौरुषेयादयं भयात्।
(१०,३.४ ) अयं त्वा सर्वस्मात्पापाद्वरणो वारयिष्यते ॥४॥
(१०,३.५ ) वरणो वारयाता अयं देवो वनस्पतिः ।
(१०,३.५ ) यक्ष्मो यो अस्मिन्न् आविष्टस्तमु देवा अवीवरन् ॥५॥
(१०,३.६ ) स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावादजुष्टाम् ।
(१०,३.६ ) परिक्षवाच्छकुनेः पापवादादयं मणिर्वरणो वारयिष्यते ॥६॥
(१०,३.७ ) अरात्यास्त्वा निरृत्या अभिचारादथो भयात्।
(१०,३.७ ) मृत्योरोजीयसो वधाद्वरणो वारयिष्यते ॥७॥
(१०,३.८ ) यन् मे माता यन् मे पिता भ्रातरो यच्च मे स्वा यदेनश्चकृमा वयम् ।
(१०,३.८ ) ततो नो वारयिष्यतेऽयं देवो वनस्पतिः ॥८॥
(१०,३.९ ) वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धवः ।
(१०,३.९ ) असूर्तं रजो अप्यगुस्ते यन्त्वधमं तमः ॥९॥
(१०,३.१० ) अरिष्टोऽहमरिष्टगुरायुष्मान्त्सर्वपूरुषः ।
(१०,३.१० ) तं मायं वरणो मणिः परि पातु दिशोदिशः ॥१०॥ {७}
(१०,३.११ ) अयं मे वरण उरसि राजा देवो वनस्पतिः ।
(१०,३.११ ) स मे शत्रून् वि बाधतामिन्द्रो दस्यून् इवासुरान् ॥११॥
(१०,३.१२ ) इमं बिभर्मि वरणमायुष्मान् छतशारदः ।
(१०,३.१२ ) स मे राष्ट्रं च क्षत्रं च पशून् ओजश्च मे दधत्॥१२॥
(१०,३.१३ ) यथा वातो वनस्पतीन् वृक्षान् भनक्त्योजसा ।
(१०,३.१३ ) एवा सपत्नान् मे भङ्ग्धि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१३॥
(१०,३.१४ ) यथा वातश्चाग्निश्च वृक्षान् प्सातो वनस्पतीन् ।
(१०,३.१४ ) एवा सपत्नान् मे प्साहि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१४॥
(१०,३.१५ ) यथा वातेन प्रक्षीणा वृक्षाः शेरे न्यर्पिताः ।
(१०,३.१५ ) एवा सपत्नांस्त्वं मम प्र क्षिणीहि न्यर्पय ।
(१०,३.१५ ) पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१५॥
(१०,३.१६ ) तांस्त्वं प्र छिन्द्धि वरण पुरा दिष्टात्पुरायुषः ।
(१०,३.१६ ) य एनं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः ॥१६॥
(१०,३.१७ ) यथा सूर्यो अतिभाति यथास्मिन् तेज आहितम् ।
(१०,३.१७ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
(१०,३.१७ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१७॥
(१०,३.१८ ) यथा यशश्चन्द्रमस्यादित्ये च नृचक्षसि ।
(१०,३.१८ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
(१०,३.१८ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१८॥
(१०,३.१९ ) यथा यशः पृथिव्यां यथास्मिन् जातवेदसि ।
(१०,३.१९ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
(१०,३.१९ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१९॥
(१०,३.२० ) यथा यशः कन्यायां यथास्मिन्त्संभृते रथे ।
(१०,३.२० ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
(१०,३.२० ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२०॥ {८}
(१०,३.२१ ) यथा यशः सोमपीथे मधुपर्के यथा यशः ।
(१०,३.२१ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
(१०,३.२१ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२१॥
(१०,३.२२ ) यथा यशोऽग्निहोत्रे वषट्कारे यथा यशः ।
(१०,३.२२ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
(१०,३.२२ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२२॥
(१०,३.२३ ) यथा यशो यजमाने यथास्मिन् यज्ञ आहितम् ।
(१०,३.२३ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
(१०,३.२३ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२३॥
(१०,३.२४ ) यथा यशः प्रजापतौ यथास्मिन् परमेष्ठिनि ।
(१०,३.२४ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
(१०,३.२४ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२४॥
(१०,३.२५ ) यथा देवेष्वमृतं यथैषु सत्यमाहितम् ।
(१०,३.२५ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
(१०,३.२५ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२५॥ {९}
(१०,४.१ ) इन्द्रस्य प्रथमो रथो देवानामपरो रथो वरुणस्य तृतीय इत्।
(१०,४.१ ) अहीनामपमा रथ स्थानुमारदथार्षत्॥१॥
(१०,४.२ ) दर्भः शोचिस्तरूणकमश्वस्य वारः परुषस्य वारः ।
(१०,४.२ ) रथस्य बन्धुरम् ॥२॥
(१०,४.३ ) अव श्वेत पदा जहि पूर्वेण चापरेण च ।
(१०,४.३ ) उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥३॥
(१०,४.४ ) अरंघुषो निमज्योन्मज पुनरब्रवीत्।
(१०,४.४ ) उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥४॥
(१०,४.५ ) पैद्वो हन्ति कसर्णीलं पैद्वः श्वित्रमुतासितम् ।
(१०,४.५ ) पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः ॥५॥
(१०,४.६ ) पैद्व प्रेहि प्रथमोऽनु त्वा वयमेमसि ।
(१०,४.६ ) अहीन् व्यस्यतात्पथो येन स्मा वयमेमसि ॥६॥
(१०,४.७ ) इदं पैद्वो अजायतेदमस्य परायणम् ।
(१०,४.७ ) इमान्यर्वतः पदाहिघ्न्यो वाजिनीवतः ॥७॥
(१०,४.८ ) संयतं न वि ष्परद्व्यात्तं न सं यमत्।
(१०,४.८ ) अस्मिन् क्षेत्रे द्वावही स्त्री च पुमांश्च तावुभावरसा ॥८॥
(१०,४.९ ) अरसास इहाहयो ये अन्ति ये च दूरके ।
(१०,४.९ ) घनेन हन्मि वृश्चिकमहिं दण्डेनागतम् ॥९॥
(१०,४.१० ) अघाश्वस्येदं भेषजमुभयो स्वजस्य च ।
(१०,४.१० ) इन्द्रो मेऽहिमघायन्तमहिं पैद्वो अरन्धयत्॥१०॥ {१०}
(१०,४.११ ) पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्नः ।
(१०,४.११ ) इमे पश्चा पृदाकवः प्रदीध्यत आसते ॥११॥
(१०,४.१२ ) नष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा ।
(१०,४.१२ ) जघानेन्द्रो जघ्निमा वयम् ॥१२॥
(१०,४.१३ ) हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ।
(१०,४.१३ ) दर्विं करिक्रतं श्वित्रं दर्भेष्वसितं जहि ॥१३॥
(१०,४.१४ ) कैरातिका कुमारिका सका खनति भेषजम् ।
(१०,४.१४ ) हिरण्ययीभिरभ्रिभिर्गिरीनामुप सानुषु ॥१४॥
(१०,४.१५ ) आयमगन् युवा भिषक्पृश्निहापराजितः ।
(१०,४.१५ ) स वै स्वजस्य जम्भन उभयोर्वृश्चिकस्य च ॥१५॥
(१०,४.१६ ) इन्द्रो मेऽहिमरन्धयन् मित्रश्च वरुणश्च ।
(१०,४.१६ ) वातापर्जन्योभा ॥१६॥
(१०,४.१७ ) इन्द्रो मेऽहिमरन्धयत्पृदाकुं च पृदाक्वम् ।
(१०,४.१७ ) स्वजं तिरश्चिराजिं कसर्णीलं दशोनसिम् ॥१७॥
(१०,४.१८ ) इन्द्रो जघान प्रथमं जनितारमहे तव ।
(१०,४.१८ ) तेषामु तृह्यमाणानां कः स्वित्तेषामसद्रसः ॥१८॥
(१०,४.१९ ) सं हि शीर्षाण्यग्रभं पौञ्जिष्ठ इव कर्वरम् ।
(१०,४.१९ ) सिन्धोर्मध्यं परेत्य व्यनिजमहेर्विषम् ॥१९॥
(१०,४.२० ) अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः ।
(१०,४.२० ) हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ॥२०॥ {११}
(१०,४.२१ ) ओषधीनामहं वृण उर्वरीरिव साधुया ।
(१०,४.२१ ) नयाम्यर्वतीरिवाहे निरैतु विषम् ॥२१॥
(१०,४.२२ ) यदग्नौ सूर्ये विषं पृथिव्यामोषधीषु यत्।
(१०,४.२२ ) कान्दाविषं कनक्नकं निरैत्वैतु ते विषम् ॥२२॥
(१०,४.२३ ) ये अग्निजा ओषधिजा अहीनां ये अप्सुजा विद्युत आबभूवुः ।
(१०,४.२३ ) येषां जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यो नमसा विधेम ॥२३॥
(१०,४.२४ ) तौदी नामासि कन्या घृताची नाम वा असि ।
(१०,४.२४ ) अधस्पदेन ते पदमा ददे विषदूषणम् ॥२४॥
(१०,४.२५ ) अङ्गादङ्गात्प्र च्यावय हृदयं परि वर्जय ।
(१०,४.२५ ) अधा विषस्य यत्तेजोऽवाचीनं तदेतु ते ॥२५॥
(१०,४.२६ ) आरे अभूद्विषमरौद्विषे विषमप्रागपि ।
(१०,४.२६ ) अग्निर्विषमहेर्निरधात्सोमो निरणयीत्।
(१०,४.२६ ) दंष्टारमन्वगाद्विषमहिरमृत ॥२६॥ {१२}
(१०,५.१ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
(१०,५.१ ) जिष्णवे योगाय ब्रह्मयोगैर्वो युनज्मि ॥१॥
(१०,५.२ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
(१०,५.२ ) जिष्णवे योगाय क्षत्रयोगैर्वो युनज्मि ॥२॥
(१०,५.३ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
(१०,५.३ ) जिष्णवे योगायेन्द्रयोगैर्वो युनज्मि ॥३॥
(१०,५.४ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
(१०,५.४ ) जिष्णवे योगाय सोमयोगैर्वो युनज्मि ॥४॥
(१०,५.५ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
(१०,५.५ ) जिष्णवे योगायाप्सुयोगैर्वो युनज्मि ॥५॥
(१०,५.६ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
(१०,५.६ ) जिष्णवे योगाय विश्वानि मा भूतान्युप तिष्ठन्तु युक्ता म आप स्थ ॥६॥
(१०,५.७ ) अग्नेर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
(१०,५.७ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥७॥
(१०,५.८ ) इन्द्रस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
(१०,५.८ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥८॥
(१०,५.९ ) सोमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
(१०,५.९ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥९॥
(१०,५.१० ) वरुणस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
(१०,५.१० ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०॥ {१३}
(१०,५.११ ) मित्रावरुणयोर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
(१०,५.११ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥११॥
(१०,५.१२ ) यमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
(१०,५.१२ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१२॥
(१०,५.१३ ) पितॄणां भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
(१०,५.१३ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१३॥
(१०,५.१४ ) देवस्य सवितुर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
(१०,५.१४ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१४॥
(१०,५.१५ ) यो व आपोऽपां भागोऽप्स्वन्तर्यजुष्यो देवयजनः ।
(१०,५.१५ ) इदं तमति सृजामि तं माभ्यवनिक्षि ।
(१०,५.१५ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
(१०,५.१५ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १५ ॥
(१०,५.१६ ) यो व आपोऽपामूर्मिरप्स्वन्तर्यजुष्यो देवयजनः ।
(१०,५.१६ ) इदं तमति सृजामि तं माभ्यवनिक्षि ।
(१०,५.१६ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
(१०,५.१६ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १६ ॥
(१०,५.१७ ) यो व आपोऽपां वत्सोऽप्स्वन्तर्यजुष्यो देवयजनः ।
(१०,५.१७ ) इदं तमति सृजामि तं माभ्यवनिक्षि ।
(१०,५.१७ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
(१०,५.१७ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १७ ॥
(१०,५.१८ ) यो व आपोऽपां वृषभोऽप्स्वन्तर्यजुष्यो देवयजनः ॥
(१०,५.१८ ) इदं तमति सृजामि तं माभ्यवनिक्षि ।
(१०,५.१८ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥
(१०,५.१८ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १८ ॥
(१०,५.१९ ) यो व आपोऽपां हिरण्यगर्भोऽप्स्वन्तर्यजुष्यो देवयजनः ।
(१०,५.१९ ) इदं तमति सृजामि तं माभ्यवनिक्षि ।
(१०,५.१९ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
(१०,५.१९ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १९ ॥
(१०,५.२० ) यो व आपोऽपामश्मा पृश्निर्दिव्योऽप्स्वन्तर्यजुष्यो देवयजनः ।
(१०,५.२० ) इदं तमति सृजामि तं माभ्यवनिक्षि ।
(१०,५.२० ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
(१०,५.२० ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ २० ॥
(१०,५.२१ ) यो व आपोऽपामग्नयोऽप्स्वन्तर्यजुष्यो देवयजनः ।
(१०,५.२१ ) इदं तमति सृजामि तं माभ्यवनिक्षि ।
(१०,५.२१ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
(१०,५.२१ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ २१ ॥
(१०,५.२२ ) यदर्वाचीनं त्रैहायणादनृतं किं चोदिम ।
(१०,५.२२ ) आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः ॥२२॥
(१०,५.२३ ) समुद्रं वः प्र हिणोमि स्वां योनिमपीतन ।
(१०,५.२३ ) अरिष्टाः सर्वहायसो मा च नः किं चनाममत्॥२३॥
(१०,५.२४ ) अरिप्रा आपो अप रिप्रमस्मत्।
(१०,५.२४ ) प्रास्मदेनो दुरितं सुप्रतीकाः प्र दुष्वप्न्यं प्र मलं वहन्तु ॥२४॥
(१०,५.२५ ) विष्णोः क्रमोऽसि सपत्नहा पृथिवीसंशितोऽग्नितेजाः ।
(१०,५.२५ ) पृथिवीमनु वि क्रमेऽहं पृथिव्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
(१०,५.२५ ) स मा जीवीत्तं प्रानो जहातु ॥२५॥
(१०,५.२६ ) विष्णोः क्रमोऽसि सपत्नहान्तरिक्षसंशितो वायुतेजाः ।
(१०,५.२६ ) अन्तरिक्षमनु वि क्रमेऽहमन्तरिक्षात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
(१०,५.२६ ) स मा जीवीत्तं प्रानो जहातु ॥२६॥
(१०,५.२७ ) विष्णोः क्रमोऽसि सपत्नहा द्यौसंशितः सूर्यतेजाः ।
(१०,५.२७ ) दिवमनु वि क्रमेऽहं दिवस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
(१०,५.२७ ) स मा जिवीत्तं प्रानो जहातु ॥२७॥
(१०,५.२८ ) विष्णोः क्रमोऽसि सपत्नहा दिक्संशितो मनस्तेजाः ।
(१०,५.२८ ) दिशो अनु वि क्रमेऽहं दिग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
(१०,५.२८ ) स मा जीवीत्तं प्रानो जहातु ॥२८॥
(१०,५.२९ ) विष्णोः क्रमोऽसि सपत्नहाशासंशितो वाततेजाः ।
(१०,५.२९ ) आशा अनु वि क्रमेऽहमाशाभ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
(१०,५.२९ ) स मा जीवीत्तं प्रानो जहातु ॥२९॥
(१०,५.३० ) विष्णोः क्रमोऽसि सपत्नहा ऋक्संशितो सामतेजाः ।
(१०,५.३० ) ऋचोऽनु वि क्रमेऽहमृग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
(१०,५.३० ) स मा जीवीत्तं प्रानो जहातु ॥३०॥ {१५}
(१०,५.३१ ) विष्णोः क्रमोऽसि सपत्नहा यज्ञसंशितो ब्रह्मतेजाः ।
(१०,५.३१ ) यज्ञमनु वि क्रमेऽहं यज्ञात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
(१०,५.३१ ) स मा जीवीत्तं प्रानो जहातु ॥३१॥
(१०,५.३२ ) विष्णोः क्रमोऽसि सपत्नहौषधीसंशितो सोमतेजाः ।
(१०,५.३२ ) ओषधीरनु वि क्रमेऽहमोषधीभ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
(१०,५.३२ ) स मा जीवीत्तं प्रानो जहातु ॥३२॥
(१०,५.३३ ) विष्णोः क्रमोऽसि सपत्नहाप्सुसंशितो वरुणतेजाः ।
(१०,५.३३ ) अपोऽनु वि क्रमेऽहमद्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
(१०,५.३३ ) स मा जीवीत्तं प्रानो जहातु ॥३३॥
(१०,५.३४ ) विष्णोः क्रमोऽसि सपत्नहा कृषिसंशितोऽन्नतेजाः ।
(१०,५.३४ ) कृषिमनु वि क्रमेऽहं कृष्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
(१०,५.३४ ) स मा जीवीत्तं प्रानो जहातु ॥३४॥
(१०,५.३५ ) विस्णोः क्रमोऽसि सपत्नहा प्राणसंशितः पुरुषतेजाः ।
(१०,५.३५ ) प्राणमनु वि क्रमेऽहं प्राणात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
(१०,५.३५ ) स मा जीवीत्तं प्रानो जहातु ॥३५॥
(१०,५.३६ ) जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः ।
(१०,५.३६ ) इदमहमामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥३६॥
(१०,५.३७ ) सूर्यस्यावृतमन्वावर्ते दक्षिणामन्वावृतम् ।
(१०,५.३७ ) सा मे द्रविणं यछतु सा मे ब्राह्मणवर्चसम् ॥३७॥
(१०,५.३८ ) दिशो ज्योतिष्मतीरभ्यावर्ते ।
(१०,५.३८ ) ता मे द्रविणं यछन्तु ता मे ब्राह्मणवर्चसम् ॥३८॥
(१०,५.३९ ) सप्तऋषीन् अभ्यावर्ते ।
(१०,५.३९ ) ते मे द्रविणं यछन्तु ते मे ब्राह्मणवर्चसम् ॥३९॥
(१०,५.४० ) ब्रह्माभ्यावर्ते ।
(१०,५.४० ) तन् मे द्रविणं यछन्तु तन् मे ब्राह्मणवर्चसम् ॥४०॥ {१६}
(१०,५.४१ ) ब्राह्मणामभ्यावर्ते ।
(१०,५.४१ ) ते मे द्रविणं यछन्तु ते मे ब्राह्मणवर्चसम् ॥४१॥
(१०,५.४२ ) यं वयं मृगयामहे तं वधै स्तृणवामहै ।
(१०,५.४२ ) व्यात्ते परमेष्ठिनो ब्रह्मणापीपदाम तम् ॥४२॥
(१०,५.४३ ) वैश्वानरस्य दंष्ट्राभ्यां हेतिस्तं समधादभि ।
(१०,५.४३ ) इयं तं प्सात्वाहुतिः समिद्देवी सहीयसी ॥४३॥
(१०,५.४४ ) राज्ञो वरुणस्य बन्धोऽसि ।
(१०,५.४४ ) सोऽमुमामुष्यायणममुष्याः पुत्रमन्ने प्राणे बधान ॥४४॥
(१०,५.४५ ) यत्ते अन्नं भुवस्पत आक्षियति पृथिवीमनु ।
(१०,५.४५ ) तस्य नस्त्वं भुवस्पते संप्रयछ प्रजापते ॥४५॥
(१०,५.४६ ) अपो दिव्या अचायिषं रसेन समपृक्ष्महि ।
(१०,५.४६ ) पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥४६॥
(१०,५.४७ ) सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।
(१०,५.४७ ) विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥४७॥
(१०,५.४८ ) यदग्ने अद्य मिथुना शपतो यद्वाचस्तृष्टं जनयन्त रेभाः ।
(१०,५.४८ ) मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥४८॥
(१०,५.४९ ) परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि ।
(१०,५.४९ ) परार्चिषा मूरदेवां छृणीहि परासुतृपः शोशुचतः शृणीहि ॥४९॥
(१०,५.५० ) अपामस्मै वज्रं प्र हरामि चतुर्भृष्टिं शीर्षभिद्याय विद्वान् ।
(१०,५.५० ) सो अस्याङ्गानि प्र शृणातु सर्वा तन् मे देवा अनु जानन्तु विश्वे ॥५०॥ {१७}
(१०,६.१ ) अरातीयोर्भ्रातृव्यस्य दुर्हार्दो द्विषतः शिरः ।
(१०,६.१ ) अपि वृश्चाम्योजसा ॥१॥
(१०,६.२ ) वर्म मह्यमयं मणिः फालाज्जातः करिष्यति ।
(१०,६.२ ) पूर्णो मन्थेन मागमद्रसेन सह वर्चसा ॥२॥
(१०,६.३ ) यत्त्वा शिक्वः परावधीत्तक्षा हस्तेन वास्या ।
(१०,६.३ ) आपस्त्वा तस्मज्जीवलाः पुनन्तु शुचयः शुचिम् ॥३॥
(१०,६.४ ) हिरण्यस्रगयं मणिः श्रद्धां यज्ञं महो दधत्।
(१०,६.४ ) गृहे वसतु नोऽतिथिः ॥४॥
(१०,६.५ ) तस्मै घृतं सुरं मध्वन्नमन्नं क्षदामहे ।
(१०,६.५ ) स नः पितेव पुत्रेभ्यः श्रेयःश्रेयश्चिकित्सतु भूयोभूयः श्वःश्वो देवेभ्यो मणिरेत्य ॥५॥
(१०,६.६ ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं कधिरमोजसे ।
(१०,६.६ ) तमग्निः प्रत्यमुञ्चत सो अस्मै दुह आज्यं भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥६॥
(१०,६.७ ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं कधिरमोजसे ।
(१०,६.७ ) तमिन्द्रः प्रत्यमुञ्चतौजसे वीर्याय कम् ।
(१०,६.७ ) सो अस्मै बलमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥७॥
(१०,६.८ ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं कधिरमोजसे ।
(१०,६.८ ) तं सोमः प्रत्यमुञ्चत महे श्रोत्राय चक्षसे ।
(१०,६.८ ) सो अस्मै वर्च इद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥८॥
(१०,६.९ ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
(१०,६.९ ) तं सूर्यः प्रत्यमुञ्चत तेनेमा अजयद्दिशः ।
(१०,६.९ ) सो अस्मै भूतिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥९॥
(१०,६.१० ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
(१०,६.१० ) तं बिभ्रच्चन्द्रमा मणिमसुराणां पुरोऽजयद्दानवानां हिरण्ययीः ।
(१०,६.१० ) सो अस्मै श्रियमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१०॥ {१८}
(१०,६.११ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
(१०,६.११ ) सो अस्मै वाजिनमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥११॥
(१०,६.१२ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
(१०,६.१२ ) तेनेमां मणिना कृषिमश्विनावभि रक्षतः ।
(१०,६.१२ ) स भिषग्भ्यां महो दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१२॥
(१०,६.१३ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
(१०,६.१३ ) तं बिभ्रत्सविता मणिं तेनेदमजयत्स्वः ।
(१०,६.१३ ) सो अस्मै सूनृतां दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१३॥
(१०,६.१४ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
(१०,६.१४ ) तमापो बिभ्रतीर्मणिं सदा धावन्त्यक्षिताः ।
(१०,६.१४ ) स आभ्योऽमृतमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१४॥
(१०,६.१५ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
(१०,६.१५ ) तं राजा वरुणो मणिं प्रत्यमुञ्चत शंभुवम् ।
(१०,६.१५ ) सो अस्मै सत्यमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१५॥
(१०,६.१६ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
(१०,६.१६ ) तं देवा बिभ्रतो मणिं सर्वांल्लोकान् युधाजयन् ।
(१०,६.१६ ) स एभ्यो जितिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१६॥
(१०,६.१७ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
(१०,६.१७ ) तमिमं देवता मणिं प्रत्यमुञ्चन्त शम्भुवम् ।
(१०,६.१७ ) स आभ्यो विश्वमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१७॥
(१०,६.१८ ) ऋतवस्तमबध्नतार्तवास्तमबध्नत ।
(१०,६.१८ ) संवत्सरस्तं बद्ध्वा सर्वं भूतं वि रक्षति ॥१८॥
(१०,६.१९ ) अन्तर्देशा अबध्नत प्रदिशस्तमबध्नत ।
(१०,६.१९ ) प्रजापतिसृष्टो मणिर्द्विषतो मेऽधरामकः ॥१९॥
(१०,६.२० ) अथर्वाणो अबध्नताथर्वणा अबध्नत ।
(१०,६.२० ) तैर्मेदिनो अङ्गिरसो दस्यूनां बिभिदुः पुरस्तेन त्वं द्विषतो जहि ॥२०॥ {१९}
(१०,६.२१ ) तं धाता प्रत्यमुञ्चत स भूतं व्यकल्पयत्।
(१०,६.२१ ) तेन त्वं द्विषतो जहि ॥२१॥
(१०,६.२२ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
(१०,६.२२ ) स मायं मणिरागमद्रसेन सह वर्चसा ॥२२॥
(१०,६.२३ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
(१०,६.२३ ) स मायं मणिरागमत्सह गोभिरजाविभिरन्नेन प्रजया सह ॥२३॥
(१०,६.२४ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
(१०,६.२४ ) स मायं मणिरागमत्सह व्रीहियवाभ्यां महसा भूत्या सह ॥२४॥
(१०,६.२५ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
(१०,६.२५ ) स मायं मणिरागमन् मधोर्घृतस्य धारया कीलालेन मणिः सह ॥२५॥
(१०,६.२६ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
(१०,६.२६ ) स मायं मणिरागमदूर्जया पयसा सह द्रविणेन श्रिया सह ॥२६॥
(१०,६.२७ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
(१०,६.२७ ) स मायं मणिरागमत्तेजसा त्विष्या सह यशसा कीर्त्या सह ॥२७॥
(१०,६.२८ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
(१०,६.२८ ) स मायं मणिरागमत्सर्वाभिर्भूतिभिः सह ॥२८॥
(१०,६.२९ ) तमिमं देवता मणिं मह्यं ददतु पुष्टये ।
(१०,६.२९ ) अभिभुं क्षत्रवर्धनं सपत्नदम्भनं मणिम् ॥२९॥
(१०,६.३० ) ब्रह्मणा तेजसा सह प्रति मुञ्चामि मे शिवम् ।
(१०,६.३० ) असपत्नः सपत्नहा सपत्नान् मेऽधरामकः ॥३०॥ {२०}
(१०,६.३१ ) उत्तरं द्विषतो मामयं मणिः कृणोतु देवजाः ।
(१०,६.३१ ) यस्य लोका इमे त्रयः पयो दुग्धमुपासते ।
(१०,६.३१ ) स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥३१॥
(१०,६.३२ ) यं देवाः पितरो मनुष्या उपजीवन्ति सर्वदा ।
(१०,६.३२ ) स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥३२॥
(१०,६.३३ ) यथा बीजमुर्वरायां कृष्टे फालेन रोहति ।
(१०,६.३३ ) एवा मयि प्रजा पशवोऽन्नमन्नं वि रोहतु ॥३३॥
(१०,६.३४ ) यस्मै त्वा यज्ञवर्धन मणे प्रत्यमुचं शिवम् ।
(१०,६.३४ ) तं त्वं शतदक्षिण मणे श्रैष्ठ्याय जिन्वतात्॥३४॥
(१०,६.३५ ) एतमिध्मं समाहितं जुषणो अग्ने प्रति हर्य होमैः ।
(१०,६.३५ ) तस्मिन् विधेम सुमतिं स्वस्ति प्रजां चक्षुः पशून्त्समिद्धे जातवेदसि ब्रह्मणा ॥३५॥ {२१}
(१०,७.१ ) कस्मिन्न् अङ्गे तपो अस्याधि तिष्ठति कस्मिन्न् अङ्ग ऋतमस्याध्याहितम् ।
(१०,७.१ ) क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्न् अङ्गे सत्यमस्य प्रतिष्ठितम् ॥१॥
(१०,७.२ ) कस्मादङ्गाद्दीप्यते अग्निरस्य कस्मादङ्गात्पवते मातरिश्व ।
(१०,७.२ ) कस्मादङ्गाद्वि मिमीतेऽधि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम् ॥२॥
(१०,७.३ ) कस्मिन्न् अङ्गे तिष्ठति भूमिरस्य कस्मिन्न् अङ्गे तिष्ठत्यन्तरिक्षम् ।
(१०,७.३ ) कस्मिन्न् अङ्गे तिष्ठत्याहिता द्यौः कस्मिन्न् अङ्गे तिष्ठत्युत्तरं दिवः ॥३॥
(१०,७.४ ) क्व प्रेप्सन् दीप्यत ऊर्ध्वो अग्निः क्व प्रेप्सन् पवते मातरिश्वा ।
(१०,७.४ ) यत्र प्रेप्सन्तीरभियन्त्यावृतः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥४॥
(१०,७.५ ) क्वार्धमासाः क्व यन्ति मासाः संवत्सरेण सह संविदानाः ।
(१०,७.५ ) यत्र यन्त्यृतवो यत्रार्तवाः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥५॥
(१०,७.६ ) क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवतः संविदाने ।
(१०,७.६ ) यत्र प्रेप्सन्तीरभियन्त्यापः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥६॥
(१०,७.७ ) यस्मिन्त्स्तब्ध्वा प्रजापतिर्लोकान्त्सर्वामधारयत्।
(१०,७.७ ) स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥७॥
(१०,७.८ ) यत्परममवमं यच्च मध्यमं प्रजापतिः ससृजे विश्वरूपम् ।
(१०,७.८ ) कियता स्कम्भः प्र विवेश तत्र यन् न प्राविशत्कियत्तद्बभूव ॥८॥
(१०,७.९ ) कियता स्कम्भः प्र विवेश भूतं कियद्भविष्यदन्वाशयेऽस्य ।
(१०,७.९ ) एकं यदङ्गमकृणोत्सहस्रधा कियता स्कम्भः प्र विवेश तत्र ॥९॥
(१०,७.१० ) यत्र लोकाम्श्च कोशांश्चापो ब्रह्म जना विदुः ।
(१०,७.१० ) असच्च यत्र सच्चान्त स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१०॥ {२२}
(१०,७.११ ) यत्र तपः पराक्रम्य व्रतं धारयत्युत्तरम् ।
(१०,७.११ ) ऋतं च यत्र श्रद्धा चापो ब्रह्म समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥११॥
(१०,७.१२ ) यस्मिन् भूमिरन्तरिक्षं द्यौर्यस्मिन्न् अध्याहिता ।
(१०,७.१२ ) यत्राग्निश्चन्द्रमाः सूर्यो वातस्तिष्ठन्त्यार्पिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१२॥
(१०,७.१३ ) यस्य त्रयस्त्रिंशद्देवा अङ्गे सर्वे समाहिताः ।
(१०,७.१३ ) स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१३॥
(१०,७.१४ ) यत्र ऋषयः प्रथमजा ऋचः साम यजुर्मही ।
(१०,७.१४ ) एकर्षिर्यस्मिन्न् आर्पितः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१४॥
(१०,७.१५ ) यत्रामृतं च मृत्युश्च पुरुषेऽधि समाहिते ।
(१०,७.१५ ) समुद्रो यस्य नाड्यः पुरुषेऽधि समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१५॥
(१०,७.१६ ) यस्य चतस्रः प्रदिशो नाड्यस्तिष्ठन्ति प्रथमाः ।
(१०,७.१६ ) यज्ञो यत्र पराक्रान्तः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१६॥
(१०,७.१७ ) ये पुरुषे ब्रह्म विदुस्ते विदुः परमेष्ठिनम् ।
(१०,७.१७ ) यो वेद परमेष्ठिनं यश्च वेद प्रजापतिम् ।
(१०,७.१७ ) ज्येष्ठं ये ब्राह्मणं विदुस्ते स्कम्भमनुसंविदुः ॥१७॥
(१०,७.१८ ) यस्य शिरो वैश्वानरश्चक्षुरङ्गिरसोऽभवन् ।
(१०,७.१८ ) अङ्गानि यस्य यातवः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१८॥
(१०,७.१९ ) यस्य ब्रह्म मुखमाहुर्जिह्वां मधुकशामुत ।
(१०,७.१९ ) विराजमूधो यस्याहुः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१९॥
(१०,७.२० ) यस्मादृचो अपातक्षन् यजुर्यस्मादपाकषन् ।
(१०,७.२० ) सामानि यस्य लोमान्यथर्वाङ्गिरसो मुखं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥२०॥ {२३}
(१०,७.२१ ) असच्चाखां प्रतिष्ठन्तीं परममिव जना विदुः ।
(१०,७.२१ ) उतो सन् मन्यन्तेऽवरे ये ते शाखामुपासते ॥२१॥
(१०,७.२२ ) यत्रादित्याश्च रुद्राश्च वसवश्च समाहिताः ।
(१०,७.२२ ) भूतं च यत्र भव्यं च सर्वे लोकाः प्रतिष्ठिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥२२॥
(१०,७.२३ ) यस्य त्रयस्त्रिंशद्देवा निधिं रक्षन्ति सर्वदा ।
(१०,७.२३ ) निधिं तमद्य को वेद यं देवा अभिरक्षथ ॥२३॥
(१०,७.२४ ) यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठमुपासते ।
(१०,७.२४ ) यो वै तान् विद्यात्प्रत्यक्षं स ब्रह्मा वेदिता स्यात्॥२४॥
(१०,७.२५ ) बृहन्तो नाम ते देवा येऽसतः परि जज्ञिरे ।
(१०,७.२५ ) एकं तदङ्गं स्कम्भस्यासदाहुः परो जनाः ॥२५॥
(१०,७.२६ ) यत्र स्कम्भः प्रजनयन् पुराणं व्यवर्तयत्।
(१०,७.२६ ) एकं तदङ्गं स्कम्भस्य पुराणमनुसंविदुः ॥२६॥
(१०,७.२७ ) यस्य त्रयस्त्रिंशद्देवा अङ्गे गात्रा विभेजिरे ।
(१०,७.२७ ) तान् वै त्रयस्त्रिंशद्देवान् एके ब्रहम्विदो विदुः ॥२७॥
(१०,७.२८ ) हिरण्यगर्भं परममनत्युद्यं जना विदुः ।
(१०,७.२८ ) स्कम्भस्तदग्रे प्रासिञ्चद्धिरण्यं लोके अन्तरा ॥२८॥
(१०,७.२९ ) स्कम्भे लोकाः स्कम्भे तपः स्कम्भेऽध्यृतमाहितम् ।
(१०,७.२९ ) स्कम्भ त्वा वेद प्रत्यक्षमिन्द्रे सर्वं समाहितम् ॥२९॥
(१०,७.३० ) इन्द्रे लोका इन्द्रे तप इन्द्रेऽध्यृतमाहितम् ।
(१०,७.३० ) इन्द्रं त्वा वेद प्रत्यक्षं स्कम्भे सर्वं प्रतिष्ठितम् ॥३०॥ {२४}
(१०,७.३१ ) नाम नाम्ना जोहवीति पुरा सूर्यात्पुरोषसः ।
(१०,७.३१ ) यदजः प्रथमं संबभूव स ह तत्स्वराज्यमियाय यस्मान् नान्यत्परमस्ति भूतम् ॥३१॥
(१०,७.३२ ) यस्य भूमिः प्रमान्तरिक्षमुतोदरम् ।
(१०,७.३२ ) दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३२॥
(१०,७.३३ ) यस्य सूर्यश्चक्षुश्चन्द्रमाश्च पुनर्णवः ।
(१०,७.३३ ) अग्निं यश्चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३३॥
(१०,७.३४ ) यस्य वातः प्राणापानौ चक्षुरङ्गिरसोऽभवन् ।
(१०,७.३४ ) दिशो यश्चक्रे प्रज्ञानीस्तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३४॥
(१०,७.३५ ) स्कम्भो दाधार द्यावापृथिवी उभे इमे स्कम्भो दाधारोर्वन्तरिक्षम् ।
(१०,७.३५ ) स्कम्भो दाधार प्रदिशः षडुर्वीः स्कम्भ इदं विश्वं भुवनमा विवेश ॥३५॥
(१०,७.३६ ) यः श्रमात्तपसो जातो लोकान्त्सर्वान्त्समानशे ।
(१०,७.३६ ) सोमं यश्चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३६॥
(१०,७.३७ ) कथं वातो नेलयति कथं न रमते मनः ।
(१०,७.३७ ) किमापः सत्यं प्रेप्सन्तीर्नेलयन्ति कदा चन ॥३७॥
(१०,७.३८ ) महद्यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे ।
(१०,७.३८ ) तस्मिन् छ्रयन्ते य उ के च देवा वृक्षस्य स्कन्धः परित इव शाखाः ॥३८॥
(१०,७.३९ ) यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा ।
(१०,७.३९ ) यस्मै देवाः सदा बलिं प्रयछन्ति विमितेऽमितं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥३९॥
(१०,७.४० ) अप तस्य हतं तमो व्यावृत्तः स पाप्मना ।
(१०,७.४० ) सर्वाणि तस्मिन् ज्योतींषि यानि त्रीणि प्रजापतौ ॥४०॥
(१०,७.४१ ) यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद ।
(१०,७.४१ ) स वै गुह्यः प्रजापतिः ॥४१॥
(१०,७.४२ ) तन्त्रमेके युवती विरूपे अभ्याक्रामं वयतः षण्मयूखम् ।
(१०,७.४२ ) प्रान्या तन्तूंस्तिरते धत्ते अन्या नाप वृञ्जाते न गमातो अन्तम् ॥४२॥
(१०,७.४३ ) तयोरहं परिनृत्यन्त्योरिव न वि जानामि यतरा परस्तात्।
(१०,७.४३ ) पुमान् एनद्वयत्युद्गृणन्ति पुमान् एनद्वि जभाराधि नाके ॥४३॥
(१०,७.४४ ) इमे मयूखा उप तस्तभुर्दिवं सामानि चक्रुस्तसराणि वातवे ॥४४॥ {२५}
(१०,८.१ ) यो भूतं च भव्यं च सर्वं यश्चाधितिष्ठति ।
(१०,८.१ ) स्वर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥१॥
(१०,८.२ ) स्कम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः ।
(१०,८.२ ) स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन् निमिषच्च यत्॥२॥
(१०,८.३ ) तिस्रो ह प्रजा अत्यायमायन् न्यन्या अर्कमभितोऽविशन्त ।
(१०,८.३ ) बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीरा विवेश ॥३॥
(१०,८.४ ) द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत ।
(१०,८.४ ) तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥४॥
(१०,८.५ ) इदं सवितर्वि जानीहि षड्यमा एक एकजः ।
(१०,८.५ ) तस्मिन् हापित्वमिछन्ते य एषामेक एकजः ॥५॥
(१०,८.६ ) आविः सन् निहितं गुहा जरन् नाम महत्पदम् ।
(१०,८.६ ) तत्रेदं सर्वमार्पितमेजत्प्राणत्प्रतिष्ठितम् ॥६॥
(१०,८.७ ) एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा ।
(१०,८.७ ) अर्धेन विश्वं भुवनं जजान यदस्यार्धं क्व तद्बभूव ॥७॥
(१०,८.८ ) पञ्चवाही वहत्यग्रमेषां प्रष्टयो युक्ता अनुसंवहन्ति ।
(१०,८.८ ) अयातमस्य ददृशे न यातं परं नेदीयोऽवरं दवीयः ॥८॥
(१०,८.९ ) तिर्यग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् ।
(१०,८.९ ) तदासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ॥९॥
(१०,८.१० ) या पुरस्ताद्युज्यते या च पश्चाद्या विश्वतो युज्यते या च सर्वतः ।
(१०,८.१० ) यया यज्ञः प्राङ्तायते तां त्वा पृछामि कतमा सा ऋचाम् ॥१०॥ {२६}
(१०,८.११ ) यदेजति पतति यच्च तिष्ठति प्राणदप्राणन् निमिषच्च यद्भुवत्।
(१०,८.११ ) तद्दाधार पृथिवीं विश्वरूपं तत्संभूय भवत्येकमेव ॥११॥
(१०,८.१२ ) अनन्तं विततं पुरुत्रानन्तमन्तवच्चा समन्ते ।
(१०,८.१२ ) ते नाकपालश्चरति विचिन्वन् विद्वान् भूतमुत भव्यमस्य ॥१२॥
(१०,८.१३ ) प्रजापतिश्चरति गर्भे अन्तरदृश्यमानो बहुधा वि जायते ।
(१०,८.१३ ) अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥१३॥
(१०,८.१४ ) ऊर्ध्वं भरन्तमुदकं कुम्भेनेवोदहार्यम् ।
(१०,८.१४ ) पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ॥१४॥
(१०,८.१५ ) दूरे पूर्णेन वसति दूर ऊनेन हीयते ।
(१०,८.१५ ) महद्यक्षं भुवनस्य मध्ये तस्मै बलिं राष्ट्रभृतो भरन्ति ॥१५॥
(१०,८.१६ ) यतः सूर्यः उदेत्यस्तं यत्र च गछति ।
(१०,८.१६ ) तदेव मन्येऽहं ज्येष्ठं तदु नात्येति किं चन ॥१६॥
(१०,८.१७ ) ये अर्वाङ्मध्य उत वा पुराणं वेदं विद्वांसमभितो वदन्ति ।
(१०,८.१७ ) आदित्यमेव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम् ॥१७॥
(१०,८.१८ ) सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।
(१०,८.१८ ) स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥१८॥
(१०,८.१९ ) सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि पश्यति ।
(१०,८.१९ ) प्राणेन तिर्यङ्प्राणति यस्मिन् ज्येष्ठमधि श्रितम् ॥१९॥
(१०,८.२० ) यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु ।
(१०,८.२० ) स विद्वान् ज्येष्ठं मन्येत स विद्याद्ब्राह्मणं महत्॥२०॥ {२७}
(१०,८.२१ ) अपादग्रे समभवत्सो अग्रे स्वराभरत्।
(१०,८.२१ ) चतुष्पाद्भूत्वा भोग्यः सर्वमादत्त भोजनम् ॥२१॥
(१०,८.२२ ) भोग्यो भवदथो अन्नमदद्बहु ।
(१०,८.२२ ) यो देवमुत्तरावन्तमुपासातै सनातनम् ॥२२॥
(१०,८.२३ ) सनातनमेनमाहुरुताद्य स्यात्पुनर्णवः ।
(१०,८.२३ ) अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः ॥२३॥
(१०,८.२४ ) शतं सहस्रमयुतं न्यर्बुदमसंख्येयं स्वमस्मिन् निविष्टम् ।
(१०,८.२४ ) तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचतेष एतत्॥२४॥
(१०,८.२५ ) बालादेकमणीयस्कमुतैकं नेव दृश्यते ।
(१०,८.२५ ) ततः परिष्वजीयसी देवता सा मम प्रिया ॥२५॥
(१०,८.२६ ) इयं कल्याण्यजरा मर्त्यस्यामृता गृहे ।
(१०,८.२६ ) यस्मै कृता शये स यश्चकार जजार सः ॥२६॥
(१०,८.२७ ) त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी॥
(१०,८.२७ ) त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥२७॥
(१०,८.२८ ) उतैषां पितोत वा पुत्र एषामुतैषां ज्येष्ठ उत वा कनिष्ठः ।
(१०,८.२८ ) एको ह देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ॥२८॥
(१०,८.२९ ) पूर्णात्पूर्णमुदचति पूर्णं पूर्णेन सिच्यते ।
(१०,८.२९ ) उतो तदद्य विद्याम यतस्तत्परिषिच्यते ॥२९॥
(१०,८.३० ) एषा सनत्नी सनमेव जातैषा पुराणी परि सर्वं बभूव ।
(१०,८.३० ) मही देव्युषसो विभाती सैकेनैकेन मिषता वि चष्टे ॥३०॥ {२८}
(१०,८.३१ ) अविर्वै नाम देवतर्तेनास्ते परीवृता ।
(१०,८.३१ ) तस्या रूपेणेमे वृक्षा हरिता हरितस्रजः ॥३१॥
(१०,८.३२ ) अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति ।
(१०,८.३२ ) देवस्य पश्य काव्यं न ममार न जीर्यति ॥३२॥
(१०,८.३३ ) अपूर्वेणेषिता वाचस्ता वदन्ति यथायथम् ।
(१०,८.३३ ) वदन्तीर्यत्र गछन्ति तदाहुर्ब्राह्मणं महत्॥३३॥
(१०,८.३४ ) यत्र देवाश्च मनुष्याश्चारा नाभाविव श्रिताः ।
(१०,८.३४ ) अपां त्वा पुष्पं पृछामि यत्र तन् मायया हितम् ॥३४॥
(१०,८.३५ ) येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः ।
(१०,८.३५ ) य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ॥३५॥
(१०,८.३६ ) इमामेषां पृथिवीं वस्त एकोऽन्तरिक्षं पर्येको बभूव ।
(१०,८.३६ ) दिवमेषां ददते यो विधर्ता विश्वा आशाः प्रति रक्षन्त्येके ॥३६॥
(१०,८.३७ ) यो विद्यात्सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।
(१०,८.३७ ) सूत्रं सूत्रस्य यो विद्याद्स विद्याद्ब्राह्मणं महत्॥३७॥
(१०,८.३८ ) वेदाहं सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।
(१०,८.३८ ) सूत्रं सूत्रस्याहं वेदाथो यद्ब्राह्मणं महद्॥३८॥
(१०,८.३९ ) यदन्तरा द्यावापृथिवी अग्निरैत्प्रदहन् विश्वदाव्यः ।
(१०,८.३९ ) यत्रातिष्ठन्न् एकपत्नीः परस्तात्क्वेवासीन् मातरिश्वा तदानीम् ॥३९॥
(१०,८.४० ) अप्स्वासीन् मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्यासन्॥
(१०,८.४० ) बृहन् ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश ॥४०॥
(१०,८.४१ ) उत्तरेणेव गयत्रीममृतेऽधि वि चक्रमे ।
(१०,८.४१ ) साम्ना ये साम संविदुरजस्तद्ददृशे क्व ॥४१॥
(१०,८.४२ ) निवेशनः संगमनो वसूनां देव इव सविता सत्यधर्मा ।
(१०,८.४२ ) इन्द्रो न तस्थौ समरे धनानाम् ॥४२॥
(१०,८.४३ ) पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम् ।
(१०,८.४३ ) तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥४३॥
(१०,८.४४ ) अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश्चनोनः ।
(१०,८.४४ ) तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ॥४४॥ {२९}
(१०,९.१ ) अघायतामपि नह्या मुखानि सपत्नेषु वज्रमर्पयैतम् ।
(१०,९.१ ) इन्द्रेण दत्ता प्रथमा शतौदना भ्रातृव्यघ्नी यजमानस्य गातुः ॥१॥
(१०,९.२ ) वेदिष्टे चर्म भवतु बर्हिर्लोमानि यानि ते ।
(१०,९.२ ) एषा त्वा रशनाग्रभीद्ग्रावा त्वैषोऽधि नृत्यतु ॥२॥
(१०,९.३ ) बालास्ते प्रोक्षणीः सन्तु जीह्वा सं मार्ष्टु अघ्न्ये ।
(१०,९.३ ) शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने ॥३॥
(१०,९.४ ) यः शतौदनां पचति कामप्रेण स कल्पते ।
(१०,९.४ ) प्रीता ह्यस्य ऋत्विजः सर्वे यन्ति यथायथम् ॥४॥
(१०,९.५ ) स स्वर्गमा रोहति यत्रादस्त्रिदिवं दिवः ।
(१०,९.५ ) अपूपनाभिं कृत्वा यो ददाति शतौदनाम् ॥५॥
(१०,९.६ ) स तांल्लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ।
(१०,९.६ ) हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम् ॥६॥
(१०,९.७ ) ये ते देवि शमितारः पक्तारो ये च ते जनाः ।
(१०,९.७ ) ते त्वा सर्वे गोप्स्यन्ति मैभ्यो भैषीः शतौदने ॥७॥
(१०,९.८ ) वसवस्त्वा दक्षिणत उत्तरान् मरुतस्त्वा ।
(१०,९.८ ) आदित्याः पश्चाद्गोप्स्यन्ति साग्निष्टोममति द्रव ॥८॥
(१०,९.९ ) देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये ।
(१०,९.९ ) ते त्वा सर्वे गोप्स्यन्ति सातिरात्रमति द्रव ॥९॥
(१०,९.१० ) अन्तरिक्षं दिवं भूमिमादित्यान् मरुतो दिशः ।
(१०,९.१० ) लोकान्त्स सर्वान् आप्नोति यो ददाति शतौदनाम् ॥१०॥ {३०}
(१०,९.११ ) घृतं प्रोक्षन्ती सुभगा देवी देवान् गमिष्यति ।
(१०,९.११ ) पक्तारमघ्न्ये मा हिंसीर्दिवं प्रेहि शतौदने ॥११॥
(१०,९.१२ ) ये देवा दिविषदो अन्तरिक्षसदश्च ये ये चेमे भूम्यामधि ।
(१०,९.१२ ) तेभ्यस्त्वं धुक्ष्व सर्वदा क्षीरं सर्पिरथो मधु ॥१२॥
(१०,९.१३ ) यत्ते शिरो यत्ते मुखं यौ कर्णौ ये च ते हनू ।
(१०,९.१३ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१३॥
(१०,९.१४ ) यौ त ओष्ठौ ये नासिके ये शृङ्गे ये च तेऽक्षिणी ।
(१०,९.१४ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१४॥
(१०,९.१५ ) यत्ते क्लोमा यद्धृदयं पुरीतत्सहकण्ठिका ।
(१०,९.१५ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१५॥
(१०,९.१६ ) यत्ते यकृद्ये मतस्ने यदान्त्रं याश्च ते गुदाः ।
(१०,९.१६ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१६॥
(१०,९.१७ ) यस्ते प्लाशिर्यो वनिष्ठुर्यौ कुक्षी यच्च चर्म ते ।
(१०,९.१७ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१७॥
(१०,९.१८ ) यत्ते मज्जा यदस्थि यन् मंसं यच्च लोहितम् ।
(१०,९.१८ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१८॥
(१०,९.१९ ) यौ ते बाहू ये दोषणी यावंसौ या च ते ककुत्।
(१०,९.१९ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१९॥
(१०,९.२० ) यास्ते ग्रीवा ये स्कन्धा याः पृष्टीर्याश्च पर्शवः ।
(१०,९.२० ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२०॥ {३१}
(१०,९.२१ ) यौ त उरू अष्ठीवन्तौ ये श्रोणी या च ते भसत्।
(१०,९.२१ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२१॥
(१०,९.२२ ) यत्ते पुछं ये ते बाला यदूधो ये च ते स्तनाः ।
(१०,९.२२ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२२॥
(१०,९.२३ ) यास्ते जङ्घाः याः कुष्ठिका ऋछरा ये च ते शफाः ।
(१०,९.२३ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२३॥
(१०,९.२४ ) यत्ते चर्म शतौदने यानि लोमान्यघ्न्ये ।
(१०,९.२४ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२४॥
(१०,९.२५ ) क्रोडौ ते स्तां पुरोदाशावाज्येनाभिघारितौ ।
(१०,९.२५ ) तौ पक्षौ देवि कृत्वा सा पक्तारं दिवं वह ॥२५॥
(१०,९.२६ ) उलूखले मुसले यश्च चर्मणि यो वा शूर्पे तण्डुलः कणः ।
(१०,९.२६ ) यं वा वातो मातरिश्वा पवमानो ममाथाग्निष्टद्धोता सुहुतं कृणोतु ॥२६॥
(१०,९.२७ ) अपो देवीर्मधुमतीर्घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक्सादयामि ।
(१०,९.२७ ) यत्काम इदमभिषिञ्चामि वोऽहं तन् मे सर्वं सं पद्यतां वयं स्याम पतयो रयीणाम् ॥२७॥ {३२}
(१०,१०.१ ) नमस्ते जायमानायै जाताया उत ते नमः ।
(१०,१०.१ ) बालेभ्यः शफेभ्यो रूपायाघ्न्ये ते नमः ॥१॥
(१०,१०.२ ) यो विद्यात्सप्त प्रवतः सप्त विद्यात्परावतः ।
(१०,१०.२ ) शिरो यज्ञस्य यो विद्यात्स वशां प्रति गृह्णीयात्॥२॥
(१०,१०.३ ) वेदाहं सप्त प्रवतः सप्त वेद परावतः ।
(१०,१०.३ ) शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम् ॥३॥
(१०,१०.४ ) यया द्यौर्यया पृथिवी ययापो गुपिता इमाः ।
(१०,१०.४ ) वशां सहस्रधारां ब्रह्मणाछावदामसि ॥४॥
(१०,१०.५ ) शतं कंसाः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः ।
(१०,१०.५ ) ये देवास्तस्यां प्राणन्ति ते वशां विदुरेकधा ॥५॥
(१०,१०.६ ) यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका ।
(१०,१०.६ ) वशा पर्जन्यपत्नी देवामप्येति ब्रह्मणा ॥६॥
(१०,१०.७ ) अनु त्वाग्निः प्राविशदनु सोमो वशे त्वा ।
(१०,१०.७ ) ऊधस्ते भद्रे पर्जन्यो विद्युतस्ते स्तना वशे ॥७॥
(१०,१०.८ ) अपस्त्वं धुक्षे प्रथमा उर्वरा अपरा वशे ।
(१०,१०.८ ) तृतीयं राष्ट्रं धुक्षेऽन्नं क्षीरं वशे त्वम् ॥८॥
(१०,१०.९ ) यदादित्यैर्हूयमानोपातिष्ठ ऋतवरि ।
(१०,१०.९ ) इन्द्रः सहस्रं पात्रान्त्सोमं त्वापाययद्वशे ॥९॥
(१०,१०.१० ) यदनूचीन्द्रमैरात्त्वा ऋषभोऽह्वयत्।
(१०,१०.१० ) तस्मात्ते वृत्रहा पयः क्षीरं क्रुद्धोऽहरद्वशे ॥१०॥ {३३}
(१०,१०.११ ) यत्ते क्रुद्धो धनपतिरा क्षीरमहरद्वशे ।
(१०,१०.११ ) इदं तदद्य नाकस्त्रिषु पात्रेषु रक्षति ॥११॥
(१०,१०.१२ ) त्रिषु पात्रेषु तं सोममा देव्यहरद्वशा ।
(१०,१०.१२ ) अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये ॥१२॥
(१०,१०.१३ ) सं हि सोमेनागत समु सर्वेण पद्वता ।
(१०,१०.१३ ) वशा समुद्रमध्यष्ठद्गन्धर्वैः कलिभिः सह ॥१३॥
(१०,१०.१४ ) सं हि वातेनागत समु सर्वैः पतत्रिभिः ।
(१०,१०.१४ ) वशा समुद्रे प्रानृत्यदृचः सामानि बिभ्रती ॥१४॥
(१०,१०.१५ ) सं हि सूर्येणागत समु सर्वेण चक्षुषा ।
(१०,१०.१५ ) वशा समुद्रमत्यख्यद्भद्रा ज्योतींषि बिभ्रती ॥१५॥
(१०,१०.१६ ) अभीवृता हिरण्येन यदतिष्ठ ऋतावरि ।
(१०,१०.१६ ) अश्वः समुद्रो भूत्वाध्यस्कन्दद्वशे त्वा ॥१६॥
(१०,१०.१७ ) तद्भद्राः समगछन्त वशा देष्ट्र्यथो स्वधा ।
(१०,१०.१७ ) अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये ॥१७॥
(१०,१०.१८ ) वशा माता राजन्यस्य वशा माता स्वधे तव ।
(१०,१०.१८ ) वशाया यज्ञ आयुधं ततश्चित्तमजायत ॥१८॥
(१०,१०.१९ ) ऊर्ध्वो बिन्दुरुदचरद्ब्रह्मणः ककुदादधि ।
(१०,१०.१९ ) ततस्त्वं जज्ञिषे वशे ततो होताजायत ॥१९॥
(१०,१०.२० ) आस्नस्ते गाथा अभवन्न् उष्णिहाभ्यो बलं वशे ।
(१०,१०.२० ) पाजस्याज्जज्ञे यज्ञ स्तनेभ्यो रश्मयस्तव ॥२०॥ {३४}
(१०,१०.२१ ) ईर्माभ्यामयनं जातं सक्थिभ्यां च वशे तव ।
(१०,१०.२१ ) आन्त्रेभ्यो जज्ञिरे अत्रा उदरादधि वीरुधः ॥२१॥
(१०,१०.२२ ) यदुदरं वरुणस्यानुप्राविशथा वशे ।
(१०,१०.२२ ) ततस्त्वा ब्रह्मोदह्वयत्स हि नेत्रमवेत्तव ॥२२॥
(१०,१०.२३ ) सर्वे गर्भादवेपन्त जायमानादसूस्वः ।
(१०,१०.२३ ) ससूव हि तामाहु वशेति ब्रह्मभिः कॢप्तः स ह्यस्या बन्धुः ॥२३॥
(१०,१०.२४ ) युध एकः सं सृजति यो अस्या एक इद्वशी ।
(१०,१०.२४ ) तरांसि यज्ञा अभवन् तरसां चक्षुरभवद्वशा ॥२४॥
(१०,१०.२५ ) वशा यज्ञं प्रत्यगृह्णाद्वशा सूर्यमधारयत्।
(१०,१०.२५ ) वशायामन्तरविशदोदनो ब्रह्मणा सह ॥२५॥
(१०,१०.२६ ) वशामेवामृतमाहुर्वशां मृत्युमुपासते ।
(१०,१०.२६ ) वशेदं सर्वमभवद्देवा मनुष्या असुराः पितर ऋषयः ॥२६॥
(१०,१०.२७ ) य एवं विद्यात्स वशां प्रति गृह्णीयात्।
(१०,१०.२७ ) तथा हि यज्ञः सर्वपाद्दुहे दात्रेऽनपस्फुरन् ॥२७॥
(१०,१०.२८ ) तिस्रो जिह्वा वरुणस्यान्तर्दीद्यत्यासनि ।
(१०,१०.२८ ) तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा ॥२८॥
(१०,१०.२९ ) चतुर्धा रेतो अभवद्वशायाः ।
(१०,१०.२९ ) आपस्तुरीयममृतं तुरीयं यज्ञस्तुरीयं पशवस्तुरीयम् ॥२९॥
(१०,१०.३० ) वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः ।
(१०,१०.३० ) वशाया दुग्धमपिबन्त्साध्या वसवश्च ये ॥३०॥
(१०,१०.३१ ) वशाया दुग्धं पीत्वा साध्या वसवश्च ये ।
(१०,१०.३१ ) ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते ॥३१॥
(१०,१०.३२ ) सोममेनामेके दुह्रे घृतमेक उपासते ।
(१०,१०.३२ ) य एवं विदुषे वशां ददुस्ते गतास्त्रिदिवं दिवः ॥३२॥
(१०,१०.३३ ) ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल्लोकान्त्समश्नुते ।
(१०,१०.३३ ) ऋतं ह्यस्यामार्पितमपि ब्रह्माथो तपः ॥३३॥
(१०,१०.३४ ) वशां देवा उप जीवन्ति वशां मनुष्या उत ।
(१०,१०.३४ ) वशेदं सर्वमभवद्यावत्सूर्यो विपश्यति ॥३४॥ {३५}
(११,१.१ ) अग्ने जायस्वादितिर्नाथितेयं ब्रह्मौदनं पचति पुत्रकामा ।
(११,१.१ ) सप्तऋषयो भूतकृतस्ते त्वा मन्थन्तु प्रजया सहेह ॥१॥
(११,१.२ ) कृणुत धूमं वृषणः सखायोऽद्रोघाविता वाचमछ ।
(११,१.२ ) अयमग्निः पृतनाषाट्सुवीरो येन देवा असहन्त दस्यून् ॥२॥
(११,१.३ ) अग्नेऽजनिष्ठा महते वीर्याय ब्रह्मौदनाय पक्तवे जातवेदः ।
(११,१.३ ) सप्तऋषयो भूतकृतस्ते त्वाजीजनन्न् अस्यै रयिं सर्ववीरं नि यछ ॥३॥
(११,१.४ ) समिद्धो अग्ने समिधा समिध्यस्व विद्वान् देवान् यज्ञियामेह वक्षः ।
(११,१.४ ) तेभ्यो हविः श्रपयं जातवेद उत्तमं नाकमधि रोहयेमम् ॥४॥
(११,१.५ ) त्रेधा भागो निहितो यः पुरा वो देवानां पितॄणां मर्त्यानाम् ।
(११,१.५ ) अंशां जानीध्वं वि भजामि तान् वो यो देवानां स इमां पारयाति ॥५॥
(११,१.६ ) अग्ने सहस्वान् अभिभूरभीदसि नीचो न्युब्ज द्विषतः सपत्नान् ।
(११,१.६ ) इयं मात्रा मीयमाना मिता च सजातांस्ते बलिहृतः कृणोतु ॥६॥
(११,१.७ ) साकं सजातैः पयसा सहैध्युदुब्जैनां महते वीर्याय ।
(११,१.७ ) ऊर्ध्वो नाकस्याधि रोह विष्टपं स्वर्गो लोक इति यं वदन्ति ॥७॥
(११,१.८ ) इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना ।
(११,१.८ ) अथ गछेम सुकृतस्य लोकम् ॥८॥
(११,१.९ ) एतौ ग्रावाणौ सयुजा युङ्धि चर्मणि निर्बिन्ध्यंशून् यजमानाय साधु ।
(११,१.९ ) अवघ्नती नि जहि य इमां पृतन्यव ऊर्ध्वं प्रजामुद्भरन्त्युदूह ॥९॥
(११,१.१० ) गृहाण ग्रावाणौ सकृतौ वीर हस्त आ ते देवा यज्ञिया यज्ञमगुः ।
(११,१.१० ) त्रयो वरा यतमांस्त्वं वृणीषे तास्ते समृद्धीरिह राधयामि ॥१०॥ {१}
(११,१.११ ) इयं ते धीतिरिदमु ते जनित्रं गृह्णातु त्वामदितिः शूरपुत्रा ।
(११,१.११ ) परा पुनीहि य इमां पृतन्यवोऽस्यै रयिं सर्ववीरं नि यछ ॥११॥
(११,१.१२ ) उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस्तुषैः ।
(११,१.१२ ) श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥१२॥
(११,१.१३ ) परेहि नारि पुनरेहि क्षिप्रमपां त्वा गोष्ठो अध्यरुक्षद्भराय ।
(११,१.१३ ) तासां गृह्णीताद्यतमा यज्ञिया असन् विभाज्य धीरीतरा जहीतात्॥१३॥
(११,१.१४ ) एमा अगुर्योषितः शुम्भमाना उत्तिष्ठ नारि तवसं रभस्व ।
(११,१.१४ ) सुपत्नी पत्या प्रजया प्रजावत्या त्वागन् यज्ञः प्रति कुम्भं गृभाय ॥१४॥
(११,१.१५ ) ऊर्जो भागो निहितो यः पुरा व ऋषिप्रशिष्टाप आ भरैताः ।
(११,१.१५ ) अयं यज्ञो गातुविन् नाथवित्प्रजाविदुग्रः पशुविद्वीरविद्वो अस्तु ॥१५॥
(११,१.१६ ) अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षच्छुचिस्तपिष्ठस्तपसा तपैनम् ।
(११,१.१६ ) आर्षेया दैवा अभिसंगत्य भागमिमं तपिष्ठा ऋतुभिस्तपन्तु ॥१६॥
(११,१.१७ ) शुद्धाः पूता योषितो यज्ञिया इमा आपश्चरुमव सर्पन्तु शुभ्राः ।
(११,१.१७ ) अदुः प्रजां बहुलां पशून् नः पक्तौदनस्य सुकृतामेतु लोकम् ॥१७॥
(११,१.१८ ) ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस्तण्डुला यज्ञिया इमे ।
(११,१.१८ ) अपः प्र विशत प्रति गृह्णातु वश्चरुरिमं पक्त्वा सुकृतामेत लोकम् ॥१८॥
(११,१.१९ ) उरुः प्रथस्व महता महिम्ना सहस्रपृष्ठः सुकृतस्य लोके ।
(११,१.१९ ) पितामहाः पितरः प्रजोपजाहं पक्ता पञ्चदशस्ते अस्मि ॥१९॥
(११,१.२० ) सहस्रपृष्ठः शतधारो अक्षितो ब्रह्मौदनो देवयानः स्वर्गः ।
(११,१.२० ) अमूंस्त आ दधामि प्रजया रेषयैनान् बलिहाराय मृडतान् मह्यमेव ॥२०॥ {२}
(११,१.२१ ) उदेहि वेदिं प्रजया वर्धयैनां नुदस्व रक्षः प्रतरं धेह्येनाम् ।
(११,१.२१ ) श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥२१॥
(११,१.२२ ) अभ्यावर्तस्व पशुभिः सहैनां प्रत्यङ्ङेनां देवताभिः सहैधि ।
(११,१.२२ ) मा त्वा प्रापच्छपथो माभिचारः स्वे क्षेत्रे अनमीवा वि राज ॥२२॥
(११,१.२३ ) ऋतेन तष्टा मनसा हितैषा ब्रह्मौदनस्य विहिता वेदिरग्रे ।
(११,१.२३ ) अंसध्रीं शुद्धामुप धेहि नारि तत्रौदनं सादय दैवानाम् ॥२३॥
(११,१.२४ ) अदितेर्हस्तां स्रुचमेतां द्वितीयां सप्तऋषयो भूतकृतो यामकृण्वन् ।
(११,१.२४ ) सा गात्राणि विदुष्योदनस्य दर्विर्वेद्यामध्येनं चिनोतु ॥२४॥
(११,१.२५ ) शृतं त्वा हव्यमुप सीदन्तु दैवा निःसृप्याग्नेः पुनरेनान् प्र सीद ।
(११,१.२५ ) सोमेन पूतो जठरे सीद ब्रह्मणामार्षेयास्ते मा रिषन् प्राशितारः ॥२५॥
(११,१.२६ ) सोम राजन्त्संज्ञानमा वपैभ्यः सुब्राह्मणा यतमे त्वोपसीदान् ।
(११,१.२६ ) ऋषीन् आर्षेयांस्तपसोऽधि जातान् ब्रह्मौदने सुहवा जोहवीमि ॥२६॥
(११,१.२७ ) शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि ।
(११,१.२७ ) यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददादिदं मे ॥२७॥
(११,१.२८ ) इदं मे ज्योतिरमृतं हिरण्यं पक्वं क्षेत्रात्कामदुघा म एषा ।
(११,१.२८ ) इदं धनं नि दधे ब्राह्मणेषु कृण्वे पन्थां पितृषु यः स्वर्गः ॥२८॥
(११,१.२९ ) अग्नौ तुषान् आ वप जातवेदसि परः कम्बूकामप मृड्ढि दूरम् ।
(११,१.२९ ) एतं शुश्रुम गृहराजस्य भागमथो विद्म निरृतेर्भागधेयम् ॥२९॥
(११,१.३० ) श्राम्यतः पचतो विद्धि सुन्वतः पन्थां स्वर्गमधि रोहयैनम् ।
(११,१.३० ) येन रोहात्परमापद्य यद्वय उत्तमं नाकं परमं व्योम ॥३०॥ {३}
(११,१.३१ ) बभ्रेरध्वर्यो मुखमेतद्वि मृड्ढ्याज्याय लोकं कृणुहि प्रविद्वान् ।
(११,१.३१ ) घृतेन गात्रानु सर्वा वि मृड्ढि कृण्वे पन्थां पितृषु यः स्वर्गः ॥३१॥
(११,१.३२ ) बभ्रे रक्षः समदमा वपैभ्योऽब्राह्मणा यतमे त्वोपसीदान् ।
(११,१.३२ ) पुरीषिणः प्रथमानाः पुरस्तादार्षेयास्ते मा रिषन् प्राशितारः ॥३२॥
(११,१.३३ ) आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणामप्यस्त्यत्र ।
(११,१.३३ ) अग्निर्मे गोप्ता मरुतश्च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम् ॥३३॥
(११,१.३४ ) यज्ञं दुहानं सदमित्प्रपीनं पुमांसं धेनुं सदनं रयीणाम् ।
(११,१.३४ ) प्रजामृतत्वमुत दीर्घमायू रायश्च पोषैरुप त्वा सदेम ॥३४॥
(११,१.३५ ) वृषभोऽसि स्वर्ग ऋषीन् आर्षेयान् गछ ।
(११,१.३५ ) सुकृतां लोके सीद तत्र नौ संस्कृतम् ॥३५॥
(११,१.३६ ) समाचिनुष्वानुसंप्रयाह्यग्ने पथः कल्पय देवयानान् ।
(११,१.३६ ) एतैः सुकृतैरनु गछेम यज्ञं नाके तिष्ठन्तमधि सप्तरश्मौ ॥३६॥
(११,१.३७ ) येन देवा ज्योतिषा द्यामुदायन् ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम् ।
(११,१.३७ ) तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥३७॥ {४}
(११,२.१ ) भवाशर्वौ मृडतं माभि यातं भूतपती पशुपती नमो वाम् ।
(११,२.१ ) प्रतिहितामायतां मा वि स्राष्टं मा नो हिंसिष्टं द्विपदो मा चतुष्पदः ॥१॥
(११,२.२ ) शुने क्रोष्ट्रे मा शरीराणि कर्तमलिक्लवेभ्यो गृध्रेभ्यो ये च कृष्णा अविष्यवः ।
(११,२.२ ) मक्षिकास्ते पशुपते वयांसि ते विघसे मा विदन्त ॥२॥
(११,२.३ ) क्रन्दाय ते प्राणाय याश्च ते भव रोपयः ।
(११,२.३ ) नमस्ते रुद्र कृण्मः सहस्राक्षायामर्त्य ॥३॥
(११,२.४ ) पुरस्तात्ते नमः कृण्म उत्तरादधरादुत ।
(११,२.४ ) अभीवर्गाद्दिवस्पर्यन्तरिक्षाय ते नमः ॥४॥
(११,२.५ ) मुखाय ते पशुपते यानि चक्षूंषि ते भव ।
(११,२.५ ) त्वचे रूपाय संदृशे प्रतीचीनाय ते नमः ॥५॥
(११,२.६ ) अङ्गेभ्यस्त उदराय जिह्वाया आस्याय ते ।
(११,२.६ ) दद्भ्यो गन्धाय ते नमः ॥६॥
(११,२.७ ) अस्त्रा नीलशिखण्डेन सहस्राक्षेण वाजिना ।
(११,२.७ ) रुद्रेणार्धकघातिना तेन मा समरामहि ॥७॥
(११,२.८ ) स नो भवः परि वृणक्तु विश्वत आप इवाग्निः परि वृणक्तु नो भवः ।
(११,२.८ ) मा नोऽभि मांस्त नमो अस्त्वस्मै ॥८॥
(११,२.९ ) चतुर्नमो अष्टकृत्वो भवाय दश कृत्वः पशुपते नमस्ते ।
(११,२.९ ) तवेमे पञ्च पशवो विभक्ता गावो अश्वाः पुरुषा अजावयः ॥९॥
(११,२.१० ) तव चतस्रः प्रदिशस्तव द्यौस्तव पृथिवी तवेदमुग्रोर्वन्तरिक्षम् ।
(११,२.१० ) तवेदं सर्वमात्मन्वद्यत्प्राणत्पृथिवीमनु ॥१०॥ {५}
(११,२.११ ) उरुः कोशो वसुधानस्तवायं यस्मिन्न् इमा विश्वा भुवनान्यन्तः ।
(११,२.११ ) स नो मृड पशुपते नमस्ते परः क्रोष्टारो अभिभाः श्वानः परो यन्त्वघरुदो विकेश्यः ॥११॥
(११,२.१२ ) धनुर्बिभर्षि हरितं हिरण्ययं सहस्रघ्निं शतवधं शिखण्डिन् ।
(११,२.१२ ) रुद्रस्येषुश्चरति देवहेतिस्तस्यै नमो यतमस्यां दिशीतः ॥१२॥
(११,२.१३ ) योऽभियातो निलयते त्वां रुद्र निचिकीर्षति ।
(११,२.१३ ) पश्चादनुप्रयुङ्क्षे तं विद्धस्य पदनीरिव ॥१३॥
(११,२.१४ ) भवारुद्रौ सयुजा संविदानावुभावुग्रौ चरतो वीर्याय ।
(११,२.१४ ) ताभ्यां नमो यतमस्यां दिशीतः ॥१४॥
(११,२.१५ ) नमस्ते अस्त्वायते नमो अस्तु परायते ।
(११,२.१५ ) नमस्ते रुद्र तिष्ठत आसीनायोत ते नमः ॥१५॥
(११,२.१६ ) नमः सायं नमः प्रातर्नमो रात्र्या नमो दिवा ।
(११,२.१६ ) भवाय च शर्वाय चोभाभ्यामकरं नमः ॥१६॥
(११,२.१७ ) सहस्राक्षमतिपश्यं पुरस्ताद्रुद्रमस्यन्तं बहुधा विपश्चितम् ।
(११,२.१७ ) मोपाराम जिह्वयेयमानम् ॥१७॥
(११,२.१८ ) श्यावाश्वं कृष्णमसितं मृणन्तं भीमं रथं केशिनः पादयन्तम् ।
(११,२.१८ ) पूर्वे प्रतीमो नमो अस्त्वस्मै ॥१८॥
(११,२.१९ ) मा नोऽभि स्रा मत्यं देवहेतिं मा नः क्रुधः पशुपते नमस्ते ।
(११,२.१९ ) अन्यत्रास्मद्दिव्यां शाखां वि धूनु ॥१९॥
(११,२.२० ) मा नो हिंसीरधि नो ब्रूहि परि णो वृङ्धि मा क्रुधः ।
(११,२.२० ) मा त्वया समरामहि ॥२०॥ {६}
(११,२.२१ ) मा नो गोषु पुरुषेषु मा गृधो नो अजाविषु ।
(११,२.२१ ) अन्यत्रोग्र वि वर्तय पियारूणां प्रजां जहि ॥२१॥
(११,२.२२ ) यस्य तक्मा कासिका हेतिरेकमश्वस्येव वृषणः क्रन्द एति ।
(११,२.२२ ) अभिपूर्वं निर्णयते नमो अस्त्वस्मै ॥२२॥
(११,२.२३ ) योऽन्तरिक्षे तिष्ठति विष्टभितोऽयज्वनः प्रमृणन् देवपीयून् ।
(११,२.२३ ) तस्मै नमो दशभिः शक्वरीभिः ॥२३॥
(११,२.२४ ) तुभ्यमारण्याः पशवो मृगा वने हिता हंसाः सुपर्णाः शकुना वयांसि ।
(११,२.२४ ) तव यक्षं पशुपते अप्स्वन्तस्तुभ्यं क्षरन्ति दिव्या आपो वृधे ॥२४॥
(११,२.२५ ) शिंशुमारा अजगराः पुरीकया जषा मत्स्या रजसा येभ्यो अस्यसि ।
(११,२.२५ ) न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वां परि पश्यसि भूमिं पूर्वस्माद्धंस्युत्तरस्मिन्त्समुद्रे ॥२५॥
(११,२.२६ ) मा नो रुद्र तक्मना मा विषेण मा नः सं स्रा दिव्येनाग्निना ।
(११,२.२६ ) अन्यत्रास्मद्विद्युतं पातयैताम् ॥२६॥
(११,२.२७ ) भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्वन्तरिक्षम् ।
(११,२.२७ ) तस्यै नमो यतमस्यां दिशीतः ॥२७॥
(११,२.२८ ) भव राजन् यजमानाय मृड पशूनां हि पशुपतिर्बभूथ ।
(११,२.२८ ) यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदेऽस्य मृड ॥२८॥
(११,२.२९ ) मा नो महान्तमुत मा नो अर्भकं मा नो वहन्तमुत मा नो वक्ष्यतः ।
(११,२.२९ ) मा नो हिंसीः पितरं मातरं च स्वां तन्वं रुद्र मा रीरिषो नः ॥२९॥
(११,२.३० ) रुद्रस्यैलबकारेभ्योऽसंसूक्तगिलेभ्यः ।
(११,२.३० ) इदं महास्येभ्यः श्वभ्यो अकरं नमः ॥३०॥
(११,२.३१ ) नमस्ते घोषिणीभ्यो नमस्ते केशिनीभ्यः ।
(११,२.३१ ) नमो नमस्कृताभ्यो नमः संभुञ्जतीभ्यः ।
(११,२.३१ ) नमस्ते देव सेनाभ्यः स्वस्ति नो अभयं च नः ॥३१॥ {७}
(११,३.१ ) तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखम् ॥१॥
(११,३.२ ) द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसावक्षिणी सप्तऋषयः प्राणापानाः ॥२॥
(११,३.३ ) चक्षुर्मुसलं काम उलूखलम् ॥३॥
(११,३.४ ) दितिः शूर्पमदितिः शूर्पग्राही वातोऽपाविनक्॥४॥
(११,३.५ ) अश्वाः कणा गावस्तण्डुला मशकास्तुषाः ॥५॥
(११,३.६ ) कब्रु फलीकरणाः शरोऽभ्रम् ॥६॥
(११,३.७ ) श्याममयोऽस्य मांसानि लोहितमस्य लोहितम् ॥७॥
(११,३.८ ) त्रपु भस्म हरितं वर्णः पुष्करमस्य गन्धः ॥८॥
(११,३.९ ) खलः पात्रं स्फ्यावंसावीषे अनूक्ये ॥९॥
(११,३.१० ) आन्त्राणि जत्रवो गुदा वरत्राः ॥१०॥
(११,३.११ ) इयमेव पृथिवी कुम्भी भवति राध्यमानस्यौदनस्य द्यौरपिधानम् ॥११॥
(११,३.१२ ) सीताः पर्शवः सिकता ऊबध्यम् ॥१२॥
(११,३.१३ ) ऋतं हस्तावनेजनं कुल्योपसेचनम् ॥१३॥
(११,३.१४ ) ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेषिता ॥१४॥
(११,३.१५ ) ब्रह्मणा परिगृहीता साम्ना पर्यूढा ॥१५॥
(११,३.१६ ) बृहदायवनं रथन्तरं दर्विः ॥१६॥
(११,३.१७ ) ऋतवः पक्तार आर्तवाः समिन्धते ॥१७॥
(११,३.१८ ) चरुं पञ्चबिलमुखं घर्मोऽभीन्धे ॥१८॥ [नोते COऋऋईङ्Eण्डा एद्. श्ড়्ড়्]
(११,३.१९ ) ओदनेन यज्ञवतः सर्वे लोकाः समाप्याः ॥१९॥
(११,३.२० ) यस्मिन्त्समुद्रो द्यौर्भूमिस्त्रयोऽवरपरं श्रिताः ॥२०॥
(११,३.२१ ) यस्य देवा अकल्पन्तोच्छिष्टे षडशीतयः ॥२१॥
(११,३.२२ ) तं त्वौदनस्य पृछामि यो अस्य महिमा महान् ॥२२॥
(११,३.२३ ) स य ओदनस्य महिमानं विद्यात्॥२३॥
(११,३.२४ ) नाल्प इति ब्रूयान् नानुपसेचन इति नेदं च किं चेति ॥२४॥
(११,३.२५ ) यावद्दाताभिमनस्येत तन् नाति वदेत्॥२५॥
(११,३.२६ ) ब्रह्मवादिनो वदन्ति पराञ्चमोदनं प्राशी३ः प्रत्यञ्चा३ इति ॥२६॥
(११,३.२७ ) त्वमोदनं प्राशी३ त्वामोदना३ इति ॥२७॥
(११,३.२८ ) पराञ्चं चैनं प्राशीः प्राणास्त्वा हास्यन्तीत्येनमाह ॥२८॥
(११,३.२९ ) प्रत्यञ्चं चैनं प्राशीरपानास्त्वा हास्यन्तीत्येनमाह ॥२९॥
(११,३.३० ) नैवाहमोदनं न मामोदनः ॥३०॥
(११,३.३१ ) ओदन एवौदनं प्राशीत्॥३१॥ {८}
(११,३.३२[४.१]अ) ततश्चैनमन्येन शीर्ष्णा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
(११,३.३२[४.१]ब्) ज्येष्ठतस्ते प्रजा मरिष्यतीत्येनमाह ।
(११,३.३२[४.१]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
(११,३.३२[४.१]द्) बृहस्पतिना शीर्ष्णा ।
(११,३.३२[४.१]ए) तेनैनं प्राशिषं तेनैनमजीगमम् ।
(११,३.३२[४.१]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
(११,३.३२[४.१]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३२॥ [१]
(११,३.३३[४.२]अ) ततश्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
(११,३.३३[४.२]ब्) बधिरो भविष्यसीत्येनमाह ।
(११,३.३३[४.२]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
(११,३.३३[४.२]द्) द्यावापृथिवीभ्यां श्रोत्राभ्याम् ।
(११,३.३३[४.२]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
(११,३.३३[४.२]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
(११,३.३३[४.२]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३३॥ [२]
(११,३.३४[४.३]अ) ततश्चैनमन्याभ्यामक्षीभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
(११,३.३४[४.३]ब्) अन्धो भविष्यसीत्येनमाह ।
(११,३.३४[४.३]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
(११,३.३४[४.३]द्) सूर्याचन्द्रमसाभ्यामक्षीभ्याम् ।
(११,३.३४[४.३]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
(११,३.३४[४.३]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
(११,३.३४[४.३]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३४॥ [३]
(११,३.३५[४.४]अ) ततश्चैनमन्येन मुखेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
(११,३.३५[४.४]ब्) मुखतस्ते प्रजा मरिष्यतीत्येनमाह ।
(११,३.३५[४.४]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
(११,३.३५[४.४]द्) ब्रह्मणा मुखेन ।
(११,३.३५[४.४]ए) तेनैनं प्राशिषं तेनैनमजीगमम् ।
(११,३.३५[४.४]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
(११,३.३५[४.४]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३५॥ [४]
(११,३.३६[४.५]अ) ततश्चैनमन्यया जिह्वया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् ।
(११,३.३६[४.५]ब्) जिह्वा ते मरिष्यतीत्येनमाह ।
(११,३.३६[४.५]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
(११,३.३६[४.५]द्) अग्नेर्जिह्वया ।
(११,३.३६[४.५]ए) तयैनं प्राशिषं तयैनमजीगमम् ।
(११,३.३६[४.५]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
(११,३.३६[४.५]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३६॥ [५]
(११,३.३७[४.६]अ) ततश्चैनमन्यैर्दन्तैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् ।
(११,३.३७[४.६]ब्) दन्तास्ते शत्स्यन्तीत्येनमाह ।
(११,३.३७[४.६]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
(११,३.३७[४.६]द्) ऋतुभिर्दन्तैः ।
(११,३.३७[४.६]ए) तैरेनं प्राशिषं तैरेनमजीगमम् ।
(११,३.३७[४.६]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
(११,३.३७[४.६]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३७॥ [६]
(११,३.३८[४.७]अ) ततश्चैनमन्यैः प्राणापानैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् ।
(११,३.३८[४.७]ब्) प्राणापानास्त्वा हास्यन्तीत्येनमाह ।
(११,३.३८[४.७]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
(११,३.३८[४.७]द्) सप्तऋषिभिः प्राणापानैः ।
(११,३.३८[४.७]ए) तैरेनं प्राशिषं तैरेनमजीगमम् ।
(११,३.३८[४.७]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
(११,३.३८[४.७]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३८॥ [७]
(११,३.३९[४.८]अ) ततश्चैनमन्येन व्यचसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
(११,३.३९[४.८]ब्) राजयक्ष्मस्त्वा हनिष्यतीत्येनमाह ।
(११,३.३९[४.८]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
(११,३.३९[४.८]द्) अन्तरिक्षेण व्यचसा ।
(११,३.३९[४.८]ए) तेनैनं प्राशिषं तेनैनमजीगमम् ।
(११,३.३९[४.८]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
(११,३.३९[४.८]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३९॥ [८]
(११,३.४०[४.९]अ) ततश्चैनमन्येन पृष्ठेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
(११,३.४०[४.९]ब्) विद्युत्त्वा हनिष्यतीत्येनमाह ।
(११,३.४०[४.९]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
(११,३.४०[४.९]द्) दिवा पृष्ठेन ।
(११,३.४०[४.९]ए) तेनैनं प्राशिषं तेनैनमजीगमम् ।
(११,३.४०[४.९]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
(११,३.४०[४.९]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४०॥ [९]
(११,३.४१[४.१०]अ) ततश्चैनमन्येनोरसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
(११,३.४१[४.१०]ब्) कृष्या न रात्स्यसीत्येनमाह ।
(११,३.४१[४.१०]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
(११,३.४१[४.१०]द्) पृथिव्योरसा ।
(११,३.४१[४.१०]ए) तेनैनं प्राशिषं तेनैनमजीगमम् ।
(११,३.४१[४.१०]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
(११,३.४१[४.१०]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४१॥ [१०]
(११,३.४२[४.११]अ) ततश्चैनमन्येनोदरेण प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
(११,३.४२[४.११]ब्) उदरदारस्त्वा हनिष्यतीत्येनमाह ।
(११,३.४२[४.११]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
(११,३.४२[४.११]द्) सत्येनोदरेण ।
(११,३.४२[४.११]ए) तेनैनं प्राशिषं तेनैनमजीगमम् ।
(११,३.४२[४.११]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
(११,३.४२[४.११]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४२॥ [११]
(११,३.४३[४.१२]अ) ततश्चैनमन्येन वस्तिना प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
(११,३.४३[४.१२]ब्) अप्सु मरिष्यसीत्येनमाह ।
(११,३.४३[४.१२]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
(११,३.४३[४.१२]द्) समुद्रेण वस्तिना ।
(११,३.४३[४.१२]ए) तेनैनं प्राशिषं तेनैनमजीगमम् ।
(११,३.४३[४.१२]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
(११,३.४३[४.१२]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४३॥ [१२]
(११,३.४४[४.१३]अ) ततश्चैनमन्याभ्यामूरुभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
(११,३.४४[४.१३]ब्) ऊरू ते मरिष्यत इत्येनमाह ।
(११,३.४४[४.१३]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
(११,३.४४[४.१३]द्) मित्रावरुणयोरूरुभ्याम् ।
(११,३.४४[४.१३]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
(११,३.४४[४.१३]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
(११,३.४४[४.१३]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४४॥ [१३]
(११,३.४५[४.१४]अ) ततश्चैनमन्याभ्यामष्ठीवद्भ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
(११,३.४५[४.१४]ब्) स्रामो भविष्यसीत्येनमाह ।
(११,३.४५[४.१४]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
(११,३.४५[४.१४]द्) त्वष्टुरष्ठीवद्भ्याम् ।
(११,३.४५[४.१४]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
(११,३.४५[४.१४]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
(११,३.४५[४.१४]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४५॥ [१४]
(११,३.४६[४.१५]अ) ततश्चैनमन्याभ्यां पादाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
(११,३.४६[४.१५]ब्) बहुचारी भविष्यसीत्येनमाह ।
(११,३.४६[४.१५]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
(११,३.४६[४.१५]द्) अश्विनोः पादाभ्याम् ।
(११,३.४६[४.१५]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
(११,३.४६[४.१५]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
(११,३.४६[४.१५]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४६॥ [१५]
(११,३.४७[४.१६]अ) ततश्चैनमन्याभ्यां प्रपदाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
(११,३.४७[४.१६]ब्) सर्पस्त्वा हनिष्यतीत्येनमाह ।
(११,३.४७[४.१६]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
(११,३.४७[४.१६]द्) सवितुः प्रपदाभ्याम् ।
(११,३.४७[४.१६]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
(११,३.४७[४.१६]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
(११,३.४७[४.१६]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४७॥ [१६]
(११,३.४८[४.१७]अ) ततश्चैनमन्याभ्यां हस्ताभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
(११,३.४८[४.१७]ब्) ब्राह्मणं हनिष्यसीत्येनमाह ।
(११,३.४८[४.१७]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
(११,३.४८[४.१७]द्) ऋतस्य हस्ताभ्याम् ।
(११,३.४८[४.१७]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
(११,३.४८[४.१७]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
(११,३.४८[४.१७]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४८॥ [१७]
(११,३.४९[४.१८]अ) ततश्चैनमन्यया प्रतिष्ठया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् ।
(११,३.४९[४.१८]ब्) अप्रतिष्ठानोऽनायतनो मरिष्यसीत्येनमाह ।
(११,३.४९[४.१८]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
(११,३.४९[४.१८]द्) सत्ये प्रतिष्ठाय ।
(११,३.४९[४.१८]ए) तयैनं प्राशिषं तयैनमजीगमम् ।
(११,३.४९[४.१८]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
(११,३.४९[४.१८]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४९॥ [१८] {९}
(११,३.५०[५.१]अ) एतद्वै ब्रध्नस्य विष्टपं यदोदनः ॥५०॥ [१]
(११,३.५१[५.२]अ) ब्रध्नलोको भवति ब्रध्नस्य विष्टपि श्रयते य एवं वेद ॥५१॥ [२]
(११,३.५२[५.३]अ) एतस्माद्वा ओदनात्त्रयस्त्रिंशतं लोकान् निरमिमीत प्रजापतिः ॥५२॥ [३]
(११,३.५३[५.४]अ) तेषां प्रज्ञानाय यज्ञमसृजत ॥५३॥ [४]
(११,३.५४[५.५]अ) स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ॥५४॥ [५]
(११,३.५५[५.६]अ) न च प्राणं रुणद्धि सर्वज्यानिं जीयते ॥५५॥ [६]
(११,३.५६[५.७]अ) न च सर्वज्यानिं जीयते पुरैनं जरसः प्राणो जहाति ॥५६॥ [७] {१०}
(११,४[६].१ ) प्राणाय नमो यस्य सर्वमिदं वशे ।
(११,४[६].१ ) यो भूतः सर्वस्येश्वरो यस्मिन्त्सर्वं प्रतिष्ठितम् ॥१॥
(११,४[६].२ ) नमस्ते प्राण क्रन्दाय नमस्ते स्तनयित्नवे ।
(११,४[६].२ ) नमस्ते प्राण विद्युते नमस्ते प्राण वर्षते ॥२॥
(११,४[६].३ ) यत्प्राण स्तनयित्नुनाभिक्रन्दत्योषधीः ।
(११,४[६].३ ) प्र वीयन्ते गर्भान् दधतेऽथो बह्वीर्वि जायन्ते ॥३॥
(११,४[६].४ ) यत्प्राण ऋतावागतेऽभिक्रन्दत्योषधीः ।
(११,४[६].४ ) सर्वं तदा प्र मोदते यत्किं च भूम्यामधि ॥४॥
(११,४[६].५ ) यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम् ।
(११,४[६].५ ) पशवस्तत्प्र मोदन्ते महो वै नो भविष्यति ॥५॥
(११,४[६].६ ) अभिवृष्टा ओषधयः प्राणेन समवादिरन् ।
(११,४[६].६ ) आयुर्वै नः प्रातीतरः सर्वा नः सुरभीरकः ॥६॥
(११,४[६].७ ) नमस्ते अस्त्वायते नमो अस्तु परायते ।
(११,४[६].७ ) नमस्ते प्राण तिष्ठत आसीनायोत ते नमः ॥७॥
(११,४[६].८ ) नमस्ते प्राण प्राणते नमो अस्त्वपानते ।
(११,४[६].८ ) पराचीनाय ते नमः प्रतीचीनाय ते नमः सर्वस्मै त इदं नमः ॥८॥
(११,४[६].९ ) या ते प्राण प्रिया तनूर्यो ते प्राण प्रेयसी ।
(११,४[६].९ ) अथो यद्भेषजं तव तस्य नो धेहि जीवसे ॥९॥
(११,४[६].१० ) प्राणः प्रजा अनु वस्ते पिता पुत्रमिव प्रियम् ।
(११,४[६].१० ) प्राणो ह सर्वस्येश्वरो यच्च प्राणति यच्च न ॥१०॥ {११}
(११,४[६].११ ) प्राणो मृत्युः प्राणस्तक्मा प्राणं देवा उपासते ।
(११,४[६].११ ) प्राणो ह सत्यवादिनमुत्तमे लोक आ दधत्॥११॥
(११,४[६].१२ ) प्राणो विराट्प्राणो देष्ट्री प्राणं सर्व उपासते ।
(११,४[६].१२ ) प्राणो ह सूर्यश्चन्द्रमाः प्राणमाहुः प्रजापतिम् ॥१२॥
(११,४[६].१३ ) प्राणापानौ व्रीहियवावनड्वान् प्राण उच्यते ।
(११,४[६].१३ ) यवे ह प्राण आहितोऽपानो व्रीहिरुच्यते ॥१३॥
(११,४[६].१४ ) अपानति प्राणति पुरुषो गर्भे अन्तरा ।
(११,४[६].१४ ) यदा त्वं प्राण जिन्वस्यथ स जायते पुनः ॥१४॥
(११,४[६].१५ ) प्राणमाहुर्मातरिश्वानं वातो ह प्राण उच्यते ।
(११,४[६].१५ ) प्राणे ह भूतं भव्यं च प्राणे सर्वं प्रतिष्ठितम् ॥१५॥
(११,४[६].१६ ) आथर्वणीराङ्गिरसीर्दैवीर्मनुष्यजा उत ।
(११,४[६].१६ ) ओषधयः प्र जायन्ते यदा त्वं प्राण जिन्वसि ॥१६॥
(११,४[६].१७ ) यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम् ।
(११,४[६].१७ ) ओषधयः प्र जायन्तेऽथो याः काश्च वीरुधः ॥१७॥
(११,४[६].१८ ) यस्ते प्राणेदं वेद यस्मिंश्चासि प्रतिष्ठितः ।
(११,४[६].१८ ) सर्वे तस्मै बलिं हरान् अमुष्मिंल्लोक उत्तमे ॥१८॥
(११,४[६].१९ ) यथा प्राण बलिहृतस्तुभ्यं सर्वाः प्रजा इमाः ।
(११,४[६].१९ ) एवा तस्मै बलिं हरान् यस्त्वा शृणवत्सुश्रवः ॥१९॥
(११,४[६].२० ) अन्तर्गर्भश्चरति देवतास्वाभूतो भूतः स उ जायते पुनः ।
(११,४[६].२० ) स भूतो भव्यं भविष्यत्पिता पुत्रं प्र विवेशा शचीभिः ॥२०॥ {१२}
(११,४[६].२१ ) एकं पादं नोत्खिदति सलिलाद्धंस उच्चरन् ।
(११,४[६].२१ ) यदङ्ग स तमुत्खिदेन् नैवाद्य न श्वः स्यात्।
(११,४[६].२१ ) न रात्री नाहः स्यान् न व्युछेत्कदा चन ॥२१॥
(११,४[६].२२ ) अष्टाचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा ।
(११,४[६].२२ ) अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥२२॥
(११,४[६].२३ ) यो अस्य विश्वजन्मन ईशे विश्वस्य चेष्टतः ।
(११,४[६].२३ ) अन्येषु क्षिप्रधन्वने तस्मै प्राण नमोऽस्तु ते ॥२३॥
(११,४[६].२४ ) यो अस्य सर्वजन्मन ईशे सर्वस्य चेष्टतः ।
(११,४[६].२४ ) अतन्द्रो ब्रह्मणा धीरः प्राणो मानु तिष्ठतु ॥२४॥
(११,४[६].२५ ) ऊर्ध्वः सुप्तेषु जागार ननु तिर्यङ्नि पद्यते ।
(११,४[६].२५ ) न सुप्तमस्य सुप्तेष्वनु शुश्राव कश्चन ॥२५॥
(११,४[६].२६ ) प्राण मा मत्पर्यावृतो न मदन्यो भविष्यसि ।
(११,४[६].२६ ) अपां गर्भमिव जीवसे प्राण बध्नामि त्वा मयि ॥२६॥ {१३}
(११,५[७].१ ) ब्रह्मचारीष्णंश्चरति रोदसी उभे तस्मिन् देवाः संमनसो भवन्ति ।
(११,५[७].१ ) स दाधार पृथिवीं दिवं च स आचार्यं तपसा पिपर्ति ॥१॥
(११,५[७].२ ) ब्रह्मचारिणं पितरो देवजनाः पृथग्देवा अनुसंयन्ति सर्वे ।
(११,५[७].२ ) गन्धर्वा एनमन्वायन् त्रयस्त्रिंशत्त्रिशताः षट्सहस्राः सर्वान्त्स देवांस्तपसा पिपर्ति ॥२॥
(११,५[७].३ ) आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः ।
(११,५[७].३ ) तं रात्रीस्तिस्र उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवाः ॥३॥
(११,५[७].४ ) इयं समित्पृथिवी द्यौर्द्वितीयोतान्तरिक्षं समिधा पृणाति ।
(११,५[७].४ ) ब्रह्मचारी समिधा मेखलया श्रमेण लोकांस्तपसा पिपर्ति ॥४॥
(११,५[७].५ ) पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस्तपसोदतिष्ठत्।
(११,५[७].५ ) तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥५॥
(११,५[७].६ ) ब्रह्मचार्येति समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः ।
(११,५[७].६ ) स सद्य एति पूर्वस्मादुत्तरं समुद्रं लोकान्त्संगृभ्य मुहुराचरिक्रत्॥६॥
(११,५[७].७ ) ब्रह्मचारी जनयन् ब्रह्मापो लोकं प्रजापतिं परमेष्ठिनं विराजम् ।
(११,५[७].७ ) गर्भो भूत्वामृतस्य योनाविन्द्रो ह भूत्वासुरांस्ततर्ह ॥७॥
(११,५[७].८ ) आचार्यस्ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च ।
(११,५[७].८ ) ते रक्षति तपसा ब्रह्मचारी तस्मिन् देवाः संमनसो भवन्ति ॥८॥
(११,५[७].९ ) इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च ।
(११,५[७].९ ) ते कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ॥९॥
(११,५[७].१० ) अर्वागन्यः परो अन्यो दिवस्पृष्ठाद्गुहा निधी निहितौ ब्राह्मणस्य ।
(११,५[७].१० ) तौ रक्षति तपसा ब्रह्मचारी तत्केवलं कृणुते ब्रह्म विद्वान् ॥१०॥ {१४}
(११,५[७].११ ) अर्वागन्य इतो अन्यः पृथिव्या अग्नी समेतो नभसी अन्तरेमे ।
(११,५[७].११ ) तयोः श्रयन्ते रश्मयोऽधि दृढास्तान् आ तिष्ठति तपसा ब्रह्मचारी ॥११॥
(११,५[७].१२ ) अभिक्रन्दन् स्तनयन्न् अरुणः शितिङ्गो बृहच्छेपोऽनु भूमौ जभार ।
(११,५[७].१२ ) ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्रः ॥१२॥
(११,५[७].१३ ) अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचार्यप्सु समिधमा दधाति ।
(११,५[७].१३ ) तासामर्चींषि पृथगभ्रे चरन्ति तासामाज्यं पुरुषो वर्षमापः ॥१३॥
(११,५[७].१४ ) आचार्यो मृत्युर्वरुणः सोम ओषधयः पयः ।
(११,५[७].१४ ) जीमूता आसन्त्सत्वानस्तैरिदं स्वराभृतम् ॥१४॥
(११,५[७].१५ ) अमा घृतं कृणुते केवलमाचार्यो भूत्वा वरुणः ।
(११,५[७].१५ ) यद्यदैछत्प्रजापतौ तद्ब्रह्मचारी प्रायछत्स्वान् मित्रो अध्यात्मनः ॥१५॥
(११,५[७].१६ ) आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापतिः ।
(११,५[७].१६ ) प्रजापतिर्वि राजति विराडिन्द्रोऽभवद्वशी ॥१६॥
(११,५[७].१७ ) ब्रह्मचर्येण तपसा राजा राष्ट्रं वि रक्षति ।
(११,५[७].१७ ) आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिछते ॥१७॥
(११,५[७].१८ ) ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् ।
(११,५[७].१८ ) अनड्वान् ब्रह्मचर्येणाश्वो घासं जिगीषति ॥१८॥
(११,५[७].१९ ) ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत ।
(११,५[७].१९ ) इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत्॥१९॥
(११,५[७].२० ) ओषधयो भूतभव्यमहोरात्रे वनस्पतिः ।
(११,५[७].२० ) संवत्सरः सह ऋतुभिस्ते जाता ब्रह्मचारिणः ॥२०॥ {१५}
(११,५[७].२१ ) पार्थिवा दिव्याः पशव आरण्या ग्राम्याश्च ये ।
(११,५[७].२१ ) अपक्षाः पक्षिणश्च ये ते जाता ब्रह्मचारिणः ॥२१॥
(११,५[७].२२ ) पृथक्सर्वे प्राजापत्याः प्राणान् आत्मसु बिभ्रति ।
(११,५[७].२२ ) तान्त्सर्वान् ब्रह्म रक्षति ब्रह्मचारिण्याभृतम् ॥२२॥
(११,५[७].२३ ) देवानामेतत्परिषूतमनभ्यारूढं चरति रोचमानम् ।
(११,५[७].२३ ) तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥२३॥
(११,५[७].२४ ) ब्रह्मचारी ब्रह्म भ्राजद्बिभर्ति तस्मिन् देवा अधि विश्वे समोताः ।
(११,५[७].२४ ) प्राणापानौ जनयन्न् आद्व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥२४॥
(११,५[७].२५ ) चक्षुः श्रोत्रं यशो अस्मासु धेह्यन्नं रेतो लोहितमुदरम् ॥२५॥
(११,५[७].२६ ) तानि कल्पन् ब्रह्मचारी सलिलस्य पृष्ठे तपोऽतिष्ठत्तप्यमानः समुद्रे ।
(११,५[७].२६ ) स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते ॥२६॥ {१६}
(११,६[८].१ ) अग्निं ब्रूमो वनस्पतीन् ओषधीरुत वीरुधः ।
(११,६[८].१ ) इन्द्रं बृहस्पतिं सूर्यं ते नो मुञ्चन्त्वंहसः ॥१॥
(११,६[८].२ ) ब्रूमो राजानं वरुणं मित्रं विष्णुमथो भगम् ।
(११,६[८].२ ) अंशं विवस्वन्तं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥२॥
(११,६[८].३ ) ब्रूमो देवं सवितारं धातारमुत पूषणम् ।
(११,६[८].३ ) त्वष्टारमग्रियं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥३॥
(११,६[८].४ ) गन्धर्वाप्सरसो ब्रूमो अश्विना ब्रह्मणस्पतिम् ।
(११,६[८].४ ) अर्यमा नाम यो देवस्ते नो मुञ्चन्त्वंहसः ॥४॥
(११,६[८].५ ) अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसावुभा ।
(११,६[८].५ ) विश्वान् आदित्यान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥५॥
(११,६[८].६ ) वातं ब्रूमः पर्जन्यमन्तरिक्षमथो दिशः ।
(११,६[८].६ ) आशाश्च सर्वा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥६॥
(११,६[८].७ ) मुञ्चन्तु मा शपथ्यादहोरात्रे अथो उषाः ।
(११,६[८].७ ) सोमो मा देवो मुञ्चतु यमाहुश्चन्द्रमा इति ॥७॥
(११,६[८].८ ) पार्थिवा दिव्याः पशव आरण्या उत ये मृगाः ।
(११,६[८].८ ) शकुन्तान् पक्षिणो ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥८॥
(११,६[८].९ ) भवाशर्वाविदं ब्रूमो रुद्रं पशुपतिश्च यः ।
(११,६[८].९ ) इषूर्या एषां संविद्म ता नः सन्तु सदा शिवाः ॥९॥
(११,६[८].१० ) दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान् ।
(११,६[८].१० ) समुद्रा नद्यो वेशन्तास्ते नो मुञ्चन्त्वंहसः ॥१०॥ {१७}
(११,६[८].११ ) सप्तऋषीन् वा इदं ब्रूमोऽपो देवीः प्रजापतिम् ।
(११,६[८].११ ) पितॄन् यमश्रेष्ठान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ।११॥
(११,६[८].१२ ) ये देवा दिविषदो अन्तरिक्षसदश्च ये ।
(११,६[८].१२ ) पृथिव्यां शक्रा ये श्रितास्ते नो मुञ्चन्त्वंहसः ॥१२॥
(११,६[८].१३ ) आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः ।
(११,६[८].१३ ) अङ्गिरसो मनीषिणस्ते नो मुञ्चन्त्वंहसः ॥१३॥
(११,६[८].१४ ) यज्ञं ब्रूमो यजमानमृचः सामानि भेषजा ।
(११,६[८].१४ ) यजूंषि होत्रा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥१४॥
(११,६[८].१५ ) पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि ब्रूमः ।
(११,६[८].१५ ) दर्भो भङ्गो यवः सहस्ते नो मुञ्चन्त्वंहसः ॥१५॥
(११,६[८].१६ ) अरायान् ब्रूमो रक्षांसि सर्पान् पुण्यजनान् पितॄन् ।
(११,६[८].१६ ) मृत्यून् एकशतं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥१६॥
(११,६[८].१७ ) ऋतून् ब्रूम ऋतुपतीन् आर्तवान् उत हायनान् ।
(११,६[८].१७ ) समाः संवत्सरान् मासांस्ते नो मुञ्चन्त्वंहसः ॥१७॥
(११,६[८].१८ ) एत देवा दक्षिणतः पश्चात्प्राञ्च उदेत ।
(११,६[८].१८ ) पुरस्तादुत्तराच्छक्रा विश्वे देवाः समेत्य ते नो मुञ्चन्त्वंहसः ॥१८॥
(११,६[८].१९ ) विश्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः ।
(११,६[८].१९ ) विश्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥१९॥
(११,६[८].२० ) सर्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः ।
(११,६[८].२० ) सर्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥२०॥
(११,६[८].२१ ) भूतं ब्रूमो भूतपतिं भूतानामुत यो वशी ।
(११,६[८].२१ ) भूतानि सर्वा संगत्य ते नो मुञ्चन्त्वंहसः ॥२१॥
(११,६[८].२२ ) या देवीः पञ्च प्रदिशो ये देवा द्वादश ऋतवः ।
(११,६[८].२२ ) संवत्सरस्य ये दंष्ट्रास्ते नः सन्तु सदा शिवाः ॥२२॥
(११,६[८].२३ ) यन् मातली रथक्रीतममृतं वेद भेषजम् ।
(११,६[८].२३ ) तदिन्द्रो अप्सु प्रावेशयत्तदापो दत्त भेषजम् ॥२३॥ {१८}
(११,७[९].१ ) उच्छिष्टे नाम रूपं चोच्छिष्टे लोक आहितः ।
(११,७[९].१ ) उच्छिष्ट इन्द्रश्चाग्निश्च विश्वमन्तः समाहितम् ॥१॥
(११,७[९].२ ) उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम् ।
(११,७[९].२ ) आपः समुद्र उच्छिष्टे चन्द्रमा वात आहितः ॥२॥
(११,७[९].३ ) सन्न् उच्छिष्टे असंश्चोभौ मृत्युर्वाजः प्रजापतिः ।
(११,७[९].३ ) लौक्या उच्छिष्ट आयत्ता व्रश्च द्रश्चापि श्रीर्मयि ॥३॥
(११,७[९].४ ) दृढो दृंह स्थिरो न्यो ब्रह्म विश्वसृजो दश ।
(११,७[९].४ ) नाभिमिव सर्वतश्चक्रमुच्छिष्टे देवताः श्रिताः ॥४॥
(११,७[९].५ ) ऋक्साम यजुरुच्छिष्ट उद्गीथः प्रस्तुतं स्तुतम् ।
(११,७[९].५ ) हिङ्कार उच्छिष्टे स्वरः साम्नो मेडिश्च तन् मयि ॥५॥
(११,७[९].६ ) ऐन्द्राग्नं पावमानं महानाम्नीर्महाव्रतम् ।
(११,७[९].६ ) उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि ॥६॥
(११,७[९].७ ) राजसूयं वाजपेयमग्निष्टोमष्तदध्वरः ।
(११,७[९].७ ) अर्काश्वमेधावुच्छिष्टे जीवबर्हिर्मदिन्तमः ॥७॥
(११,७[९].८ ) अग्न्याधेयमथो दीक्षा कामप्रश्छन्दसा सह ।
(११,७[९].८ ) उत्सन्ना यज्ञाः सत्राण्युच्छिष्टेऽधि समाहिताः ॥८॥
(११,७[९].९ ) अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः ।
(११,७[९].९ ) दक्षिणेष्टं पूर्तं चोच्छिष्टेऽधि समाहिताः ॥९॥
(११,७[९].१० ) एकरात्रो द्विरात्रः सद्यःक्रीः प्रक्रीरुक्थ्यः ।
(११,७[९].१० ) ओतं निहितमुच्छिष्टे यज्ञस्याणूनि विद्यया ॥१०॥ {१९}
(११,७[९].११ ) चतूरात्रः पञ्चरात्रः षड्रात्रश्चोभयः सह ।
(११,७[९].११ ) षोडशी सप्तरात्रश्चोच्छिष्टाज्जज्ञिरे सर्वे ये यज्ञा अमृते हिताः ॥११॥
(११,७[९].१२ ) प्रतीहारो निधनं विश्वजिच्चाभिजिच्च यः ।
(११,७[९].१२ ) साह्नातिरात्रावुच्छिष्टे द्वादशाहोऽपि तन् मयि ॥१२॥
(११,७[९].१३ ) सूनृता संनतिः क्षेमः स्वधोर्जामृतं सहः ।
(११,७[९].१३ ) उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः ॥१३॥
(११,७[९].१४ ) नव भूमीः समुद्रा उच्छिष्टेऽधि श्रिता दिवः ।
(११,७[९].१४ ) आ सूर्यो भात्युच्छिष्टेऽहोरात्रे अपि तन् मयि ॥१४॥
(११,७[९].१५ ) उपहव्यं विषूवन्तं ये च यज्ञा गुहा हिताः ।
(११,७[९].१५ ) बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता ॥१५॥
(११,७[९].१६ ) पिता जनितुरुच्छिष्टोऽसोः पौत्रः पितामहः ।
(११,७[९].१६ ) स क्षियति विश्वस्येशानो वृषा भूम्यामतिघ्न्यः ॥१६॥
(११,७[९].१७ ) ऋतं सत्यं तपो राष्ट्रं श्रमो धर्मश्च कर्म च ।
(११,७[९].१७ ) भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बले ॥१७॥
(११,७[९].१८ ) समृद्धिरोज आकूतिः क्षत्रं राष्ट्रं षडुर्व्यः ।
(११,७[९].१८ ) संवत्सरोऽध्युच्छिष्ट इडा प्रैषा ग्रहा हविः ॥१८॥
(११,७[९].१९ ) चतुर्होतार आप्रियश्चातुर्मास्यानि नीविदः ।
(११,७[९].१९ ) उच्छिष्टे यज्ञा होत्राः पशुबन्धास्तदिष्टयः ॥१९॥
(११,७[९].२० ) अर्धमासाश्च मासाश्चार्तवा ऋतुभिः सह ।
(११,७[९].२० ) उच्छिष्टे घोषिणीराप स्तनयित्नुः श्रुतिर्मही ॥२०॥ {२०}
(११,७[९].२१ ) शर्कराः सिकता अश्मान ओषधयो वीरुधस्तृणा ।
(११,७[९].२१ ) अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता ॥२१॥
(११,७[९].२२ ) राद्धिः प्राप्तिः समाप्तिर्व्याप्तिर्मह एधतुः ।
(११,७[९].२२ ) अत्याप्तिरुच्छिष्टे भूतिश्चाहिता निहिता हिता ॥२२॥
(११,७[९].२३ ) यच्च प्राणति प्राणेन यच्च पश्यति चक्षुषा ।
(११,७[९].२३ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२३॥
(११,७[९].२४ ) ऋचः सामानि छन्दांसि पुराणं यजुषा सह ।
(११,७[९].२४ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२४॥
(११,७[९].२५ ) प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या ।
(११,७[९].२५ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२५॥
(११,७[९].२६ ) आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये ।
(११,७[९].२६ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२६॥
(११,७[९].२७ ) देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये ।
(११,७[९].२७ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२७॥ {२१}
(११,८[१०].१ ) यन् मन्युर्जायामावहत्संकल्पस्य गृहादधि ।
(११,८[१०].१ ) क आसं जन्याः के वराः क उ ज्येष्ठवरोऽभवत्॥१॥
(११,८[१०].२ ) तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे ।
(११,८[१०].२ ) त आसं जन्यास्ते वरा ब्रह्म ज्येष्ठवरोऽभवत्॥२॥
(११,८[१०].३ ) दश साकमजायन्त देवा देवेभ्यः पुरा ।
(११,८[१०].३ ) यो वै तान् विद्यात्प्रत्यक्षं स वा अद्य महद्वदेत्॥३॥
(११,८[१०].४ ) प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या ।
(११,८[१०].४ ) व्यानोदानौ वाङ्मनस्ते वा आकूतिमावहन् ॥४॥
(११,८[१०].५ ) अजाता आसन्न् ऋतवोऽथो धाता बृहस्पतिः ।
(११,८[१०].५ ) इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठमुपासत ॥५॥
(११,८[१०].६ ) तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे ।
(११,८[१०].६ ) तपो ह जज्ञे कर्मणस्तत्ते ज्येष्ठमुपासत ॥६॥
(११,८[१०].७ ) येत आसीद्भूमिः पूर्वा यामद्धातय इद्विदुः ।
(११,८[१०].७ ) यो वै तां विद्यान् नामथा स मन्येत पुराणवित्॥७॥
(११,८[१०].८ ) कुत इन्द्रः कुतः सोमः कुतो अग्निरजायत ।
(११,८[१०].८ ) कुतस्त्वष्टा समभवत्कुतो धाताजायत ॥८॥
(११,८[१०].९ ) इन्द्रादिन्द्रः सोमात्सोमो अग्नेरग्निरजायत ।
(११,८[१०].९ ) त्वष्टा ह जज्ञे त्वष्टुर्धातुर्धाताजायत ॥९॥
(११,८[१०].१० ) ये त आसन् दश जाता देवा देवेभ्यः पुरा ।
(११,८[१०].१० ) पुत्रेभ्यो लोकं दत्त्वा कस्मिंस्ते लोक आसते ॥१०॥ {२२}
(११,८[१०].११ ) यदा केशान् अस्थि स्नाव मांसं मज्जानमाभरत्।
(११,८[१०].११ ) शरीरं कृत्वा पादवत्कं लोकमनु प्राविशत्॥११॥
(११,८[१०].१२ ) कुतः केशान् कुतः स्नाव कुतो अस्थीन्याभरत्।
(११,८[१०].१२ ) अङ्गा पर्वाणि मज्जानं को मांसं कुत आभरत्॥१२॥
(११,८[१०].१३ ) संसिचो नाम ते देवा ये संभारान्त्समभरन् ।
(११,८[१०].१३ ) सर्वं संसिच्य मर्त्यं देवाः पुरुषमाविशन् ॥१३॥
(११,८[१०].१४ ) ऊरू पादावष्ठीवन्तौ शिरो हस्तावथो मुखम् ।
(११,८[१०].१४ ) पृष्टीर्बर्जह्ये पार्श्वे कस्तत्समदधादृषिः ॥१४॥
(११,८[१०].१५ ) शिरो हस्तावथो मुखं जिह्वां ग्रीवाश्च कीकसाः ।
(११,८[१०].१५ ) त्वचा प्रावृत्य सर्वं तत्संधा समदधान् मही ॥१५॥
(११,८[१०].१६ ) यत्तच्छरीरमशयत्संधया संहितं महत्।
(११,८[१०].१६ ) येनेदमद्य रोचते को अस्मिन् वर्णमाभरत्॥१६॥
(११,८[१०].१७ ) सर्वे देवा उपाशिक्षन् तदजानाद्वधूः सती ।
(११,८[१०].१७ ) ईशा वशस्य या जाया सास्मिन् वर्णमाभरत्॥१७॥
(११,८[१०].१८ ) यदा त्वष्टा व्यतृणत्पिता त्वष्टुर्य उत्तरः ।
(११,८[१०].१८ ) गृहं कृत्वा मर्त्यं देवाः पुरुषमाविशन् ॥१८॥
(११,८[१०].१९ ) स्वप्नो वै तन्द्रीर्निरृतिः पाप्मानो नाम देवताः ।
(११,८[१०].१९ ) जरा खालत्यं पालित्यं शरीरमनु प्राविशन् ॥१९॥
(११,८[१०].२० ) स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो बृहत्।
(११,८[१०].२० ) बलं च क्षत्रमोजश्च शरीरमनु प्राविशन् ॥२०॥ {२३}
(११,८[१०].२१ ) भूतिश्च वा अभूतिश्च रातयोऽरातयश्च याः ।
(११,८[१०].२१ ) क्षुधश्च सर्वास्तृष्णाश्च शरीरमनु प्राविशन् ॥२१॥
(११,८[१०].२२ ) निन्दाश्च वा अनिन्दाश्च यच्च हन्तेति नेति च ।
(११,८[१०].२२ ) शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन् ॥२२॥
(११,८[१०].२३ ) विद्याश्च वा अविद्याश्च यच्चान्यदुपदेश्यम् ।
(११,८[१०].२३ ) शरीरं ब्रह्म प्राविशदृचः सामाथो यजुः ॥२३॥
(११,८[१०].२४ ) आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये ।
(११,८[१०].२४ ) हसो नरिष्टा नृत्तानि शरीरमनु प्राविशन् ॥२४॥
(११,८[१०].२५ ) आलापाश्च प्रलापाश्चाभीलापलपश्च ये ।
(११,८[१०].२५ ) शरीरं सर्वे प्राविशन्न् आयुजः प्रयुजो युजः ॥२५॥
(११,८[१०].२६ ) प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या ।
(११,८[१०].२६ ) व्यानोदानौ वाङ्मनः शरीरेण त ईयन्ते ॥२६॥
(११,८[१०].२७ ) आशिषश्च प्रशिषश्च संशिषो विशिषश्च याः ।
(११,८[१०].२७ ) चित्तानि सर्वे संकल्पाः शरीरमनु प्राविशन् ॥२७॥
(११,८[१०].२८ ) आस्तेयीश्च वास्तेयीश्च त्वरणाः कृपणाश्च याः ।
(११,८[१०].२८ ) गुह्याः शुक्रा स्थूला अपस्ता बीभत्सावसादयन् ॥२८॥
(११,८[१०].२९ ) अस्थि कृत्वा समिधं तदष्टापो असादयन् ।
(११,८[१०].२९ ) रेतः कृत्वाज्यं देवाः पुरुषमाविशन् ॥२९॥
(११,८[१०].३० ) या आपो याश्च देवता या विराड्ब्रह्मणा सह ।
(११,८[१०].३० ) शरीरं ब्रह्म प्राविशच्छरीरेऽधि प्रजापतिः ॥३०॥
(११,८[१०].३१ ) सूर्यश्चक्षुर्वातः प्राणं पुरुषस्य वि भेजिरे ।
(११,८[१०].३१ ) अथास्येतरमात्मानं देवाः प्रायछन्न् अग्नये ॥३१॥
(११,८[१०].३२ ) तस्माद्वै विद्वान् पुरुषमिदं ब्रह्मेति मन्यते ।
(११,८[१०].३२ ) सर्वा ह्यस्मिन् देवता गावो गोष्ठ इवासते ॥३२॥
(११,८[१०].३३ ) प्रथमेन प्रमारेण त्रेधा विष्वङ्वि गछति ।
(११,८[१०].३३ ) अद एकेन गछत्यद एकेन गछतीहैकेन नि षेवते ॥३३॥
(११,८[१०].३४ ) अप्सु स्तीमासु वृद्धासु शरीरमन्तरा हितम् ।
(११,८[१०].३४ ) तस्मिं छवोऽध्यन्तरा तस्माच्छवोऽध्युच्यते ॥३४॥ {२४}
(११,९[११].१ ) ये बाहवो या इषवो धन्वनां वीर्याणि च ।
(११,९[११].१ ) असीन् परशून् आयुधं चित्ताकूतं च यद्धृदि ।
(११,९[११].१ ) सर्वं तदर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥१॥
(११,९[११].२ ) उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम् ।
(११,९[११].२ ) संदृष्टा गुप्ता वः सन्तु या नो मित्राण्यर्बुदे ॥२॥
(११,९[११].३ ) उत्तिष्ठतमा रभेतामादानसंदानाभ्याम् ।
(११,९[११].३ ) अमित्राणां सेना अभि धत्तमर्बुदे ॥३॥
(११,९[११].४ ) अर्बुदिर्नाम यो देव ईशानश्च न्यर्बुदिः ।
(११,९[११].४ ) याभ्यामन्तरिक्षमावृतमियं च पृथिवी मही ।
(११,९[११].४ ) ताभ्यामिन्द्रमेदिभ्यामहं जितमन्वेमि सेनया ॥४॥
(११,९[११].५ ) उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह ।
(११,९[११].५ ) भञ्जन्न् अमित्राणां सेनां भोगेभिः परि वारय ॥५॥
(११,९[११].६ ) सप्त जातान् न्यर्बुद उदाराणां समीक्षयन् ।
(११,९[११].६ ) तेभिष्ट्वमाज्ये हुते सर्वैरुत्तिष्ठ सेनया ॥६॥
(११,९[११].७ ) प्रतिघ्नानाश्रुमुखी कृधुकर्णी च क्रोशतु ।
(११,९[११].७ ) विकेशी पुरुषे हते रदिते अर्बुदे तव ॥७॥
(११,९[११].८ ) संकर्षन्ती करूकरं मनसा पुत्रमिछन्ती ।
(११,९[११].८ ) पतिं भ्रातरमात्स्वान् रदिते अर्बुदे तव ॥८॥
(११,९[११].९ ) अलिक्लवा जाष्कमदा गृध्राः श्येनाः पतत्रिणः ।
(११,९[११].९ ) ध्वाङ्क्षाः शकुनयस्तृप्यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥९॥
(११,९[११].१० ) अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः ।
(११,९[११].१० ) पौरुषेयेऽधि कुणपे रदिते अर्बुदे तव ॥१०॥ {२५}
(११,९[११].११ ) आ गृह्णीतं सं बृहतं प्राणापानान् न्यर्बुदे ।
(११,९[११].११ ) निवाशा घोषाः सं यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥११॥
(११,९[११].१२ ) उद्वेपय सं विजन्तां भियामित्रान्त्सं सृज ।
(११,९[११].१२ ) उरुग्राहैर्बाह्वङ्कैर्विध्यामित्रान् न्यर्बुदे ॥१२॥
(११,९[११].१३ ) मुह्यन्त्वेषां बाहवश्चित्ताकूतं च यद्धृदि ।
(११,९[११].१३ ) मैषामुच्छेषि किं चन रदिते अर्बुदे तव ॥१३॥
(११,९[११].१४ ) प्रतिघ्नानाः सं धावन्तूरः पटौरावाघ्नानाः ।
(११,९[११].१४ ) अघारिणीर्विकेश्यो रुदत्यः पुरुषे हते रदिते अर्बुदे तव ॥१४॥
(११,९[११].१५ ) श्वन्वतीरप्सरसो रूपका उतार्बुदे ।
(११,९[११].१५ ) अन्तःपात्रे रेरिहतीं रिशां दुर्णिहितैषिणीम् ।
(११,९[११].१५ ) सर्वास्ता अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥१५॥
(११,९[११].१६ ) खडूरेऽधिचङ्क्रमां खर्विकां खर्ववासिनीम् ।
(११,९[११].१६ ) य उदारा अन्तर्हिता गन्धर्वाप्सरसश्च ये ।
(११,९[११].१६ ) सर्पा इतरजना रक्षांसि ॥१६॥
(११,९[११].१७ ) चतुर्दंष्ट्रां छ्यावदतः कुम्भमुष्कामसृङ्मुखान् ।
(११,९[११].१७ ) स्वभ्यसा ये चोद्भ्यसाः ॥१७॥
(११,९[११].१८ ) उद्वेपय त्वमर्बुदेऽमित्राणाममूः सिचः ।
(११,९[११].१८ ) जयंश्च जिष्णुश्चामित्रां जयतामिन्द्रमेदिनौ ॥१८॥
(११,९[११].१९ ) प्रब्लीनो मृदितः शयां हतोऽमित्रो न्यर्बुदे ।
(११,९[११].१९ ) अग्निजिह्वा धूमशिखा जयन्तीर्यन्तु सेनया ॥१९॥
(११,९[११].२० ) तयार्बुदे प्रणुत्तानामिन्द्रो हन्तु वरंवरम् ।
(११,९[११].२० ) अमित्राणां शचीपतिर्मामीषां मोचि कश्चन ॥२०॥ {२६}
(११,९[११].२१ ) उत्कसन्तु हृदयान्यूर्ध्वः प्राण उदीषतु ।
(११,९[११].२१ ) शौष्कास्यमनु वर्तताममित्रान् मोत मित्रिणः ॥२१॥
(११,९[११].२२ ) ये च धीरा ये चाधीराः पराञ्चो बधिराश्च ये ।
(११,९[११].२२ ) तमसा ये च तूपरा अथो बस्ताभिवासिनः ।
(११,९[११].२२ ) सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥२२॥
(११,९[११].२३ ) अर्बुदिश्च त्रिषन्धिश्चामित्रान् नो वि विध्यताम् ।
(११,९[११].२३ ) यथैषामिन्द्र वृत्रहन् हनाम शचीपतेऽमित्राणां सहस्रशः ॥२३॥
(११,९[११].२४ ) वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः ।
(११,९[११].२४ ) गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।
(११,९[११].२४ ) सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥२४॥
(११,९[११].२५ ) ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः ।
(११,९[११].२५ ) ईशां व इन्द्रश्चाग्निश्च धाता मित्रः प्रजापतिः ।
(११,९[११].२५ ) ईशां व ऋषयश्चक्रुरमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥२५॥
(११,९[११].२६ ) तेषां सर्वेषामीशाना उत्तिष्ठत सं नह्यध्वम् ।
(११,९[११].२६ ) मित्रा देवजना यूयमिमं संग्रामं संजित्य यथालोकं वि तिष्ठध्वम् ॥२६॥ {२७}
(११,१०[१२].१ ) उत्तिष्ठत सं नह्यध्वमुदाराः केतुभिः सह ।
(११,१०[१२].१ ) सर्पा इतरजना रक्षांस्यमित्रान् अनु धावत ॥१॥
(११,१०[१२].२ ) ईशां वो वेद राज्यं त्रिषन्धे अरुणैः केतुभिः सह ।
(११,१०[१२].२ ) ये अन्तरिक्षे ये दिवि पृथिव्यां ये च मानवाः ।
(११,१०[१२].२ ) त्रिषन्धेस्ते चेतसि दुर्णामान उपासताम् ॥२॥
(११,१०[१२].३ ) अयोमुखाः सूचीमुखा अथो विकङ्कतीमुखाः ।
(११,१०[१२].३ ) क्रव्यादो वातरंहस आ सजन्त्वमित्रान् वज्रेण त्रिषन्धिना ॥३॥
(११,१०[१२].४ ) अन्तर्धेहि जातवेद आदित्य कुणपं बहु ।
(११,१०[१२].४ ) त्रिषन्धेरियं सेना सुहितास्तु मे वशे ॥४॥
(११,१०[१२].५ ) उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह ।
(११,१०[१२].५ ) अयं बलिर्व आहुतस्त्रिषन्धेराहुतिः प्रिया ॥५॥
(११,१०[१२].६ ) शितिपदी सं द्यतु शरव्येयं चतुष्पदी ।
(११,१०[१२].६ ) कृत्येऽमित्रेभ्यो भव त्रिषन्धेः सह सेनया ॥६॥
(११,१०[१२].७ ) धूमाक्षी सं पततु कृधुकर्णी च क्रोशतु ।
(११,१०[१२].७ ) त्रिषन्धेः सेनया जिते अरुणाः सन्तु केतवः ॥७॥
(११,१०[१२].८ ) अवायन्तां पक्षिणो ये वयांस्यन्तरिक्षे दिवि ये चरन्ति ।
(११,१०[१२].८ ) श्वापदो मक्षिकाः सं रभन्तामामादो गृध्राः कुणपे रदन्ताम् ॥८॥
(११,१०[१२].९ ) यामिन्द्रेण संधां समधत्था ब्रह्मणा च बृहस्पते ।
(११,१०[१२].९ ) तयाहमिन्द्रसंधया सर्वान् देवान् इह हुव इतो जयत मामुतः ॥९॥
(११,१०[१२].१० ) बृहस्पतिराङ्गिरस ऋषयो ब्रह्मसंशिताः ।
(११,१०[१२].१० ) असुरक्षयणं वधं त्रिषन्धिं दिव्याश्रयन् ॥१०॥ {२८}
(११,१०[१२].११ ) येनासौ गुप्त आदित्य उभाविन्द्रश्च तिष्ठतः ।
(११,१०[१२].११ ) त्रिषन्धिं देवा अभजन्तौजसे च बलाय च ॥११॥
(११,१०[१२].१२ ) सर्वांल्लोकान्त्समजयन् देवा आहुत्यानया ।
(११,१०[१२].१२ ) बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ॥१२॥
(११,१०[१२].१३ ) बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ।
(११,१०[१२].१३ ) तेनाहममूं सेनां नि लिम्पामि बृहस्पतेऽमित्रान् हन्म्योजसा ॥१३॥
(११,१०[१२].१४ ) सर्वे देवा अत्यायन्ति ये अश्नन्ति वषट्कृतम् ।
(११,१०[१२].१४ ) इमां जुषध्वमाहुतिमितो जयत मामुतः ॥१४॥
(११,१०[१२].१५ ) सर्वे देवा अत्यायन्तु त्रिषन्धेराहुतिः प्रिया ।
(११,१०[१२].१५ ) संधां महतीं रक्षत ययाग्रे असुरा जिताः ॥१५॥
(११,१०[१२].१६ ) वायुरमित्राणामिष्वग्राण्याञ्चतु ।
(११,१०[१२].१६ ) इन्द्र एषां बाहून् प्रति भनक्तु मा शकन् प्रतिधामिषुम् ।
(११,१०[१२].१६ ) आदित्य एषामस्त्रं वि नाशयतु चन्द्रमा युतामगतस्य पन्थाम् ॥१६॥
(११,१०[१२].१७ ) यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे ।
(११,१०[१२].१७ ) तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥१७॥
(११,१०[१२].१८ ) क्रव्यादानुवर्तयन् मृत्युना च पुरोहितम् ।
(११,१०[१२].१८ ) त्रिषन्धे प्रेहि सेनया जयामित्रान् प्र पद्यस्व ॥१८॥
(११,१०[१२].१९ ) त्रिषन्धे तमसा त्वममित्रान् परि वारय ।
(११,१०[१२].१९ ) पृषदाज्यप्रणुत्तानां मामीषां मोचि कश्चन ॥१९॥
(११,१०[१२].२० ) शितिपदी सं पतत्वमित्राणाममूः सिचः ।
(११,१०[१२].२० ) मुह्यन्त्वद्यामूः सेना अमित्राणां न्यर्बुदे ॥२०॥ {२९}
(११,१०[१२].२१ ) मूढा अमित्रा न्यर्बुदे जह्येषां वरंवरम् ।
(११,१०[१२].२१ ) अनया जहि सेनया ॥२१॥
(११,१०[१२].२२ ) यश्च कवची यश्चाकवचोऽमित्रो यश्चाज्मनि ।
(११,१०[१२].२२ ) ज्यापाशैः कवचपाशैरज्मनाभिहतः शयाम् ॥२२॥
(११,१०[१२].२३ ) ये वर्मिणो येऽवर्माणो अमित्रा ये च वर्मिणः ।
(११,१०[१२].२३ ) सर्वांस्तामर्बुदे हतां छ्वानोऽदन्तु भूम्याम् ॥२३॥
(११,१०[१२].२४ ) ये रथिनो ये अरथा असादा ये च सादिनः ।
(११,१०[१२].२४ ) सर्वान् अदन्तु तान् हतान् गृध्राः श्येनाः पतत्रिणः ॥२४॥
(११,१०[१२].२५ ) सहस्रकुणपा शेतामामित्री सेना समरे वधानाम् ।
(११,१०[१२].२५ ) विविद्धा ककजाकृता ॥२५॥
(११,१०[१२].२६ ) मर्माविधं रोरुवतं सुपर्णैरदन्तु दुश्चितं मृदितं शयानम् ।
(११,१०[१२].२६ ) य इमां प्रतीचीमाहुतिममित्रो नो युयुत्सति ॥२६॥
(११,१०[१२].२७ ) यां देवा अनुतिष्ठन्ति यस्या नास्ति विराधनम् ।
(११,१०[१२].२७ ) तयेन्द्रो हन्तु वृत्रहा वज्रेण त्रिषन्धिना ॥२७॥ {३०}
(१२,१.१ ) सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति ।
(१२,१.१ ) सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥१॥
(१२,१.२ ) असंबाधं मध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु ।
(१२,१.२ ) नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥२॥
(१२,१.३ ) यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः ।
(१२,१.३ ) यस्यामिदं जिन्वति प्राणदेजत्सा नो भूमिः पूर्वपेये दधातु ॥३॥
(१२,१.४ ) यस्याश्चतस्रः प्रदिशः पृथिव्या यस्यामन्नं कृष्टयः संबभूवुः ।
(१२,१.४ ) या बिभर्ति बहुधा प्राणदेजत्सा नो भूमिर्गोष्वप्यन्ने दधातु ॥४॥
(१२,१.५ ) यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरान् अभ्यवर्तयन् ।
(१२,१.५ ) गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥५॥
(१२,१.६ ) विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी ।
(१२,१.६ ) वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ॥६॥
(१२,१.७ ) यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम् ।
(१२,१.७ ) सा नो मधु प्रियं दुहामथो उक्षतु वर्चसा ॥७॥
(१२,१.८ ) यार्णवेऽधि सलिलमग्र आसीत्यां मायाभिरन्वचरन् मनीषिणः ।
(१२,१.८ ) यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः ।
(१२,१.८ ) सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ॥८॥
(१२,१.९ ) यस्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति ।
(१२,१.९ ) सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षतु वर्चसा ॥९॥
(१२,१.१० ) यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे ।
(१२,१.१० ) इन्द्रो यां चक्र आत्मनेऽनमित्रां शचीपतिः ।
(१२,१.१० ) सा नो भूमिर्वि सृजतां माता पुत्राय मे पयः ॥१०॥ {१}
(१२,१.११ ) गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु ।
(१२,१.११ ) बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम् ।
(१२,१.११ ) अजीतोऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम् ॥११॥
(१२,१.१२ ) यत्ते मध्यं पृथिवि यच्च नभ्यं यास्त ऊर्जस्तन्वः संबभूवुः ।
(१२,१.१२ ) तासु नो धेह्यभि नः पवस्व माता भूमिः पुत्रो अहं पृथिव्याः पर्जन्यः पिता स उ नः पिपर्तु ॥१२॥
(१२,१.१३ ) यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः ।
(१२,१.१३ ) यस्यां मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात्।
(१२,१.१३ ) सा नो भूमिर्वर्धयद्वर्धमाना ॥१३॥
(१२,१.१४ ) यो नो द्वेषत्पृथिवि यः पृतन्याद्योऽभिदासान् मनसा यो वधेन ।
(१२,१.१४ ) तं नो भूमे रन्धय पूर्वकृत्वरि ॥१४॥
(१२,१.१५ ) त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः ।
(१२,१.१५ ) तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येभ्य उद्यन्त्सूर्यो रश्मिभिरातनोति ॥१५॥
(१२,१.१६ ) ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ॥१६॥
(१२,१.१७ ) विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् ।
(१२,१.१७ ) शिवां स्योनामनु चरेम विश्वहा ॥१७॥
(१२,१.१८ ) महत्सधस्थं महती बभूविथ महान् वेग एजथुर्वेपथुष्टे ।
(१२,१.१८ ) महांस्त्वेन्द्रो रक्षत्यप्रमादम् ।
(१२,१.१८ ) सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश्चन ॥१८॥
(१२,१.१९ ) अग्निर्भूम्यामोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु ।
(१२,१.१९ ) अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नयः ॥१९॥
(१२,१.२० ) अग्निर्दिव आ तपत्यग्नेर्देवस्योर्वन्तरिक्षम् ।
(१२,१.२० ) अग्निं मर्तास इन्धते हव्यवाहं घृतप्रियम् ॥२०॥ {२}
(१२,१.२१ ) अग्निवासाः पृथिव्यसितज्ञूस्त्विषीमन्तं संशितं मा कृणोतु ॥२१॥
(१२,१.२२ ) भूम्यां देवेभ्यो ददति यज्ञं हव्यमरंकृतम् ।
(१२,१.२२ ) भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः ।
(१२,१.२२ ) सा नो भूमिः प्राणमायुर्दधातु जरदष्टिं मा पृथिवी कृणोतु ॥२२॥
(१२,१.२३ ) यस्ते गन्धः पृथिवि संबभूव यं बिभ्रत्योषधयो यमापः ।
(१२,१.२३ ) यं गन्धर्वा अप्सरसश्च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥२३॥
(१२,१.२४ ) यस्ते गन्धः पुष्करमाविवेश यं संजभ्रुः सूर्याया विवाहे ।
(१२,१.२४ ) अमर्त्याः पृथिवि गन्धमग्रे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥२४॥
(१२,१.२५ ) यस्ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः ।
(१२,१.२५ ) यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु ।
(१२,१.२५ ) कन्यायां वर्चो यद्भूमे तेनास्मामपि सं सृज मा नो द्विक्षत कश्चन ॥२५॥
(१२,१.२६ ) शिला भूमिरश्मा पांसुः सा भूमिः संधृता धृता ।
(१२,१.२६ ) तस्यै हिरण्यवक्षसे पृथिव्या अकरं नमः ॥२६॥
(१२,१.२७ ) यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा ।
(१२,१.२७ ) पृथिवीं विश्वधायसं धृतामछावदामसि ॥२७॥
(१२,१.२८ ) उदीराणा उतासीनास्तिष्ठन्तः प्रक्रामन्तः ।
(१२,१.२८ ) पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम् ॥२८॥
(१२,१.२९ ) विमृग्वरीं पृथिवीमा वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम् ।
(१२,१.२९ ) ऊर्जं पुष्टं बिभ्रतीमन्नभागं घृतं त्वाभि नि षीदेम भूमे ॥२९॥
(१२,१.३० ) शुद्धा न आपस्तन्वे क्षरन्तु यो नः सेदुरप्रिये तं नि दध्मः ।
(१२,१.३० ) पवित्रेण पृथिवि मोत्पुनामि ॥३०॥ {३}
(१२,१.३१ ) यास्ते प्राचीः प्रदिशो या उदीचीर्यास्ते भूमे अधराद्याश्च पश्चात्।
(१२,१.३१ ) स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाणः ॥३१॥
(१२,१.३२ ) मा नः पश्चान् मा पुरस्तान् नुदिष्ठा मोत्तरादधरादुत ।
(१२,१.३२ ) स्वस्ति भूमे नो भव मा विदन् परिपन्थिनो वरीयो यावया वधम् ॥३२॥
(१२,१.३३ ) यावत्तेऽभि विपश्यामि भूमे सूर्येण मेदिना ।
(१२,१.३३ ) तावन् मे चक्षुर्मा मेष्टोत्तरामुत्तरां समाम् ॥३३॥
(१२,१.३४ ) यच्छयानः पर्यावर्ते दक्षिणं सख्यमभि भूमे पार्श्वमुत्तानास्त्वा प्रतीचीं यत्पृष्टीभिरधिशेमहे ।
(१२,१.३४ ) मा हिंसीस्तत्र नो भूमे सर्वस्य प्रतिशीवरि ॥३४॥
(१२,१.३५ ) यत्ते भूमे विखनामि क्षिप्रं तदपि रोहतु ।
(१२,१.३५ ) मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम् ॥३५॥
(१२,१.३६ ) ग्रीष्मस्ते भूमे वर्षाणि शरद्धेमन्तः शिशिरो वसन्तः ।
(१२,१.३६ ) ऋतवस्ते विहिता हायनीरहोरात्रे पृथिवि नो दुहाताम् ॥३६॥
(१२,१.३७ ) याप सर्पं विजमाना विमृग्वरी यस्यामासन्न् अग्नयो ये अप्स्वन्तः ।
(१२,१.३७ ) परा दस्यून् ददती देवपीयून् इन्द्रं वृणाना पृथिवी न वृत्रं शक्राय दध्रे वृषभाय वृष्णे ॥३७॥
(१२,१.३८ ) यस्यां सदोहविर्धाने यूपो यस्यां निमीयते ।
(१२,१.३८ ) ब्रह्माणो यस्यामर्चन्त्यृग्भिः साम्ना यजुर्विदः युज्यन्ते यस्यामृत्विजः सोममिन्द्राय पातवे ॥३८॥
(१२,१.३९ ) यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः ।
(१२,१.३९ ) सप्त सत्रेण वेधसो यज्ञेन तपसा सह ॥३९॥
(१२,१.४० ) सा नो भूमिरा दिशतु यद्धनं कामयामहे ।
(१२,१.४० ) भगो अनुप्रयुङ्क्तामिन्द्र एतु पुरोगवः ॥४०॥ {४}
(१२,१.४१ ) यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः ।
(१२,१.४१ ) युध्यन्ते यस्यामाक्रन्दो यस्यां वदति दुन्दुभिः ।
(१२,१.४१ ) सा नो भूमिः प्र णुदतां सपत्नान् असपत्नं मा पृथिवी कृणोतु ॥४१॥
(१२,१.४२ ) यस्यामन्नं व्रीहियवौ यस्या इमाः पञ्च कृष्टयः ।
(१२,१.४२ ) भूम्यै पर्जन्यपत्न्यै नमोऽस्तु वर्षमेदसे ॥४२॥
(१२,१.४३ ) यस्याः पुरो देवकृताः क्षेत्रे यस्या विकुर्वते ।
(१२,१.४३ ) प्रजापतिः पृथिवीं विश्वगर्भामाशामाशां रण्यां नः कृणोतु ॥४३॥
(१२,१.४४ ) निधिं बिभ्रती बहुधा गुहा वसु मणिं हिरण्यं पृथिवी ददातु मे ।
(१२,१.४४ ) वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ॥४४॥
(१२,१.४५ ) जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् ।
(१२,१.४५ ) सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती ॥४५॥
(१२,१.४६ ) यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये ।
(१२,१.४६ ) क्रिमिर्जिन्वत्पृथिवि यद्यदेजति प्रावृषि तन् नः सर्पन् मोप सृपद्यच्छिवं तेन नो मृड ॥४६॥
(१२,१.४७ ) ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश्च यातवे ।
(१२,१.४७ ) यैः संचरन्त्युभये भद्रपापास्तं पन्थानं जयेमानमित्रमतस्करं यच्छिवं तेन नो मृड ॥४७॥
(१२,१.४८ ) मल्वं बिभ्रती गुरुभृद्भद्रपापस्य निधनं तितिक्षुः ।
(१२,१.४८ ) वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय ॥४८॥
(१२,१.४९ ) ये त आरण्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश्चरन्ति ।
(१२,१.४९ ) उलं वृकं पृथिवि दुछुनामित ऋक्षीकां रक्षो अप बाधयास्मत्॥४९॥
(१२,१.५० ) ये गन्धर्वा अप्सरसो ये चारायाः किमीदिनः ।
(१२,१.५० ) पिशाचान्त्सर्वा रक्षांसि तान् अस्मद्भूमे यावय ॥५०॥ {५}
(१२,१.५१ ) यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि ।
(१२,१.५१ ) यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश्च्यावयंश्च वृक्षान् ।
(१२,१.५१ ) वातस्य प्रवामुपवामनु वात्यर्चिः ॥५१॥
(१२,१.५२ ) यस्यां कृष्णमरुणं च संहिते अहोरात्रे विहिते भूम्यामधि ।
(१२,१.५२ ) वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु भद्रया प्रिये धामनिधामनि ॥५२॥
(१२,१.५३ ) द्यौश्च म इदं पृथिवी चान्तरिक्षं च मे व्यचः ।
(१२,१.५३ ) अग्निः सूर्य आपो मेधां विश्वे देवाश्च सं ददुः ॥५३॥
(१२,१.५४ ) अहमस्मि सहमान उत्तरो नाम भूम्याम् ।
(१२,१.५४ ) अभीषाडस्मि विश्वाषाडाशामाशां विषासहिः ॥५४॥
(१२,१.५५ ) अदो यद्देवि प्रथमाना पुरस्ताद्देवैरुक्ता व्यसर्पो महित्वम् ।
(१२,१.५५ ) आ त्वा सुभूतमविशत्तदानीमकल्पयथाः प्रदिशश्चतस्रः ॥५५॥
(१२,१.५६ ) ये ग्रामा यदरण्यं याः सभा अधि भूम्याम् ।
(१२,१.५६ ) ये संग्रामाः समितयस्तेषु चारु वदेम ते ॥५६॥
(१२,१.५७ ) अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं यादजायत ।
(१२,१.५७ ) मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम् ॥५७॥
(१२,१.५८ ) यद्वदामि मधुमत्तद्वदामि यदीक्षे तद्वनन्ति मा ।
(१२,१.५८ ) त्विषीमान् अस्मि जूतिमान् अवान्यान् हन्मि दोधतः ॥५८॥
(१२,१.५९ ) शन्तिवा सुरभिः स्योना कीलालोध्नी पयस्वती ।
(१२,१.५९ ) भूमिरधि ब्रवीतु मे पृथिवी पयसा सह ॥५९॥
(१२,१.६० ) यामन्वैछद्धविषा विश्वकर्मान्तरर्णवे रजसि प्रविष्टाम् ।
(१२,१.६० ) भुजिष्यं पात्रं निहितं गुहा यदाविर्भोगे अभवन् मातृमद्भ्यः ॥६०॥
(१२,१.६१ ) त्वमस्यावपनी जनानामदितिः कामदुघा पप्रथाना ।
(१२,१.६१ ) यत्त ऊनं तत्त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥६१॥
(१२,१.६२ ) उपस्थास्ते अनमीवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवि प्रसूताः ।
(१२,१.६२ ) दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम ॥६२॥
(१२,१.६३ ) भूमे मातर्नि धेहि मा भद्रया सुप्रतिष्ठितम् ।
(१२,१.६३ ) संविदाना दिवा कवे श्रियां मा धेहि भूत्याम् ॥६३॥ {६}
(१२,२.१ ) नडमा रोह न ते अत्र लोक इदं सीसं भागधेयं त एहि ।
(१२,२.१ ) यो गोषु यक्ष्मः पुरुषेषु यक्ष्मस्तेन त्वं साकमधराङ्परेहि ॥१॥
(१२,२.२ ) अघशंसदुःशंसाभ्यां करेणानुकरेण च ।
(१२,२.२ ) यक्ष्मं च सर्वं तेनेतो मृत्युं च निरजामसि ॥२॥
(१२,२.३ ) निरितो मृत्युं निरृतिं निररातिमजामसि ।
(१२,२.३ ) यो नो द्वेष्टि तमद्ध्यग्ने अक्रव्याद्यमु द्विष्मस्तमु ते प्र सुवामसि ॥३॥
(१२,२.४ ) यद्यग्निः क्रव्याद्यदि वा व्याघ्र इमं गोष्ठं प्रविवेशान्योकाः ।
(१२,२.४ ) तं माषाज्यं कृत्वा प्र हिणोमि दूरं स गछत्वप्सुषदोऽप्यग्नीन् ॥४॥
(१२,२.५ ) यत्त्वा क्रुद्धाः प्रचक्रुर्मन्युना पुरुषे मृते ।
(१२,२.५ ) सुकल्पमग्ने तत्त्वया पुनस्त्वोद्दीपयामसि ॥५॥
(१२,२.६ ) पुनस्त्वादित्या रुद्रा वसवः पुनर्ब्रह्मा वसुनीतिरग्ने ।
(१२,२.६ ) पुनस्त्वा ब्रह्मणस्पतिराधाद्दीर्घायुत्वाय शतशारदाय ॥६॥
(१२,२.७ ) यो अग्निः क्रव्यात्प्रविवेश नो गृहमिमं पश्यन्न् इतरं जातवेदसम् ।
(१२,२.७ ) तं हरामि पितृयज्ञाय दूरं स घर्ममिन्धां परमे सधस्थे ॥७॥
(१२,२.८ ) क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गछतु रिप्रवाहः ।
(१२,२.८ ) इहायमितरो जातवेदा देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥८॥
(१२,२.९ ) क्रव्यादमग्निमिषितो हरामि जनान् दृंहन्तं वज्रेण मृत्युम् ।
(१२,२.९ ) नि तं शास्मि गार्हपत्येन विद्वान् पितॄणां लोकेऽपि भागो अस्तु ॥९॥
(१२,२.१० ) क्रव्यादमग्निं शशमानमुक्थ्यं प्र हिणोमि पथिभिः पितृयाणैः ।
(१२,२.१० ) मा देवयानैः पुनरा गा अत्रैवैधि पितृषु जागृहि त्वम् ॥१०॥ {७}
(१२,२.११ ) समिन्धते संकसुकं स्वस्तये शुद्धा भवन्तः शुचयः पावकाः ।
(१२,२.११ ) जहाति रिप्रमत्येन एति समिद्धो अग्निः सुपुना पुनाति ॥११॥
(१२,२.१२ ) देवो अग्निः संकसुको दिवस्पृष्ठान्यारुहत्।
(१२,२.१२ ) मुच्यमानो निरेणसोऽमोगस्मामशस्त्याः ॥१२॥
(१२,२.१३ ) अस्मिन् वयं संकसुके अग्नौ रिप्राणि मृज्महे ।
(१२,२.१३ ) अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्॥१३॥
(१२,२.१४ ) संकसुको विकसुको निरृथो यश्च निस्वरः ।
(१२,२.१४ ) ते ते यक्ष्मं सवेदसो दूराद्दूरमनीनशन् ॥१४॥
(१२,२.१५ ) यो नो अश्वेषु वीरेषु यो नो गोष्वजाविषु ।
(१२,२.१५ ) क्रव्यादं निर्णुदामसि यो अग्निर्जनयोपनः ॥१५॥
(१२,२.१६ ) अन्येभ्यस्त्वा पुरुषेभ्यो गोभ्यो अश्वेभ्यस्त्वा ।
(१२,२.१६ ) निः क्रव्यादं नुदामसि यो अग्निर्जीवितयोपनः ॥१६॥
(१२,२.१७ ) यस्मिन् देवा अमृजत यस्मिन् मनुष्या उत ।
(१२,२.१७ ) तस्मिन् घृतस्तावो मृष्ट्वा त्वमग्ने दिवं रुह ॥१७॥
(१२,२.१८ ) समिद्धो अग्न आहुत स नो माभ्यपक्रमीः ।
(१२,२.१८ ) अत्रैव दीदिहि द्यवि ज्योक्च सूर्यं दृशे ॥१८॥
(१२,२.१९ ) सीसे मृड्ढ्वं नडे मृड्ढ्वमग्नौ संकसुके च यत्।
(१२,२.१९ ) अथो अव्यां रामायां शीर्षक्तिमुपबर्हणे ॥१९॥
(१२,२.२० ) सीसे मलं सादयित्वा शीर्षक्तिमुपबर्हणे ।
(१२,२.२० ) अव्यामसिक्न्यां मृष्ट्वा शुद्धा भवत यज्ञियाः ॥२०॥ {८}
(१२,२.२१ ) परं मृत्यो अनु परेहि पन्थां यस्त एष इतरो देवयानात्।
(१२,२.२१ ) चक्षुष्मते शृण्वते ते ब्रवीमीहेमे वीरा बहवो भवन्तु ॥२१॥
(१२,२.२२ ) इमे जीवा वि मृतैराववृत्रन्न् अभूद्भद्रा देवहुतिर्नो अद्य ।
(१२,२.२२ ) प्राञ्चो अगाम नृतये हसाय सुवीरासो विदथमा वदेम ॥२२॥
(१२,२.२३ ) इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् ।
(१२,२.२३ ) शतं जीवन्तः शरदः पुरूचीस्तिरो मृत्युं दधतां पर्वतेन ॥२३॥
(१२,२.२४ ) आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति स्थ ।
(१२,२.२४ ) तान् वस्त्वष्टा सुजनिमा सजोषाः सर्वमायुर्नयतु जीवनाय ॥२४॥
(१२,२.२५ ) यथाहान्यनुपूर्वं भवन्ति यथ र्तव ऋतुभिर्यन्ति साकम् ।
(१२,२.२५ ) यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम् ॥२५॥
(१२,२.२६ ) अश्मन्वती रीयते सं रभध्वं वीरयध्वं प्र तरता सखायः ।
(१२,२.२६ ) अत्रा जहीत ये असन् दुरेवा अनमीवान् उत्तरेमाभि वाजान् ॥२६॥
(१२,२.२७ ) उत्तिष्ठता प्र तरता सखायोऽश्मन्वती नदी स्यन्दत इयम् ।
(१२,२.२७ ) अत्रा जहीत ये असन्न् अशिवाः शिवान्त्स्योनान् उत्तरेमाभि वाजान् ॥२७॥
(१२,२.२८ ) वैश्वदेवीं वर्चसा आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः ।
(१२,२.२८ ) अतिक्रामन्तो दुरिता पदानि शतं हिमाः सर्ववीरा मदेम ॥२८॥
(१२,२.२९ ) उदीचीनैः पथिभिर्वायुमद्भिरतिक्रामन्तोऽवरान् परेभिः ।
(१२,२.२९ ) त्रिः सप्त कृत्व ऋषयः परेता मृत्युं प्रत्यौहन् पदयोपनेन ॥२९॥
(१२,२.३० ) मृत्योः पदं योपयन्त एत द्राघीय आयुः प्रतरं दधानाः ।
(१२,२.३० ) आसीना मृत्युं नुदता सधस्थेऽथ जीवासो विदथमा वदेम ॥३०॥ {९}
(१२,२.३१ ) इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् ।
(१२,२.३१ ) अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥३१॥
(१२,२.३२ ) व्याकरोमि हविषाहमेतौ तौ ब्रह्मणा व्यहं कल्पयामि ।
(१२,२.३२ ) स्वधां पितृभ्यो अजरां कृणोमि दीर्घेणायुषा समिमान्त्सृजामि ॥३२॥
(१२,२.३३ ) यो नो अग्निः पितरो हृत्स्वन्तराविवेशामृतो मर्त्येषु ।
(१२,२.३३ ) मय्यहं तं परि गृह्णामि देवं मा सो अस्मान् द्विक्षत मा वयं तम् ॥३३॥
(१२,२.३४ ) अपावृत्य गार्हपत्यात्क्रव्यादा प्रेत दक्षिणा ।
(१२,२.३४ ) प्रियं पितृभ्य आत्मने ब्रह्मभ्यः कृणुता प्रियम् ॥३४॥
(१२,२.३५ ) द्विभागधनमादाय प्र क्षिणात्यवर्त्या ।
(१२,२.३५ ) अग्निः पुत्रस्य ज्येष्ठस्य यः क्रव्यादनिराहितः ॥३५॥
(१२,२.३६ ) यत्कृषते यद्वनुते यच्च वस्नेन विन्दते ।
(१२,२.३६ ) सर्वं मर्त्यस्य तन् नास्ति क्रव्याच्चेदनिराहितः ॥३६॥
(१२,२.३७ ) अयज्ञियो हतवर्चा भवति नैनेन हविरत्तवे ।
(१२,२.३७ ) छिनत्ति कृष्या गोर्धनाद्यं क्रव्यादनुवर्तते ॥३७॥
(१२,२.३८ ) मुहुर्गृध्यैः प्र वदत्यार्तिं मर्त्यो नीत्य ।
(१२,२.३८ ) क्रव्याद्यान् अग्निरन्तिकादनुविद्वान् वितावति ॥३८॥
(१२,२.३९ ) ग्राह्या गृहाः सं सृज्यन्ते स्त्रिया यन् म्रियते पतिः ।
(१२,२.३९ ) ब्रह्मैव विद्वान् एष्यो यः क्रव्यादं निरादधत्॥३९॥
(१२,२.४० ) यद्रिप्रं शमलं चकृम यच्च दुष्कृतम् ।
(१२,२.४० ) आपो मा तस्माच्छुम्भन्त्वग्नेः संकसुकाच्च यत्॥४०॥ {१०}
(१२,२.४१ ) ता अधरादुदीचीराववृत्रन् प्रजानैतीः पथिभिर्देवयानैः ।
(१२,२.४१ ) पर्वतस्य वृषभस्याधि पृष्ठे नवाश्चरन्ति सरितः पुराणीः ॥४१॥
(१२,२.४२ ) अग्ने अक्रव्यान् निः क्रव्यादं नुदा देवयजनं वह ॥४२॥
(१२,२.४३ ) इमं क्रव्यादा विवेशायं क्रव्यादमन्वगात्।
(१२,२.४३ ) व्याघ्रौ कृत्वा नानानं तं हरामि शिवापरम् ॥४३॥
(१२,२.४४ ) अन्तर्धिर्देवानां परिधिर्मनुष्याणामग्निर्गार्हपत्य उभयान् अन्तरा श्रितः ॥४४॥
(१२,२.४५ ) जीवानामायुः प्र तिर त्वमग्ने पितॄणां लोकमपि गछन्तु ये मृताः ।
(१२,२.४५ ) सुगार्हपत्यो वितपन्न् अरातिमुषामुषां श्रेयसीं धेह्यस्मै ॥४५॥
(१२,२.४६ ) सर्वान् अग्ने सहमानः सपत्नान् ऐषामूर्जं रयिमस्मासु धेहि ॥४६॥
(१२,२.४७ ) इममिन्द्रं वह्निं पप्रिमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्।
(१२,२.४७ ) तेनाप हत शरुमापतन्तं तेन रुद्रस्य परि पातास्ताम् ॥४७॥
(१२,२.४८ ) अनड्वाहं प्लवमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्।
(१२,२.४८ ) आ रोहत सवितुर्नावमेतां षड्भिरुर्वीभिरमतिं तरेम ॥४८॥
(१२,२.४९ ) अहोरात्रे अन्वेषि बिभ्रत्क्षेम्यस्तिष्ठन् प्रतरणः सुवीरः ।
(१२,२.४९ ) अनातुरान्त्सुमनसस्तल्प बिभ्रज्ज्योगेव नः पुरुषगन्धिरेधि ॥४९॥
(१२,२.५० ) ते देवेभ्य आ वृश्चन्ते पापं जीवन्ति सर्वदा ।
(१२,२.५० ) क्रव्याद्यान् अग्निरन्तिकादश्व इवानुवपते नडम् ॥५०॥ {११}
(१२,२.५१ ) येऽश्रद्धा धनकाम्या क्रव्यादा समासते ।
(१२,२.५१ ) ते वा अन्येषां कुम्भीं पर्यादधति सर्वदा ॥५१॥
(१२,२.५२ ) प्रेव पिपतिषति मनसा मुहुरा वर्तते पुनः ।
(१२,२.५२ ) क्रव्याद्यान् अग्निरन्तिकादनुविद्वान् वितावति ॥५२॥
(१२,२.५३ ) अविः कृष्णा भागधेयं पशूनां सीसं क्रव्यादपि चन्द्रं त आहुः ।
(१२,२.५३ ) माषाः पिष्टा भागधेयं ते हव्यमरण्यान्या गह्वरं सचस्व ॥५३॥
(१२,२.५४ ) इषीकां जरतीमिष्ट्वा तिल्पिञ्जं दण्डनं नडम् ।
(१२,२.५४ ) तमिन्द्र इध्मं कृत्वा यमस्याग्निं निरादधौ ॥५४॥
(१२,२.५५ ) प्रत्यञ्चमर्कं प्रत्यर्पयित्वा प्रविद्वान् पन्थां वि ह्याविवेश ।
(१२,२.५५ ) परामीषामसून् दिदेश दीर्घेणायुषा समिमान्त्सृजामि ॥५५॥ {१२}
(१२,३.१ ) पुमान् पुंसोऽधि तिष्ठ चर्मेहि तत्र ह्वयस्व यतमा प्रिया ते ।
(१२,३.१ ) यावन्तावग्रे प्रथमं समेयथुस्तद्वां वयो यमराज्ये समानम् ॥१॥
(१२,३.२ ) तावद्वां चक्षुस्तति वीर्याणि तावत्तेजस्ततिधा वाजिनानि ।
(१२,३.२ ) अग्निः शरीरं सचते यदैधोऽधा पक्वान् मिथुना सं भवाथः ॥२॥
(१२,३.३ ) समस्मिंल्लोके समु देवयाने सं स्मा समेतं यमराज्येषु ।
(१२,३.३ ) पूतौ पवित्रैरुप तद्ध्वयेथां यद्यद्रेतो अधि वां संबभूव ॥३॥
(१२,३.४ ) आपस्पुत्रासो अभि सं विशध्वमिमं जीवं जीवधन्याः समेत्य ।
(१२,३.४ ) तासां भजध्वममृतं यमाहुरोदनं पचति वां जनित्री ॥४॥
(१२,३.५ ) यं वां पिता पचति यं च माता रिप्रान् निर्मुक्त्यै शमलाच्च वाचः ।
(१२,३.५ ) स ओदनः शतधारः स्वर्ग उभे व्याप नभसी महित्वा ॥५॥
(१२,३.६ ) उभे नभसी उभयांश्च लोकान् ये यज्वनामभिजिताः स्वर्गाः ।
(१२,३.६ ) तेषां ज्योतिष्मान् मधुमान् यो अग्रे तस्मिन् पुत्रैर्जरसि सं श्रयेथाम् ॥६॥
(१२,३.७ ) प्राचींप्राचीं प्रदिशमा रभेथामेतं लोकं श्रद्दधानाः सचन्ते ।
(१२,३.७ ) यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दंपती सं श्रयेथाम् ॥७॥
(१२,३.८ ) दक्षिणां दिशमभि नक्षमाणौ पर्यावर्तेथामभि पात्रमेतत्।
(१२,३.८ ) तस्मिन् वां यमः पितृभिः संविदानः पक्वाय शर्म बहुलं नि यछात्॥८॥
(१२,३.९ ) प्रतीची दिशामियमिद्वरं यस्यां सोमो अधिपा मृडिता च ।
(१२,३.९ ) तस्यां श्रयेथां सुकृतः सचेथामधा पक्वान् मिथुना सं भवाथः ॥९॥
(१२,३.१० ) उत्तरं राष्ट्रं प्रजयोत्तरावद्दिशामुदीची कृणवन् नो अग्रम् ।
(१२,३.१० ) पाङ्क्तं छन्दः पुरुषो बभूव विश्वैर्विश्वाङ्गैः सह सं भवेम ॥१०॥ {१३}
(१२,३.११ ) ध्रुवेयं विराण्नमो अस्त्वस्यै शिवा पुत्रेभ्य उत मह्यमस्तु ।
(१२,३.११ ) सा नो देव्यदिते विश्ववार इर्य इव गोपा अभि रक्ष पक्वम् ॥११॥
(१२,३.१२ ) पितेव पुत्रान् अभि सं स्वजस्व नः शिवा नो वाता इह वान्तु भूमौ ।
(१२,३.१२ ) यमोदनं पचतो देवते इह तं नस्तप उत सत्यं च वेत्तु ॥१२॥
(१२,३.१३ ) यद्यद्कृष्णः शकुन एह गत्वा त्सरन् विषक्तं बिल आससाद ।
(१२,३.१३ ) यद्वा दास्यार्द्रहस्ता समङ्क्त उलूखलं मुसलं शुम्भतापः ॥१३॥
(१२,३.१४ ) अयं ग्रावा पृथुबुध्नो वयोधाः पूतः पवित्रैरप हन्तु रक्षः ।
(१२,३.१४ ) आ रोह चर्म महि शर्म यछ मा दंपती पौत्रमघं नि गाताम् ॥१४॥
(१२,३.१५ ) वनस्पतिः सह देवैर्न आगन् रक्षः पिशाचामपबाधमानः ।
(१२,३.१५ ) स उच्छ्रयातै प्र वदाति वाचं तेन लोकामभि सर्वान् जयेम ॥१५॥
(१२,३.१६ ) सप्त मेधान् पशवः पर्यगृह्णन् य एषां ज्योतिष्मामुत यश्चकर्श ।
(१२,३.१६ ) त्रयस्त्रिंशद्देवतास्तान्त्सचन्ते स नः स्वर्गमभि नेष लोकम् ॥१६॥
(१२,३.१७ ) स्वर्गं लोकमभि नो नयासि सं जायया सह पुत्रैः स्याम ।
(१२,३.१७ ) गृह्णामि हस्तमनु मैत्वत्र मा नस्तारीन् निरृतिर्मो अरातिः ॥१७॥
(१२,३.१८ ) ग्राहिं पाप्मानमति तामयाम तमो व्यस्य प्र वदासि वल्गु ।
(१२,३.१८ ) वानस्पत्य उद्यतो मा जिहिंसीर्मा तण्डुलं वि शरीर्देवयन्तम् ॥१८॥
(१२,३.१९ ) विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् ।
(१२,३.१९ ) वर्षवृद्धमुप यछ शूर्पं तुषं पलावान् अप तद्विनक्तु ॥१९॥
(१२,३.२० ) त्रयो लोकाः संमिता ब्राह्मणेन द्यौरेवासौ पृथिव्यन्तरिक्षम् ।
(१२,३.२० ) अंशून् गृभीत्वान्वारभेथामा प्यायन्तां पुनरा यन्तु शूर्पम् ॥२०॥ {१४}
(१२,३.२१ ) पृथग्रूपाणि बहुधा पशूनामेकरूपो भवसि सं समृद्ध्या ।
(१२,३.२१ ) एतां त्वचं लोहिनीं तां नुदस्व ग्रावा शुम्भाति मलग इव वस्त्रा ॥२१॥
(१२,३.२२ ) पृथिवीं त्वा पृथिव्यामा वेशयामि तनूः समानी विकृता त एषा ।
(१२,३.२२ ) यद्यद्द्युत्तं लिखितमर्पणेन तेन मा सुस्रोर्ब्रह्मणापि तद्वपामि ॥२२॥
(१२,३.२३ ) जनित्रीव प्रति हर्यासि सूनुं सं त्वा दधामि पृथिवीं पृथिव्या ।
(१२,३.२३ ) उखा कुम्भी वेद्यां मा व्यथिष्ठा यज्ञायुधैराज्येनातिषक्ता ॥२३॥
(१२,३.२४ ) अग्निः पचन् रक्षतु त्वा पुरस्तादिन्द्रो रक्षतु दक्षिणतो मरुत्वान् ।
(१२,३.२४ ) वरुणस्त्वा दृंहाद्धरुणे प्रतीच्या उत्तरात्त्वा सोमः सं ददातै ॥२४॥
(१२,३.२५ ) पूताः पवित्रैः पवन्ते अभ्राद्दिवं च यन्ति पृथिवीं च लोकान् ।
(१२,३.२५ ) ता जीवला जीवधन्याः प्रतिष्ठाः पात्र आसिक्ताः पर्यग्निरिन्धाम् ॥२५॥
(१२,३.२६ ) आ यन्ति दिवः पृथिवीं सचन्ते भूम्याः सचन्ते अध्यन्तरिक्षम् ।
(१२,३.२६ ) शुद्धाः सतीस्ता उ शुम्भन्त एव ता नः स्वर्गमभि लोकं नयन्तु ॥२६॥
(१२,३.२७ ) उतेव प्रभ्वीरुत संमितास उत शुक्राः शुचयश्चामृतासः ।
(१२,३.२७ ) ता ओदनं दंपतिभ्यां प्रशिष्टा आपः शिक्षन्तीः पचता सुनाथाः ॥२७॥
(१२,३.२८ ) संख्याता स्तोकाः पृथिवीं सचन्ते प्राणापानैः संमिता ओषधीभिः ।
(१२,३.२८ ) असंख्याता ओप्यमानाः सुवर्णाः सर्वं व्यापुः शुचयः शुचित्वम् ॥२८॥
(१२,३.२९ ) उद्योधन्त्यभि वल्गन्ति तप्ताः फेनमस्यन्ति बहुलांश्च बिन्दून् ।
(१२,३.२९ ) योषेव दृष्ट्वा पतिमृत्वियायैतैस्तण्डुलैर्भवता समापः ॥२९॥
(१२,३.३० ) उत्थापय सीदतो बुध्न एनान् अद्भिरात्मानमभि सं स्पृशन्ताम् ।
(१२,३.३० ) अमासि पात्रैरुदकं यदेतन् मितास्तण्डुलाः प्रदिशो यदीमाः ॥३०॥ {१५}
(१२,३.३१ ) प्र यछ पर्शुं त्वरया हरौसमहिंसन्त ओषधीर्दान्तु पर्वन् ।
(१२,३.३१ ) वासां सोमः परि राज्यं बभूवामन्युता नो वीरुधो भवन्तु ॥३१॥
(१२,३.३२ ) नवं बर्हिरोदनाय स्तृणीत प्रियं हृदश्चक्षुषो वल्ग्वस्तु ।
(१२,३.३२ ) तस्मिन् देवाः सह दैवीर्विशन्त्विमं प्राश्नन्त्वृतुभिर्निषद्य ॥३२॥
(१२,३.३३ ) वनस्पते स्तीर्णमा सीद बर्हिरग्निष्टोभैः संमितो देवताभिः ।
(१२,३.३३ ) त्वष्ट्रेव रूपं सुकृतं स्वधित्यैना एहाः परि पात्रे ददृश्राम् ॥३३॥
(१२,३.३४ ) षष्ट्यां शरत्सु निधिपा अभीछात्स्वः पक्वेनाभ्यश्नवातै ।
(१२,३.३४ ) उपैनं जीवान् पितरश्च पुत्रा एतं स्वर्गं गमयान्तमग्नेः ॥३४॥
(१२,३.३५ ) धर्ता ध्रियस्व धरुणे पृथिव्या अच्युतं त्वा देवताश्च्यावयन्तु ।
(१२,३.३५ ) तं त्वा दंपती जीवन्तौ जीवपुत्रावुद्वासयातः पर्यग्निधानात्॥३५॥
(१२,३.३६ ) सर्वान्त्समागा अभिजित्य लोकान् यावन्तः कामाः समतीतृपस्तान् ।
(१२,३.३६ ) वि गाहेथामायवनं च दर्विरेकस्मिन् पात्रे अध्युद्धरैनम् ॥३६॥
(१२,३.३७ ) उप स्तृणीहि प्रथय पुरस्ताद्घृतेन पात्रमभि घारयैतत्।
(१२,३.३७ ) वाश्रेवोस्रा तरुणं स्तनस्युमिमं देवासो अभिहिङ्कृणोत ॥३७॥
(१२,३.३८ ) उपास्तरीरकरो लोकमेतमुरुः प्रथतामसमः स्वर्गः ।
(१२,३.३८ ) तस्मिं छ्रयातै महिषः सुपर्णो देवा एनं देवताभ्यः प्र यछान् ॥३८॥
(१२,३.३९ ) यद्यज्जाया पचति त्वत्परःपरः पतिर्वा जाये त्वत्तिरः ।
(१२,३.३९ ) सं तत्सृजेथां सह वां तदस्तु संपादयन्तौ सह लोकमेकम् ॥३९॥
(१२,३.४० ) यावन्तो अस्याः पृथिवीं सचन्ते अस्मत्पुत्राः परि ये संबभूवुः ।
(१२,३.४० ) सर्वांस्तामुप पात्रे ह्वयेथां नाभिं जानानाः शिशवः समायान् ॥४०॥ {१६}
(१२,३.४१ ) वसोर्या धारा मधुना प्रपीना घृतेन मिश्रा अमृतस्य नाभयः ।
(१२,३.४१ ) सर्वास्ता अव रुन्धे स्वर्गः षष्ट्यां शरत्सु निधिपा अभीछात्॥४१॥
(१२,३.४२ ) निधिं निधिपा अभ्येनमिछादनीश्वरा अभितः सन्तु येऽन्ये ।
(१२,३.४२ ) अस्माभिर्दत्तो निहितः स्वर्गस्त्रिभिः काण्डैस्त्रीन्त्स्वर्गान् अरुक्षत्॥४२॥
(१२,३.४३ ) अग्नी रक्षस्तपतु यद्विदेवं क्रव्याद्पिशाच इह मा प्र पास्त ।
(१२,३.४३ ) नुदाम एनमप रुध्मो अस्मदादित्या एनमङ्गिरसः सचन्ताम् ॥४३॥
(१२,३.४४ ) आदित्येभ्यो अङ्गिरोभ्यो मध्विदं घृतेन मिश्रं प्रति वेदयामि ।
(१२,३.४४ ) शुद्धहस्तौ ब्राह्मणस्यानिहत्यैतं स्वर्गं सुकृतावपीतम् ॥४४॥
(१२,३.४५ ) इदं प्रापमुत्तमं काण्डमस्य यस्माल्लोकात्परमेष्ठी समाप ।
(१२,३.४५ ) आ सिञ्च सर्पिर्घृतवत्समङ्ग्ध्येष भागो अङ्गिरसो नो अत्र ॥४५॥
(१२,३.४६ ) सत्याय च तपसे देवताभ्यो निधिं शेवधिं परि दद्म एतम् ।
(१२,३.४६ ) मा नो द्यूतेऽव गान् मा समित्यां मा स्मान्यस्मा उत्सृजता पुरा मत्॥४६॥
(१२,३.४७ ) अहं पचाम्यहं ददामि ममेदु कर्मन् करुणेऽधि जाया ।
(१२,३.४७ ) कौमारो लोको अजनिष्ट पुत्रोऽन्वारभेथां वय उत्तरावत्॥४७॥
(१२,३.४८ ) न किल्बिषमत्र नाधारो अस्ति न यन् मित्रैः समममान एति ।
(१२,३.४८ ) अनूनं पात्रं निहितं न एतत्पक्तारं पक्वः पुनरा विशाति ॥४८॥
(१२,३.४९ ) प्रियं प्रियाणां कृणवाम तमस्ते यन्तु यतमे द्विषन्ति ।
(१२,३.४९ ) धेनुरनड्वान् वयोवय आयदेव पौरुषेयमप मृत्युं नुदन्तु ॥४९॥
(१२,३.५० ) समग्नयः विदुरन्यो अन्यं य ओषधीः सचते यश्च सिन्धून् ।
(१२,३.५० ) यावन्तो देवा दिव्यातपन्ति हिरण्यं ज्योतिः पचतो बभूव ॥५०॥ {१७}
(१२,३.५१ ) एषा त्वचां पुरुषे सं बभूवानग्नाः सर्वे पशवो ये अन्ये ।
(१२,३.५१ ) क्षत्रेणात्मानं परि धापयाथोऽमोतं वासो मुखमोदनस्य ॥५१॥
(१२,३.५२ ) यदक्षेषु वदा यत्समित्यां यद्वा वदा अनृतं वित्तकाम्या ।
(१२,३.५२ ) समानं तन्तुमभि सम्वसानौ तस्मिन्त्सर्वं शमलं सादयाथः ॥५२॥
(१२,३.५३ ) वर्षं वनुष्वापि गछ देवांस्त्वचो धूमं पर्युत्पातयासि ।
(१२,३.५३ ) विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् ॥५३॥
(१२,३.५४ ) तन्वं स्वर्गो बहुधा वि चक्रे यथा विद आत्मन्न् अन्यवर्णाम् ।
(१२,३.५४ ) अपाजैत्कृष्णां रुशतीं पुनानो या लोहिनी तां ते अग्नौ जुहोमि ॥५४॥
(१२,३.५५ ) प्राच्यै त्वा दिशेऽग्नयेऽधिपतयेऽसिताय रक्षित्र आदित्यायेषुमते ।
(१२,३.५५ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
(१२,३.५५ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५५॥
(१२,३.५६ ) दक्षिणायै त्वा दिश इन्द्रायाधिपतये तिरश्चिराजये रक्षित्रे यमायेषुमते ।
(१२,३.५६ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
(१२,३.५६ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५६॥
(१२,३.५७ ) प्रतीच्यै त्वा दिशे वरुणायाधिपतये पृदाकवे रक्षित्रेऽन्नायेषुमते ।
(१२,३.५७ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
(१२,३.५७ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५७॥
(१२,३.५८ ) उदीच्यै त्वा दिशे सोमायाधिपतये स्वजाय रक्षित्रेऽशन्या इषुमत्यै ।
(१२,३.५८ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
(१२,३.५८ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५८॥
(१२,३.५९ ) ध्रुवायै त्वा दिशे विष्णवेऽधिपतये कल्माषग्रीवाय रक्षित्र ओषधीभ्य इषुमतीभ्यः ।
(१२,३.५९ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
(१२,३.५९ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५९॥
(१२,३.६० ) ऊर्ध्वायै त्वा दिशे बृहस्पतयेऽधिपतये श्वित्राय रक्षित्रे वर्षायेषुमते ।
(१२,३.६० ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
(१२,३.६० ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥६०॥ {१८}
(१२,४.१ ) ददामीत्येव ब्रूयादनु चैनामभुत्सत ।
(१२,४.१ ) वशां ब्रह्मभ्यो याचद्भ्यस्तत्प्रजावदपत्यवत्॥१॥
(१२,४.२ ) प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति ।
(१२,४.२ ) य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ॥२॥
(१२,४.३ ) कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति ।
(१२,४.३ ) बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥३॥
(१२,४.४ ) विलोहितो अधिष्ठानाच्छक्नो विन्दति गोपतिम् ।
(१२,४.४ ) तथा वशायाः संविद्यं दुरदभ्ना ह्युच्यसे ॥४॥
(१२,४.५ ) पदोरस्या अधिष्ठानाद्विक्लिन्दुर्नाम विन्दति ।
(१२,४.५ ) अनामनात्सं शीर्यन्ते या मुखेनोपजिघ्रति ॥५॥
(१२,४.६ ) यो अस्याः कर्णावास्कुनोत्या स देवेषु वृश्चते ।
(१२,४.६ ) लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ॥६॥
(१२,४.७ ) यदस्याः कस्मै चिद्भोगाय बालान् कश्चित्प्रकृन्तति ।
(१२,४.७ ) ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः ॥७॥
(१२,४.८ ) यदस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत्।
(१२,४.८ ) ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्यनामनात्॥८॥
(१२,४.९ ) यदस्याः पल्पूलनं शकृद्दासी समस्यति ।
(१२,४.९ ) ततोऽपरूपं जायते तस्मादव्येष्यदेनसः ॥९॥
(१२,४.१० ) जायमानाभि जायते देवान्त्सब्राह्मणान् वशा ।
(१२,४.१० ) तस्माद्ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम् ॥१०॥ {१९}
(१२,४.११ ) य एनां वनिमायन्ति तेषां देवकृता वशा ।
(१२,४.११ ) ब्रह्मज्येयं तदब्रुवन् य एनां निप्रियायते ॥११॥
(१२,४.१२ ) य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ।
(१२,४.१२ ) आ स देवेषु वृश्चते ब्राह्मणानां च मन्यवे ॥१२॥
(१२,४.१३ ) यो अस्य स्याद्वशाभोगो अन्यामिछेत तर्हि सः ।
(१२,४.१३ ) हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति ॥१३॥
(१२,४.१४ ) यथा शेवधिर्निहितो ब्राह्मणानां तथा वशा ।
(१२,४.१४ ) तामेतदछायन्ति यस्मिन् कस्मिंश्च जायते ॥१४॥
(१२,४.१५ ) स्वमेतदछायन्ति यद्वशां ब्राह्मणा अभि ।
(१२,४.१५ ) यथैनान् अन्यस्मिन् जिनीयादेवास्या निरोधनम् ॥१५॥
(१२,४.१६ ) चरेदेवा त्रैहायणादविज्ञातगदा सती ।
(१२,४.१६ ) वशां च विद्यान् नारद ब्राह्मणास्तर्ह्येष्याः ॥१६॥
(१२,४.१७ ) य एनामवशामाह देवानां निहितं निधिम् ।
(१२,४.१७ ) उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः ॥१७॥
(१२,४.१८ ) यो अस्या ऊधो न वेदाथो अस्या स्तनान् उत ।
(१२,४.१८ ) उभयेनैवास्मै दुहे दातुं चेदशकद्वशाम् ॥१८॥
(१२,४.१९ ) दुरदभ्नैनमा शये याचितां च न दित्सति ।
(१२,४.१९ ) नास्मै कामाः समृध्यन्ते यामदत्त्वा चिकीर्षति ॥१९॥
(१२,४.२० ) देवा वशामयाचन् मुखं कृत्वा ब्राह्मणम् ।
(१२,४.२० ) तेषां सर्वेषामददद्धेडं न्येति मानुषः ॥२०॥ {२०}
(१२,४.२१ ) हेडं पशूनां न्येति ब्राह्मणेभ्योऽददद्वशाम् ।
(१२,४.२१ ) देवानां निहितं भागं मर्त्यश्चेन् निप्रियायते ॥२१॥
(१२,४.२२ ) यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम् ।
(१२,४.२२ ) अथैनां देवा अब्रुवन्न् एवं ह विदुषो वशा ॥२२॥
(१२,४.२३ ) य एवं विदुषेऽदत्त्वाथान्येभ्यो ददद्वशाम् ।
(१२,४.२३ ) दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता ॥२३॥
(१२,४.२४ ) देवा वशामयाचन् यस्मिन्न् अग्रे अजायत ।
(१२,४.२४ ) तामेतां विद्यान् नारदः सह देवैरुदाजत ॥२४॥
(१२,४.२५ ) अनपत्यमल्पपशुं वशा कृणोति पूरुषम् ।
(१२,४.२५ ) ब्राह्मणैश्च याचितामथैनां निप्रियायते ॥२५॥
(१२,४.२६ ) अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च ।
(१२,४.२६ ) तेभ्यो याचन्ति ब्राह्मणास्तेष्वा वृश्चतेऽददत्॥२६॥
(१२,४.२७ ) यावदस्या गोपतिर्नोपशृणुयादृचः स्वयम् ।
(१२,४.२७ ) चरेदस्य तावद्गोषु नास्य श्रुत्वा गृहे वसेत्॥२७॥
(१२,४.२८ ) यो अस्या ऋच उपश्रुत्याथ गोष्वचीचरत्।
(१२,४.२८ ) आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः ॥२८॥
(१२,४.२९ ) वशा चरन्ती बहुधा देवानां निहितो निधिः ।
(१२,४.२९ ) आविष्कृणुष्व रूपाणि यदा स्थाम जिघांसति ॥२९॥
(१२,४.३० ) आविरात्मानं कृणुते यदा स्थाम जिघांसति ।
(१२,४.३० ) अथो ह ब्रह्मभ्यो वशा याञ्च्याय कृणुते मनः ॥३०॥ {२१}
(१२,४.३१ ) मनसा सं कल्पयति तद्देवामपि गछति ।
(१२,४.३१ ) ततो ह ब्रह्माणो वशामुपप्रयन्ति याचितुम् ॥३१॥
(१२,४.३२ ) स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः ।
(१२,४.३२ ) दानेन राजन्यो वशाया मातुर्हेडं न गछति ॥३२॥
(१२,४.३३ ) वशा माता राजन्यस्य तथा संभूतमग्रशः ।
(१२,४.३३ ) तस्या आहुरनर्पणं यद्ब्रह्मभ्यः प्रदीयते ॥३३॥
(१२,४.३४ ) यथाज्यं प्रगृहीतमालुम्पेत्स्रुचो अग्नये ।
(१२,४.३४ ) एवा ह ब्रह्मभ्यो वशामग्नय आ वृश्चतेऽददत्॥३४॥
(१२,४.३५ ) पुरोडाशवत्सा सुदुघा लोकेऽस्मा उप तिष्ठति ।
(१२,४.३५ ) सास्मै सर्वान् कामान् वशा प्रददुषे दुहे ॥३५॥
(१२,४.३६ ) सर्वान् कामान् यमराज्ये वशा प्रददुषे दुहे ।
(१२,४.३६ ) अथाहुर्नारकं लोकं निरुन्धानस्य याचिताम् ॥३६॥
(१२,४.३७ ) प्रवीयमाना चरति क्रुद्धा गोपतये वशा ।
(१२,४.३७ ) वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम् ॥३७॥
(१२,४.३८ ) यो वेहतं मन्यमानोऽमा च पचते वशाम् ।
(१२,४.३८ ) अप्यस्य पुत्रान् पौत्रांश्च याचयते बृहस्पतिः ॥३८॥
(१२,४.३९ ) महदेषाव तपति चरन्ती गोषु गौरपि ।
(१२,४.३९ ) अथो ह गोपतये वशाददुषे विषं दुहे ॥३९॥
(१२,४.४० ) प्रियं पशूनां भवति यद्ब्रह्मभ्यः प्रदीयते ।
(१२,४.४० ) अथो वशायास्तत्प्रियं यद्देवत्रा हविः स्यात्॥४०॥ {२२}
(१२,४.४१ ) या वशा उदकल्पयन् देवा यज्ञादुदेत्य ।
(१२,४.४१ ) तासां विलिप्त्यं भीमामुदाकुरुत नारदः ॥४१॥
(१२,४.४२ ) तां देवा अमीमांसन्त वशेया३ अवशेति ।
(१२,४.४२ ) तामब्रवीन् नारद एषा वशानां वशतमेति ॥४२॥
(१२,४.४३ ) कति नु वशा नारद यास्त्वं वेत्थ मनुष्यजाः ।
(१२,४.४३ ) तास्त्वा पृछामि विद्वांसं कस्या नाश्नीयादब्राह्मणः ॥४३॥
(१२,४.४४ ) विलिप्त्या बृहस्पते या च सूतवशा वशा ।
(१२,४.४४ ) तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४४॥
(१२,४.४५ ) नमस्ते अस्तु नारदानुष्ठु विदुषे वशा ।
(१२,४.४५ ) कतमासां भीमतमा यामदत्त्वा पराभवेत्॥४५॥
(१२,४.४६ ) विलिप्ती या बृहस्पतेऽथो सूतवशा वशा ।
(१२,४.४६ ) तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४६॥
(१२,४.४७ ) त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा ।
(१२,४.४७ ) ताः प्र यछेद्ब्रह्मभ्यः सोऽनाव्रस्कः प्रजापतौ ॥४७॥
(१२,४.४८ ) एतद्वो ब्राह्मणा हविरिति मन्वीत याचितः ।
(१२,४.४८ ) वशां चेदेनं याचेयुर्या भीमाददुषो गृहे ॥४८॥
(१२,४.४९ ) देवा वशां पर्यवदन् न नोऽदादिति हीडिताः ।
(१२,४.४९ ) एताभिरृग्भिर्भेदं तस्माद्वै स पराभवत्॥४९॥
(१२,४.५० ) उतैनां भेदो नाददाद्वशामिन्द्रेण याचितः ।
(१२,४.५० ) तस्मात्तं देवा आगसोऽवृश्चन्न् अहमुत्तरे ॥५०॥
(१२,४.५१ ) ये वशाया अदानाय वदन्ति परिरापिणः ।
(१२,४.५१ ) इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥५१॥
(१२,४.५२ ) ये गोपतिं पराणीयाथाहुर्मा ददा इति ।
(१२,४.५२ ) रुद्रस्यास्तां ते हेतीं परि यन्त्यचित्त्या ॥५२॥
(१२,४.५३ ) यदि हुतं यद्यहुताममा च पचते वशाम् ।
(१२,४.५३ ) देवान्त्सब्राह्मणान् ऋत्वा जिह्मो लोकान् निरृछति ॥५३॥ {२३}
(१२,५.५३ ) श्रमेण तपसा सृष्टा ब्रह्मणा वित्ता र्ते श्रिता ॥१॥
(१२,५.२ ) सत्येनावृता श्रिया प्रावृता यशसा परीवृता ॥२॥
(१२,५.३ ) स्वधया परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको निधनम् ॥३॥
(१२,५.४ ) ब्रह्म पदवायं ब्राह्मणोऽधिपतिः ॥४॥
(१२,५.५ ) तामाददानस्य ब्रह्मगवीं जिनतो ब्राह्मणं क्षत्रियस्य ॥५॥
(१२,५.६ ) अप क्रामति सूनृता वीर्यं पुन्या लक्ष्मीः ॥६॥ {२४}
(१२,५.७ ) ओजश्च तेजश्च सहश्च बलं च वाक्चेन्द्रियं च श्रीश्च धर्मश्च ॥७॥
(१२,५.८ ) ब्रह्म च क्षत्रं च राष्ट्रं च विशश्च त्विषिश्च यशश्च वर्चश्च द्रविणं च ॥८॥
(१२,५.९ ) आयुश्च रूपं च नाम च कीर्तिश्च प्राणश्चापानश्च चक्षुश्च श्रोत्रं च ॥९॥
(१२,५.१० ) पयश्च रसश्चान्नं चान्नाद्यं च र्तं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश्च ॥१०॥
(१२,५.११ ) तानि सर्वाण्यप क्रामन्ति ब्रह्मगवीमाददानस्य जिनतो ब्राह्मणं क्षत्रियस्य ॥११॥ {२५}
(१२,५.१२ ) सैषा भीमा ब्रह्मगव्यघविषा साक्षात्कृत्या कूल्बजमावृता ॥१२॥
(१२,५.१३ ) सर्वाण्यस्यां घोराणि सर्वे च मृत्यवः ॥१३॥
(१२,५.१४ ) सर्वाण्यस्यां क्रूराणि सर्वे पुरुषवधाः ॥१४॥
(१२,५.१५ ) सा ब्रह्मज्यं देवपीयुं ब्रह्मगव्यादीयमाना मृत्योः पद्वीष आ द्यति ॥१५॥
(१२,५.१६ ) मेनिः शतवधा हि सा ब्रह्मज्यस्य क्षितिर्हि सा ॥१६॥
(१२,५.१७ ) तस्माद्वै ब्राह्मणानां गौर्दुराधर्षा विजानता ॥१७॥
(१२,५.१८ ) वज्रो धावन्ती वैश्वानर उद्वीता ॥१८॥
(१२,५.१९ ) हेतिः शफान् उत्खिदन्ती महादेवोऽपेक्षमाणा ॥१९॥
(१२,५.२० ) क्षुरपविरीक्षमाणा वाश्यमानाभि स्फूर्जति ॥२०॥
(१२,५.२१ ) मृत्युर्हिङ्कृण्वत्युग्रो देवः पुछं पर्यस्यन्ती ॥२१॥
(१२,५.२२ ) सर्वज्यानिः कर्णौ वरीवर्जयन्ती राजयक्ष्मो मेहन्ती ॥२२॥
(१२,५.२३ ) मेनिर्दुह्यमाना शीर्षक्तिर्दुग्धा ॥२३॥
(१२,५.२४ ) सेदिरुपतिष्ठन्ती मिथोयोधः परामृष्टा ॥२४॥
(१२,५.२५ ) शरव्या मुखेऽपिनह्यमान ऋतिर्हन्यमाना ॥२५॥
(१२,५.२६ ) अघविषा निपतन्ती तमो निपतिता ॥२६॥
(१२,५.२७ ) अनुगछन्ती प्राणान् उप दासयति ब्रह्मगवी ब्रह्मज्यस्य ॥२७॥ {२६}
(१२,५.२८ ) वैरं विकृत्यमाना पौत्राद्यं विभाज्यमाना ॥२८॥
(१२,५.२९ ) देवहेतिर्ह्रियमाणा व्यृद्धिर्हृता ॥२९॥
(१२,५.३० ) पाप्माधिधीयमाना पारुष्यमवधीयमाना ॥३०॥
(१२,५.३१ ) विषं प्रयस्यन्ती तक्मा प्रयस्ता ॥३१॥
(१२,५.३२ ) अघं प्रच्यमाना दुष्वप्न्यं पक्वा ॥३२॥
(१२,५.३३ ) मूलबर्हणी पर्याक्रियमाणा क्षितिः पर्याकृता ॥३३॥
(१२,५.३४ ) असंज्ञा गन्धेन शुगुद्ध्रियमाणाशीविष उद्धृता ॥३४॥
(१२,५.३५ ) अभूतिरुपह्रियमाणा पराभूतिरुपहृता ॥३५॥
(१२,५.३६ ) शर्वः क्रुद्धः पिश्यमाना शिमिदा पिशिता ॥३६॥
(१२,५.३७ ) अवर्तिरश्यमाना निरृतिरशिता ॥३७॥
(१२,५.३८ ) अशिता लोकाच्छिनत्ति ब्रह्मगवी ब्रह्मज्यमस्माच्चामुष्माच्च ॥३८॥ {२७}
(१२,५.३९ ) तस्या आहननं कृत्या मेनिराशसनं वलग ऊबध्यम् ॥३९॥
(१२,५.४० ) अस्वगता परिह्णुता ॥४०॥
(१२,५.४१ ) अग्निः क्रव्याद्भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति ॥४१॥
(१२,५.४२ ) सर्वास्याङ्गा पर्वा मूलानि वृश्चति ॥४२॥
(१२,५.४३ ) छिनत्त्यस्य पितृबन्धु परा भावयति मातृबन्धु ॥४३॥
(१२,५.४४ ) विवाहां ज्ञातीन्त्सर्वान् अपि क्षापयति ब्रह्मगवी ब्रह्मज्यस्य क्षत्रियेणापुनर्दीयमाना ॥४४॥
(१२,५.४५ ) अवास्तुमेनमस्वगमप्रजसं करोत्यपरापरणो भवति क्षीयते ॥४५॥
(१२,५.४६ ) य एवं विदुषो ब्राह्मणस्य क्षत्रियो गामादत्ते ॥४६॥ {२८}
(१२,५.४७ ) क्षिप्रं वै तस्याहनने गृध्राः कुर्वत ऐलबम् ॥४७॥
(१२,५.४८ ) क्षिप्रं वै तस्यादहनं परि नृत्यन्ति केशिनीराघ्नानाः पाणिनोरसि कुर्वाणाः पापमैलबम् ॥४८॥
(१२,५.४९ ) क्षिप्रं वै तस्य वास्तुषु वृकाः कुर्वत ऐलबम् ॥४९॥
(१२,५.५० ) क्षिप्रं वै तस्य पृछन्ति यत्तदासी३ इदं नु ता३ इति ॥५०॥
(१२,५.५१ ) छिन्ध्या छिन्धि प्र छिन्ध्यपि क्षापय क्षापय ॥५१॥
(१२,५.५२ ) आददानमाङ्गिरसि ब्रह्मज्यमुप दासय ॥५२॥
(१२,५.५३ ) वैश्वदेवी ह्युच्यसे कृत्या कूल्बजमावृता ॥५३॥
(१२,५.५४ ) ओषन्ती समोषन्ती ब्रह्मणो वज्रः ॥५४॥
(१२,५.५५ ) क्षुरपविर्मृत्युर्भूत्वा वि धाव त्वम् ॥५५॥
(१२,५.५६ ) आ दत्से जिनतां वर्च इष्टं पूर्तं चाशिषः ॥५६॥
(१२,५.५७ ) आदाय जीतं जीताय लोकेऽमुष्मिन् प्र यछसि ॥५७॥
(१२,५.५८ ) अघ्न्ये पदवीर्भव ब्राह्मणस्याभिशस्त्या ॥५८॥
(१२,५.५९ ) मेनिः शरव्या भवाघादघविषा भव ॥५९॥
(१२,५.६० ) अघ्न्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः ॥६०॥
(१२,५.६१ ) त्वया प्रमूर्णं मृदितमग्निर्दहतु दुश्चितम् ॥६१॥ {२९}
(१२,५.६२ ) वृश्च प्र वृश्च सं वृश्च दह प्र दह सं दह ॥६२॥
(१२,५.६३ ) ब्रह्मज्यं देव्यघ्न्य आ मूलादनुसंदह ॥६३॥
(१२,५.६४ ) यथायाद्यमसादनात्पापलोकान् परावतः ॥६४॥
(१२,५.६५ ) एवा त्वं देव्यघ्न्ये ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः ॥६५॥
(१२,५.६६ ) वज्रेण शतपर्वणा तीक्ष्णेन क्षुरभृष्टिना ॥६६॥
(१२,५.६७ ) प्र स्कन्धान् प्र शिरो जहि ॥६७॥
(१२,५.६८ ) लोमान्यस्य सं छिन्धि त्वचमस्य वि वेष्टय ॥६८॥
(१२,५.६९ ) मांसान्यस्य शातय स्नावान्यस्य सं वृह ॥६९॥
(१२,५.७० ) अस्थीन्यस्य पीडय मज्जानमस्य निर्जहि ॥७०॥
(१२,५.७१ ) सर्वास्याङ्गा पर्वाणि वि श्रथय ॥७१॥
(१२,५.७२ ) अग्निरेनं क्रव्यात्पृथिव्या नुदतामुदोषतु वायुरन्तरिक्षान् महतो वरिम्णः ॥७२॥
(१२,५.७३ ) सूर्य एनं दिवः प्र णुदतां न्योषतु ॥७३॥ {३०}
(१३,१.१ ) उदेहि वाजिन् यो अप्स्वन्तरिदं राष्ट्रं प्र विश सूनृतावत्।
(१३,१.१ ) यो रोहितो विश्वमिदं जजान स त्वा राष्ट्राय सुभृतं बिभर्तु ॥१॥
(१३,१.२ ) उद्वाज आ गन् यो अप्स्वन्तर्विश आ रोह त्वद्योनयो याः ।
(१३,१.२ ) सोमं दधानोऽप ओषधीर्गाश्चतुष्पदो द्विपद आ वेशयेह ॥२॥
(१३,१.३ ) यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून् ।
(१३,१.३ ) आ वो रोहितः शृणवत्सुदानवस्त्रिषप्तासो मरुतः स्वादुसंमुदः ॥३॥
(१३,१.४ ) रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषामुपस्थम् ।
(१३,१.४ ) ताभिः संरब्धमन्वविन्दन् षडुर्वीर्गातुं प्रपश्यन्न् इह राष्ट्रमाहाः ॥४॥
(१३,१.५ ) आ ते राष्ट्रमिह रोहितोऽहार्षीद्व्यास्थन् मृधो अभयं ते अभूत्।
(१३,१.५ ) तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहातामिह शक्वरीभिः ॥५॥
(१३,१.६ ) रोहितो द्यावापृथिवी जजान तत्र तन्तुं परमेष्ठी ततान ।
(१३,१.६ ) तत्र शिश्रियेऽज एकपादोऽदृंहद्द्यावापृथिवी बलेन ॥६॥
(१३,१.७ ) रोहितो द्यावापृथिवी अदृंहत्तेन स्व स्तभितं तेन नाकः ।
(१३,१.७ ) तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतमन्वविन्दन् ॥७॥
(१३,१.८ ) वि रोहितो अमृशद्विश्वरूपं समाकुर्वाणः प्ररुहो रुहश्च ।
(१३,१.८ ) दिवं रूढ्वा महता महिम्ना सं ते राष्ट्रमनक्तु पयसा घृतेन ॥८॥
(१३,१.९ ) यास्ते रुहः प्ररुहो यास्त आरुहो याभिरापृणासि दिवमन्तरिक्षम् ।
(१३,१.९ ) तासां ब्रह्मणा पयसा ववृधानो विशि राष्ट्रे जागृहि रोहितस्य ॥९॥
(१३,१.१० ) यस्ते विशस्तपसः संबभूवुर्वत्सं गायत्रीमनु ता इहागुः ।
(१३,१.१० ) तास्त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्येतु रोहितः ॥१०॥ {१}
(१३,१.११ ) ऊर्ध्वो रोहितो अधि नाके अस्थाद्विश्वा रूपाणि जनयन् युवा कविः ।
(१३,१.११ ) तिग्मेनाग्निर्ज्योतिषा वि भाति तृतीये चक्रे रजसि प्रियाणि ॥११॥
(१३,१.१२ ) सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः ।
(१३,१.१२ ) मा मा हासीन् नाथितो नेत्त्वा जहानि गोपोषं च मे वीरपोषं च धेहि ॥१२॥
(१३,१.१३ ) रोहितो यज्ञस्य जनिता मुखं च रोहिताय वाचा श्रोत्रेण मनसा जुहोमि ।
(१३,१.१३ ) रोहितं देवा यन्ति सुमनस्यमानाः स मा रोहैः सामित्यै रोहयतु ॥१३॥
(१३,१.१४ ) रोहितो यज्ञं व्यदधाद्विश्वकर्मणे तस्मात्तेजांस्युप मेमान्यागुः ।
(१३,१.१४ ) वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥१४॥
(१३,१.१५ ) आ त्वा रुरोह बृहत्युत पङ्क्तिरा ककुब्वर्चसा जातवेदः ।
(१३,१.१५ ) आ त्वा रुरोहोष्णिहाक्षरो वषट्कार आ त्वा रुरोह रोहितो रेतसा सह ॥१५॥
(१३,१.१६ ) अयं वस्ते गर्भं पृथिव्या दिवं वस्तेऽयमन्तरिक्षम् ।
(१३,१.१६ ) अयं ब्रध्नस्य विष्टपि स्वर्लोकान् व्यानशे ॥१६॥
(१३,१.१७ ) वाचस्पते पृथिवी नः स्योना स्योना योनिस्तल्पा नः सुशेवा ।
(१३,१.१७ ) इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यग्निरायुषा वर्चसा दधातु ॥१७॥
(१३,१.१८ ) वाचस्पत ऋतवः पञ्च ये नौ वैश्वकर्मणाः परि ये संबभूवुः ।
(१३,१.१८ ) इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् परि रोहित आयुषा वर्चसा दधातु ॥१८॥
(१३,१.१९ ) वाचस्पते सौमनसं मनश्च गोष्ठे नो गा जनय योनिषु प्रजाः ।
(१३,१.१९ ) इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यहमायुषा वर्चसा दधातु ॥१९॥
(१३,१.२० ) परि त्वा धात्सविता देवो अग्निर्वर्चसा मित्रावरुणावभि त्वा ।
(१३,१.२० ) सर्वा अरातीरवक्रामन्न् एहीदं राष्ट्रमकरः सुनृतावत्॥२०॥ {२}
(१३,१.२१ ) यं त्वा पृषती रथे प्रष्टिर्वहति रोहित ।
(१३,१.२१ ) शुभा यासि रिणन्न् अपः ॥२१॥
(१३,१.२२ ) अनुव्रता रोहिणी रोहितस्य सूरिः सुवर्णा बृहती सुवर्चाः ।
(१३,१.२२ ) तया वाजान् विश्वरूपां जयेम तया विश्वाः पृतना अभि ष्याम ॥२२॥
(१३,१.२३ ) इदं सदो रोहिणी रोहितस्यासौ पन्थाः पृषती येन याति ।
(१३,१.२३ ) तां गन्धर्वाः कश्यपा उन् नयन्ति तां रक्षन्ति कवयोऽप्रमादम् ॥२३॥
(१३,१.२४ ) सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्यमृताः सुखं रथम् ।
(१३,१.२४ ) घृतपावा रोहितो भ्राजमानो दिवं देवः पृषतीमा विवेश ॥२४॥
(१३,१.२५ ) यो रोहितो वृषभस्तिग्मशृङ्गः पर्यग्निं परि सूर्यं बभूव ।
(१३,१.२५ ) यो विष्टभ्नाति पृथिवीं दिवं च तस्माद्देवा अधि सृष्टीः सृजन्ते ॥२५॥
(१३,१.२६ ) रोहितो दिवमारुहन् महतः पर्यर्णवात्।
(१३,१.२६ ) सर्वो रुरोह रोहितो रुहः ॥२६॥
(१३,१.२७ ) वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुरनपस्पृगेषा ।
(१३,१.२७ ) इन्द्रः सोमं पिबतु क्षेमो अस्त्वग्निः प्र स्तौतु वि मृधो नुदस्व ॥२७॥
(१३,१.२८ ) समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः ।
(१३,१.२८ ) अभीषाट्विश्वाषाडग्निः सपत्नान् हन्तु ये मम ॥२८॥
(१३,१.२९ ) हन्त्वेनान् प्र दहत्वरिर्यो नः पृतन्यति ।
(१३,१.२९ ) क्रव्यादाग्निना वयं सपत्नान् प्र दहामसि ॥२९॥
(१३,१.३० ) अवाचीनान् अव जहीन्द्र वज्रेण बाहुमान् ।
(१३,१.३० ) अधा सपत्नान् मामकान् अग्नेस्तेजोभिरादिषि ॥३०॥ {३}
(१३,१.३१ ) अग्ने सपत्नान् अधरान् पादयास्मद्व्यथया सजातमुत्पिपानं बृहस्पते ।
(१३,१.३१ ) इन्द्राग्नी मित्रावरुणावधरे पद्यन्तामप्रतिमन्यूयमानाः ॥३१॥
(१३,१.३२ ) उद्यंस्त्वं देव सूर्य सपत्नान् अव मे जहि ।
(१३,१.३२ ) अवैनान् अश्मना जहि ते यन्त्वधमं तमः ॥३२॥
(१३,१.३३ ) वत्सो विराजो वृषभो मतीनामा रुरोह शुक्रपृष्ठोऽन्तरिक्षम् ।
(१३,१.३३ ) घृतेनार्कमभ्यर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्ति ॥३३॥
(१३,१.३४ ) दिवं च रोह पृथिवीं च रोह राष्ट्रं च रोह द्रविणं च रोह ।
(१३,१.३४ ) प्रजां च रोहामृतं च रोह रोहितेन तन्वं सं स्पृषस्व ॥३४॥
(१३,१.३५ ) ये देवा राष्ट्रभृतोऽभितो यन्ति सूर्यम् ।
(१३,१.३५ ) तैष्टे रोहितः सम्विदानो राष्ट्रं दधातु सुमनस्यमानः ॥३५॥
(१३,१.३६ ) उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ।
(१३,१.३६ ) तिरः समुद्रमति रोचसेऽर्णवम् ॥३६॥
(१३,१.३७ ) रोहिते द्यावापृथिवी अधि श्रिते वसुजिति गोजिति संधनाजिति ।
(१३,१.३७ ) सहस्रं यस्य जनिमानि सप्त च वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥३७॥
(१३,१.३८ ) यशा यासि प्रदिशो दिशश्च यशाः पशूनामुत चर्षणीनाम् ।
(१३,१.३८ ) यशाः पृथिव्या अदित्या उपस्थेऽहं भूयासं सवितेव चारुः ॥३८॥
(१३,१.३९ ) अमुत्र सन्न् इह वेत्थेतः संस्तानि पश्यसि ।
(१३,१.३९ ) इतः पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम् ॥३९॥
(१३,१.४० ) देवो देवान् मर्चयस्यन्तश्चरस्यर्णवे ।
(१३,१.४० ) समानमग्निमिन्धते तं विदुः कवयः परे ॥४०॥ {४}
(१३,१.४१ ) अवः परेण पर एनावरेण पदा वत्सं बिब्रती गौरुदस्थात्।
(१३,१.४१ ) सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन् ॥४१॥
(१३,१.४२ ) एकपदी द्विपदी सा चतुष्पद्यष्टापदी नवपदी बभूवुषी ।
(१३,१.४२ ) सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥४२॥
(१३,१.४३ ) आरोहन् द्याममृतः प्राव मे वचः ।
(१३,१.४३ ) उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ॥४३॥
(१३,१.४४ ) वेद तत्ते अमर्त्य यत्त आक्रमणं दिवि ।
(१३,१.४४ ) यत्ते सधस्थं परमे व्योमन् ॥४४॥
(१३,१.४५ ) सूर्यो द्यां सूर्यः पृठिवीं सूर्य आपोऽति पश्यति ।
(१३,१.४५ ) सूर्यो भूतस्यैकं चक्षुरा रुरोह दिवं महीम् ॥४५॥
(१३,१.४६ ) उर्वीरासन् परिधयो वेदिर्भूमिरकल्पत ।
(१३,१.४६ ) तत्रैतावग्नी आधत्त हिमं घ्रंसं च रोहितः ॥४६॥
(१३,१.४७ ) हिमं घ्रंसं चाधाय यूपान् कृत्वा पर्वतान् ।
(१३,१.४७ ) वर्षाज्यावग्नी ईजाते रोहितस्य स्वर्विदः ॥४७॥
(१३,१.४८ ) स्वर्विदो रोहितस्य ब्रह्मणाग्निः समिध्यते ।
(१३,१.४८ ) तस्माद्घ्रंसस्तस्माद्धिमस्तस्माद्यज्ञोऽजायत ॥४८॥
(१३,१.४९ ) ब्रह्मणाग्नी वावृधानौ ब्रह्मवृद्धौ ब्रह्माहुतौ ।
(१३,१.४९ ) ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥४९॥
(१३,१.५० ) सत्ये अन्यः समाहितोऽप्स्वन्यः समिध्यते ।
(१३,१.५० ) ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥५०॥ {५}
(१३,१.५१ ) यं वातः परिशुम्भति यं वेन्द्रो ब्रह्मणस्पतिः ।
(१३,१.५१ ) ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥५१॥
(१३,१.५२ ) वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम् ।
(१३,१.५२ ) घ्रंसं तदग्निं कृत्वा चकार विश्वमात्मन्वद्वर्षेणाज्येन रोहितः ॥५२॥
(१३,१.५३ ) वर्षमाजं घ्रंसो अग्निर्वेदिर्भूमिरकल्पत ।
(१३,१.५३ ) तत्रैतान् पर्वतान् अग्निर्गीर्भिरूर्ध्वामकल्पयत्॥५३॥
(१३,१.५४ ) गीर्भिरूर्ध्वान् कल्पयित्वा रोहितो भूमिमब्रवीत्।
(१३,१.५४ ) त्वयीदं सर्वं जायतां यद्भूतं यच्च भाव्यम् ॥५४॥
(१३,१.५५ ) स यज्ञः प्रथमो भूतो भव्यो अजायत ।
(१३,१.५५ ) तस्माद्ध जज्ञ इदं सर्वं यत्किं चेदं विरोचते रोहितेन ऋषिणाभृतम् ॥५५॥
(१३,१.५६ ) यश्च गां पदा स्फुरति प्रत्यङ्सूर्यं च मेहति ।
(१३,१.५६ ) तस्य वृश्चामि ते मूलं न छायां करवोऽपरम् ॥५६॥
(१३,१.५७ ) यो माभिछायमत्येषि मां चाग्निं चान्तरा ।
(१३,१.५७ ) तस्य वृश्चामि ते मूलं न छायां करवोऽपरम् ॥५७॥
(१३,१.५८ ) यो अद्य देव सूर्य त्वां च मां चान्तरायति ।
(१३,१.५८ ) दुष्वप्न्यं तस्मिं छमलं दुरितानि च मृज्महे ॥५८॥
(१३,१.५९ ) मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।
(१३,१.५९ ) मान्त स्थुर्नो अरातयः ॥५९॥
(१३,१.६० ) यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः ।
(१३,१.६० ) तमाहुतमशीमहि ॥६०॥ {६}
(१३,२.१ ) उदस्य केतवो दिवि शुक्रा भ्राजन्त ईरते ।
(१३,२.१ ) आदित्यस्य नृचक्षसो महिव्रतस्य मीढुषः ॥१॥
(१३,२.२ ) दिशां प्रज्ञानां स्वरयन्तमर्चिषा सुपक्षमाशुं पतयन्तमर्णवे ।
(१३,२.२ ) स्तवाम सूर्यं भुवनस्य गोपां यो रश्मिभिर्दिश आभाति सर्वाः ॥२॥
(१३,२.३ ) यत्प्राङ्प्रत्यङ्स्वधया यासि शीभं नानारूपे अहनी कर्षि मायया ।
(१३,२.३ ) तदादित्य महि तत्ते महि श्रवो यदेको विश्वं परि भूम जायसे ॥३॥
(१३,२.४ ) विपश्चितं तरणिं भ्राजमानं वहन्ति यं हरितः सप्त बह्वीः ।
(१३,२.४ ) स्रुताद्यमत्त्रिर्दिवमुन्निनाय तं त्वा पश्यन्ति परियान्तमाजिम् ॥४॥
(१३,२.५ ) मा त्वा दभन् परियान्तमाजिं स्वस्ति दुर्गामति याहि शीभम् ।
(१३,२.५ ) दिवं च सूर्य पृथिवीं च देवीमहोरात्रे विमिमानो यदेषि ॥५॥
(१३,२.६ ) स्वस्ति ते सूर्य चरसे रथाय येनोभावन्तौ परियासि सद्यः ।
(१३,२.६ ) यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥६॥
(१३,२.७ ) सुखं सूर्य रथमंशुमन्तं स्योनं सुवह्निमधि तिष्ठ वाजिनम् ।
(१३,२.७ ) यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥७॥
(१३,२.८ ) सप्त सूर्यो हरितो यातवे रथे हिरण्यत्वचसो बृहतीरयुक्त ।
(१३,२.८ ) अमोचि शुक्रो रजसः परस्ताद्विधूय देवस्तमो दिवमारुहत्॥८॥
(१३,२.९ ) उत्केतुना बृहता देव आगन्न् अपावृक्तमोऽभि ज्योतिरश्रैत्।
(१३,२.९ ) दिव्यः सुपर्णः स वीरो व्यख्यददितेः पुत्रो भुवनानि विश्वा ॥९॥
(१३,२.१० ) उद्यन् रश्मीन् आ तनुषे विश्वा रुपाणि पुष्यसि ।
(१३,२.१० ) उभा समुद्रौ क्रतुना वि भासि सर्वांल्लोकान् परिभूर्भ्राजमानः ॥१०॥ {७}
(१३,२.११ ) पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् ।
(१३,२.११ ) विश्वान्यो भुवना विचष्टे हैरण्यैरन्यं हरितो वहन्ति ॥११॥
(१३,२.१२ ) दिवि त्वात्त्रिरधारयत्सूर्या मासाय कर्तवे ।
(१३,२.१२ ) स एषि सुधृतस्तपन् विश्वा भूतावचाकशत्॥१२॥
(१३,२.१३ ) उभावन्तौ समर्षसि वत्सः संमातराविव ।
(१३,२.१३ ) नन्वेतदितः पुरा ब्रह्म देवा अमी विदुः ॥१३॥
(१३,२.१४ ) यत्समुद्रमनु श्रितं तत्सिषासति सूर्यः ।
(१३,२.१४ ) अध्वास्य विततो महान् पूर्वश्चापरश्च यः ॥१४॥
(१३,२.१५ ) तं समाप्नोति जूतिभिस्ततो नाप चिकित्सति ।
(१३,२.१५ ) तेनामृतस्य भक्षं देवानां नाव रुन्धते ॥१५॥
(१३,२.१६ ) उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
(१३,२.१६ ) दृशे विश्वाय सूर्यम् ॥१६॥
(१३,२.१७ ) अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।
(१३,२.१७ ) सूराय विश्वचक्षसे ॥१७॥
(१३,२.१८ ) अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु ।
(१३,२.१८ ) भ्राजन्तो अग्नयो यथा ॥१८॥
(१३,२.१९ ) तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।
(१३,२.१९ ) विश्वमा भासि रोचन ॥१९॥
(१३,२.२० ) प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः ।
(१३,२.२० ) प्रत्यङ्विश्वं स्वर्दृशे ॥२०॥ {८}
(१३,२.२१ ) येना पावक चक्षसा भुरण्यन्तं जनामनु ।
(१३,२.२१ ) त्वं वरुण पश्यसि ॥२१॥
(१३,२.२२ ) वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः ।
(१३,२.२२ ) पश्यन् जन्मानि सूर्य ॥२२॥
(१३,२.२३ ) सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
(१३,२.२३ ) शोचिष्केशं विचक्षणम् ॥२३॥
(१३,२.२४ ) अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।
(१३,२.२४ ) ताभिर्याति स्वयुक्तिभिः ॥२४॥
(१३,२.२५ ) रोहितो दिवमारुहत्तपसा तपस्वी ।
(१३,२.२५ ) स योनिमैति स उ जायते पुनः स देवानामधिपतिर्बभूव ॥२५॥
(१३,२.२६ ) यो विश्वचर्षणिरुत विश्वतोमुखो यो विश्वतस्पाणिरुत विश्वतस्पृथः ।
(१३,२.२६ ) सं बाहुभ्यां भरति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः ॥२६॥
(१३,२.२७ ) एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्।
(१३,२.२७ ) द्विपाद्ध षट्पदो भूयो वि चक्रमे त एकपदस्तन्वं समासते ॥२७॥
(१३,२.२८ ) अतन्द्रो यास्यन् हरितो यदास्थाद्द्वे रूपे कृणुते रोचमानः ।
(१३,२.२८ ) केतुमान् उद्यन्त्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि ॥२८॥
(१३,२.२९ ) बण्महामसि सूर्य बडादित्य महामसि ।
(१३,२.२९ ) महांस्ते महतो महिमा त्वमादित्य महामसि ॥२९॥
(१३,२.३० ) रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्वन्तः ।
(१३,२.३० ) उभा समुद्रौ रुच्या व्यापिथ देवो देवासि महिषः स्वर्जित्॥३०॥ {९}
(१३,२.३१ ) अर्वाङ्परस्तात्प्रयतो व्यध्व आशुर्विपश्चित्पतयन् पतङ्गः ।
(१३,२.३१ ) विष्णुर्विचित्तः शवसाधितिष्ठन् प्र केतुना सहते विश्वमेजत्॥३१॥
(१३,२.३२ ) चित्राश्चिकित्वान् महिषः सुपर्ण आरोचयन् रोदसी अन्तरिक्षम् ।
(१३,२.३२ ) अहोरात्रे परि सूर्यं वसाने प्रास्य विश्वा तिरतो वीर्याणि ॥३२॥
(१३,२.३३ ) तिग्मो विभ्राजन् तन्वं शिशानोऽरंगमासः प्रवतो रराणः ।
(१३,२.३३ ) ज्योतिष्मान् पक्षी महिषो वयोधा विश्वा आस्थात्प्रदिशः कल्पमानः ॥३३॥
(१३,२.३४ ) चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् ।
(१३,२.३४ ) दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥३४॥
(१३,२.३५ ) चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
(१३,२.३५ ) आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥३५॥
(१३,२.३६ ) उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम् ।
(१३,२.३६ ) पश्यम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रिः ॥३६॥
(१३,२.३७ ) दिवस्पृष्ठे धावमानं सुपर्णमदित्याः पुत्रं नाथकाम उप यामि भीतः ।
(१३,२.३७ ) स नः सूर्य प्र तिर दीर्घमायुर्मा रिषाम सुमतौ ते स्याम ॥३७॥
(१३,२.३८ ) सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।
(१३,२.३८ ) स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥३८॥
(१३,२.३९ ) रोहितः कालो अभवद्रोहितोऽग्रे प्रजापतिः ।
(१३,२.३९ ) रोहितो यज्ञानां मुखं रोहितः स्वराभरत्॥३९॥
(१३,२.४० ) रोहितो लोको अभवद्रोहितोऽत्यतपद्दिवम् ।
(१३,२.४० ) रोहितो रश्मिभिर्भूमिं समुद्रमनु सं चरत्॥४०॥ {१०}
(१३,२.४१ ) सर्वा दिशः समचरद्रोहितोऽधिपतिर्दिवः ।
(१३,२.४१ ) दिवं समुद्रमाद्भूमिं सर्वं भूतं वि रक्षति ॥४१॥
(१३,२.४२ ) आरोहन् छुक्रो बृहतीरतन्द्रो द्वे रूपे कृणुते रोचमानः ।
(१३,२.४२ ) चित्रश्चिकित्वान् महिषो वातमाया यावतो लोकान् अभि यद्विभाति ॥४२॥
(१३,२.४३ ) अभ्यन्यदेति पर्यन्यदस्यतेऽहोरात्राभ्यां महिषः कल्पमानः ।
(१३,२.४३ ) सूर्यं वयं रजसि क्षियन्तं गातुविदं हवामहे नाधमानाः ॥४३॥
(१३,२.४४ ) पृथिवीप्रो महिषो नाधमानस्य गातुरदब्धचक्षुः परि विश्वं बभूव ।
(१३,२.४४ ) विश्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥४४॥
(१३,२.४५ ) पर्यस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन् परि द्यामन्तरिक्षम् ।
(१३,२.४५ ) सर्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥४५॥
(१३,२.४६ ) अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषसम् ।
(१३,२.४६ ) यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमछ ॥४६॥ {११}
(१३,३.१ ) य इमे द्यावापृथिवी जजान यो द्रापिं कृत्वा भुवनानि वस्ते ।
(१३,३.१ ) यस्मिन् क्षियन्ति प्रदिशः षडुर्वीर्याः पतङ्गो अनु विचाकशीति ।
(१३,३.१ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.२ ) यस्माद्वाता ऋतुथा पवन्ते यस्मात्समुद्रा अधि विक्षरन्ति ।
(१३,३.२ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.२ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२॥
(१३,३.३ ) यो मारयति प्राणयति यस्मात्प्राणन्ति भुवनानि विश्वा ।
(१३,३.३ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.३ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥३॥
(१३,३.४ ) यः प्राणेन द्यावापृथिवी तर्पयत्यपानेन समुद्रस्य जठरं यः पिपर्ति ।
(१३,३.४ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.४ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥४॥
(१३,३.५ ) यस्मिन् विराट्परमेष्ठी प्रजापतिरग्निर्वैश्वानरः सह पङ्क्त्या श्रितः ।
(१३,३.५ ) यः परस्य प्राणं परमस्य तेज आददे ।
(१३,३.५ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.६ ) यस्मिन् षडुर्वीः पञ्च दिशो अधिश्रिताश्चतस्र आपो यज्ञस्य त्रयोऽक्षराः ।
(१३,३.६ ) यो अन्तरा रोदसी क्रुद्धश्चक्षुषैक्षत ।
(१३,३.६ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.७ ) यो अन्नादो अन्नपतिर्बभूव ब्रह्मणस्पतिरुत यः ।
(१३,३.७ ) भूतो भविष्यत्भुवनस्य यस्पतिः ।
(१३,३.७ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.८ ) अहोरात्रैर्विमितं त्रिंशदङ्गं त्रयोदशं मासं यो निर्मिमीते ।
(१३,३.८ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.८ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥८॥
(१३,३.९ ) कृस्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
(१३,३.९ ) त आववृत्रन्त्सदनादृतस्य ।
(१३,३.९ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.१० ) यत्ते चन्द्रं कश्यप रोचनावद्यत्संहितं पुष्कलं चित्रभानु यस्मिन्त्सूर्या आर्पिताः सप्त साकम् ।
(१३,३.१० ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.१० ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥१०॥ {१२}
(१३,३.११ ) बृहदेनमनु वस्ते पुरस्ताद्रथंतरं प्रति गृह्णाति पश्चात्।
(१३,३.११ ) ज्योतिर्वसाने सदमप्रमादम् ।
(१३,३.११ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.१२ ) बृहदन्यतः पक्ष आसीद्रथंतरमन्यतः सबले सध्रीची ।
(१३,३.१२ ) यद्रोहितमजनयन्त देवाः ।
(१३,३.१२ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.१३ ) स वरुणः सायमग्निर्भवति स मित्रो भवति प्रातरुद्यन् ।
(१३,३.१३ ) स सविता भूत्वान्तरिक्षेण याति स इन्द्रो भूत्वा तपति मध्यतो दिवम् ।
(१३,३.१३ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.१४ ) सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।
(१३,३.१४ ) स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ।
(१३,३.१४ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.१५ ) अयं स देवो अप्स्वन्तः सहस्रमूलः परुशाको अत्त्रिः ।
(१३,३.१५ ) य इदं विश्वं भुवनं जजान ।
(१३,३.१५ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.१६ ) शुक्रं वहन्ति हरयो रघुष्यदो देवं दिवि वर्चसा भ्राजमानम् ।
(१३,३.१६ ) यस्योर्ध्वा दिवं तन्वस्तपन्त्यर्वाङ्सुवर्णैः पटरैर्वि भाति ।
(१३,३.१६ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.१७ ) येनादित्यान् हरितः सम्वहन्ति येन यज्ञेन बहवो यन्ति प्रजानन्तः ।
(१३,३.१७ ) यदेकं ज्योतिर्बहुधा विभाति ।
(१३,३.१७ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.१८ ) सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।
(१३,३.१८ ) त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ।
(१३,३.१८ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.१९ ) अष्टधा युक्तो वहति वह्निरुग्रः पिता देवानां जनिता मतीनाम् ।
(१३,३.१९ ) ऋतस्य तन्तुं मनसा मिमानः सर्वा दिशः पवते मातरिश्वा ।
(१३,३.१९ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.२० ) संयञ्चं तन्तुं प्रदिशोऽनु सर्वा अन्तर्गायत्र्याममृतस्य गर्भे ।
(१३,३.२० ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.२० ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२०॥ {१३}
(१३,३.२१ ) निम्रुचस्तिस्रो व्युषो ह तिस्रस्त्रीणि रजांसि दिवो अङ्ग तिस्रः ।
(१३,३.२१ ) विद्मा ते अग्ने त्रेधा जनित्रं त्रेधा देवानां जनिमानि विद्म ।
(१३,३.२१ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.२२ ) वि य और्णोत्पृथिवीं जायमान आ समुद्रमदधातन्तरिक्षे ।
(१३,३.२२ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.२२ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२२॥
(१३,३.२३ ) त्वमग्ने क्रतुभिः केतुभिर्हितोऽर्कः समिद्ध उदरोचथा दिवि ।
(१३,३.२३ ) किमभ्यार्चन् मरुतः पृश्निमातरो यद्रोहितमजनयन्त देवाः ।
(१३,३.२३ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.२४ ) य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
(१३,३.२४ ) योऽस्येशे द्विपदो यश्चतुष्पदः ।
(१३,३.२४ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.२५ ) एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्।
(१३,३.२५ ) चतुष्पाच्चक्रे द्विपदामभिस्वरे संपश्यन् पङ्क्तिमुपतिष्ठमानः ।
(१३,३.२५ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
(१३,३.२६ ) कृष्णायः पुत्रो अर्जुनो रात्र्या वत्सोऽजायत ।
(१३,३.२६ ) स ह द्यामधि रोहति रुहो रुरोह रोहितः ॥२६॥ {१४}
(१३,४.२६ ) स एति सविता स्वर्दिवस्पृष्ठेऽवचाकशत्॥१॥
(१३,४.२ ) रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥२॥
(१३,४.३ ) स धाता स विधर्ता स वायुर्नभ उच्छ्रितम् ॥३॥
(१३,४.४ ) सोऽर्यमा स वरुणः स रुद्रः स महादेवः ॥४॥
(१३,४.५ ) सो अग्निः स उ सूर्यः स उ एव महायमः ॥५॥
(१३,४.६ ) तं वत्सा उप तिष्ठन्त्येकशीर्षाणो युता दश ॥६॥
(१३,४.७ ) पश्चात्प्राञ्च आ तन्वन्ति यदुदेति वि भासति ॥७॥
(१३,४.८ ) तस्यैष मारुतो गणः स एति शिक्याकृतः ॥८॥
(१३,४.९ ) रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥९॥
(१३,४.१० ) तस्येमे नव कोशा विष्टम्भा नवधा हिताः ॥१०॥
(१३,४.११ ) स प्रजाभ्यो वि पश्यति यच्च प्राणति यच्च न ॥११॥
(१३,४.१२ ) तमिदं निगतं सहः स एष एक एकवृदेक एव ॥१२॥
(१३,४.१३ ) एते अस्मिन् देवा एकवृतो भवन्ति ॥१३॥ {१५}
(१३,४.१४ ) कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥१४॥
(१३,४.१५ ) य एतं देवमेकवृतं वेद ॥१५॥
(१३,४.१६ ) न द्वितीयो न तृतीयश्चतुर्थो नाप्युच्यते ॥१६॥
(१३,४.१७ ) न पञ्चमो न षष्ठः सप्तमो नाप्युच्यते ॥१७॥
(१३,४.१८ ) नाष्टमो न नवमो दशमो नाप्युच्यते ॥१८॥
(१३,४.१९ ) स सर्वस्मै वि पश्यति यच्च प्राणति यच्च न ॥१९॥
(१३,४.२० ) तमिदं निगतं सहः स एष एक एकवृदेक एव ॥२०॥
(१३,४.२१ ) सर्वे अस्मिन् देवा एकवृतो भवन्ति ॥२१॥ {१६}
(१३,४.२२ ) ब्रह्म च तपश्च कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥२॥
(१३,४.२३ ) भूतं च भव्यं च श्रद्धा च रुचिश्च स्वर्गश्च स्वधा च ॥२३॥
(१३,४.२४ ) य एतं देवमेकवृतं वेद ॥२४॥
(१३,४.२५ ) स एव मृत्युः सोऽमृतं सोऽभ्वं स रक्षः ॥२५॥
(१३,४.२६ ) स रुद्रो वसुवनिर्वसुदेये नमोवाके वषट्कारोऽनु संहितः ॥२६॥
(१३,४.२७ ) तस्येमे सर्वे यातव उप प्रशिषमासते ॥२७॥
(१३,४.२८ ) तस्यामू सर्वा नक्षत्रा वशे चन्द्रमसा सह ॥२८॥ {१७}
(१३,४.२९ ) स वा अह्नोऽजायत तस्मादहरजायत ॥२९॥
(१३,४.३० ) स वै रात्र्या अजायत तस्माद्रात्रिरजायत ॥३०॥
(१३,४.३१ ) स वा अन्तरिक्षादजायत तस्मादन्तरिक्षमजायत ॥३१॥
(१३,४.३२ ) स वै वायोरजायत तस्माद्वायुरजायत ॥३२॥
(१३,४.३३ ) स वै दिवोऽजायत तस्माद्द्यौरधि अजायत ॥३३॥
(१३,४.३४ ) स वै दिग्भ्योऽजायत तस्माद्दिशोऽजायन्त ॥३४॥
(१३,४.३५ ) स वै भूमेरजायत तस्माद्भूमिरजायत ॥३५॥
(१३,४.३६ ) स वा अग्नेरजायत तस्मादग्निरजायत ॥३६॥
(१३,४.३७ ) स वा अद्भ्योऽजायत तस्मादापोऽजायन्त ॥३७॥
(१३,४.३८ ) स वा ऋग्भ्योऽजायत तस्मादृचोऽजायन्त ॥३८॥
(१३,४.३९ ) स वै यज्ञादजायत तस्माद्यज्ञोऽजायत ॥३९॥
(१३,४.४० ) स यज्ञस्तस्य यज्ञः स यज्ञस्य शिरस्कृतम् ॥४०॥
(१३,४.४१ ) स स्तनयति स वि द्योतते स उ अश्मानमस्यति ॥४१॥
(१३,४.४२ ) पापाय वा भद्राय वा पुरुषायासुराय वा ॥४२॥
(१३,४.४३ ) यद्वा कृणोष्योषधीर्यद्वा वर्षसि भद्रया यद्वा जन्यमवीवृधः ॥४३॥
(१३,४.४४ ) तावांस्ते मघवन् महिमोपो ते तन्वः शतम् ॥४४॥
(१३,४.४५ ) उपो ते बध्वे बद्धानि यदि वासि न्यर्बुदम् ॥४५॥ {१८}
(१३,४.४६ ) भूयान् इन्द्रो नमुराद्भूयान् इन्द्रासि मृत्युभ्यः ॥४६॥
(१३,४.४७ ) भूयान् अरात्याः शच्याः पतिस्त्वमिन्द्रासि विभूः प्रभूरिति त्वोपास्महे वयम् ॥४७॥
(१३,४.४८ ) नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥४८॥
(१३,४.४९ ) अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥४९॥
(१३,४.५० ) अम्भो अमो महः सह इति त्वोपास्महे वयम् ॥५०॥
(१३,४.५१ ) अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम् ॥५१॥ {१९}
(१३,४.५२ ) उरुः पृथुः सुभूर्भुव इति त्वोपास्महे वयम् ॥५२॥
(१३,४.५३ ) प्रथो वरो व्यचो लोक इति त्वोपास्महे वयम् ॥५३॥
(१३,४.५४ ) भवद्वसुरिदद्वसुः संयद्वसुरायद्वसुरिति त्वोपास्महे वयम् ॥५४॥
(१३,४.५५ ) नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥५५॥
(१३,४.५६ ) अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥५६॥ {२०}
(१४,१.१ ) सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः ।
(१४,१.१ ) ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥१॥
(१४,१.२ ) सोमेनादित्या बलिनः सोमेन पृथिवी मही ।
(१४,१.२ ) अथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥२॥
(१४,१.३ ) सोमं मन्यते पपिवान् यत्संपिंषन्त्योषधिम् ।
(१४,१.३ ) सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति पार्थिवः ॥३॥
(१४,१.४ ) यत्त्वा सोम प्रपिबन्ति तत आ प्यायसे पुनः ।
(१४,१.४ ) वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥४॥
(१४,१.५ ) आछद्विधानैर्गुपितो बार्हतैः सोम रक्षितः ।
(१४,१.५ ) ग्राव्णामिच्छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ॥५॥
(१४,१.६ ) चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् ।
(१४,१.६ ) द्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिम् ॥६॥
(१४,१.७ ) रैभ्यासीदनुदेयी नाराशंसी न्योचनी ।
(१४,१.७ ) सुर्याया भद्रमिद्वासो गाथयति परिष्कृता ॥७॥
(१४,१.८ ) स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः ।
(१४,१.८ ) सूर्याया अश्विना वराग्निरासीत्पुरोगवः ॥८॥
(१४,१.९ ) सोमो वधूयुरभवदश्विनास्तामुभा वरा ।
(१४,१.९ ) सूर्यां यत्पत्ये शंसन्तीं मनसा सविताददात्॥९॥
(१४,१.१० ) मनो अस्या अन आसीद्द्यौरासीदुत छदिः ।
(१४,१.१० ) शुक्रावनड्वाहावास्तां यदयात्सूर्या पतिम् ॥१०॥ {१}
(१४,१.११ ) ऋक्सामाभ्यामभिहितौ गावौ ते सामनावैताम् ।
(१४,१.११ ) श्रोत्रे ते चक्रे आस्तां दिवि पन्थाश्चराचरः ॥११॥
(१४,१.१२ ) शुची ते चक्रे यात्या व्यानो अक्ष आहतः ।
(१४,१.१२ ) अनो मनस्मयं सूर्यारोहत्प्रयती पतिम् ॥१२॥
(१४,१.१३ ) सूर्याया वहतुः प्रागात्सविता यमवासृजत्।
(१४,१.१३ ) मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते ॥१३॥
(१४,१.१४ ) यदश्विना पृछमानावयातं त्रिचक्रेण वहतुं सूर्यायाः ।
(१४,१.१४ ) क्वैकं चक्रं वामासीत्क्व देष्ट्राय तस्थथुः ॥१४॥
(१४,१.१५ ) यदयातं शुभस्पती वरेयं सूर्यामुप ।
(१४,१.१५ ) विश्वे देवा अनु तद्वामजानन् पुत्रः पितरमवृणीत पूषा ॥१५॥
(१४,१.१६ ) द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ।
(१४,१.१६ ) अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः ॥१६॥
(१४,१.१७ ) अर्यमणं यजामहे सुबन्धुं पतिवेदनम् ।
(१४,१.१७ ) उर्वारुकमिव बन्धनात्प्रेतो मुञ्चामि नामुतः ॥१७॥
(१४,१.१८ ) प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् ।
(१४,१.१८ ) यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ॥१८॥
(१४,१.१९ ) प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः ।
(१४,१.१९ ) ऋतस्य योनौ सुकृतस्य लोके स्योनं ते अस्तु सहसंभलायै ॥१९॥
(१४,१.२० ) भगस्त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन ।
(१४,१.२० ) गृहान् गछ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ॥२०॥ {२}
(१४,१.२१ ) इह प्रियं प्रजायै ते समृध्यतामस्मिन् गृहे गार्हपत्याय जागृहि ।
(१४,१.२१ ) एना पत्या तन्वं सं स्पृशस्वाथ जिर्विर्विदथमा वदासि ॥२१॥
(१४,१.२२ ) इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् ।
(१४,१.२२ ) क्रीडन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वस्तकौ ॥२२॥
(१४,१.२३ ) पूर्वापरं चरतो मायैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् ।
(१४,१.२३ ) विश्वान्यो भुवना विचष्ट ऋतूंरन्यो विदधज्जायसे नवः ॥२३॥
(१४,१.२४ ) नवोनवो भवसि जायमानोऽह्नां केतुरुषसामेष्यग्रम् ।
(१४,१.२४ ) भागं देवेभ्यो वि दधास्यायन् प्र चन्द्रमस्तिरसे दीर्घमायुः ॥२४॥
(१४,१.२५ ) परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु ।
(१४,१.२५ ) कृत्यैषा पद्वती भूत्वा जाया विशते पतिम् ॥२५॥
(१४,१.२६ ) नीललोहितं भवति कृत्यासक्तिर्व्यज्यते ।
(१४,१.२६ ) एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥२६॥
(१४,१.२७ ) अश्लीला तनूर्भवति रुशती पापयामुया ।
(१४,१.२७ ) पतिर्यद्वध्वो वाससः स्वमङ्गमभ्यूर्णुते ॥२७॥
(१४,१.२८ ) आशसनं विशसनमथो अधिविकर्तनम् ।
(१४,१.२८ ) सूर्यायाः पश्य रूपाणि तानि ब्रह्मोत शुम्भति ॥२८॥
(१४,१.२९ ) तृष्टमेतत्कटुकमपाष्ठवद्विषवन् नैतदत्तवे ।
(१४,१.२९ ) सूर्यां यो ब्रह्मा वेद स इद्वाधूयमर्हति ॥२९॥
(१४,१.३० ) स इत्तत्स्योनं हरति ब्रह्मा वासः सुमङ्गलम् ।
(१४,१.३० ) प्रायश्चित्तिं यो अध्येति येन जाया न रिष्यति ॥३०॥ {३}
(१४,१.३१ ) युवं भगं सं भरतं समृद्धमृतं वदन्तावृतोद्येषु ।
(१४,१.३१ ) ब्रह्मणस्पते पतिमस्यै रोचय चारु संभलो वदतु वाचमेताम् ॥३१॥
(१४,१.३२ ) इहेदसाथ न परो गमाथेमं गावः प्रजया वर्धयाथ ।
(१४,१.३२ ) शुभं यतीरुस्रियाः सोमवर्चसो विश्वे देवाः क्रन्न् इह वो मनांसि ॥३२॥
(१४,१.३३ ) इमं गावः प्रजया सं विशाथायं देवानां न मिनाति भागम् ।
(१४,१.३३ ) अस्मै वः पूषा मरुतश्च सर्वे अस्मै वो धाता सविता सुवाति ॥३३॥
(१४,१.३४ ) अनृक्षरा ऋजवः सन्तु पन्थनो येभिः सखायो यन्ति नो वरेयम् ।
(१४,१.३४ ) सं भगेन समर्यम्णा सं धाता सृजतु वर्चसा ॥३४॥
(१४,१.३५ ) यच्च वर्चो अक्षेषु सुरायां च यदाहितम् ।
(१४,१.३५ ) यद्गोष्वश्विना वर्चस्तेनेमां वर्चसावतम् ॥३५॥
(१४,१.३६ ) येन महानघ्न्या जघनमश्विना येन वा सुरा ।
(१४,१.३६ ) येनाक्षा अभ्यषिच्यन्त तेनेमां वर्चसावतम् ॥३६॥
(१४,१.३७ ) यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईडते अध्वरेषु ।
(१४,१.३७ ) अपां नपान् मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्यावान् ॥३७॥
(१४,१.३८ ) इदमहं रुशन्तं ग्राभं तनूदूषिमपोहामि ।
(१४,१.३८ ) यो भद्रो रोचनस्तमुदचामि ॥३८॥
(१४,१.३९ ) आस्यै ब्राह्मणाः स्नपनीर्हरन्त्ववीरघ्नीरुदजन्त्वापः ।
(१४,१.३९ ) अर्यम्णो अग्निं पर्येतु पूषन् प्रतीक्षन्ते श्वशुरो देवरश्च ॥३९॥
(१४,१.४० ) शं ते हिरण्यं शमु सन्त्वापः शं मेथिर्भवतु शं युगस्य तर्द्म ।
(१४,१.४० ) शं त आपः शतपवित्रा भवन्तु शमु पत्या तन्वं सं स्पृशस्व ॥४०॥ {४}
(१४,१.४१ ) खे रथस्य खेऽनसः खे युगस्य शतक्रतो ।
(१४,१.४१ ) अपालामिन्द्र त्रिष्पूत्वाकृणोः सूर्यत्वचम् ॥४१॥
(१४,१.४२ ) आशासाना सौमनसं प्रजां सौभाग्यं रयिम् ।
(१४,१.४२ ) पत्युरनुव्रता भूत्वा सं नह्यस्वामृताय कम् ॥४२॥
(१४,१.४३ ) यथा सिन्धुर्नदीनां साम्राज्यं सुषुवे वृषा ।
(१४,१.४३ ) एवा त्वं सम्राज्ञ्येधि पत्युरस्तं परेत्य ॥४३॥
(१४,१.४४ ) सम्राज्ञ्येधि श्वशुरेषु सम्राज्ञ्युत देवृषु ।
(१४,१.४४ ) ननान्दुः सम्राज्ञ्येधि सम्राज्ञ्युत श्वश्र्वाः ॥४४॥
(१४,१.४५ ) या अकृन्तन्न् अवयन् याश्च तत्निरे या देवीरन्तामभितोऽददन्त ।
(१४,१.४५ ) तास्त्वा जरसे सं व्ययन्त्वायुष्मतीदं परि धत्स्व वासः ॥४५॥
(१४,१.४६ ) जीवं रुदन्ति वि नयन्त्यध्वरं दीर्घामनु प्रसितिं दीध्युर्नरः ।
(१४,१.४६ ) वामं पितृभ्यो य इदं समीरिरे मयः पतिभ्यो जनये परिष्वजे ॥४६॥
(१४,१.४७ ) स्योनं ध्रुवं प्रजायै धारयामि तेऽश्मानं देव्याः पृथिव्या उपस्थे ।
(१४,१.४७ ) तमा तिष्ठानुमाद्या सुवर्चा दीर्घं त आयुः सविता कृणोतु ॥४७॥
(१४,१.४८ ) येनाग्निरस्या भूम्या हस्तं जग्राह दक्षिणम् ।
(१४,१.४८ ) तेन गृह्णामि ते हस्तं मा व्यथिष्ठा मया सह प्रजया च धनेन च ॥४८॥
(१४,१.४९ ) देवस्ते सविता हस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु ।
(१४,१.४९ ) अग्निः सुभगां जतवेदाः पत्ये पत्नीं जरदष्टिं कृणोतु ॥४९॥
(१४,१.५० ) गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः ।
(१४,१.५० ) भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥५०॥ {५}
(१४,१.५१ ) भगस्ते हस्तमग्रहीत्सविता हस्तमग्रहीत्।
(१४,१.५१ ) पत्नी त्वमसि धर्मणाहं गृहपतिस्तव ॥५१॥
(१४,१.५२ ) ममेयमस्तु पोष्या मह्यं त्वादाद्बृहस्पतिः ।
(१४,१.५२ ) मया पत्या प्रजावति सं जीव शरदः शतम् ॥५२॥
(१४,१.५३ ) त्वष्टा वासो व्यदधाच्छुभे कं बृहस्पतेः प्रशिषा कवीनाम् ।
(१४,१.५३ ) तेनेमां नारीं सविता भगश्च सूर्यामिव परि धत्तां प्रजया ॥५३॥
(१४,१.५४ ) इन्द्राग्नी द्यावापृथिवी मातरिश्वा मित्रावरुणा भगो अश्विनोभा ।
(१४,१.५४ ) बृहस्पतिर्मरुतो ब्रह्म सोम इमां नारिं प्रजया वर्धयन्तु ॥५४॥
(१४,१.५५ ) बृहस्पतिः प्रथमः सूर्यायाः शीर्षे केशामकल्पयत्।
(१४,१.५५ ) तेनेमामश्विना नारीं पत्ये सं शोभयामसि ॥५५॥
(१४,१.५६ ) इदं तद्रूपं यदवस्त योषा जायां जिज्ञासे मनसा चरन्तीम् ।
(१४,१.५६ ) तामन्वर्तिष्ये सखिभिर्नवग्वैः क इमान् विद्वान् वि चचर्त पाशान् ॥५६॥
(१४,१.५७ ) अहं वि ष्यामि मयि रूपमस्या वेददित्पश्यन् मनसः कुलायम् ।
(१४,१.५७ ) न स्तेयमद्मि मनसोदमुच्ये स्वयं श्रथ्नानो वरुणस्य पाशान् ॥५७॥
(१४,१.५८ ) प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः ।
(१४,१.५८ ) उरुं लोकं सुगमत्र पन्थां कृणोमि तुभ्यं सहपत्न्यै वधु ॥५८॥
(१४,१.५९ ) उद्यछध्वमप रक्षो हनाथेमं नारीं सुकृते दधात ।
(१४,१.५९ ) धाता विपश्चित्पतिमस्यै विवेद भगो राजा पुर एतु प्रजानन् ॥५९॥
(१४,१.६० ) भगस्ततक्ष चतुरः पादान् भगस्ततक्ष चत्वार्युष्पलानि ।
(१४,१.६० ) त्वष्टा पिपेश मध्यतोऽनु वर्ध्रान्त्सा नो अस्तु सुमङ्गली ॥६०॥
(१४,१.६१ ) सुकिंशुकं वहतुं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् ।
(१४,१.६१ ) आ रोह सूर्ये अमृतस्य लोकं स्योनं पतिभ्यो वहतुं कृणु त्वम् ॥६१॥
(१४,१.६२ ) अभ्रातृघ्नीं वरुणापशुघ्नीं बृहस्पते ।
(१४,१.६२ ) इन्द्रापतिघ्नीं पुत्रिणीमास्मभ्यं सवितर्वह ॥६२॥
(१४,१.६३ ) मा हिंसिष्टं कुमार्यं स्थूणे देवकृते पथि ।
(१४,१.६३ ) शालाया देव्या द्वारं स्योनं कृण्मो वधूपथम् ॥६३॥
(१४,१.६४ ) ब्रह्मापरं युज्यतां ब्रह्म पूर्वं ब्रह्मान्ततो मध्यतो ब्रह्म सर्वतः ।
(१४,१.६४ ) अनाव्याधां देवपुरां प्रपद्य शिवा स्योना पतिलोके वि राज ॥६४॥ {६}
(१४,२.१ ) तुभ्यमग्रे पर्यवहन्त्सूर्यां वहतुना सह ।
(१४,२.१ ) स नः पतिभ्यो जायां दा अग्ने प्रजया सह ॥१॥
(१४,२.२ ) पुनः पत्नीमग्निरदादायुषा सह वर्चसा ।
(१४,२.२ ) दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥२॥
(१४,२.३ ) सोमस्य जाया प्रथमं गन्धर्वस्तेऽपरः पतिः ।
(१४,२.३ ) तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥३॥
(१४,२.४ ) सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये ।
(१४,२.४ ) रयिं च पुत्रांस्चादादग्निर्मह्यमथो इमाम् ॥४॥
(१४,२.५ ) आ वामगन्त्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अरंसत ।
(१४,२.५ ) अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्यामशीमहि ॥५॥
(१४,२.६ ) सा मन्दसाना मनसा शिवेन रयिं धेहि सर्ववीरं वचस्यम् ।
(१४,२.६ ) सुगं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथिष्ठामप दुर्मतिं हतम् ॥६॥
(१४,२.७ ) या ओषधयो या नद्यो यानि क्षेत्राणि या वना ।
(१४,२.७ ) तास्त्वा वधु प्रजावतीं पत्ये रक्षन्तु रक्षसः ॥७॥
(१४,२.८ ) एमं पन्थामरुक्षाम सुगं स्वस्तिवाहनम् ।
(१४,२.८ ) यस्मिन् वीरो न रिष्यत्यन्येषां विन्दते वसु ॥८॥
(१४,२.९ ) इदं सु मे नरः शृणुत ययाशिषा दंपती वाममश्नुतः ।
(१४,२.९ ) ये गन्धर्वा अप्सरसश्च देवीरेषु वानस्पत्येषु येऽधि तस्थुः ।
(१४,२.९ ) स्योनास्ते अस्यै वध्वै भवन्तु मा हिंसिषुर्वहतुमुह्यमानम् ॥९॥
(१४,२.१० ) ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनामनु ।
(१४,२.१० ) पुनस्तान् यज्ञिया देवा नयन्तु यत आगताः ॥१०॥ {७}
(१४,२.११ ) मा विदन् परिपन्थिनो य आसीदन्ति दंपती ।
(१४,२.११ ) सुगेन दुर्गमतीतामप द्रान्त्वरातयः ॥११॥
(१४,२.१२ ) सं काशयामि वहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मित्रियेण ।
(१४,२.१२ ) पर्याणद्धं विश्वरूपं यदस्ति स्योनं पतिभ्यः सविता तत्कृणोतु ॥१२॥
(१४,२.१३ ) शिवा नारीयमस्तमागन्न् इमं धाता लोकमस्यै दिदेश ।
(१४,२.१३ ) तामर्यमा भगो अश्विनोभा प्रजापतिः प्रजया वर्धयन्तु ॥१३॥
(१४,२.१४ ) आत्मन्वत्युर्वरा नारीयमागन् तस्यां नरो वपत बीजमस्याम् ।
(१४,२.१४ ) सा वः प्रजां जनयद्वक्षणाभ्यो बिभ्रती दुग्धमृषभस्य रेतः ॥१४॥
(१४,२.१५ ) प्रति तिष्ठ विराडसि विष्णुरिवेह सरस्वति ।
(१४,२.१५ ) सिनीवालि प्र जायतां भगस्य सुमतावसत्॥१५॥
(१४,२.१६ ) उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत ।
(१४,२.१६ ) मादुष्कृतौ व्येनसावघ्न्यावशुनमारताम् ॥१६॥
(१४,२.१७ ) अघोरचक्षुरपतिघ्नी स्योना शग्मा सुशेवा सुयमा गृहेभ्यः ।
(१४,२.१७ ) वीरसूर्देवृकामा सं त्वयैधिषीमहि सुमस्यमाना ॥१७॥
(१४,२.१८ ) अदेवृघ्न्यपतिघ्नीहैधि शिवा पशुभ्यः सुयमा सुवर्चाः ।
(१४,२.१८ ) प्रजावती वीरसूर्देवृकामा स्योनेममग्निं गार्हपत्यं सपर्य ॥१८॥
(१४,२.१९ ) उत्तिष्ठेतः किमिछन्तीदमागा अहं त्वेडे अभिभूः स्वाद्गृहात्।
(१४,२.१९ ) शून्यैषी निरृते याजगन्थोत्तिष्ठाराते प्र पत मेह रंस्थाः ॥१९॥
(१४,२.२० ) यदा गार्हपत्यमसपर्यैत्पूर्वमग्निं वधूरियम् ।
(१४,२.२० ) अधा सरस्वत्यै नारि पितृभ्यश्च नमस्कुरु ॥२०॥ {८}
(१४,२.२१ ) शर्म वर्मैतदा हरास्यै नार्या उपस्तिरे ।
(१४,२.२१ ) सिनीवालि प्र जायतां भगस्य सुमतावसत्॥२१॥
(१४,२.२२ ) यं बल्बजं न्यस्यथ चर्म चोपस्तृणीथन ।
(१४,२.२२ ) तदा रोहतु सुप्रजा या कन्या विन्दते पतिम् ॥२२॥
(१४,२.२३ ) उप स्तृणीहि बल्बजमधि चर्मणि रोहिते ।
(१४,२.२३ ) तत्रोपविश्य सुप्रजा इममग्निं सपर्यतु ॥२३॥
(१४,२.२४ ) आ रोह चर्मोप सीदाग्निमेष देवो हन्ति रक्षांसि सर्वा ।
(१४,२.२४ ) इह प्रजां जनय पत्ये अस्मै सुज्यैष्ठ्यो भवत्पुत्रस्त एषः ॥२४॥
(१४,२.२५ ) वि तिष्ठन्तां मातुरस्या उपस्थान् नानारूपाः पशवो जायमानाः ।
(१४,२.२५ ) सुमङ्गल्युप सीदेममग्निं संपत्नी प्रति भूषेह देवान् ॥२५॥
(१४,२.२६ ) सुमङ्गली प्रतरणी गृहाणां सुशेवा पत्ये श्वशुराय शंभूः ।
(१४,२.२६ ) स्योना श्वश्र्वै प्र गृहान् विशेमान् ॥२६॥
(१४,२.२७ ) स्योना भव श्वशुरेभ्यः स्योना पत्ये गृहेभ्यः ।
(१४,२.२७ ) स्योनास्यै सर्वस्यै विशे स्योना पुष्टायैषां भव ॥२७॥
(१४,२.२८ ) सुमङ्गलीरियं वधूरिमां समेत पश्यत ।
(१४,२.२८ ) सौभाग्यमस्यै दत्त्वा दौर्भाग्यैर्विपरेतन ॥२८॥
(१४,२.२९ ) या दुर्हार्दो युवतयो याश्चेह जरतीरपि ।
(१४,२.२९ ) वर्चो न्वस्यै सं दत्ताथास्तं विपरेतन ॥२९॥
(१४,२.३० ) रुक्मप्रस्तरणं वह्यं विश्वा रूपाणि बिभ्रतम् ।
(१४,२.३० ) आरोहत्सूर्या सावित्री बृहते सौभगाय कम् ॥३०॥ {९}
(१४,२.३१ ) आ रोह तल्पं सुमनस्यमानेह प्रजां जनय पत्ये अस्मै ।
(१४,२.३१ ) इन्द्राणीव सुबुधा बुध्यमाना ज्योतिरग्रा उषसः प्रति जागरासि ॥३१॥
(१४,२.३२ ) देवा अग्रे न्यपद्यन्त पत्नीः समस्पृशन्त तन्वस्तनूभिः ।
(१४,२.३२ ) सूर्येव नारि विश्वरूपा महित्वा प्रजावती पत्या सं भवेह ॥३२॥
(१४,२.३३ ) उत्तिष्ठेतो विश्वावसो नमसेडामहे त्वा ।
(१४,२.३३ ) जामिमिछ पितृषदं न्यक्तां स ते भागो जनुषा तस्य विद्धि ॥३३॥
(१४,२.३४ ) अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च ।
(१४,२.३४ ) तास्ते जनित्रमभि ताः परेहि नमस्ते गन्धर्वर्तुना कृणोमि ॥३४॥
(१४,२.३५ ) नमो गन्धर्वस्य नमसे नमो भामाय चक्षुषे च कृण्मः ।
(१४,२.३५ ) विश्वावसो ब्रह्मणा ते नमोऽभि जाया अप्सरसः परेहि ॥३५॥
(१४,२.३६ ) राया वयं सुमनसः स्यामोदितो गन्धर्वमावीवृताम ।
(१४,२.३६ ) अगन्त्स देवः परमं सधस्थमगन्म यत्र प्रतिरन्त आयुः ॥३६॥
(१४,२.३७ ) सं पितरावृत्विये सृजेथां माता पिता च रेतसो भवाथः ।
(१४,२.३७ ) मर्य इव योषामधि रोहयैनां प्रजां कृण्वाथामिह पुष्यतं रयिम् ॥३७॥
(१४,२.३८ ) तां पूषं छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति ।
(१४,२.३८ ) या न ऊरू उशती विश्रयाति यस्यामुशन्तः प्रहरेम शेपः ॥३८॥
(१४,२.३९ ) आ रोहोरुमुप धत्स्व हस्तं परि ष्वजस्व जायां सुमनस्यमानः ।
(१४,२.३९ ) प्रजां कृण्वाथामिह मोदमानौ दीर्घं वामायुः सविता कृणोतु ॥३९॥
(१४,२.४० ) आ वां प्रजां जनयतु प्रजापतिरहोरात्राभ्यां समनक्त्वर्यमा ।
(१४,२.४० ) अदुर्मङ्गली पतिलोकमा विशेमं शं नो भव द्विपदे शं चतुष्पदे ॥४०॥ {१०}
(१४,२.४१ ) देवैर्दत्तं मनुना साकमेतद्वाधूयं वासो वध्वश्च वस्त्रम् ।
(१४,२.४१ ) यो ब्रह्मणे चिकितुषे ददाति स इद्रक्षांसि तल्पानि हन्ति ॥४१॥
(१४,२.४२ ) यं मे दत्तो ब्रह्मभागं वधूयोर्वाधूयं वासो वध्वश्च वस्त्रम् ।
(१४,२.४२ ) युवं ब्रह्मणेऽनुमन्यमानौ बृहस्पते साकमिन्द्रश्च दत्तम् ॥४२॥
(१४,२.४३ ) स्योनाद्योनेरधि बध्यमानौ हसामुदौ महसा मोदमानौ ।
(१४,२.४३ ) सुगू सुपुत्रौ सुगृहौ तराथो जीवावुषसो विभातीः ॥४३॥
(१४,२.४४ ) नवं वसानः सुरभिः सुवासा उदागां जीव उषसो विभातीः ।
(१४,२.४४ ) आण्डात्पतत्रीवामुक्षि विश्वस्मादेनसस्परि ॥४४॥
(१४,२.४५ ) शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते ।
(१४,२.४५ ) आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः ॥४५॥
(१४,२.४६ ) सूर्यायै देवेभ्यो मित्राय वरुणाय च ।
(१४,२.४६ ) ये भूतस्य प्रचेतसस्तेभ्य इदमकरं नमः ॥४६॥
(१४,२.४७ ) य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।
(१४,२.४७ ) संधाता संधिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः ॥४७॥
(१४,२.४८ ) अपास्मत्तम उछतु नीलं पिशङ्गमुत लोहितं यत्।
(१४,२.४८ ) निर्दहनी या पृषातक्यस्मिन् तां स्थाणावध्या सजामि ॥४८॥
(१४,२.४९ ) यावतीः कृत्या उपवासने यावन्तो राज्ञो वरुणस्य पाशाः ।
(१४,२.४९ ) व्यृद्धयो या असमृद्धयो या अस्मिन् ता स्थाणावधि सादयामि ॥४९॥
(१४,२.५० ) या मे प्रियतमा तनूः सा मे बिभाय वाससः ।
(१४,२.५० ) तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा वयं रिषाम ॥५०॥ {११}
(१४,२.५१ ) ये अन्ता यावतीः सिचो य ओतवो ये च तन्तवः ।
(१४,२.५१ ) वासो यत्पत्नीभिरुतं तन् न स्योनमुप स्पृशात्॥५१॥
(१४,२.५२ ) उशतीः कन्यला इमाः पितृलोकात्पतिं यतीः ।
(१४,२.५२ ) अव दीक्षामसृक्षत स्वाहा ॥५२॥
(१४,२.५३ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
(१४,२.५३ ) वर्चो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५३॥
(१४,२.५४ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
(१४,२.५४ ) तेजो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५४॥
(१४,२.५५ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
(१४,२.५५ ) भजो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥५५॥
(१४,२.५६ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
(१४,२.५६ ) यशो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५६॥
(१४,२.५७ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
(१४,२.५७ ) पयो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५७॥
(१४,२.५८ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
(१४,२.५८ ) रसो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥५८॥
(१४,२.५९ ) यदीमे केशिनो जना गृहे ते समनर्तिषू रोदेन कृण्वन्तोऽघम् ।
(१४,२.५९ ) अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥५९॥
(१४,२.६० ) यदीयं दुहिता तव विकेश्यरुदद्गृहे रोदेन कृण्वत्यघम् ।
(१४,२.६० ) अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६०॥ {१२}
(१४,२.६१ ) यज्जामयो यद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम् ।
(१४,२.६१ ) अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६१॥
(१४,२.६२ ) यत्ते प्रजायां पशुषु यद्वा गृहेषु निष्ठितमघकृद्भिरघं कृतम् ।
(१४,२.६२ ) अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६२॥
(१४,२.६३ ) इयं नार्युप ब्रूते पूल्यान्यावपन्तिका ।
(१४,२.६३ ) दीर्घायुरस्तु मे पतिर्जीवाति शरदः शतम् ॥६३॥
(१४,२.६४ ) इहेमाविन्द्र सं नुद चक्रवाकेव दंपती ।
(१४,२.६४ ) प्रजयैनौ स्वस्तकौ विश्वमायुर्व्यश्नुताम् ॥६४॥
(१४,२.६५ ) यदासन्द्यामुपधाने यद्वोपवासने कृतम् ।
(१४,२.६५ ) विवाहे कृत्यां यां चक्रुरास्नाने तां नि दध्मसि ॥६५॥
(१४,२.६६ ) यद्दुष्कृतं यच्छमलं विवाहे वहतौ च यत्।
(१४,२.६६ ) तत्संभलस्य कम्बले मृज्महे दुरितं वयम् ॥६६॥
(१४,२.६७ ) संभले मलं सादयित्वा कम्बले दुरितं वयम् ।
(१४,२.६७ ) अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्॥६७॥
(१४,२.६८ ) कृत्रिमः कण्टकः शतदन् य एषः ।
(१४,२.६८ ) अपास्याः केश्यं मलमप शीर्षण्यं लिखात्॥६८॥
(१४,२.६९ ) अङ्गादङ्गाद्वयमस्या अप यक्ष्मं नि दध्मसि ।
(१४,२.६९ ) तन् मा प्रापत्पृथिवीं मोत देवान् दिवं मा प्रापदुर्वन्तरिक्षम् ।
(१४,२.६९ ) अपो मा प्रापन् मलमेतदग्ने यमं मा प्रापत्पितॄंश्च सर्वान् ॥६९॥
(१४,२.७० ) सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम् ।
(१४,२.७० ) सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजमेमम् ॥७०॥ {१३}
(१४,२.७१ ) अमोऽहमस्मि सा त्वं सामाहमस्म्यृक्त्वं द्यौरहं पृथिवी त्वम् ।
(१४,२.७१ ) ताविह सं भवाव प्रजामा जनयावहै ॥७१॥
(१४,२.७२ ) जनियन्ति नावग्रवः पुत्रियन्ति सुदानवः ।
(१४,२.७२ ) अरिष्टासू सचेवहि बृहते वाजसातये ॥७२॥
(१४,२.७३ ) ये पितरो वधूदर्शा इमं वहतुमागमन् ।
(१४,२.७३ ) ते अस्यै वध्वै संपत्न्यै प्रजावच्छर्म यछन्तु ॥७३॥
(१४,२.७४ ) येदं पूर्वागन् रशनायमाना प्रजामस्यै द्रविणं चेह दत्त्वा ।
(१४,२.७४ ) तां वहन्त्वगतस्यानु पन्थां विराडियं सुप्रजा अत्यजैषीत्॥७४॥
(१४,२.७५ ) प्र बुध्यस्व सुबुधा बुध्यमाना दीर्घायुत्वाय शतशारदाय ।
(१४,२.७५ ) गृहान् गछ गृहपत्नी यथासो दीर्घं त आयुः सविता कृणोतु ॥७५॥ {१४}
(१५,१.१ ) व्रात्य आसीदीयमान एव स प्रजापतिं समैरयत्॥१॥
(१५,१.२ ) स प्रजापतिः सुवर्णमात्मन्न् अपश्यत्तत्प्राजनयत्॥२॥
(१५,१.३ ) तदेकमभवत्तल्ललाममभवत्तन् महदभवत्तज्ज्येष्ठमभवत्तद्ब्रह्माभवत्तत्तपोऽभवत्तत्सत्यमभवत्तेन प्राजायत ॥३॥
(१५,१.४ ) सोऽवर्धत स महान् अभवत्स महादेवोऽभवत्॥४॥
(१५,१.५ ) स देवानामीशां पर्यैत्स ईशानोऽभवत्॥५॥
(१५,१.६ ) स एकव्रात्योऽभवत्स धनुरादत्त तदेवेन्द्रधनुः ॥६॥
(१५,१.७ ) नीलमस्योदरं लोहितं पृष्ठम् ॥७॥
(१५,१.८ ) नीलेनैवाप्रियं भ्रातृव्यं प्रोर्णोति लोहितेन द्विषन्तं विध्यतीति ब्रह्मवादिनो वदन्ति ॥८॥
(१५,२.१[२.१]अ) स उदतिष्ठत्स प्राचीं दिशमनु व्यचलत्। [१]
(१५,२.१[२.२]ब्) तं बृहच्च रथन्तरं चादित्याश्च विश्वे च देवा अनुव्यचलन् । [२]
(१५,२.१[२.३]च्) बृहते च वै स रथन्तराय चादित्येभ्यश्च विश्वेभ्यश्च देवेभ्य आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [३]
(१५,२.१[२.४]द्) बृहतश्च वै स रथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति य एवं वेद । [४]
(१५,२.१[२.५]ए) तस्य प्राच्यां दिशि श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [५]
(१५,२.१[२.६७]f) भूतं च भविष्यच्च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । [६७]
(१५,२.१[२.८]ग्) ऐनं कीर्तिर्गछत्या यशो गछति य एवं वेद ॥१॥ [८]
(१५,२.२[२.९]अ) स उदतिष्ठत्स दक्षिणां दिशमनु व्यचलत्। [९]
(१५,२.२[२.१०]ब्) तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् । [१०]
(१५,२.२[२.११]च्) यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [११]
(१५,२.२[२.१२]द्) यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद । [१२]
(१५,२.२[२.१३]ए) तस्य दक्षिणायां दिश्युषाः पुंश्चली मन्त्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१३]
(१५,२.२[२.१४]f) अमावास्या च पौर्णमासी च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ ।
(१५,२.२[२.१४]ग्) ऐनं कीर्तिर्गछत्या यशो गछति य एवं वेद ॥२॥ [१४]
(१५,२.३[२.१५]अ) स उदतिष्ठत्स प्रतीचीं दिशमनु व्यचलत्। [१५]
(१५,२.३[२.१६]ब्) तं वैरूपं च वैराजं चापश्च वरुणश्च राजानुव्यचलन् । [१६]
(१५,२.३[२.१७]च्) वैरूपाय च वै स वैराजाय चाद्भ्यश्च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [१७]
(१५,२.३[२.१८]द्) वैरूपस्य च वै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [१८]
(१५,२.३[२.१९]ए) तस्य प्रतीच्यां दिशीरा पुंश्चली हसो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१९]
(१५,२.३[२.२०]f) अहश्च रात्री च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ ।
(१५,२.३[२.२०]ग्) ऐनं कीर्तिर्गछत्या यशो गछति य एवं वेद ॥३॥ [२०]
(१५,२.४[२.२१]अ) स उदतिष्ठत्स उदीचीं दिशमनु व्यचलत्। [२१]
(१५,२.४[२.२२]ब्) तं श्यैतं च नौधसं च सप्तर्षयश्च सोमश्च राजानुव्यचलन् । [२२]
(१५,२.४[२.२३]च्) श्यैताय च वै स नौधसाय च सप्तर्षिभ्यश्च सोमाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [२३]
(१५,२.४[२.२४]द्) श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [२४]
(१५,२.४[२.२५]ए) तस्योदीच्यां दिशि विद्युत्पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [२५]
(१५,२.४[२.२६२७]f) श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । [२६२७]
(१५,२.४[२.२८]ग्) ऐनं कीर्तिर्गछत्या यशो गछति य एवं वेद ॥४॥ [२८]
(१५,३.१ ) स संवत्सरमूर्ध्वोऽतिष्ठत्तं देवा अब्रुवन् व्रात्य किं नु तिष्ठसीति ॥१॥
(१५,३.२ ) सोऽब्रवीदासन्दीं मे सं भरन्त्विति ॥२॥
(१५,३.३ ) तस्मै व्रात्यायासन्दीं समभरन् ॥३॥
(१५,३.४ ) तस्या ग्रीष्मश्च वसन्तश्च द्वौ पादावास्तां शरच्च वर्षाश्च द्वौ ॥४॥
(१५,३.५ ) बृहच्च रथन्तरं चानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये ॥५॥
(१५,३.६ ) ऋचः प्राञ्चस्तन्तवो यजूंषि तिर्यञ्चः ॥६॥
(१५,३.७ ) वेद आस्तरणं ब्रह्मोपबर्हणम् ॥७॥
(१५,३.८ ) सामासाद उद्गीथोऽपश्रयः ॥८॥
(१५,३.९ ) तामासन्दीं व्रात्य आरोहत्॥९॥
(१५,३.१० ) तस्य देवजनाः परिष्कन्दा आसन्त्संकल्पाः प्रहाय्या विश्वानि भूतान्युपसदः ॥१०॥
(१५,३.११ ) विश्वान्येवास्य भूतान्युपसदो भवन्ति य एवं वेद ॥११॥
(१५,४.१[४.१]अ) तस्मै प्राच्या दिशः । [१]
(१५,४.१[४.२]ब्) वासन्तौ मासौ गोप्तारावकुर्वन् बृहच्च रथन्तरं चानुष्ठातारौ । [२]
(१५,४.१[४.३]च्) वासन्तावेनं मासौ प्राच्या दिशो गोपायतो बृहच्च रथन्तरं चानु तिष्ठतो य एवं वेद ॥१॥ [३]
(१५,४.२[४.४]अ) तस्मै दक्षिणाया दिशः । [४]
(१५,४.२[४.५]ब्) ग्रैष्मौ मासौ गोप्तारावकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ । [५]
(१५,४.२[४.६]च्) ग्रैष्मावेनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद ॥२॥ [६]
(१५,४.३[४.७]अ) तस्मै प्रतीच्या दिशः । [७]
(१५,४.३[४.८]ब्) वार्षिकौ मासौ गोप्तारावकुर्वन् वैरूपं च वैराजं चानुष्ठातारौ । [८]
(१५,४.३[४.९]च्) वार्षिकावेनं मासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवं वेद ॥३॥ [९]
(१५,४.४[४.१०]अ) तस्मा उदीच्या दिशः । [१०]
(१५,४.४[४.११]ब्) शारदौ मासौ गोप्तारावकुर्वं छ्यैतं च नौधसं चानुष्ठातारौ । [११]
(१५,४.४[४.१२]च्) शारदावेनं मासावुदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद ॥४॥ [१२]
(१५,४.५[४.१३]अ) तस्मै ध्रुवाया दिशः । [१३]
(१५,४.५[४.१४]ब्) हैमनौ मासौ गोप्तारावकुर्वन् भूमिं चाग्निं चानुष्ठातारौ । [१४]
(१५,४.५[४.१५]च्) हैमनावेनं मासौ ध्रुवाया दिशो गोपायतो भूमिश्चाग्निश्चानु तिष्ठतो य एवं वेद ॥५॥ [१५]
(१५,४.६[४.१६]अ) तस्मा ऊर्ध्वाया दिशः । [१६]
(१५,४.६[४.१७]ब्) शैशिरौ मासौ गोप्तारावकुर्वन् दिवं चादित्यं चानुष्ठातारौ । [१७]
(१५,४.६[४.१८]च्) शैशिरावेनं मासावूर्ध्वाया दिशो गोपायतो द्यौश्चादित्यश्चानु तिष्ठतो य एवं वेद ॥६॥ [१८]
(१५,५.१[५.१]अ) तस्मै प्राच्या दिशो अन्तर्देशाद्भवमिष्वासमनुष्ठातारमकुर्वन् । [१]
(१५,५.१[५.२३]ब्) भव एनमिष्वासः प्राच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥१॥ [२३]
(१५,५.२[५.४]अ) तस्मै दक्षिणाया दिशो अन्तर्देशाच्छर्वमिष्वासमनुष्ठातारमकुर्वन् । [४]
(१५,५.२[५.५]ब्) शर्व एनमिश्वासो दक्षिणाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥२॥ [५]
(१५,५.३[५.६]अ) तस्मै प्रतीच्या दिशो अन्तर्देशात्पशुपतिमिष्वासमनुष्ठातारमकुर्वन् । [६]
(१५,५.३[५.७]ब्) पशुपतिरेनमिष्वासः प्रतीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥३॥ [७]
(१५,५.४[५.८]अ) तस्मा उदीच्या दिशो अन्तर्देशादुग्रं देवमिष्वासमनुष्ठातारमकुर्वन् । [८]
(१५,५.४[५.९]ब्) उग्र एनं देव इष्वास उदीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥४॥ [९]
(१५,५.५[५.१०]अ) तस्मै ध्रुवाया दिशो अन्तर्देशाद्रुद्रमिष्वासमनुष्ठातारमकुर्वन् । [१०]
(१५,५.५[५.११]ब्) रुद्र एनमिष्वासो ध्रुवाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥५॥ [११]
(१५,५.६[५.१२]अ) तस्मा ऊर्ध्वाया दिशो अन्तर्देशान् महादेवमिष्वासमनुष्ठातारमकुर्वन् । [१२]
(१५,५.६[५.१३]ब्) महादेव एनमिष्वास ऊर्ध्वाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥६॥ [१३]
(१५,५.७[५.१४]अ) तस्मै सर्वेभ्यो अन्तर्देशेभ्य ईशानमिष्वासमनुष्ठातारमकुर्वन् । [१४]
(१५,५.७[५.१५१६]ब्) ईशान एनमिष्वासः सर्वेभ्यो अन्तर्देशेभ्योऽनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥७॥ [१५१६]
(१५,६.१[६.१]अ) स ध्रुवां दिशमनु व्यचलत्। [१]
(१५,६.१[६.२]ब्) तं भूमिश्चाग्निश्चौषधयश्च वनस्पतयश्च वानस्पत्याश्च वीरुधश्चानुव्यचलन् । [२]
(१५,६.१[६.३]च्) भूमेश्च वै सोऽग्नेश्चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां च प्रियं धाम भवति य एवं वेद ॥१॥ [३]
(१५,६.२[६.४]अ) स ऊर्ध्वां दिशमनु व्यचलत्। [४]
(१५,६.२[६.५]ब्) तमृतं च सत्यं च सूर्यश्च चन्द्रश्च नक्षत्राणि चानुव्यचलन् । [५]
(१५,६.२[६.६]च्) ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं धाम भवति य एवं वेद ॥२॥ [६]
(१५,६.३[६.७]अ) स उत्तमां दिशमनु व्यचलत्। [७]
(१५,६.३[६.८]ब्) तमृचश्च सामानि च यजूंषि च ब्रह्म चानुव्यचलन् । [८]
(१५,६.३[६.९]च्) ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं वेद ॥३॥ [९]
(१५,६.४[६.१०]अ) स बृहतीं दिशमनु व्यचलत्। [१०]
(१५,६.४[६.११]ब्) तमितिहासश्च पुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन् । [११]
(१५,६.४[६.१२]च्) इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद ॥४॥ [१२]
(१५,६.५[६.१३]अ) स परमां दिशमनु व्यचलत्। [१३]
(१५,६.५[६.१४]ब्) तमाहवनीयश्च गार्हपत्यश्च दक्षिणाग्निश्च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् । [१४]
(१५,६.५[६.१५]च्) आहवनीयस्य च वै स गार्हपत्यस्य च दक्षिणाग्नेश्च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ॥५॥ [१५]
(१५,६.६[६.१६]अ) सोऽनादिष्टां दिशमनु व्यचलत्। [१६]
(१५,६.६[६.१७]ब्) तमृतवश्चार्तवाश्च लोकाश्च लौक्याश्च मासाश्चार्धमासाश्चाहोरात्रे चानुव्यचलन् । [१७]
(१५,६.६[६.१८]च्) ऋतूनां च वै स आर्तवानां च लोकानां च लौक्यानां च मासानां चार्धमासानां चाहोरात्रयोश्च प्रियं धाम भवति य एवं वेद ॥६॥ [१८]
(१५,६.७[६.१९]अ) सोऽनावृत्तां दिशमनु व्यचलत्ततो नावर्त्स्यन्न् अमन्यत । [१९]
(१५,६.७[६.२०]ब्) तं दितिश्चादितिश्चेडा चेन्द्राणी चानुव्यचलन् । [२०]
(१५,६.७[६.२१]च्) दितेश्च वै सोऽदितेश्चेडायाश्चेन्द्राण्याश्च प्रियं धाम भवति य एवं वेद ॥७॥ [२१]
(१५,६.८[६.२२]अ) स दिशोऽनु व्यचलत्तं विराडनु व्यचलत्सर्वे च देवाः सर्वाश्च देवताः । [२२]
(१५,६.८[६.२३]ब्) विराजश्च वै स सर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भवति य एवं वेद ॥८॥ [२३]
(१५,६.९[६.२४]अ) स सर्वान् अन्तर्देशान् अनु व्यचलत्। [२४]
(१५,६.९[६.२५]ब्) तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चानुव्यचलन् । [२५]
(१५,६.९[६.२६]च्) प्रजापतेश्च वै स परमेष्ठिनश्च पितुश्च पितामहस्य च प्रियं धाम भवति य एवं वेद ॥९॥ [२६]
(१५,७.१ ) स महिमा सद्रुर्भूत्वान्तं पृथिव्या अगछत्समुद्रोऽभवत्॥१॥
(१५,७.२ ) तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चापश्च श्रद्धा च वर्षं भूत्वानुव्यवर्तयन्त ॥२॥
(१५,७.३ ) ऐनमापो गछन्त्यैनं श्रद्धा गछत्यैनं वर्षं गछति य एवं वेद ॥३॥
(१५,७.४ ) तं श्रद्धा च यज्ञश्च लोकश्चान्नं चान्नाद्यं च भूत्वाभिपर्यावर्तन्त ॥४॥
(१५,७.५ ) ऐनं श्रद्धा गछत्यैनं यज्ञो गछत्यैनं लोको गछत्यैनमन्नं गछत्यैनमन्नाद्यं गछति य एवं वेद ॥५॥
(१५,८.१ ) सोऽरज्यत ततो राजन्योऽजायत ॥१॥
(१५,८.२ ) स विशः सबन्धून् अन्नमन्नाद्यमभ्युदतिष्ठत्॥२॥
(१५,८.३ ) विशां च वै स सबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद ॥३॥
(१५,९.१ ) स विशोऽनु व्यचलत्॥१॥
(१५,९.२ ) तं सभा च समितिश्च सेना च सुरा चानुव्यचलन् ॥२॥
(१५,९.३ ) सभायाश्च वै स समितेश्च सेनायाश्च सुरायाश्च प्रियं धाम भवति य एवं वेद ॥३॥
(१५,१०.१ ) तद्यस्यैवं विद्वान् व्रात्यो राज्ञोऽतिथिर्गृहान् आगछेत्॥१॥
(१५,१०.२ ) श्रेयांसमेनमात्मनो मानयेत्तथा क्षत्राय ना वृश्चते तथा राष्ट्राय ना वृश्चते ॥२॥
(१५,१०.३ ) अतो वै ब्रह्म च क्षत्रं चोदतिष्ठतां ते अब्रूतां कं प्र विशावेति ॥३॥
(१५,१०.४ ) बृहस्पतिमेव ब्रह्म प्रविशत्विन्द्रं क्षत्रं तथा वा इति ॥४॥
(१५,१०.५ ) अतो वै बृहस्पतिमेव ब्रह्म प्राविशदिन्द्रं क्षत्रम् ॥५॥
(१५,१०.६ ) इयं वा उ पृथिवी बृहस्पतिर्द्यौरेवेन्द्रः ॥६॥
(१५,१०.७ ) अयं वा उ अग्निर्ब्रह्मासावादित्यः क्षत्रम् ॥७॥
(१५,१०.८ ) ऐनं ब्रह्म गछति ब्रह्मवर्चसी भवति ॥८॥
(१५,१०.९ ) यः पृथिवीं बृहस्पतिमग्निं ब्रह्म वेद ॥९॥
(१५,१०.१० ) ऐनमिन्द्रियं गछतीन्द्रियवान् भवति ॥१०॥
(१५,१०.११ ) य आदित्यं क्षत्रं दिवमिन्द्रं वेद ॥११॥
(१५,११.१ ) तद्यस्यैवं विद्वान् व्रात्योऽतिथिर्गृहान् आगछेत्॥१॥
(१५,११.२ ) स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्य क्वावात्सीर्व्रात्योदकं व्रात्य तर्पयन्तु व्रात्य यथा ते प्रियं तथास्तु व्रात्य यथा ते वशस्तथास्तु व्रात्य यथा ते निकामस्तथास्त्विति ॥२॥
(१५,११.३ ) यदेनमाह व्रात्य क्वावात्सीरिति पथ एव तेन देवयानान् अव रुन्धे ॥३॥
(१५,११.४ ) यदेनमाह व्रात्योदकमित्यप एव तेनाव रुन्धे ॥४॥
(१५,११.५ ) यदेनमाह व्रात्य तर्पयन्त्विति प्राणमेव तेन वर्षीयांसं कुरुते ॥५॥
(१५,११.६ ) यदेनमाह व्रात्य यथा ते प्रियं तथास्त्विति प्रियमेव तेनाव रुन्धे ॥६॥
(१५,११.७ ) ऐनं प्रियं गछति प्रियः प्रियस्य भवति य एवं वेद ॥७॥
(१५,११.८ ) यदेनमाह व्रात्य यथा ते वशस्तथास्त्विति वशमेव तेनाव रुन्धे ॥८॥
(१५,११.९ ) ऐनं वशो गछति वशी वशिनां भवति य एवं वेद ॥९॥
(१५,११.१० ) यदेनमाह व्रात्य यथा ते निकामस्तथास्त्विति निकाममेव तेनाव रुन्धे ॥१०॥
(१५,११.११ ) ऐनं निकामो गछति निकामे निकामस्य भवति य एवं वेद ॥११॥
(१५,१२.१ ) तद्यस्यैवं विद्वान् व्रात्य उद्धृतेष्वग्निष्वधिश्रितेऽग्निहोत्रेऽतिथिर्गृहान् आगछेत्॥१॥
(१५,१२.२ ) स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्याति सृज होष्यामीति ॥२॥
(१५,१२.३ ) स चातिसृजेज्जुहुयान् न चातिसृजेन् न जुहुयात्॥३॥
(१५,१२.४ ) स य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥४॥
(१५,१२.५ ) प्र पितृयाणं पन्थां जानाति प्र देवयानम् ॥५॥
(१५,१२.६ ) न देवेष्वा वृश्चते हुतमस्य भवति ॥६॥
(१५,१२.७ ) पर्यस्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥७॥
(१५,१२.८ ) अथ य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥८॥
(१५,१२.९ ) न पितृयाणं पन्थां जानाति न देवयानम् ॥९॥
(१५,१२.१० ) आ देवेषु वृश्चते अहुतमस्य भवति ॥१०॥
(१५,१२.११ ) नास्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥११॥
(१५,१३.१[१३.१]अ) तद्यस्यैवं विद्वान् व्रात्य एकां रात्रिमतिथिर्गृहे वसति । [१]
(१५,१३.१[१३.२]ब्) ये पृथिव्यां पुण्या लोकास्तान् एव तेनाव रुन्धे ॥१॥ [२]
(१५,१३.२[१३.३]अ) तद्यस्यैवं विद्वान् व्रात्यो द्वितीयां रात्रिमतिथिर्गृहे वसति । [३]
(१५,१३.२[१३.४]ब्) येऽन्तरिक्षे पुण्या लोकास्तान् एव तेनाव रुन्धे ॥२॥ [४]
(१५,१३.३[१३.५]अ) तद्यस्यैवं विद्वान् व्रात्यस्तृतीयां रात्रिमतिथिर्गृहे वसति । [५]
(१५,१३.३[१३.६]ब्) ये दिवि पुण्या लोकास्तान् एव तेनाव रुन्धे ॥३॥ [६]
(१५,१३.४[१३.७]अ) तद्यस्यैवं विद्वान् व्रात्यश्चतुर्थीं रात्रिमतिथिर्गृहे वसति । [७]
(१५,१३.४[१३.८]ब्) ये पुण्यानां पुण्या लोकास्तान् एव तेनाव रुन्धे ॥४॥ [८]
(१५,१३.५[१३.९]अ) तद्यस्यैवं विद्वान् व्रात्योऽपरिमिता रात्रीरतिथिर्गृहे वसति । [९]
(१५,१३.५[१३.१०]ब्) य एवापरिमिताः पुण्या लोकास्तान् एव तेनाव रुन्धे ॥५॥ [१०]
(१५,१३.६[१३.११]अ) अथ यस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रत्यतिथिर्गृहान् आगछेत्॥६॥ [११]
(१५,१३.७[१३.१२]अ) कर्षेदेनं न चैनं कर्षेत्॥७॥ [१२]
(१५,१३.८[१३.१३]अ) अस्यै देवताया उदकं याचामीमां देवतां वासय इमामिमां देवतां परि वेवेष्मीत्येनं परि वेविष्यात्॥८॥ [१३]
(१५,१३.९[१३.१४]अ) तस्यामेवास्य तद्देवतायां हुतं भवति य एवं वेद ॥९॥ [१४]
(१५,१४.१[१४.१]अ) स यत्प्राचीं दिशमनु व्यचलन् मारुतं शर्धो भूत्वानुव्यचलन् मनोऽन्नादं कृत्वा । [१]
(१५,१४.१[१४.२]ब्) मनसान्नादेनान्नमत्ति य एवं वेद ॥१॥ [२]
(१५,१४.२[१४.३]अ) स यद्दक्षिणां दिशमनु व्यचलदिन्द्रो भूत्वानुव्यचलद्बलमन्नादं कृत्वा । [३]
(१५,१४.२[१४.४]ब्) बलेनान्नादेनान्नमत्ति य एवं वेद ॥२॥ [४]
(१५,१४.३[१४.५]अ) स यत्प्रतीचीं दिशमनु व्यचलद्वरुणो राजा भूत्वानुव्यचलदपोऽन्नादीः कृत्वा । [५]
(१५,१४.३[१४.६]ब्) अद्भिरन्नादीभिरन्नमत्ति य एवं वेद ॥३॥ [६]
(१५,१४.४[१४.७]अ) स यदुदीचीं दिशमनु व्यचलत्सोमो राजा भूत्वानुव्यचलत्सप्तर्षिभिर्हुत आहुतिमन्नादीं कृत्वा । [७]
(१५,१४.४[१४.८]ब्) आहुत्यान्नाद्यान्नमत्ति य एवं वेद ॥४॥ [८]
(१५,१४.५[१४.९]अ) स यद्ध्रुवां दिशमनु व्यचलद्विष्णुर्भूत्वानुव्यचलद्विराजमन्नादीं कृत्वा । [९]
(१५,१४.५[१४.१०]ब्) विराजान्नाद्यान्नमत्ति य एवं वेद ॥५॥ [१०]
(१५,१४.६[१४.११]अ) स यत्पशून् अनु व्यचलद्रुद्रो भूत्वानुव्यचलदोषधीरन्नादीः कृत्वा । [११]
(१५,१४.६[१४.१२]ब्) ओषधीभिरन्नादीभिरन्नमत्ति य एवं वेद ॥६॥ [१२]
(१५,१४.७[१४.१३]अ) स यत्पितॄन् अनु व्यचलद्यमो राजा भूत्वानुव्यचलत्स्वधाकारमन्नादं कृत्वा । [१३]
(१५,१४.७[१४.१४]ब्) स्वधाकारेणान्नादेनान्नमत्ति य एवं वेद ॥७॥ [१४]
(१५,१४.८[१४.१५]अ) स यन् मनुष्यान् अनु व्यचलदग्निर्भूत्वानुव्यचलत्स्वाहाकारमन्नादं कृत्वा । [१५]
(१५,१४.८[१४.१६]ब्) स्वाहाकारेणान्नादेनान्नमत्ति य एवं वेद ॥८॥ [१६]
(१५,१४.९[१४.१७]अ) स यदूर्ध्वां दिशमनु व्यचलद्बृहस्पतिर्भूत्वानुव्यचलद्वषट्कारमन्नादं कृत्वा । [१७]
(१५,१४.९[१४.१८]ब्) वषट्कारेणान्नादेनान्नमत्ति य एवं वेद ॥९॥ [१८]
(१५,१४.१०[१४.१९]अ) स यद्देवान् अनु व्यचलदीशानो भूत्वानुव्यचलन् मन्युमन्नादं कृत्वा । [१९]
(१५,१४.१०[१४.२०]ब्) मन्युनान्नादेनान्नमत्ति य एवं वेद ॥१०॥ [२०]
(१५,१४.११[१४.२१]अ) स यत्प्रजा अनु व्यचलत्प्रजापतिर्भूत्वानुव्यचलत्प्राणमन्नादं कृत्वा । [२१]
(१५,१४.११[१४.२२]ब्) प्राणेनान्नादेनान्नमत्ति य एवं वेद ॥११॥ [२२]
(१५,१४.१२[१४.२३]अ) स यत्सर्वान् अन्तर्देशान् अनु व्यचलत्परमेष्ठी भूत्वानुव्यचलद्ब्रह्मान्नादं कृत्वा । [२३]
(१५,१४.१२[१४.२४]ब्) ब्रह्मणान्नादेनान्नमत्ति य एवं वेद ॥१२॥ [२४]
(१५,१५.१ ) तस्य व्रात्यस्य ॥१॥
(१५,१५.२ ) सप्त प्राणाः सप्तापानाः सप्त व्यानाः ॥२॥
(१५,१५.३ ) योऽस्य प्रथमः प्राण ऊर्ध्वो नामायं सो अग्निः ॥३॥
(१५,१५.४ ) योऽस्य द्वितीयः प्राणः प्रौढो नामासौ स आदित्यः ॥४॥
(१५,१५.५ ) योऽस्य तृतीयः प्राणोऽभ्यूढो नामासौ स चन्द्रमाः ॥५॥
(१५,१५.६ ) योऽस्य चतुर्थः प्राणो विभूर्नामायं स पवमानः ॥६॥
(१५,१५.७ ) योऽस्य पञ्चमः प्राणो योनिर्नाम ता इमा आपः ॥७॥
(१५,१५.८ ) योऽस्य षष्ठः प्राणः प्रियो नाम त इमे पशवः ॥८॥
(१५,१५.९ ) योऽस्य सप्तमः प्राणोऽपरिमितो नाम ता इमाः प्रजाः ॥९॥
(१५,१६.१ ) योऽस्य प्रथमोऽपानः सा पौर्णमासी ॥१॥
(१५,१६.२ ) योऽस्य द्वितीयोऽपानः साष्टका ॥२॥
(१५,१६.३ ) योऽस्य तृतीयोऽपानः सामावास्या ॥३॥
(१५,१६.४ ) योऽस्य चतुर्थोऽपानः सा श्रद्धा ॥४॥
(१५,१६.५ ) योऽस्य पञ्चमोऽपानः सा दीक्षा ॥५॥
(१५,१६.६ ) योऽस्य षष्ठोऽपानः स यज्ञः ॥६॥
(१५,१६.७ ) योऽस्य सप्तमोऽपानस्ता इमा दक्षिणाः ॥७॥
(१५,१७.१ ) योऽस्य प्रथमो व्यानः सेयं भूमिः ॥१॥
(१५,१७.२ ) योऽस्य द्वितीयो व्यानस्तदन्तरिक्षम् ॥२॥
(१५,१७.३ ) योऽस्य तृतीयो व्यानः सा द्यौः ॥३॥
(१५,१७.४ ) योऽस्य चतुर्थो व्यानस्तानि नक्षत्राणि ॥४॥
(१५,१७.५ ) योऽस्य पञ्चमो व्यानस्त ऋतवः ॥५॥
(१५,१७.६ ) योऽस्य षष्ठो व्यानस्त आर्तवाः ॥६॥
(१५,१७.७ ) योऽस्य सप्तमो व्यानः स संवत्सरः ॥७॥
(१५,१७.८ ) समानमर्थं परि यन्ति देवाः संवत्सरं वा एतदृतवोऽनुपरियन्ति व्रात्यं च ॥८॥
(१५,१७.९ ) यदादित्यमभिसंविशन्त्यमावास्यां चैव तत्पौर्णमासीं च ॥९॥
(१५,१७.१० ) एकं तदेषाममृतत्वमित्याहुतिरेव ॥१०॥
(१५,१८.१ ) तस्य व्रात्यस्य ॥१॥
(१५,१८.२ ) यदस्य दक्षिणमक्ष्यसौ स आदित्यो यदस्य सव्यमक्ष्यसौ स चन्द्रमाः ॥२॥
(१५,१८.३ ) योऽस्य दक्षिणः कर्णोऽयं सो अग्निर्योऽस्य सव्यः कर्णोऽयं स पवमानः ॥३॥
(१५,१८.४ ) अहोरात्रे नासिके दितिश्चादितिश्च शीर्षकपाले संवत्सरः शिरः ॥४॥
(१५,१८.५ ) अह्ना प्रत्यङ्व्रात्यो रात्र्या प्राङ्नमो व्रात्याय ॥५॥
(१६,१.१ ) अतिसृष्टो अपां वृषभोऽतिसृष्टा अग्नयो दिव्याः ॥१॥
(१६,१.२ ) रुजन् परिरुजन् मृणन् प्रमृणन् ॥२॥
(१६,१.३ ) म्रोको मनोहा खनो निर्दाह आत्मदूषिस्तनूदूषिः ॥३॥
(१६,१.४ ) इदं तमति सृजामि तं माभ्यवनिक्षि ॥४॥
(१६,१.५ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
(१६,१.६ ) अपामग्रमसि समुद्रं वोऽभ्यवसृजामि ॥६॥
(१६,१.७ ) योऽप्स्वग्निरति तं सृजामि म्रोकं खनिं तनूदूषिम् ॥७॥
(१६,१.८ ) यो व आपोऽग्निराविवेश स एष यद्वो घोरं तदेतत्॥८॥
(१६,१.९ ) इन्द्रस्य व इन्द्रियेणाभि षिञ्चेत्॥९॥
(१६,१.१० ) अरिप्रा आपो अप रिप्रमस्मत्॥१०॥
(१६,१.११ ) प्रास्मदेनो वहन्तु प्र दुष्वप्न्यं वहन्तु ॥११॥
(१६,१.१२ ) शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ॥१२॥
(१६,१.१३ ) शिवान् अग्नीन् अप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः ॥१३॥
(१६,२.१ ) निर्दुरर्मण्य ऊर्जा मधुमती वाक्॥१॥
(१६,२.२ ) मधुमती स्थ मधुमतीं वाचमुदेयम् ॥२॥
(१६,२.३ ) उपहूतो मे गोपाः उपहूतो गोपीथः ॥३॥
(१६,२.४ ) सुश्रुतौ कर्णौ भद्रश्रुतौ कर्णौ भद्रं श्लोकं श्रूयासम् ॥४॥
(१६,२.५ ) सुश्रुतिश्च मोपश्रुतिश्च मा हासिष्टां सौपर्णं चक्षुरजस्रं ज्योतिः ॥५॥
(१६,२.६ ) ऋषीणां प्रस्तरोऽसि नमोऽस्तु दैवाय प्रस्तराय ॥६॥
(१६,३.१ ) मूर्धाहं रयीणां मूर्धा समानानां भूयासम् ॥१॥
(१६,३.२ ) रुजश्च मा वेनश्च मा हासिष्टां मूर्धा च मा विधर्मा च मा हासिष्टाम् ॥२॥
(१६,३.३ ) उर्वश्च मा चमसश्च मा हासिष्टां धर्ता च मा धरुणश्च मा हासिष्टाम् ॥३॥
(१६,३.४ ) विमोकश्च मार्द्रपविश्च मा हासिष्टामार्द्रदानुश्च मा मातरिश्वा च मा हासिष्टाम् ॥४॥
(१६,३.५ ) बृहस्पतिर्म आत्मा नृमणा नाम हृद्यः ॥५॥
(१६,३.६ ) असंतापं मे हृदयमुर्वी गव्यूतिः समुद्रो अस्मि विधर्मणा ॥६॥
(१६,४.१ ) नाभिरहं रयीणां नाभिः समानानां भूयासम् ॥१॥
(१६,४.२ ) स्वासदसि सूषा अमृतो मर्त्येश्वा ॥२॥
(१६,४.३ ) मा मां प्राणो हासीन् मो अपानोऽवहाय परा गात्॥३॥
(१६,४.४ ) सूर्यो माह्नः पात्वग्निः पृथिव्या वायुरन्तरिक्षाद्यमो मनुष्येभ्यः सरस्वती पार्थिवेभ्यः ॥४॥
(१६,४.५ ) प्राणापनौ मा मा हासिष्टं मा जने प्र मेषि ॥५॥
(१६,४.६ ) स्वस्त्यद्योषसो दोषसश्च सर्व आपः सर्वगणो अशीय ॥६॥
(१६,४.७ ) शक्वरी स्थ पशवो मोप स्थेषुर्मित्रावरुणौ मे प्राणापानावग्निर्मे दक्षं दधातु ॥७॥
(१६,५.१ ) विद्म ते स्वप्न जनित्रं ग्राह्याः पुत्रोऽसि यमस्य करणः ।
(१६,५.१ ) अन्तकोऽसि मृत्युरसि ।
(१६,५.१ ) तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥१॥
(१६,५.२ ) विद्म ते स्वप्न जनित्रं निरृत्याः पुत्रोऽसि यमस्य करणः । […] ॥ २ ॥
(१६,५.३ ) विद्म ते स्वप्न जनित्रमभूत्याः पुत्रोऽसि यमस्य […] ॥ ३ ॥
(१६,५.४ ) विद्म ते स्वप्न जनित्रं निर्भूत्याः पुत्रोऽसि […] ॥ ४ ॥
(१६,५.५ ) विद्म ते स्वप्न जनित्रं पराभूत्याः पुत्रोऽसि […] ॥ ५ ॥
(१६,५.६ ) विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः ।
(१६,५.६ ) अन्तकोऽसि मृत्युरसि ।
(१६,५.६ ) तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥६॥
(१६,६.१ ) अजैष्माद्यासनामद्यामूमनागसो वयम् ॥१॥
(१६,६.२ ) उषो यस्माद्दुष्वप्न्यादभैष्माप तदुछतु ॥२॥
(१६,६.३ ) द्विषते तत्परा वह शपते तत्परा वह ॥३॥
(१६,६.४ ) यं द्विष्मो यश्च नो द्वेष्टि तस्मा एनद्गमयामः ॥४॥
(१६,६.५ ) उषा देवी वाचा संविदाना वाग्देव्युषसा संविदाना ॥५॥
(१६,६.६ ) उषस्पतिर्वाचस्पतिना संविदानो वाचस्पतिना संविदानः ॥६॥
(१६,६.७ ) तेऽमुष्मै परा वहन्त्वरायान् दुर्णाम्नः सदान्वाः ॥७॥
(१६,६.८ ) कुम्भीकाः दूषीकाः पीयकान् ॥८॥
(१६,६.९ ) जाग्रद्दुष्वप्न्यं स्वप्नेदुष्वप्न्यम् ॥९॥
(१६,६.१० ) अनागमिष्यतो वरान् अवित्तेः संकल्पान् अमुच्या द्रुहः पाशान् ॥१०॥
(१६,६.११ ) तदमुष्मा अग्ने देवाः परा वहन्तु वघ्रिर्यथासद्विथुरो न साधुः ॥११॥
(१६,७.१ ) तेनैनं विध्याम्यभूत्यैनं विध्यामि निर्भूत्यैनं विध्यामि पराभूत्यैनं विध्यामि ग्राह्यैनं विध्यामि तमसैनं विध्यामि ॥१॥
(१६,७.२ ) देवानामेनं घोरैः क्रूरैः प्रैषैरभिप्रेष्यामि ॥२॥
(१६,७.३ ) वैश्वानरस्यैनं दंष्ट्रयोरपि दधामि ॥३॥
(१६,७.४ ) एवानेवाव सा गरत्॥४॥
(१६,७.५ ) योऽस्मान् द्वेष्टि तमात्मा द्वेष्टु यं वयं द्विष्मः स आत्मानं द्वेष्टु ॥५॥
(१६,७.६ ) निर्द्विषन्तं दिवो निः पृथिव्या निरन्तरिक्षाद्भजाम ॥६॥
(१६,७.७ ) सुयामंश्चाक्षुष ॥७॥
(१६,७.८ ) इदमहमामुष्यायणेऽमुष्याः पुत्रे दुष्वप्न्यं मृजे ॥८॥
(१६,७.९ ) यददोअदो अभ्यगछं यद्दोषा यत्पूर्वां रात्रिम् ॥९॥
(१६,७.१० ) यज्जाग्रद्यत्सुप्तो यद्दिवा यन् नक्तम् ॥१०॥
(१६,७.११ ) यदहरहरभिगछामि तस्मादेनमव दये ॥११॥
(१६,७.१२ ) तं जहि तेन मन्दस्व तस्य पृष्टीरपि शृणीहि ॥१२॥
(१६,७.१३ ) स मा जीवीत्तं प्राणो जहातु ॥१३॥
(१६,८.१ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजसस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ॥१॥
(१६,८.२ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.२ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.२ ) स निरृत्याः पाशान् मा मोचि ॥२॥
(१६,८.३ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.३ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.३ ) सोऽभूत्याः पाशान् मा मोचि ॥३॥
(१६,८.४ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.४ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.४ ) स निर्भूत्याः पाशान् मा मोचि ॥४॥
(१६,८.५ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.५ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.५ ) स पराभूत्याः पाशान् मा मोचि ॥५॥
(१६,८.६ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.६ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.६ ) स देवजामीनां पाशान् मा मोचि ॥६॥
(१६,८.७ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.७ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.७ ) स बृहस्पतेः पाशान् मा मोचि ॥७॥
(१६,८.८ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.८ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.८ ) स प्रजापतेः पाशान् मा मोचि ॥८॥
(१६,८.९ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.९ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.९ ) स ऋषीणां पाशान् मा मोचि ॥९॥
(१६,८.१० ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.१० ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.१० ) स आर्षेयाणां पाशान् मा मोचि ॥१०॥
(१६,८.११ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.११ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.११ ) सोऽङ्गिरसां पाशान् मा मोचि ॥११॥
(१६,८.१२ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.१२ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.१२ ) स आङ्गिरसानां पाशान् मा मोचि ॥१२॥
(१६,८.१३ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.१३ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.१३ ) सोऽथर्वणां पाशान् मा मोचि ॥१३॥
(१६,८.१४ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.१४ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.१४ ) स आथर्वणानां पाशान् मा मोचि ॥१४॥
(१६,८.१५ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.१५ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.१५ ) स वनस्पतीणां पाशान् मा मोचि ॥१५॥
(१६,८.१६ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.१६ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.१६ ) स वानस्पत्यानां पाशान् मा मोचि ॥१६॥
(१६,८.१७ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.१७ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.१७ ) स ऋतूनां पाशान् मा मोचि ॥१७॥
(१६,८.१८ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.१८ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.१८ ) स आर्तवानां पाशान् मा मोचि ॥१८॥
(१६,८.१९ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.१९ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.१९ ) स मासानां पाशान् मा मोचि ॥१९॥
(१६,८.२० ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.२० ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.२० ) सोऽर्धमासानां पाशान् मा मोचि ॥२०॥
(१६,८.२१ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.२१ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.२१ ) सोऽहोरात्रयोः पाशान् मा मोचि ॥२१॥
(१६,८.२२ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.२२ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.२२ ) सोऽह्नोः संयतोः पाशान् मा मोचि ॥२२॥
(१६,८.२३ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.२३ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.२३ ) स द्यावापृथिव्योः पाशान् मा मोचि ॥२३॥
(१६,८.२४ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.२४ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.२४ ) स इन्द्राग्न्योः पाशान् मा मोचि ॥२४॥
(१६,८.२५ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.२५ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.२५ ) स मित्रावरुणयोः पाशान् मा मोचि ॥२५॥
(१६,८.२६ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
(१६,८.२६ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
(१६,८.२६ ) स राज्ञो वरुणस्य पाशान् मा मोचि ॥२६॥
(१६,८.२७ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ॥२७॥
(१६,९.१ ) जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः ॥१॥
(१६,९.२ ) तदग्निराह तदु सोम आह पूषा मा धात्सुकृतस्य लोके ॥२॥
(१६,९.३ ) अगन्म स्वः स्वरगन्म सं सूर्यस्य ज्योतिषागन्म ॥३॥
(१६,९.४ ) वस्योभूयाय वसुमान् यज्ञो वसु वंसिषीय वसुमान् भूयासं वसु मयि धेहि ॥४॥
(१७,१.१ ) विषासहिं सहमानं सासहानं सहीयांसम् ।
(१७,१.१ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
(१७,१.१ ) ईड्यं नाम ह्व इन्द्रमायुष्मान् भूयासम् ॥१॥
(१७,१.२ ) विषासहिं सहमानं सासहानं सहीयांसम् ।
(१७,१.२ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
(१७,१.२ ) ईड्यं नाम ह्व इन्द्रं प्रियो देवानां भूयासम् ॥२॥
(१७,१.३ ) विषासहिं सहमानं सासहानं सहीयांसम् ।
(१७,१.३ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
(१७,१.३ ) ईड्यं नाम ह्व इन्द्रं प्रियः प्रजानां भूयासम् ॥३॥
(१७,१.४ ) विषासहिं सहमानं सासहानं सहीयांसम् ।
(१७,१.४ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
(१७,१.४ ) ईड्यं नाम ह्व इन्द्रं प्रियः पशूनां भूयासम् ॥४॥
(१७,१.५ ) विषासहिं सहमानं सासहानं सहीयांसम् ।
(१७,१.५ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
(१७,१.५ ) ईड्यं नाम ह्व इन्द्रं प्रियः समानानां भूयासम् ॥५॥
(१७,१.६ ) उदिह्युदिहि सूर्य वर्चसा माभ्युदिहि ।
(१७,१.६ ) द्विषंश्च मह्यं रध्यतु मा चाहं द्विषते रधं तवेद्विष्णो बहूधा वीर्यानि ।
(१७,१.६ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥६॥
(१७,१.७ ) उदिह्युदिहि सूर्य वर्चसा माभ्युदिहि ।
(१७,१.७ ) आंश्च पश्यामि यांश्च न तेषु मा सुमतिं कृधि तवेद्विष्णो बहूधा वीर्यानि ।
(१७,१.७ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥७॥
(१७,१.८ ) मा त्वा दभन्त्सलिले अप्स्वन्तर्ये पाशिन उपतिष्ठन्त्यत्र ।
(१७,१.८ ) हित्वाशस्तिं दिवमारुक्ष एतां स नो मृड सुमतौ ते स्याम तवेद्विष्णो बहूधा वीर्यानि ।
(१७,१.८ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥८॥
(१७,१.९ ) त्वं न इन्द्र महते सौभगायादब्धेभिः परि पाह्यक्तुभिस्तवेद्विष्णो बहूधा वीर्यानि ।
(१७,१.९ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥९॥
(१७,१.१० ) त्वं न इन्द्रोतिभिः शिवाभिः शंतमो भव ।
(१७,१.१० ) आरोहंस्त्रिदिवं दिवो गृणानः सोमपीतये प्रियधामा स्वस्तये तवेद्विष्णो बहूधा वीर्यानि ।
(१७,१.१० ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१०॥ {१}
(१७,१.११ ) त्वमिन्द्रासि विश्वजित्सर्ववित्पुरुहूतस्त्वमिन्द्र ।
(१७,१.११ ) त्वमिन्द्रेमं सुहवं स्तोममेरयस्व स नो मृड सुमतौ ते स्याम तवेद्विष्णो बहूधा वीर्याणि ।
(१७,१.११ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥११॥
(१७,१.१२ ) अदब्धो दिवि पृथिव्यामुतासि न त आपुर्महिमानमन्तरिक्षे ।
(१७,१.१२ ) अदब्धेन ब्रह्मणा वावृधानः स त्वं न इन्द्र दिवि सं छर्म यछ तवेद्विष्णो बहूधा वीर्याणि ।
(१७,१.१२ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१२॥
(१७,१.१३ ) या त इन्द्र तनूरप्सु या पृथिव्यां यान्तरग्नौ या ते इन्द्र पवमाने स्वर्विदि ।
(१७,१.१३ ) ययेन्द्र तन्वाऽन्तरिक्षं व्यापिथ तया न इन्द्र तन्वा शर्म यछ तवेद्विष्णो बहूधा वीर्याणि ।
(१७,१.१३ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१३॥
(१७,१.१४ ) त्वामिन्द्र ब्रह्मणा वर्धयन्तः सत्त्रं नि षेदुरृषयो नाधमानास्तवेद्विष्णो बहूधा वीर्याणि ।
(१७,१.१४ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१४॥
(१७,१.१५ ) त्वं तृतं त्वं पर्येष्युत्सं सहस्रधारं विदथं स्वर्विदं तवेद्विष्णो बहूधा वीर्याणि ।
(१७,१.१५ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१५॥
(१७,१.१६ ) त्वं रक्षसे प्रदिशश्चतस्रस्त्वं शोचिषा नभसी वि भासि ।
(१७,१.१६ ) त्वमिमा विश्वा भुवनानु तिष्ठस ऋतस्य पन्थामन्वेषि विद्वांस्तवेद्विष्णो बहूधा वीर्याणि ।
(१७,१.१६ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१६॥
(१७,१.१७ ) पञ्चभिः पराङ्तपस्येकयार्वाङशस्तिमेषि सुदिने बाधमानस्तवेद्विष्णो बहूधा वीर्याणि ।
(१७,१.१७ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१७॥
(१७,१.१८ ) त्वमिन्द्रस्त्वं महेन्द्रस्त्वं लोकस्त्वं प्रजापतिः ।
(१७,१.१८ ) तुभ्यं यज्ञो वि तायते तुभ्यं जुह्वति जुह्वतस्तवेद्विष्णो बहूधा वीर्याणि ।
(१७,१.१८ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१८॥
(१७,१.१९ ) असति सत्प्रतिष्ठितं सति भूतं प्रतिष्ठितम् ।
(१७,१.१९ ) भूतं ह भव्य आहितं भव्यं भूते प्रतिष्ठितं तवेद्विष्णो बहूधा वीर्याणि ।
(१७,१.१९ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१९॥
(१७,१.२० ) शुक्रोऽसि भ्राजोऽसि ।
(१७,१.२० ) स यथा त्वं भ्राजता भ्राजोऽस्येवाहं भ्राजता भ्राज्यासम् ॥२०॥ {२}
(१७,१.२१ ) रुचिरसि रोचोऽसि ।
(१७,१.२१ ) स यथा त्वं रुच्या रोचोऽस्येवाहं पशुभिश्च ब्राह्मणवर्चसेन च रुचिषीय ॥२१॥
(१७,१.२२ ) उद्यते नम उदायते नम उदिताय नमः ।
(१७,१.२२ ) विराजे नमः स्वराजे नमः सम्राजे नमः ॥२२॥
(१७,१.२३ ) अस्तंयते नमोऽस्तमेष्यते नमोऽस्तमिताय नमः ।
(१७,१.२३ ) विराजे नमः स्वराजे नमः सम्राजे नमः ॥२३॥
(१७,१.२४ ) उदगादयमादित्यो विश्वेन तपसा सह ।
(१७,१.२४ ) सपत्नान् मह्यं रन्धयन् मा चाहं द्विषते रधं तवेद्विष्णो बहूधा वीर्याणि ।
(१७,१.२४ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥२४॥
(१७,१.२५ ) आदित्य नावमारुक्षः शतारित्रां स्वस्तये ।
(१७,१.२५ ) अहर्मात्यपीपरो रात्रिं सत्राति पारय ॥२५॥
(१७,१.२६ ) सूर्य नावमारुक्षः शतारित्रां स्वस्तये ।
(१७,१.२६ ) रात्रिं मात्यपीपरोऽहः सत्राति पारय ॥२६॥
(१७,१.२७ ) प्रजापतेरावृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च ।
(१७,१.२७ ) जरदष्टिः कृतवीर्यो विहायाः सहस्रायुः सुकृतश्चरेयम् ॥२७॥
(१७,१.२८ ) परिवृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च ।
(१७,१.२८ ) मा मा प्रापन्न् इषवो दैव्या या मा मानुषीरवसृष्टाः वधाय ॥२८॥
(१७,१.२९ ) ऋतेन गुप्त ऋतुभिश्च सर्वैर्भूतेन गुप्तो भव्येन चाहम् ।
(१७,१.२९ ) मा मा प्रापत्पाप्मा मोत मृत्युरन्तर्दधेऽहं सलिलेन वाचः ॥२९॥
(१७,१.३० ) अग्निर्मा गोप्ता परि पातु विश्वतः उद्यन्त्सूर्यो नुदतां मृत्युपाशान् ।
(१७,१.३० ) व्युछन्तीरुषसः पर्वता ध्रुवाः सहस्रं प्राणा मय्या यतन्ताम् ॥३०॥ {३}
(१८,१.१ ) ओ चित्सखायं सख्या ववृत्यां तिरः पुरु चिदर्णवं जगन्वान् ।
(१८,१.१ ) पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥१॥
(१८,१.२ ) न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवति ।
(१८,१.२ ) महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥२॥
(१८,१.३ ) उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य ।
(१८,१.३ ) नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविष्याः ॥३॥
(१८,१.४ ) न यत्पुरा चकृमा कद्ध नूनमृतं वदन्तो अनृतं रपेम ।
(१८,१.४ ) गन्धर्वो अप्स्वप्या च योषा सा नौ नाभिः परमं जामि तन् नौ ॥४॥
(१८,१.५ ) गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः ।
(१८,१.५ ) नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥५॥
(१८,१.६ ) को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।
(१८,१.६ ) आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्यामृणधत्स जीवात्॥६॥
(१८,१.७ ) को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत्।
(१८,१.७ ) बृहन् मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन् ॥७॥
(१८,१.८ ) यमस्य मा यम्यं काम आगन्त्समाने योनौ सहशेय्याय ।
(१८,१.८ ) जायेव पत्ये तन्वं रिरिच्यां वि चिद्वृहेव रथ्येव चक्रा ॥८॥
(१८,१.९ ) न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति ।
(१८,१.९ ) अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥९॥
(१८,१.१० ) रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन् मिमीयात्।
(१८,१.१० ) दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य विवृहादजामि ॥१०॥ {१}
(१८,१.११ ) आ घा ता गछान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि ।
(१८,१.११ ) उप बर्बृहि वृषभाय बाहुमन्यमिछस्व सुभगे पतिं मत्॥११॥
(१८,१.१२ ) किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन् निरृतिर्निगछात्।
(१८,१.१२ ) काममूता बह्वेतद्रपामि तन्वा मे तन्वं सं पिपृग्धि ॥१२॥
(१८,१.१३ ) न ते नाथं यम्यत्राहमस्मि न ते तनूं तन्वा सं पपृच्याम् ।
(१८,१.१३ ) अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत्॥१३॥
(१८,१.१४ ) न वा उ ते तनूं तन्वा सं पिपृच्यां पापमाहुर्यः स्वसारं निगछात्।
(१८,१.१४ ) असंयदेतन् मनसो हृदो मे भ्राता स्वसुः शयने यच्छयीय ॥१४॥
(१८,१.१५ ) बतो बतासि यम नैव ते मनो हृदयं चाविदामा ।
(१८,१.१५ ) अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजातौ लिबुजेव वृक्षम् ॥१५॥
(१८,१.१६ ) अन्यमू षु यम्यन्य उ त्वां परि ष्वजातौ लिबुजेव वृक्षम् ।
(१८,१.१६ ) तस्य वा त्वं मन इछा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥१६॥
(१८,१.१७ ) त्रीणि छन्दांसि कवयो वि येतिरे पुरुरूपं दर्शतं विश्वचक्षणम् ।
(१८,१.१७ ) आपो वाता ओषधयस्तान्येकस्मिन् भुवन आर्पितानि ॥१७॥
(१८,१.१८ ) वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः ।
(१८,१.१८ ) विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजति यज्ञियामृतून् ॥१८॥
(१८,१.१९ ) रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु नो मनः ।
(१८,१.१९ ) इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥१९॥
(१८,१.२० ) सो चित्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती ।
(१८,१.२० ) यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥२०॥ {२}
(१८,१.२१ ) अध त्यं द्रप्सं विभ्वं विचक्षनं विराभरदिषिरः श्येनो अध्वरे ।
(१८,१.२१ ) यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥२१॥
(१८,१.२२ ) सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः ।
(१८,१.२२ ) विप्रस्य वा यच्छशमान उक्थ्यो वाजं ससवामुपयासि भूरिभिः ॥२२॥
(१८,१.२३ ) उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति ।
(१८,१.२३ ) विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती ॥२३॥
(१८,१.२४ ) यस्ते अग्ने सुमतिं मर्तो अख्यत्सहसः सूनो अति स प्र शृण्वे ।
(१८,१.२४ ) इषं दधानो वहमानो अश्वैरा स द्युमाममवान् भूषति द्यून् ॥२४॥
(१८,१.२५ ) श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् ।
(१८,१.२५ ) आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥२५॥
(१८,१.२६ ) यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र ।
(१८,१.२६ ) रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात्॥२६॥
(१८,१.२७ ) अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः ।
(१८,१.२७ ) अनु सूर्य उषसो अनु रश्मीन् द्यावापृथिवी आ विवेश ॥२७॥
(१८,१.२८ ) प्रत्यग्निरुषसामग्रमख्यत्प्रत्यहानि प्रथमो जातवेदाः ।
(१८,१.२८ ) प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥२८॥
(१८,१.२९ ) द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा ।
(१८,१.२९ ) देवो यन् मर्तान् यजथाय कृण्वन्त्सीदद्धोता प्रत्यङ्स्वमसुं यन् ॥२९॥
(१८,१.३० ) देवो देवान् परिभूरृतेन वहा नो हव्यं प्रथमश्चिकित्वान् ।
(१८,१.३० ) धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥३०॥ {३}
(१८,१.३१ ) अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे ।
(१८,१.३१ ) अहा यद्देवा असुनीतिमायन् मध्वा नो अत्र पितरा शिशीताम् ॥३१॥
(१८,१.३२ ) स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी ।
(१८,१.३२ ) विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥३२॥
(१८,१.३३ ) किं स्विन् नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद ।
(१८,१.३३ ) मित्रस्चिद्धि ष्मा जुहुराणो देवां छ्लोको न यातामपि वाजो अस्ति ॥३३॥
(१८,१.३४ ) दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति ।
(१८,१.३४ ) यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुछन् ॥३४॥
(१८,१.३५ ) यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते ।
(१८,१.३५ ) सूर्ये ज्योतिरदधुर्मास्यक्तून् परि द्योतनिं चरतो अजस्रा ॥३५॥
(१८,१.३६ ) यस्मिन् देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म ।
(१८,१.३६ ) मित्रो नो अत्रादितिरनागान्त्सविता देवो वरुणाय वोचत्॥३६॥
(१८,१.३७ ) सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे ।
(१८,१.३७ ) स्तुष ऊ षु नृतमाय धृष्णवे ॥३७॥
(१८,१.३८ ) शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा ।
(१८,१.३८ ) मघैर्मघोनो अति शूर दाशसि ॥३८॥
(१८,१.३९ ) स्तेगो न क्षामत्येषि पृथिवीं मही नो वाता इह वान्तु भूमौ ।
(१८,१.३९ ) मित्रो नो अत्र वरुणो युजमानो अग्निर्वने न व्यसृष्ट शोकम् ॥३९॥
(१८,१.४० ) स्तुहि श्रुतं गर्तसदं जनानां राजानं भीममुपहत्नुमुग्रम् ।
(१८,१.४० ) मृडा जरित्रे रुद्र स्तवानो अन्यमस्मत्ते नि वपन्तु सेन्यम् ॥४०॥ {४}
(१८,१.४१ ) सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।
(१८,१.४१ ) सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात्॥४१॥
(१८,१.४२ ) सरस्वतीं पितरो हवन्ते दक्षिना यज्ञमभिनक्षमाणाः ।
(१८,१.४२ ) आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे ॥४२॥
(१८,१.४३ ) सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती ।
(१८,१.४३ ) सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥४३॥
(१८,१.४४ ) उदीरतामवर उत्परास उन् मध्यमाः पितरः सोम्यासः ।
(१८,१.४४ ) असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥४४॥
(१८,१.४५ ) आहं पितॄन्त्सुविदत्रामवित्सि नपातं च विक्रमणं च विष्णोः ।
(१८,१.४५ ) बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥४५॥
(१८,१.४६ ) इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो ये अपरास ईयुः ।
(१८,१.४६ ) ये पार्थिवे रजस्या निषक्ता ये वा नूनं सुवृजनासु दिक्षु ॥४६॥
(१८,१.४७ ) मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिरृक्वभिर्वावृधानः ।
(१८,१.४७ ) यांश्च देवा वावृधुर्ये च देवांस्ते नोऽवन्तु पितरो हवेषु ॥४७॥
(१८,१.४८ ) स्वादुष्किलायं मधुमामुतायं तीव्रः किलायं रसवामुतायम् ।
(१८,१.४८ ) उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥४८॥
(१८,१.४९ ) परेयिवांसं प्रवतो महीरिति बहुभ्यः पन्थामनुपस्पशानम् ।
(१८,१.४९ ) वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥४९॥
(१८,१.५० ) यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ ।
(१८,१.५० ) यत्रा नः पूर्वे पितरः परेता एना जज्ञानाः पथ्या अनु स्वाः ॥५०॥ {५}
(१८,१.५१ ) बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् ।
(१८,१.५१ ) त आ गतावसा शंतमेनाधा नः शं योररपो दधात ॥५१॥
(१८,१.५२ ) आच्या जानु दक्षिणतो निषद्येदं नो हविरभि गृणन्तु विश्वे ।
(१८,१.५२ ) मा हिंसिष्ट पितरः केन चिन् नो यद्व आगः पुरुषता कराम ॥५२॥
(१८,१.५३ ) त्वष्टा दुहित्रे वहतुं कृणोति तेनेदं विश्वं भुवनं समेति ।
(१८,१.५३ ) यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥५३॥
(१८,१.५४ ) प्रेहि प्रेहि पथिभिः पूर्याणैर्येना ते पूर्वे पितरः परेताः ।
(१८,१.५४ ) उभा राजानौ स्वधया मदन्तौ यमं पश्यासि वरुणं च देवम् ॥५४॥
(१८,१.५५ ) अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् ।
(१८,१.५५ ) अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥५५॥
(१८,१.५६ ) उशन्तस्त्वेधीमह्युशन्तः समिधीमहि ।
(१८,१.५६ ) उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ॥५६॥
(१८,१.५७ ) द्युमन्तस्त्वेधीमहि द्युमन्तः समिधीमहि ।
(१८,१.५७ ) द्युमान् द्युमत आ वह पितॄन् हविषे अत्तवे ॥५७॥
(१८,१.५८ ) अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः ।
(१८,१.५८ ) तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥५८॥
(१८,१.५९ ) अङ्गिरोभिर्यज्ञियैरा गहीह यम वैरूपैरिह मादयस्व ।
(१८,१.५९ ) विवस्वन्तं हुवे यः पिता तेऽस्मिन् बर्हिष्या निषद्य ॥५९॥
(१८,१.६० ) इमं यम प्रस्तरमा हि रोहाङ्गिरोभिः पितृभिः संविदानः ।
(१८,१.६० ) आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषो मादयस्व ॥६०॥
(१८,१.६१ ) इत एत उदारुहन् दिवस्पृष्ठान्वारुहन् ।
(१८,१.६१ ) प्र भूर्जयो यथा पथा द्यामङ्गिरसो ययुः ॥६१॥ {६}
(१८,२.१ ) यमाय सोमः पवते यमाय क्रियते हविः ।
(१८,२.१ ) यमं ह यज्ञो गछत्यग्निदूतो अरंकृतः ॥१॥
(१८,२.२ ) यमाय मधुमत्तमं जुहोता प्र च तिष्ठत ।
(१८,२.२ ) इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥२॥
(१८,२.३ ) यमाय घृतवत्पयो राज्ञे हविर्जुहोतन ।
(१८,२.३ ) स नो जीवेष्वा यमेद्दीर्घमायुः प्र जीवसे ॥३॥
(१८,२.४ ) मैनमग्ने वि दहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम् ।
(१८,२.४ ) शृतं यदा करसि जातवेदोऽथेमेनं प्र हिणुतात्पितॄंरुप ॥४॥
(१८,२.५ ) यदा शृतं कृणवो जातवेदोऽथेममेनं परि दत्तात्पितृभ्यः ।
(१८,२.५ ) यदो गछात्यसुनीतिमेतामथ देवानां वशनीर्भवाति ॥५॥
(१८,२.६ ) त्रिकद्रुकेभिः पवते षडुर्वीरेकमिद्बृहत्।
(१८,२.६ ) त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आर्पिता ॥६॥
(१८,२.७ ) सूर्यं चक्षुषा गछ वातमात्मना दिवं च गछ पृथिवीं च धर्मभिः ।
(१८,२.७ ) अपो वा गछ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥७॥
(१८,२.८ ) अजो भागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः ।
(१८,२.८ ) यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥८॥
(१८,२.९ ) यास्ते शोचयो रंहयो जातवेदो याभिरापृणासि दिवमन्तरिक्षम् ।
(१८,२.९ ) अजं यन्तमनु ताः समृण्वतामथेतराभिः शिवतमाभिः शृतं कृधि ॥९॥
(१८,२.१० ) अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधावान् ।
(१८,२.१० ) आयुर्वसान उप यातु शेषः सं गछतां तन्वा सुवर्चाः ॥१०॥ {७}
(१८,२.११ ) अति द्रव श्वानौ सारमेयौ चतुरक्षौ शबलौ साधुना पथा ।
(१८,२.११ ) अधा पितॄन्त्सुविदत्रामपीहि यमेन ये सधमादं मदन्ति ॥११॥
(१८,२.१२ ) यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिषदी नृचक्षसा ।
(१८,२.१२ ) ताभ्यां राजन् परि धेह्येनं स्वस्त्यस्मा अनमीवं च धेहि ॥१२॥
(१८,२.१३ ) उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनामनु ।
(१८,२.१३ ) तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥१३॥
(१८,२.१४ ) सोम एकेभ्यः पवते घृतमेक उपासते ।
(१८,२.१४ ) येभ्यो मधु प्रधावति तांश्चिदेवापि गछतात्॥१४॥
(१८,२.१५ ) ये चित्पूर्व ऋतसाता ऋतजाता ऋतावृधः ।
(१८,२.१५ ) ऋषीन् तपस्वतो यम तपोजामपि गछतात्॥१५॥
(१८,२.१६ ) तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः ।
(१८,२.१६ ) तपो ये चक्रिरे महस्तांश्चिदेवापि गछतात्॥१६॥
(१८,२.१७ ) ये युध्यन्ते प्रधनेषु शूरासो ये स्वर्तनूत्यजः ।
(१८,२.१७ ) ये वा सहस्रदक्षिणास्तां चिदेवापि गछतात्॥१७॥
(१८,२.१८ ) सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् ।
(१८,२.१८ ) ऋषीन् तपस्वतो यम तपोजामपि गछतात्॥१८॥
(१८,२.१९ ) स्योनास्मै भव पृथिव्यनृक्षरा निवेशनी ।
(१८,२.१९ ) यछास्मै शर्म सप्रथाः ॥१९॥
(१८,२.२० ) असंबाधे पृथिव्या उरौ लोके नि धीयस्व ।
(१८,२.२० ) स्वधा याश्चकृषे जीवन् तास्ते सन्तु मधुश्चुतः ॥२०॥ {८}
(१८,२.२१ ) ह्वयामि ते मनसा मन इहेमान् गृहामुप जुजुषाण एहि ।
(१८,२.२१ ) सं गछस्व पितृभिः सं यमेन स्योनास्त्वा वाता उप वान्तु शग्माः ॥२१॥
(१८,२.२२ ) उत्त्वा वहन्तु मरुत उदवाहा उदप्रुतः ।
(१८,२.२२ ) अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तु बालिति ॥२२॥
(१८,२.२३ ) उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे ।
(१८,२.२३ ) स्वान् गछतु ते मनो अधा पितॄंरुप द्रव ॥२३॥
(१८,२.२४ ) मा ते मनो मासोर्माङ्गानां मा रसस्य ते ।
(१८,२.२४ ) मा ते हास्त तन्वः किं चनेह ॥२४॥
(१८,२.२५ ) मा त्वा वृक्षः सं बाधिष्ट मा देवी पृथिवी मही ।
(१८,२.२५ ) लोकं पितृषु वित्त्वैधस्व यमराजसु ॥२५॥
(१८,२.२६ ) यत्ते अङ्गमतिहितं पराचैरपानः प्राणो य उ वा ते परेतः ।
(१८,२.२६ ) तत्ते संगत्य पितरः सनीडा घासाद्घासं पुनरा वेशयन्तु ॥२६॥
(१८,२.२७ ) अपेमं जीवा अरुधन् गृहेभ्यस्तं निर्वहत परि ग्रामादितः ।
(१८,२.२७ ) मृत्युर्यमस्यासीद्दूतः प्रचेता असून् पितृभ्यो गमयां चकार ॥२७॥
(१८,२.२८ ) ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा अहुतादश्चरन्ति ।
(१८,२.२८ ) परापुरो निपुरो ये भरन्त्यग्निष्टान् अस्मात्प्र धमाति यज्ञात्॥२८॥
(१८,२.२९ ) सं विशन्त्विह पितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः ।
(१८,२.२९ ) तेभ्यः शकेम हविषा नक्षमाणा ज्योग्जीवन्तः शरदः पुरूचीः ॥२९॥
(१८,२.३० ) यां ते धेनुं निपृणामि यमु क्षीर ओदनम् ।
(१८,२.३० ) तेना जनस्यासो भर्ता योऽत्रासदजीवनः ॥३०॥ {९}
(१८,२.३१ ) अश्वावतीं प्र तर या सुशेवा र्क्षाकं वा प्रतरं नवीयः ।
(१८,२.३१ ) यस्त्वा जघान वध्यः सो अस्तु मा सो अन्यद्विदत भागधेयम् ॥३१॥
(१८,२.३२ ) यमः परोऽवरो विवस्वान् ततः परं नाति पश्यामि किं चन ।
(१८,२.३२ ) यमे अध्वरो अधि मे निविष्टो भुवो विवस्वान् अन्वाततान ॥३२॥
(१८,२.३३ ) अपागूहन्न् अमृतां मर्त्येभ्यः कृत्वा सवर्णामदधुर्विवस्वते ।
(१८,२.३३ ) उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥३३॥
(१८,२.३४ ) ये निखाता ये परोप्ता ये दग्धा ये चोद्धिताः ।
(१८,२.३४ ) सर्वांस्तान् अग्न आ वह पितॄन् हविषे अत्तवे ॥३४॥
(१८,२.३५ ) ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते ।
(१८,२.३५ ) त्वं तान् वेत्थ यदि ते जातवेदः स्वधया यज्ञं स्वधितिं जुषन्ताम् ॥३५॥
(१८,२.३६ ) शं तप माति तपो अग्ने मा तन्वं तपः ।
(१८,२.३६ ) वणेषु शुष्मो अस्तु ते पृथिव्यामस्तु यद्धरः ॥३६॥
(१८,२.३७ ) ददाम्यस्मा अवसानमेतद्य एष आगन् मम चेदभूदिह ।
(१८,२.३७ ) यमश्चिकित्वान् प्रत्येतदाह ममैष राय उप तिष्ठतामिह ॥३७॥
(१८,२.३८ ) इमां मात्रां मिमीमहे यथापरं न मासातै ।
(१८,२.३८ ) शते शरत्सु नो पुरा ॥३८॥
(१८,२.३९ ) प्रेमां मात्रां मिमीमहे यथापरं न मासातै ।
(१८,२.३९ ) शते शरत्सु नो पुरा ॥३९॥
(१८,२.४० ) अपेमां मात्रां मिमीमहे यथापरं न मासातै ।
(१८,२.४० ) शते शरत्सु नो पुरा ॥४०॥ {१०}
(१८,२.४१ ) वीमां मात्रां मिमीमहे यथापरं न मासातै ।
(१८,२.४१ ) शते शरत्सु नो पुरा ॥४१॥
(१८,२.४२ ) निरिमां मात्रां मिमीमहे यथापरं न मासातै ।
(१८,२.४२ ) शते शरत्सु नो पुरा ॥४२॥
(१८,२.४३ ) उदिमां मात्रां मिमीमहे यथापरं न मासातै ।
(१८,२.४३ ) शते शरत्सु नो पुरा ॥४३॥
(१८,२.४४ ) समिमां मात्रां मिमीमहे यथापरं न मासातै ।
(१८,२.४४ ) शते शरत्सु नो पुरा ॥४४॥
(१८,२.४५ ) अमासि मात्रां स्वरगामायुष्मान् भूयासम् ।
(१८,२.४५ ) यथापरं न मासातै शते शरत्सु नो पुरा ॥४५॥
(१८,२.४६ ) प्राणो अपानो व्यान आयुश्चक्षुर्दृशये सूर्याय ।
(१८,२.४६ ) अपरिपरेण पथा यमराज्ञः पितॄन् गछ ॥४६॥
(१८,२.४७ ) ये अग्रवः शशमानाः परेयुर्हित्वा द्वेषांस्यनपत्यवन्तः ।
(१८,२.४७ ) ते द्यामुदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः ॥४७॥
(१८,२.४८ ) उदन्वती द्यौरवमा पीलुमतीति मध्यमा ।
(१८,२.४८ ) तृतीया ह प्रद्यौरिति यस्यां पितर आसते ॥४८॥
(१८,२.४९ ) ये न पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् ।
(१८,२.४९ ) य आक्षियन्ति पृथिवीमुत द्यां तेभ्यः पितृभ्यो नमसा विधेम ॥४९॥
(१८,२.५० ) इदमिद्वा उ नापरं दिवि पश्यसि सूर्यम् ।
(१८,२.५० ) माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥५०॥ {११}
(१८,२.५१ ) इदमिद्वा उ नापरं जरस्यन्यदितोऽपरम् ।
(१८,२.५१ ) जाया पतिमिव वाससाभ्येनं भूम ऊर्णुहि ॥५१॥
(१८,२.५२ ) अभि त्वोर्णोमि पृथिव्या मातुर्वस्त्रेण भद्रया ।
(१८,२.५२ ) जीवेषु भद्रं तन् मयि स्वधा पितृषु सा त्वयि ॥५२॥
(१८,२.५३ ) अग्नीषोमा पथिकृता स्योनं देवेभ्यो रत्नं दधथुर्वि लोकम् ।
(१८,२.५३ ) उप प्रेष्यन्तं पूषणं यो वहात्यञ्जोयानैः पथिभिस्तत्र गछतम् ॥५३॥
(१८,२.५४ ) पूषा त्वेतश्च्यावयतु प्र विद्वान् अनष्टपशुर्भुवनस्य गोपाः ।
(१८,२.५४ ) स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥५४॥
(१८,२.५५ ) आयुर्विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे पुरस्तात्।
(१८,२.५५ ) यत्रासते सुकृतो यत्र त ईयुस्तत्र त्वा देवः सविता दधातु ॥५५॥
(१८,२.५६ ) इमौ युनज्मि ते वह्नी असुनीताय वोढवे ।
(१८,२.५६ ) ताभ्यां यमस्य सादनं समितिश्चाव गछतात्॥५६॥
(१८,२.५७ ) एतत्त्वा वासः प्रथमं न्वागन्न् अपैतदूह यदिहाबिभः पुरा ।
(१८,२.५७ ) इष्टापूर्तमनुसंक्राम विद्वान् यत्र ते दत्तं बहुधा विबन्धुषु ॥५७॥
(१८,२.५८ ) अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व मेदसा पीवसा च ।
(१८,२.५८ ) नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्षन् परीङ्खयातै ॥५८॥
(१८,२.५९ ) दण्डं हस्तादाददानो गतासोः सह श्रोत्रेण वर्चसा बलेन ।
(१८,२.५९ ) अत्रैव त्वमिह वयं सुवीरा विश्वा मृधो अभिमातीर्जयेम ॥५९॥
(१८,२.६० ) धनुर्हस्तादाददानो मृतस्य सह क्षत्रेण वर्चसा बलेन ।
(१८,२.६० ) समागृभाय वसु भूरि पुष्टमर्वाङ्त्वमेह्युप जीवलोकम् ॥६०॥ {१२}
(१८,३.१ ) इयं नारी पतिलोकं वृणाना नि पद्यत उप त्वा मर्त्य प्रेतम् ।
(१८,३.१ ) धर्मं पुराणमनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि ॥१॥
(१८,३.२ ) उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि ।
(१८,३.२ ) हस्तग्राभस्य दधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥२॥
(१८,३.३ ) अपश्यं युवतिं नीयमानां जीवां मृतेभ्यः परिणीयमानाम् ।
(१८,३.३ ) अन्धेन यत्तमसा प्रावृतासीत्प्राक्तो अपाचीमनयं तदेनाम् ॥३॥
(१८,३.४ ) प्रजानत्यघ्न्ये जीवलोकं देवानां पन्थामनुसंचरन्ती ।
(१८,३.४ ) अयं ते गोपतिस्तं जुषस्व स्वर्गं लोकमधि रोहयैनम् ॥४॥
(१८,३.५ ) उप द्यामुप वेतसमवत्तरो नदीनाम् ।
(१८,३.५ ) अग्ने पित्तमपामसि ॥५॥
(१८,३.६ ) यं त्वमग्ने समदहस्तमु निर्वापय पुनः ।
(१८,३.६ ) क्याम्बूरत्र रोहतु शाण्डदूर्वा व्यल्कशा ॥६॥
(१८,३.७ ) इदं त एकं पुर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व ।
(१८,३.७ ) संवेशने तन्वा चारुरेधि प्रियो देवानां परमे सधस्थे ॥७॥
(१८,३.८ ) उत्तिष्ठ प्रेहि प्र द्रवौकः कृणुष्व सलिले सधस्थे ।
(१८,३.८ ) तत्र त्वं पितृभिः संविदानः सं सोमेन मदस्व सं स्वधाभिः ॥८॥
(१८,३.९ ) प्र च्यवस्व तन्वं सं भरस्व मा ते गात्रा वि हायि मो शरीरम् ।
(१८,३.९ ) मनो निविष्टमनुसंविशस्व यत्र भूमेर्जुषसे तत्र गछ ॥९॥
(१८,३.१० ) वर्चसा मां पितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन ।
(१८,३.१० ) चक्षुषे मा प्रतरं तारयन्तो जरसे मा जरदष्टिं वर्धन्तु ॥१०॥ {१३}
(१८,३.११ ) वर्चसा मां समनक्त्वग्निर्मेधां मे विष्णुर्न्यनक्त्वासन् ।
(१८,३.११ ) रयिं मे विश्वे नि यछन्तु देवाः स्योना मापः पवनैः पुनन्तु ॥११॥
(१८,३.१२ ) मित्रावरुणा परि मामधातामादित्या मा स्वरवो वर्धयन्तु ।
(१८,३.१२ ) वर्चो म इन्द्रो न्यनक्तु हस्तयोर्जरदष्टिं मा सविता कृणोतु ॥१२॥
(१८,३.१३ ) यो ममार प्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकमेतम् ।
(१८,३.१३ ) वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥१३॥
(१८,३.१४ ) परा यात पितर आ च यातायं वो यज्ञो मधुना समक्तः ।
(१८,३.१४ ) दत्तो अस्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं दधात ॥१४॥
(१८,३.१५ ) कण्वः कक्षीवान् पुरुमीढो अगस्त्यः श्यावाश्वः सोभर्यर्चनानाः ।
(१८,३.१५ ) विश्वामित्रोऽयं जमदग्निरत्रिरवन्तु नः कश्यपो वामदेवः ॥१५॥
(१८,३.१६ ) विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव ।
(१८,३.१६ ) शर्दिर्नो अत्रिरग्रभीन् नमोभिः सुसंशासः पितरो मृडता नः ॥१६॥
(१८,३.१७ ) कस्ये मृजाना अति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः ।
(१८,३.१७ ) आप्यायमानाः प्रजया धनेनाध स्याम सुरभयो गृहेषु ॥१७॥
(१८,३.१८ ) अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते ।
(१८,३.१८ ) सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृह्नते ॥१८॥
(१८,३.१९ ) यद्वो मुद्रं पितरः सोम्यं च तेनो सचध्वं स्वयशसो हि भूत ।
(१८,३.१९ ) ते अर्वाणः कवय आ शृणोत सुविदत्रा विदथे हुयमानाः ॥१९॥
(१८,३.२० ) ये अत्रयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः ।
(१८,३.२० ) दक्षिणावन्तः सुकृतो य उ स्थासद्यास्मिन् बर्हिषि मादयध्वम् ॥२०॥ {१४}
(१८,३.२१ ) अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशशानाः ।
(१८,३.२१ ) शुचीदयन् दीध्यत उक्थशसः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥२१॥
(१८,३.२२ ) सुकर्मानः सुरुचो देवयन्तो अयो न देवा जनिमा धमन्तः ।
(१८,३.२२ ) शुचन्तो अग्निं वावृधन्त इन्द्रमुर्वीं गव्यां परिषदं नो अक्रन् ॥२२॥
(१८,३.२३ ) आ यूथेव क्षुमति पश्वो अख्यद्देवानां जनिमान्त्युग्रः ।
(१८,३.२३ ) मर्तासश्चिदुर्वशीरकृप्रन् वृधे चिदर्य उपरस्यायोः ॥२३॥
(१८,३.२४ ) अकर्म ते स्वपसो अभूम ऋतमवस्रन्न् उषसो विभातीः ।
(१८,३.२४ ) विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥२४॥
(१८,३.२५ ) इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।
(१८,३.२५ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२५॥
(१८,३.२६ ) धाता मा निरृत्या दक्षिणाया दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।
(१८,३.२६ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२६॥
(१८,३.२७ ) अदितिर्मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।
(१८,३.२७ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२७॥
(१८,३.२८ ) सोमो मा विश्वैर्देवैरुदीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।
(१८,३.२८ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२८॥
(१८,३.२९ ) धर्ता ह त्वा धरुणो धारयाता ऊर्ध्वं भानुं सविता द्यामिवोपरि ।
(१८,३.२९ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२९॥
(१८,३.३० ) प्राच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
(१८,३.३० ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३०॥ {१५}
(१८,३.३१ ) दक्षिणायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
(१८,३.३१ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३१॥
(१८,३.३२ ) प्रतीच्यां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
(१८,३.३२ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३२॥
(१८,३.३३ ) उदीच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
(१८,३.३३ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३३॥
(१८,३.३४ ) ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
(१८,३.३४ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३४॥
(१८,३.३५ ) ऊर्ध्वायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
(१८,३.३५ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३५॥
(१८,३.३६ ) धर्तासि धरुनोऽसि वंसगोऽसि ॥३६॥
(१८,३.३७ ) उदपूरसि मधुपूरसि वातपूरसि ॥३७॥
(१८,३.३८ ) इतश्च मामुतश्चावतां यमे इव यतमाने यदैतम् ।
(१८,३.३८ ) प्र वां भरन् मानुषा देवयन्तो आ सीदतां स्वमु लोकं विदाने ॥३८॥
(१८,३.३९ ) स्वासस्थे भवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः ।
(१८,३.३९ ) वि श्लोक एति पथ्येव सूरिः शृण्वन्तु विश्वे अमृतास एतत्॥३९॥
(१८,३.४० ) त्रीणि पदानि रुपो अन्वरोहच्चतुष्पदीमन्वेतद्व्रतेन ।
(१८,३.४० ) अक्षरेण प्रति मिमीते अर्कमृतस्य नाभावभि सं पुनाति ॥४०॥ {१६}
(१८,३.४१ ) देवेभ्यः कमवृणीत मृत्युं प्रजायै किममृतं नावृणीत ।
(१८,३.४१ ) बृहस्पतिर्यज्ञमतनुत ऋषिः प्रियां यमस्तन्वमा रिरेच ॥४१॥
(१८,३.४२ ) त्वमग्न ईडितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वा ।
(१८,३.४२ ) प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥४२॥
(१८,३.४३ ) आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय ।
(१८,३.४३ ) पुत्रेभ्यः पितरस्तस्य वस्वः प्र यछत त इहोर्जं दधात ॥४३॥
(१८,३.४४ ) अग्निष्वात्ताः पितर एह गछत सदःसदः सदत सुप्रणीतयः ।
(१८,३.४४ ) अत्तो हवींषि प्रयतानि बर्हिषि रयिं च नः सर्ववीरं दधात ॥४४॥
(१८,३.४५ ) उपहूता नः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।
(१८,३.४५ ) त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥४५॥
(१८,३.४६ ) ये नः पितुः पितरो ये पितामहा अनूजहिरे सोमपीथं वसिष्ठाः ।
(१८,३.४६ ) तेभिर्यमः सम्रराणो हवींष्युशन्न् उशद्भिः प्रतिकाममत्तु ॥४६॥
(१८,३.४७ ) ये तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः ।
(१८,३.४७ ) आग्ने याहि सहस्रं देववन्दैः सत्यैः कविभिरृषिभिर्घर्मसद्भिः ॥४७॥
(१८,३.४८ ) ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं तुरेण ।
(१८,३.४८ ) आग्ने याहि सुविदत्रेभिरर्वाङ्परैः पूर्वैरृषिभिर्घर्मसद्भिः ॥४८॥
(१८,३.४९ ) उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् ।
(१८,३.४९ ) ऊर्णम्रदाः पृथिवी दक्षिणावत एषा त्वा पातु प्रपथे पुरस्तात्॥४९॥
(१८,३.५० ) उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपसर्पणा ।
(१८,३.५० ) माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥५०॥ {१७}
(१८,३.५१ ) उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् ।
(१८,३.५१ ) ते गृहासो घृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्वत्र ॥५१॥
(१८,३.५२ ) उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन् मो अहं रिषम् ।
(१८,३.५२ ) एतां स्थूणां पितरो धारयन्ति ते तत्र यमः सादना ते कृणोतु ॥५२॥
(१८,३.५३ ) इममग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम् ।
(१८,३.५३ ) अयं यश्चमसो देवपानस्तस्मिन् देवा अमृता मादयन्ताम् ॥५३॥
(१८,३.५४ ) अथर्वा पूर्णं चमसं यमिन्द्रायाबिभर्वाजिनीवते ।
(१८,३.५४ ) तस्मिन् कृणोति सुकृतस्य भक्षं तस्मिन् इन्दुः पवते विश्वदानिम् ॥५४॥
(१८,३.५५ ) यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः ।
(१८,३.५५ ) अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणामाविवेश ॥५५॥
(१८,३.५६ ) पयस्वतीरोषधयः पयस्वन् मामकं पयः ।
(१८,३.५६ ) अपां पयसो यत्पयस्तेन मा सह शुम्भतु ॥५६॥
(१८,३.५७ ) इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् ।
(१८,३.५७ ) अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥५७॥
(१८,३.५८ ) सं गछस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् ।
(१८,३.५८ ) हित्वावद्यं पुनरस्तमेहि सं गछतां तन्वा सुवर्चाः ॥५८॥
(१८,३.५९ ) ये नः पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् ।
(१८,३.५९ ) तेभ्यः स्वरादसुनीतिर्नो अद्य वथावशं तन्वः कल्पयाति ॥५९॥
(१८,३.६० ) शं ते नीहारो भवतु शं ते प्रुष्वाव शीयताम् ।
(१८,३.६० ) शीतिके शीतिकावति ह्लादिके ह्लादिकावति ।
(१८,३.६० ) मण्डूक्यप्सु शं भुव इमं स्वग्निं शमय ॥६०॥ {१८}
(१८,३.६१ ) विवस्वान् नो अभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः ।
(१८,३.६१ ) इहेमे वीरा बहवो भवन्तु गोमदश्ववन् मय्यस्तु पुष्टम् ॥६१॥
(१८,३.६२ ) विवस्वान् नो अमृतत्वे दधातु परैतु मृत्युरमृतं न ऐतु ।
(१८,३.६२ ) इमान् रक्षतु पुरुषान् आ जरिम्णो मो स्वेषामसवो यमं गुः ॥६२॥
(१८,३.६३ ) यो दध्रे अन्तरिक्षे न मह्ना पितॄणां कविः प्रमतिर्मतीनाम् ।
(१८,३.६३ ) तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात्॥६३॥
(१८,३.६४ ) आ रोहत दिवमुत्तमामृषयो मा बिभीतन ।
(१८,३.६४ ) सोमपाः सोमपायिन इदं वः क्रियते हविरगन्म ज्वोतिरुत्तमम् ॥६४॥
(१८,३.६५ ) प्र केतुना बृहता भात्यग्निरा रोदसी वृषभो रोरवीति ।
(१८,३.६५ ) दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध ॥६५॥
(१८,३.६६ ) नाके सुपर्णमुप यत्पतन्तं ह्र्दा वेनन्तो अभ्यचक्षत त्वा ।
(१८,३.६६ ) हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरन्युम् ॥६६॥
(१८,३.६७ ) इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
(१८,३.६७ ) शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥६७॥
(१८,३.६८ ) अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् ।
(१८,३.६८ ) ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥६८॥
(१८,३.६९ ) यास्ते धाना अनुकिरामि तिलमिश्रा स्वधावतीः ।
(१८,३.६९ ) तास्ते सन्तु विभ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥६९॥
(१८,३.७० ) पुनर्देहि वनस्पते य एष निहितस्त्वयि ।
(१८,३.७० ) यथा यमस्य सादन आसातौ विदथा वदन् ॥७०॥
(१८,३.७१ ) आ रभस्व जातवेदस्तेजस्वद्धरो अस्तु ते ।
(१८,३.७१ ) शरीरमस्य सं दहाथैनं देहि सुकृतामु लोके ॥७१॥
(१८,३.७२ ) ये ते पूर्वे परागता अपरे पितरश्च ये ।
(१८,३.७२ ) तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ॥७२॥
(१८,३.७३ ) एतदा रोह वय उन्मृजानः स्वा इह बृहदु दीदयन्ते ।
(१८,३.७३ ) अभि प्रेहि मध्यतो माप हास्थाः पितॄनां लोकं प्रथमो यो अत्र ॥७३॥ {१९}
(१८,४.१ ) आ रोहत जनित्रीं जातवेदसः पितृयानैः सं व आ रोहयामि ।
(१८,४.१ ) अवाड्ढव्येषितो हव्यवाह ईजानं युक्ताः सुकृतां धत्त लोके ॥१॥
(१८,४.२ ) देवा यज्ञमृतवः कल्पयन्ति हविः पुरोडाशं स्रुचो यज्ञायुधानि ।
(१८,४.२ ) तेभिर्याहि पथिभिर्देवयानैर्यैरीजानाः स्वर्गं यन्ति लोकम् ॥२॥
(१८,४.३ ) ऋतस्य पन्थामनु पश्य साध्वङ्गिरसः सुकृतो येन यन्ति ।
(१८,४.३ ) तेभिर्याहि पथिभिः स्वर्गं यत्रादित्या मधु भक्षयन्ति तृतीये नाके अधि वि श्रयस्व ॥३॥
(१८,४.४ ) त्रयः सुपर्णा उपरस्य मायू नाकस्य पृष्ठे अधि विष्टपि श्रिताः ।
(१८,४.४ ) स्वर्गा लोका अमृतेन विष्ठा इषमूर्जं यजमानाय दुह्राम् ॥४॥
(१८,४.५ ) जुहूर्दाधार द्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम् ।
(१८,४.५ ) प्रतीमां लोका घृतपृष्ठाः स्वर्गाः कामंकामं यजमानाय दुह्राम् ॥५॥
(१८,४.६ ) ध्रुव आ रोह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व ।
(१८,४.६ ) जुहु द्यां गछ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीनाः सर्वा धुक्ष्वाहृण्यमानः ॥६॥
(१८,४.७ ) तीर्थैस्तरन्ति प्रवतो महीरिति यज्ञकृतः सुकृतो येन यन्ति ।
(१८,४.७ ) अत्रादधुर्यजमानाय लोकं दिशो भूतानि यदकल्पयन्त ॥७॥
(१८,४.८ ) अङ्गिरसामयनं पूर्वो अग्निरादित्यानामयनं गार्हपत्यो दक्षिणानामयनं दक्षिणाग्निः ।
(१८,४.८ ) महिमानमग्नेर्विहितस्य ब्रह्मणा समङ्गः सर्व उप याहि शग्मः ॥८॥
(१८,४.९ ) पूर्वो अग्निष्ट्वा तपतु शं पुरस्ताच्छं पश्चात्तपतु गार्हपत्यः ।
(१८,४.९ ) दक्षिणाग्निष्टे तपतु शर्म वर्मोत्तरतो मध्यतो अन्तरिक्षाद्दिशोदिशो अग्ने परि पाहि घोरात्॥९॥
(१८,४.१० ) यूयमग्ने शंतमाभिस्तनूभिरीजानमभि लोकं स्वर्गम् ।
(१८,४.१० ) अश्वा भूत्वा पृष्टिवाहो वहाथ यत्र देवैः सधमादं मदन्ति ॥१०॥ {२०}
(१८,४.११ ) शमग्ने पश्चात्तप शं पुरस्ताच्छमुत्तराच्छमधरात्तपैनम् ।
(१८,४.११ ) एकस्त्रेधा विहितो जातवेदः सम्यगेनं धेहि सुकृतामु लोके ॥११॥
(१८,४.१२ ) शमग्नयः समिद्धा आ रभन्तां प्राजापत्यं मेध्यं जातवेदसः ।
(१८,४.१२ ) शृतं कृण्वन्त इह माव चिक्षिपन् ॥१२॥
(१८,४.१३ ) यज्ञ एति विततः कल्पमान ईजानमभि लोकं स्वर्गम् ।
(१८,४.१३ ) तमग्नयः सर्वहुतं जुषन्तां प्राजापत्यं मेध्यं जातवेदसः ॥१३॥
(१८,४.१४ ) ईजानश्चितमारुक्षदग्निं नाकस्य पृष्ठाद्दिवमुत्पतिष्यन् ।
(१८,४.१४ ) तस्मै प्र भाति नभसो ज्योतिषीमान्त्स्वर्गः पन्थाः सुकृते देवयानः ॥१४॥
(१८,४.१५ ) अग्निर्होताध्वर्युष्टे बृहस्पतिरिन्द्रो ब्रह्मा दक्षिणतस्ते अस्तु ।
(१८,४.१५ ) हुतोऽयं संस्थितो यज्ञ एति यत्र पूर्वमयनं हुतानाम् ॥१५॥
(१८,४.१६ ) अपूपवान् क्षीरवांश्चरुरेह सीदतु ।
(१८,४.१६ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१६॥
(१८,४.१७ ) अपूपवान् दधिवांश्चरुरेह सीदतु ।
(१८,४.१७ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१७॥
(१८,४.१८ ) अपूपवान् द्रप्सवांश्चरुरेह सीदतु ।
(१८,४.१८ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१८॥
(१८,४.१९ ) अपूपवान् घृतवांश्चरुरेह सीदतु ।
(१८,४.१९ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१९॥
(१८,४.२० ) अपूपवान् मांसवांश्चरुरेह सीदतु ।
(१८,४.२० ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२०॥ {२१}
(१८,४.२१ ) अपूपवान् अन्नवांश्चरुरेह सीदतु ।
(१८,४.२१ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२१॥
(१८,४.२२ ) अपूपवान् मधुमांश्चरुरेह सीदतु ।
(१८,४.२२ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२२॥
(१८,४.२३ ) अपूपवान् रसवांश्चरुरेह सीदतु ।
(१८,४.२३ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२३॥
(१८,४.२४ ) अपूपवान् अपवांश्चरुरेह सीदतु ।
(१८,४.२४ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२४॥
(१८,४.२५ ) अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् ।
(१८,४.२५ ) ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥२५॥
(१८,४.२६ ) यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः ।
(१८,४.२६ ) तास्ते सन्तूद्भ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥२६॥
(१८,४.२७ ) अक्षितिं भूयसीम् ॥२७॥
(१८,४.२८ ) द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः ।
(१८,४.२८ ) समानं योनिमनु सम्चरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥२८॥
(१८,४.२९ ) शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते रयिम् ।
(१८,४.२९ ) ये पृनन्ति प्र च यछन्ति सर्वदा ते दुह्रते दक्षिणां सप्तमातरम् ॥२९॥
(१८,४.३० ) कोशं दुहन्ति कलशं चतुर्बिलमिडां धेनुं मधुमतीं स्वस्तये ।
(१८,४.३० ) ऊर्जं मदन्तीमदितिं जनेष्वग्ने मा हिंसीः परमे व्योमन् ॥३०॥ {२२}
(१८,४.३१ ) एतत्ते देवः सविता वासो ददाति भर्तवे ।
(१८,४.३१ ) तत्त्वं यमस्य राज्ये वसानस्तार्प्यं चर ॥३१॥
(१८,४.३२ ) धाना धेनुरभवद्वत्सो अस्यास्तिलोऽभवत्।
(१८,४.३२ ) तां वै यमस्य राज्ये अक्षितामुप जीवति ॥३२॥
(१८,४.३३ ) एतास्ते असौ धेनवः कामदुघा भवन्तु ।
(१८,४.३३ ) एनीः श्येनीः सरूपा विरूपास्तिलवत्सा उप तिष्ठन्तु त्वात्र ॥३३॥
(१८,४.३४ ) एनीर्धाना हरिणीः श्येनीरस्य कृष्णा धाना रोहिणीर्धेनवस्ते ।
(१८,४.३४ ) तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्फुरन्तीः ॥३४॥
(१८,४.३५ ) वैश्वानरे हविरिदं जुहोमि साहस्रं शतधारमुत्सम् ।
(१८,४.३५ ) स बिभर्ति पितरं पितामहान् प्रपितामहान् बिभर्ति पिन्वमानः ॥३५॥
(१८,४.३६ ) सहस्रधारं शतधारमुत्समक्षितं व्यच्यमानं सलिलस्य पृष्ठे ।
(१८,४.३६ ) ऊर्जं दुहानमनपस्फुरन्तमुपासते पितरः स्वधाभिः ॥३६॥
(१८,४.३७ ) इदं कसाम्बु चयनेन चितं तत्सजाता अव पश्यतेत ।
(१८,४.३७ ) मर्त्योऽयममृतत्वमेति तस्मै गृहान् कृणुत यावत्सबन्धु ॥३७॥
(१८,४.३८ ) इहैवैधि धनसनिरिहचित्त इहक्रतुः ।
(१८,४.३८ ) इहैधि वीर्यवत्तरो वयोधा अपराहतः ॥३८॥
(१८,४.३९ ) पुत्रं पौत्रमभितर्पयन्तीरापो मधुमतीरिमाः ।
(१८,४.३९ ) स्वधां पितृभ्यो अमृतं दुहाना आपो देवीरुभयांस्तर्पयन्तु ॥३९॥
(१८,४.४० ) आपो अग्निं प्र हिणुत पितॄंरुपेमं यज्ञं पितरो मे जुषन्ताम् ।
(१८,४.४० ) आसीनामूर्जमुप ये सचन्ते ते नो रयिं सर्ववीरं नि यछान् ॥४०॥ {२३}
(१८,४.४१ ) समिन्धते अमर्त्यं हव्यवाहं घृतप्रियम् ।
(१८,४.४१ ) स वेद निहितान् निधीन् पितॄन् परावतो गतान् ॥४१॥
(१८,४.४२ ) यं ते मन्थं यमोदननं यन् मांसं निपृणामि ते ।
(१८,४.४२ ) ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥४२॥
(१८,४.४३ ) यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः ।
(१८,४.४३ ) तास्ते सन्तूद्भ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥४३॥
(१८,४.४४ ) इदं पूर्वमपरं नियानं येना ते पूर्वे पितरः परेताः ।
(१८,४.४४ ) पुरोगवा ये अभिसाचो अस्य ते त्वा वहन्ति सुकृतामु लोकम् ॥४४॥
(१८,४.४५ ) सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।
(१८,४.४५ ) सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात्॥४५॥
(१८,४.४६ ) सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः ।
(१८,४.४६ ) आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे ॥४६॥
(१८,४.४७ ) सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती ।
(१८,४.४७ ) सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥४७॥
(१८,४.४८ ) पृथिवीं त्वा पृथिव्यामा वेशयामि देवो नो धाता प्र तिरात्यायुः ।
(१८,४.४८ ) परापरैता वसुविद्वो अस्त्वधा मृताः पितृषु सं भवन्तु ॥४८॥
(१८,४.४९ ) आ प्र च्यवेथामप तन् मृजेथां यद्वामभिभा अत्रोचुः ।
(१८,४.४९ ) अस्मादेतमघ्न्यौ तद्वशीयो दातुः पितृष्विहभोजनौ मम ॥४९॥
(१८,४.५० ) एयमगन् दक्षिणा भद्रतो ना अनेन दत्ता सुदुघा वयोधाः ।
(१८,४.५० ) यौवने जीवान् उपपृञ्चती जरा पितृभ्य उपसंपराणयादिमान् ॥५०॥ {२४}
(१८,४.५१ ) इदं पितृभ्यः प्र भरामि बर्हिर्जीवं देवेभ्य उत्तरं स्तृणामि ।
(१८,४.५१ ) तदा रोह पुरुष मेध्यो भवन् प्रति त्वा जानन्तु पितरः परेतम् ॥५१॥
(१८,४.५२ ) एदं बर्हिरसदो मेध्योऽभूः प्रति त्वा जानन्तु पितरः परेतम् ।
(१८,४.५२ ) यथापरु तन्वं सं भरस्व गात्राणि ते ब्रह्मणा कल्पयामि ॥५२॥
(१८,४.५३ ) पर्णो राजापिधानं चरूणामूर्जो बलं सह ओजो न आगन् ।
(१८,४.५३ ) आयुर्जीवेभ्यो विदधद्दीर्घायुत्वाय शतशारदाय ॥५३॥
(१८,४.५४ ) ऊर्जो भागो य इमं जजानाश्मान्नानामाधिपत्यं जगाम ।
(१८,४.५४ ) तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात्॥५४॥
(१८,४.५५ ) यथा यमाय हर्म्यमवपन् पञ्च मानवाः ।
(१८,४.५५ ) एवा वपामि हर्म्यं यथा मे भूरयोऽसत ॥५५॥
(१८,४.५६ ) इदं हिरण्यं बिभृहि यत्ते पिताबिभः पुरा ।
(१८,४.५६ ) स्वर्गं यतः पितुर्हस्तं निर्मृड्ढि दक्षिणम् ॥५६॥
(१८,४.५७ ) ये च जीवा ये च मृता ये जाता ये च यज्ञियाः ।
(१८,४.५७ ) तेभ्यो घृतस्य कुल्यैतु मधुधारा व्युन्दती ॥५७॥
(१८,४.५८ ) वृषा मतीनां पवते विचक्षणः सूरो अह्नां प्रतरीतोषसां दिवः ।
(१८,४.५८ ) प्राणः सिन्धूनां कलशामचिक्रददिन्द्रस्य हार्दिमाविशन् मनीषया ॥५८॥
(१८,४.५९ ) त्वेषस्ते धूम ऊर्णोतु दिवि षं छुक्र आततः ।
(१८,४.५९ ) सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥५९॥
(१८,४.६० ) प्र वा एतीन्दुरिन्द्रस्य निष्कृतिं सखा सख्युर्न प्र मिनाति संगिरः ।
(१८,४.६० ) मर्य इव योषाः समर्षसे सोमः कलशे शतयामना पथा ॥६०॥ {२५}
(१८,४.६१ ) अक्षन्न् अमीमदन्त ह्यव प्रियामधूषत ।
(१८,४.६१ ) अस्तोषत स्वभानवो विप्रा यविष्ठा ईमहे ॥६१॥
(१८,४.६२ ) आ यात पितरः सोम्यासो गम्भीरैः पथिभिः पितृयाणैः ।
(१८,४.६२ ) आयुरस्मभ्यं दधतः प्रजां च रायश्च पोषैरभि नः सचध्वम् ॥६२॥
(१८,४.६३ ) परा यात पितरः सोम्यासो गम्भीरैः पथिभिः पूर्याणैः ।
(१८,४.६३ ) अधा मासि पुनरा यात नो गृहान् हविरत्तुं सुप्रजसः सुवीराः ॥६३॥
(१८,४.६४ ) यद्वो अग्निरजहादेकमङ्गं पितृलोकं गमयं जातवेदाः ।
(१८,४.६४ ) तद्व एतत्पुनरा प्याययामि साङ्गाः स्वर्गे पितरो मादयध्वम् ॥६४॥
(१८,४.६५ ) अभूद्दूतः प्रहितो जातवेदाः सायं न्यह्न उपवन्द्यो नृभिः ।
(१८,४.६५ ) प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥६५॥
(१८,४.६६ ) असौ हा इह ते मनः ककुत्सलमिव जामयः ।
(१८,४.६६ ) अभ्येनं भूम ऊर्णुहि ॥६६॥
(१८,४.६७ ) शुम्भन्तां लोकाः पितृषदनाः पितृषदने त्वा लोक आ सादयामि ॥६७॥
(१८,४.६८ ) ये अस्माकं पितरस्तेषां बर्हिरसि ॥६८॥
(१८,४.६९ ) उदुत्तमं वरुण पाशमस्मदवाधमं श्रथाय ।
(१८,४.६९ ) अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥६९॥
(१८,४.७० ) प्रास्मत्पाशान् वरुण मुञ्च सर्वान् यैः समामे बध्यते यैर्व्यामे ।
(१८,४.७० ) अधा जीवेम शरदं शतानि त्वया राजन् गुपिता रक्षमाणाः ॥७०॥ {२६}
(१८,४.७१ ) अग्नये कव्यवाहनाय स्वधा नमः ॥७१॥
(१८,४.७२ ) सोमाय पितृमते स्वधा नमः ॥७२॥
(१८,४.७३ ) पितृभ्यः सोमवद्भ्यः स्वधा नमः ॥७३॥
(१८,४.७४ ) यमाय पितृमते स्वधा नमः ॥७४॥
(१८,४.७५ ) एतत्ते प्रततामह स्वधा ये च त्वामनु ॥७५॥
(१८,४.७६ ) एतत्ते ततामह स्वधा ये च त्वामनु ॥७६॥
(१८,४.७७ ) एतत्ते तत स्वधा ॥७७॥
(१८,४.७८ ) स्वधा पितृभ्यः पृथिविषद्भ्यः ॥७८॥
(१८,४.७९ ) स्वधा पितृभ्यो अन्तरिक्षसद्भ्यः ॥७९॥
(१८,४.८० ) स्वधा पितृभ्यो दिविषद्भ्यः ॥८०॥ {२७}
(१८,४.८१ ) नमो वः पितर ऊर्जे नमो वः पितरो रसाय ॥८१॥
(१८,४.८२ ) नमो वः पितरो भामाय नमो वः पितरो मन्यवे ॥८२॥
(१८,४.८३ ) नमो वः पितरो यद्घोरं तस्मै नमो वः पितरो यत्क्रूरं तस्मै ॥८३॥
(१८,४.८४ ) नमो वः पितरो यच्छिवं तस्मै नमो वः पितरो यत्स्योनं तस्मै ॥८४॥
(१८,४.८५ ) नमो वः पितरः स्वधा वः पितरः ॥८५॥
(१८,४.८६ ) येऽत्र पितरः पितरो येऽत्र यूयं स्थ युष्मांस्तेऽनु यूयं तेषां श्रेष्ठा भूयास्थ ॥८६॥
(१८,४.८७ ) य इह पितरो जीवा इह वयं स्मः ।
(१८,४.८७ ) अस्मांस्तेऽनु वयं तेषां श्रेष्ठा भूयास्म ॥८७॥
(१८,४.८८ ) आ त्वाग्न इधीमहि द्युमन्तं देवाजरम् ।
(१८,४.८८ ) यद्घ सा ते पनीयसी समिद्दीदयति द्यवि ।
(१८,४.८८ ) इषं स्तोतृभ्य आ भर ॥८८॥
(१८,४.८९ ) चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि ।
(१८,४.८९ ) न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥८९॥ {२८}
(१९,१.१ ) संसं स्रवन्तु नद्यः सं वाताः सं पतत्रिणः ।
(१९,१.१ ) यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥१॥
(१९,१.२ ) इमं होमा यज्ञमवतेमं संस्रावणा उत यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥२॥
(१९,१.३ ) रूपंरूपं वयोवयः संरभ्यैनं परि ष्वजे ।
(१९,१.३ ) यज्ञमिमं चतस्रः प्रदिशो वर्धयन्तु संस्राव्येण हविषा जुहोमि ॥३॥
(१९,२.१ ) शं त आपो हैमवतीः शमु ते सन्तूत्स्याः ।
(१९,२.१ ) शं ते सनिष्यदा आपः शमु ते सन्तु वर्ष्याः ॥१॥
(१९,२.२ ) शं त आपो धन्वन्याः शं ते सन्त्वनूप्याः ।
(१९,२.२ ) शं ते खनित्रिमा आपः शं याः कुम्भेभिराभृताः ॥२॥
(१९,२.३ ) अनभ्रयः खनमाना विप्रा गम्भीरे अपसः ।
(१९,२.३ ) भिषग्भ्यो भिषक्तरा आपो अछा वदामसि ॥३॥
(१९,२.४ ) अपामह दिव्यानामपां स्रोतस्यानाम् ।
(१९,२.४ ) अपामह प्रणेजनेऽश्वा भवथ वाजिनः ॥४॥
(१९,२.५ ) ता अपः शिवा अपोऽयक्ष्मंकरणीरपः ।
(१९,२.५ ) यथैव तृप्यते मयस्तास्त आ दत्त भेसजीः ॥५॥
(१९,३.१ ) दिवस्पृथिव्याः पर्यन्तरिक्षाद्वनस्पतिभ्यो अध्योषधीभ्यः ।
(१९,३.१ ) यत्रयत्र विभृतो जातवेदास्तत स्तुतो जुषमाणो न एहि ॥१॥
(१९,३.२ ) यस्ते अप्सु महिमा यो वनेषु य ओषधीषु पशुष्वप्स्वन्तः ।
(१९,३.२ ) अग्ने सर्वास्तन्वः सं रभस्व ताभिर्न एहि द्रविणोदा अजस्रः ॥२॥
(१९,३.३ ) यस्ते देवेषु महिमा स्वर्गो या ते तनुः पितृष्वाविवेश ।
(१९,३.३ ) पुष्टिर्या ते मनुष्येषु पप्रथेऽग्ने तया रयिमस्मासु धेहि ॥३॥
(१९,३.४ ) श्रुत्कर्णाय कवये वेद्याय वचोभिर्वाकैरुप यामि रातिम् ।
(१९,३.४ ) यतो भयमभयं तन् नो अस्त्वव देवानां यज हेडो अग्ने ॥४॥
(१९,४.१ ) यामाहुतिं प्रथमामथर्वा या जाता या हव्यमकृणोज्जातवेदाः ।
(१९,४.१ ) तां त एतां प्रथमो जोहवीमि ताभिष्टुप्तो वहतु हव्यमग्निरग्नये स्वाह ॥१॥
(१९,४.२ ) आकूतिं देवीं सुभगां पुरो दधे चित्तस्य माता सुहवा नो अस्तु ।
(१९,४.२ ) यामाशामेमि केवली सा मे अस्तु विदेयमेनां मनसि प्रविष्टाम् ॥२॥
(१९,४.३ ) आकूत्या नो बृहस्पत आकूत्या न उपा गहि ।
(१९,४.३ ) अथो भगस्य नो धेह्यथो नः सुहवो भव ॥३॥
(१९,४.४ ) बृहस्पतिर्म आकूतिमाङ्गिरसः प्रति जानातु वाचमेताम् ।
(१९,४.४ ) यस्य देवा देवताः संबभूवुः स सुप्रणीताः कामो अन्वेत्वस्मान् ॥४॥
(१९,५.१ ) इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति ।
(१९,५.१ ) ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक्॥१॥
(१९,६.१ ) सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात्।
(१९,६.१ ) स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥१॥
(१९,६.२ ) त्रिभिः पद्भिर्द्यामरोहत्पादस्येहाभवत्पुनः ।
(१९,६.२ ) तथा व्यक्रामद्विष्वङशनानशने अनु ॥२॥
(१९,६.३ ) तावन्तो अस्य महिमानस्ततो ज्यायांश्च पूरुषः ।
(१९,६.३ ) पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥
(१९,६.४ ) पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् ।
(१९,६.४ ) उतामृतत्वस्येश्वरो यदन्येनाभवत्सह ॥४॥
(१९,६.५ ) यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
(१९,६.५ ) मुखं किमस्य किं बाहू किमूरू पादा उच्यते ॥५॥
(१९,६.६ ) ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्योऽभवत्।
(१९,६.६ ) मध्यं तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥६॥
(१९,६.७ ) चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
(१९,६.७ ) मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥७॥
(१९,६.८ ) नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
(१९,६.८ ) पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकामकल्पयन् ॥८॥
(१९,६.९ ) विराडग्रे समभवद्विराजो अधि पूरुषः ।
(१९,६.९ ) स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥९॥
(१९,६.१० ) यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
(१९,६.१० ) वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥१०॥
(१९,६.११ ) तं यज्ञं प्रावृषा प्रौक्षन् पुरुषं जातमग्रशः ।
(१९,६.११ ) तेन देवा अयजन्त साध्या वसवश्च ये ॥११॥
(१९,६.१२ ) तस्मादश्वा अजायन्त ये च के चोभयादतः ।
(१९,६.१२ ) गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥१२॥
(१९,६.१३ ) तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।
(१९,६.१३ ) छन्दो ह जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥१३॥
(१९,६.१४ ) तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् ।
(१९,६.१४ ) पशूंस्तांश्चक्रे वायव्यान् आरण्या ग्राम्याश्च ये ॥१४॥
(१९,६.१५ ) सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
(१९,६.१५ ) देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥१५॥
(१९,६.१६ ) मूर्ध्नो देवस्य बृहतो अंशवः सप्त सप्ततीः ।
(१९,६.१६ ) राज्ञः सोमस्याजायन्त जातस्य पुरुषादधि ॥१६॥
(१९,७.१ ) चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि ।
(१९,७.१ ) तुर्मिशं सुमतिमिछमानो अहानि गीर्भिः सपर्यामि नाकम् ॥१॥
(१९,७.२ ) सुहवमग्ने कृत्तिका रोहिणी चास्तु भद्रं मृगशिरः शमार्द्रा ।
(१९,७.२ ) पुनर्वसू सूनृता चारु पुष्यो भानुराश्लेषा अयनं मघा मे ॥२॥
(१९,७.३ ) पुण्यं पूर्वा फल्गुन्यौ चात्र हस्तश्चित्रा शिवा स्वाति सुखो मे अस्तु ।
(१९,७.३ ) राधे विशाखे सुहवानुराधा ज्येष्ठा सुनक्षत्रमरिष्ट मूलम् ॥३॥
(१९,७.४ ) अन्नं पूर्वा रासतां मे अषाधा ऊर्जं देव्युत्तरा आ वहन्तु ।
(१९,७.४ ) अभिजिन् मे रासतां पुण्यमेव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम् ॥४॥
(१९,७.५ ) आ मे महच्छतभिषग्वरीय आ मे द्वया प्रोष्ठपदा सुशर्म ।
(१९,७.५ ) आ रेवती चाश्वयुजौ भगं म आ मे रयिं भरण्य आ वहन्तु ॥५॥
(१९,८.१ ) यानि नक्षत्राणि दिव्यन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु ।
(१९,८.१ ) प्रकल्पयंश्चन्द्रमा यान्येति सर्वाणि ममैतानि शिवानि सन्तु ॥१॥
(१९,८.२ ) अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे ।
(१९,८.२ ) योगं प्र पद्ये क्षेमं च क्षेमं प्र पद्ये योगं च नमोऽहोरात्राभ्यामस्तु ॥२॥
(१९,८.३ ) स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु ।
(१९,८.३ ) सुहवमग्ने स्वस्त्यमर्त्यं गत्वा पुनरायाभिनन्दन् ॥३॥
(१९,८.४ ) अनुहवं परिहवं परिवादं परिक्षवम् ।
(१९,८.४ ) सर्वैर्मे रिक्तकुम्भान् परा तान्त्सवितः सुव ॥४॥
(१९,८.५ ) अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम् ।
(१९,८.५ ) शिवा ते पाप नासिकां पुण्यगश्चाभि मेहताम् ॥५॥
(१९,८.६ ) इमा या ब्रह्मणस्पते विषुचीर्वात ईरते ।
(१९,८.६ ) सध्रीचीरिन्द्र ताः कृत्वा मह्यं शिवतमास्कृधि ॥६॥
(१९,८.७ ) स्वस्ति नो अस्त्वभयं नो अस्तु नमोऽहोरत्राभ्यामस्तु ॥७॥
(१९,९.१ ) शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम् ।
(१९,९.१ ) शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः ॥१॥
(१९,९.२ ) शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् ।
(१९,९.२ ) शान्तं भूतं च भव्यं च सर्वमेव शमस्तु नः ॥२॥
(१९,९.३ ) इयं या परमेष्ठिनी वाग्देवी ब्रह्मसंशिता ।
(१९,९.३ ) ययैव ससृजे घोरं तयैव शान्तिरस्तु नः ॥३॥
(१९,९.४ ) इदं यत्परमेष्ठिनं मनो वां ब्रह्मसंशितम् ।
(१९,९.४ ) येनैव ससृजे घोरं तेनैव शान्तिरस्तु नः ॥४॥
(१९,९.५ ) इमानि यानि पञ्चेन्द्रियानि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि ।
(१९,९.५ ) यैरेव ससृजे घोरं तैरेव शान्तिरस्तु नः ॥५॥
(१९,९.६ ) शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः ।
(१९,९.६ ) शं न इन्द्रो बृहस्पतिः शं नो भवत्वर्यमा ॥६॥
(१९,९.७ ) शं नो मित्रः शं वरुणः शं विवस्वां छमन्तकः ।
(१९,९.७ ) उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः ॥७॥
(१९,९.८ ) शं नो भूमिर्वेप्यमाना शमुल्का निर्हतं च यत्।
(१९,९.८ ) शं गावो लोहितक्षीराः शं भूमिरव तीर्यतीः ॥८॥
(१९,९.९ ) नक्षत्रमुल्काभिहतं शमस्तु नः शं नोऽभिचाराः शमु सन्तु कृत्याः ।
(१९,९.९ ) शं नो निखाता वल्गाः शमुल्का देशोपसर्गाः शमु नो भवन्तु ॥९॥
(१९,९.१० ) शं नो ग्रहाश्चान्द्रमसाः शमादित्यश्च राहुणा ।
(१९,९.१० ) शं नो मृत्युर्धूमकेतुः शं रुद्रास्तिग्मतेजसः ॥१०॥
(१९,९.११ ) शं रुद्राः शं वसवः शमादित्याः शमग्नयः ।
(१९,९.११ ) शं नो महर्षयो देवाः शं देवाः शं बृहस्पतिः ॥११॥
(१९,९.१२ ) ब्रह्म प्रजापतिर्धाता लोका वेदाः सप्तऋषयोऽग्नयः ।
(१९,९.१२ ) तैर्मे कृतं स्वस्त्ययनमिन्द्रो मे शर्म यछतु ब्रह्मा मे शर्म यछतु ।
(१९,९.१२ ) विश्वे मे देवाः शर्म यछन्तु सर्वे मे देवाः शर्म यछन्तु ॥१२॥
(१९,९.१३ ) यानि कानि चिच्छान्तानि लोके सप्तऋषयो विदुः ।
(१९,९.१३ ) सर्वाणि शं भवन्तु मे शं मे अस्त्वभयं मे अस्तु ॥१३॥
(१९,९.१४ ) पृथिवी शान्तिरन्तरिक्षं शान्तिर्द्यौः शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः ।
(१९,९.१४ ) यदिह घोरं यदिह क्रूरं यदिह पापं तच्छान्तं तच्छिवं सर्वमेव शमस्तु नः ॥१४॥
(१९,१०.१ ) शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या ।
(१९,१०.१ ) शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥१॥
(१९,१०.२ ) शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः ।
(१९,१०.२ ) शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥२॥
(१९,१०.३ ) शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः ।
(१९,१०.३ ) शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥३॥
(१९,१०.४ ) शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् ।
(१९,१०.४ ) शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥४॥
(१९,१०.५ ) शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु ।
(१९,१०.५ ) शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥५॥
(१९,१०.६ ) शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः ।
(१९,१०.६ ) शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥६॥
(१९,१०.७ ) शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः ।
(१९,१०.७ ) शं नः स्वरूनां मितयो भवन्तु शं नः प्रस्वः शं वस्तु वेदिः ॥७॥
(१९,१०.८ ) शं नः सूर्य उरुचक्षा उदेतु शं नो भवन्तु प्रदिशश्चतस्रः ।
(१९,१०.८ ) शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥८॥
(१९,१०.९ ) शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः ।
(१९,१०.९ ) शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शं वस्तु वायुः ॥९॥
(१९,१०.१० ) शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः ।
(१९,१०.१० ) शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शंभुः ॥१०॥
(१९,११.१ ) शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः ।
(१९,११.१ ) शं न ऋभवः सुकृतः सुहस्ताः शं नो भवतु पितरो हवेषु ॥१॥
(१९,११.२ ) शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु ।
(१९,११.२ ) शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥२॥
(१९,११.३ ) शं नो अज एकपाद्देवो अस्तु शमहिर्बुध्न्यः शं समुद्रः ।
(१९,११.३ ) शं नो अपां नपात्पेरुरस्तु शं नः पृष्णिर्भवतु देवगोपा ॥३॥
(१९,११.४ ) आदित्या रुद्रा वसवो जुषन्तामिदं ब्रह्म क्रियमाणं नवीयः ।
(१९,११.४ ) सृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥४॥
(१९,११.५ ) ये देवानामृत्विजो यज्ञियासो मनोर्यजत्रा अमृता ऋतज्ञाः ।
(१९,११.५ ) ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥५॥
(१९,११.६ ) तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम् ।
(१९,११.६ ) अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥६॥
(१९,१२.१ ) उषा अप स्वसुस्तमः सं वर्तयति वर्तनिं सुजातता ।
(१९,१२.१ ) अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥१॥
(१९,१३.१ ) इन्द्रस्य बाहू स्थविरौ वृषाणौ चित्रा इमा वृषभौ पारयिष्णू ।
(१९,१३.१ ) तौ योक्षे प्रथमो योग आगते याभ्यां जितमसुराणां स्वर्यत्॥१॥
(१९,१३.२ ) आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ।
(१९,१३.२ ) संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥२॥
(१९,१३.३ ) संक्रन्दनेनानिमिषेण जिष्णुनायोध्येन दुश्च्यवनेन धृष्णुना ।
(१९,१३.३ ) तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥३॥
(१९,१३.४ ) स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन ।
(१९,१३.४ ) संसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥४॥
(१९,१३.५ ) बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः ।
(१९,१३.५ ) अभिवीरो अभिषत्वा सहोजिज्जैत्रमिन्द्र रथमा तिष्ठ गोविदम् ॥५॥
(१९,१३.६ ) इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम् ।
(१९,१३.६ ) ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥६॥
(१९,१३.७ ) अभि गोत्राणि सहसा गाहमानोऽदाय उग्रः शतमन्युरिन्द्रः ।
(१९,१३.७ ) दुश्च्यवनः पृतनाषाडयोध्योऽस्माकं सेना अवतु प्र युत्सु ॥७॥
(१९,१३.८ ) बृहस्पते परि दीया रथेन रक्षोहामित्रामपबाधमानः ।
(१९,१३.८ ) प्रभञ्जं छत्रून् प्रमृणन्न् अमित्रान् अस्माकमेध्यविता तनूनाम् ॥८॥
(१९,१३.९ ) इन्द्र एषां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।
(१९,१३.९ ) देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये ॥९॥
(१९,१३.१० ) इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ।
(१९,१३.१० ) महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्॥१०॥
(१९,१३.११ ) अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।
(१९,१३.११ ) अस्माकं वीरा उत्तरे भवन्त्वस्मान् देवासोऽवता हवेषु ॥११॥
(१९,१४.१ ) इदमुच्छ्रेयोऽवसानमागां शिवे मे द्यावापृथिवी अभूताम् ।
(१९,१४.१ ) असपत्नाः प्रदिशो मे भवन्तु न वै त्वा द्विष्मो अभयं नो अस्तु ॥१॥
(१९,१५.१ ) यत इन्द्र भयामहे ततो नो अभयं कृधि ।
(१९,१५.१ ) मघवं छग्धि तव त्वं न ऊतिभिर्वि द्विषो वि मृधो जहि ॥१॥
(१९,१५.२ ) इन्द्रं वयमनूराधं हवामहेऽनु राध्यास्म द्विपदा चतुष्पदा ।
(१९,१५.२ ) मा नः सेना अररुषीरुप गुर्विषूचिरिन्द्र द्रुहो वि नाशय ॥२॥
(१९,१५.३ ) इन्द्रस्त्रातोत वृत्रहा परस्फानो वरेण्यः ।
(१९,१५.३ ) स रक्षिता चरमतः स मध्यतः स पश्चात्स पुरस्तान् नो अस्तु ॥३॥
(१९,१५.४ ) उरुं नो लोकमनु नेषि विद्वान्त्स्वर्यज्ज्योतिरभयं स्वस्ति ।
(१९,१५.४ ) उग्रा त इन्द्र स्थविरस्य बाहू उप क्षयेम शरणा बृहन्ता ॥४॥
(१९,१५.५ ) अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे इमे ।
(१९,१५.५ ) अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु ॥५॥
(१९,१५.६ ) अभयं मित्रादभयममित्रादभयं ज्ञातादभयं पुरो यः ।
(१९,१५.६ ) अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु ॥६॥
(१९,१६.१ ) असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम् ।
(१९,१६.१ ) सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥१॥
(१९,१६.२ ) दिवो मादित्या रक्षतु भूम्या रक्षन्त्वग्नयः ।
(१९,१६.२ ) इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यछताम् ।
(१९,१६.२ ) तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥२॥
(१९,१७.१ ) अग्निर्मा पातु वसुभिः पुरस्तात्तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
(१९,१७.१ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥१॥
(१९,१७.२ ) वायुर्मान्तरिक्षेणैतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
(१९,१७.२ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥२॥
(१९,१७.३ ) सोमो मा रुद्रैर्दक्षिणाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
(१९,१७.३ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥३॥
(१९,१७.४ ) वरुणो मादित्यैरेतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
(१९,१७.४ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥४॥
(१९,१७.५ ) सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
(१९,१७.५ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥५॥
(१९,१७.६ ) आपो मौषधीमतीरेतस्या दिशः पान्तु तासु क्रमे तासु श्रये तां पुरं प्रैमि ।
(१९,१७.६ ) ता मा रक्षन्तु ता मा गोपायन्तु ताभ्य आत्मानं परि ददे स्वाहा ॥६॥
(१९,१७.७ ) विश्वकर्मा मा सप्तऋषिभिरुदीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
(१९,१७.७ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥७॥
(१९,१७.८ ) इन्द्रो मा मरुत्वान् एतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
(१९,१७.८ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥८॥
(१९,१७.९ ) प्रजापतिर्मा प्रजननवान्त्सह प्रतिष्ठया ध्रुवाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
(१९,१७.९ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥९॥
(१९,१७.१० ) बृहस्पतिर्मा विश्वैर्देवैरूर्ध्वाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
(१९,१७.१० ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥१०॥
(१९,१८.१ ) अग्निं ते वसुवन्तमृछन्तु ।
(१९,१८.१ ) ये माघायवः प्राच्या दिशोऽभिदासान् ॥१॥
(१९,१८.२ ) वायुं तेऽन्तरिक्षवन्तमृछन्तु ।
(१९,१८.२ ) ये माघायव एतस्या दिशोऽभिदासान् ॥२॥
(१९,१८.३ ) सोमं ते रुद्रवन्तमृछन्तु ।
(१९,१८.३ ) ये माघायवो दक्षिणाया दिशोऽभिदासान् ॥३॥
(१९,१८.४ ) वरुणं त आदित्यवन्तमृछन्तु ।
(१९,१८.४ ) ये माघायव एतस्या दिशोऽभिदासान् ॥४॥
(१९,१८.५ ) सूर्यं ते द्यावापृथिवीवन्तमृछन्तु ।
(१९,१८.५ ) ये माघायव प्रतीच्या दिशोऽभिदासान् ॥५॥
(१९,१८.६ ) अपस्त ओषधीमतीरृछन्तु ।
(१९,१८.६ ) ये माघायव एतस्या दिशोऽभिदासान् ॥६॥
(१९,१८.७ ) विश्वकर्माणं ते सप्तऋषिवन्तमृछन्तु ।
(१९,१८.७ ) ये माघायव उदीच्या दिशोऽभिदासान् ॥७॥
(१९,१८.८ ) इन्द्रं ते मरुत्वन्तमृछन्तु ।
(१९,१८.८ ) ये माघायव एतस्या दिशोऽभिदासान् ॥८॥
(१९,१८.९ ) प्रजापतिं ते प्रजननवन्तमृछन्तु ।
(१९,१८.९ ) ये माघायवो ध्रुवाया दिशोऽभिदासान् ॥९॥
(१९,१८.१० ) बृहस्पतिं ते विश्वदेववन्तमृछन्तु ।
(१९,१८.१० ) ये माघायव ऊर्ध्वाया दिशोऽभिदासान् ॥१०॥
(१९,१९.१ ) मित्रः पृथिव्योदक्रामत्तां पुरं प्र णयामि वः ।
(१९,१९.१ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥१॥
(१९,१९.२ ) वायुरन्तरिक्षेणोदक्रामत्तां पुरं प्र णयामि वः ।
(१९,१९.२ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥२॥
(१९,१९.३ ) सूर्यो दिवोदक्रामत्तां पुरं प्र णयामि वः ।
(१९,१९.३ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥३॥
(१९,१९.४ ) चन्द्रमा नक्षत्रैरुदक्रामत्तां पुरं प्र णयामि वः ।
(१९,१९.४ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥४॥
(१९,१९.५ ) सोम ओषधीभिरुदक्रामत्तां पुरं प्र णयामि वः ।
(१९,१९.५ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥५॥
(१९,१९.६ ) यज्ञो दक्षिणाभिरुदक्रामत्तां पुरं प्र णयामि वः ।
(१९,१९.६ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥६॥
(१९,१९.७ ) समुद्रो नदीभिरुदक्रामत्तां पुरं प्र णयामि वः ।
(१९,१९.७ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥७॥
(१९,१९.८ ) ब्रह्म ब्रह्मचारिभिरुदक्रामत्तां पुरं प्र णयामि वः ।
(१९,१९.८ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥८॥
(१९,१९.९ ) इन्द्रो वीर्येणोदक्रामत्तां पुरं प्र णयामि वः ।
(१९,१९.९ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥९॥
(१९,१९.१० ) देवा अमृतेनोदक्रामंस्तां पुरं प्र णयामि वः ।
(१९,१९.१० ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥१०॥
(१९,१९.११ ) प्रजापतिः प्रजाभिरुदक्रामत्तां पुरं प्र णयामि वः ।
(१९,१९.११ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥११॥
(१९,२०.१ ) अप न्यधुः पौरुषेयं वधं यमिन्द्राग्नी धाता सविता बृहस्पतिः ।
(१९,२०.१ ) सोमो राजा वरुणो अश्विना यमः पूषास्मान् परि पातु मृत्योः ॥१॥
(१९,२०.२ ) यानि चकार भुवनस्य यस्पतिः प्रजापतिर्मातरिश्वा प्रजाभ्यः ।
(१९,२०.२ ) प्रदिशो यानि वसते दिशश्च तानि मे वर्माणि बहुलानि सन्तु ॥२॥
(१९,२०.३ ) यत्ते तनूष्वनह्यन्त देवा द्युराजयो देहिनः ।
(१९,२०.३ ) इन्द्रो यच्चक्रे वर्म तदस्मान् पातु विश्वतः ॥३॥
(१९,२०.४ ) वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः ।
(१९,२०.४ ) वर्म मे विश्वे देवाः क्रन् मा मा प्रापत्प्रतीचिका ॥४॥
(१९,२१.१ ) गायत्र्युष्णिगनुष्टुब्बृहती पङ्क्तिस्त्रिष्टुब्जगत्यै ॥१॥
(१९,२२.१ ) आङ्गिरसानामाद्यैः पञ्चानुवाकैः स्वाहा ॥१॥
(१९,२२.२ ) षष्ठाय स्वाहा ॥२॥
(१९,२२.३ ) सप्तमाष्टमाभ्यां स्वाहा ॥३॥
(१९,२२.४ ) नीलनखेभ्यः स्वाहा ॥४॥
(१९,२२.५ ) हरितेभ्यः स्वाहा ॥५॥
(१९,२२.६ ) क्षुद्रेभ्यः स्वाहा ॥६॥
(१९,२२.७ ) पर्यायिकेभ्यः स्वाहा ॥७॥
(१९,२२.८ ) प्रथमेभ्यः शङ्खेभ्यः स्वाहा ॥८॥
(१९,२२.९ ) द्वितीयेभ्यः शङ्खेभ्यः स्वाहा ॥९॥
(१९,२२.१० ) तृतीयेभ्यः शङ्खेभ्यः स्वाहा ॥१०॥
(१९,२२.११ ) उपोत्तमेभ्यः स्वाहा ॥११॥
(१९,२२.१२ ) उत्तमेभ्यः स्वाहा ॥१२॥
(१९,२२.१३ ) उत्तरेभ्यः स्वाहा ॥१३॥
(१९,२२.१४ ) ऋषिभ्यः स्वाहा ॥१४॥
(१९,२२.१५ ) शिखिभ्यः स्वाहा ॥१५॥
(१९,२२.१६ ) गणेभ्यः स्वाहा ॥१६॥
(१९,२२.१७ ) महागणेभ्यः स्वाहा ॥१७॥
(१९,२२.१८ ) सर्वेभ्योऽङ्गिरोभ्यो विदगणेभ्यः स्वाहा ॥१८॥
(१९,२२.१९ ) पृथक्सहस्राभ्यां स्वाहा ॥१९॥
(१९,२२.२० ) ब्रह्मणे स्वाहा ॥२०॥
(१९,२२.२१ ) ब्रह्मज्येष्ठा सम्भृता विर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान ।
(१९,२२.२१ ) भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥२१॥
(१९,२३.१ ) आथर्वणानां चतुरृचेभ्यः स्वाहा ॥१॥
(१९,२३.२ ) पञ्चर्चेभ्यः स्वाहा ॥२॥
(१९,२३.३ ) षळृचेभ्यः स्वाहा ॥३॥
(१९,२३.४ ) सप्तर्चेभ्यः स्वाहा ॥४॥
(१९,२३.५ ) अष्टर्चेभ्यः स्वाहा ॥५॥
(१९,२३.६ ) नवर्चेभ्यः स्वाहा ॥६॥
(१९,२३.७ ) दशर्चेभ्यः स्वाहा ॥७॥
(१९,२३.८ ) एकादशर्चेभ्यः स्वाहा ॥८॥
(१९,२३.९ ) द्वादशर्चेभ्यः स्वाहा ॥९॥
(१९,२३.१० ) त्रयोदशर्चेभ्यः स्वाहा ॥१०॥
(१९,२३.११ ) चतुर्दशर्चेभ्यः स्वाहा ॥११॥
(१९,२३.१२ ) पञ्चदशर्चेभ्यः स्वाहा ॥१२॥
(१९,२३.१३ ) षोडशर्चेभ्यः स्वाहा ॥१३॥
(१९,२३.१४ ) सप्तदशर्चेभ्यः स्वाहा ॥१४॥
(१९,२३.१५ ) अष्टादशर्चेभ्यः स्वाहा ॥१५॥
(१९,२३.१६ ) एकोनविंशतिः स्वाहा ॥१६॥
(१९,२३.१७ ) विंशतिः स्वाहा ॥१७॥
(१९,२३.१८ ) महत्काण्डाय स्वाहा ॥१८॥
(१९,२३.१९ ) तृचेभ्यः स्वाहा ॥१९॥
(१९,२३.२० ) एकर्चेभ्यः स्वाहा ॥२०॥
(१९,२३.२१ ) क्षुद्रेभ्यः स्वाहा ॥२१॥
(१९,२३.२२ ) एकानृचेभ्यः स्वाहा ॥२२॥
(१९,२३.२३ ) रोहितेभ्यः स्वाहा ॥२३॥
(१९,२३.२४ ) सूर्याभ्यां स्वाहा ॥२४॥
(१९,२३.२५ ) व्रात्याभ्यां स्वाहा ॥२५॥
(१९,२३.२६ ) प्राजापत्याभ्यां स्वाहा ॥२६॥
(१९,२३.२७ ) विषासह्यै स्वाहा ॥२७॥
(१९,२३.२८ ) मङ्गलिकेभ्यः स्वाहा ॥२८॥
(१९,२३.२९ ) ब्रह्मणे स्वाहा ॥२९॥
(१९,२३.३० ) ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान ।
(१९,२३.३० ) भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥३०॥
(१९,२४.१ ) येन देवं सवितारं परि देवा अधारयन् ।
(१९,२४.१ ) तेनेमं ब्रह्मणस्पते परि राष्ट्राय धत्तन ॥१॥
(१९,२४.२ ) परीममिन्द्रमायुषे महे क्षत्राय धत्तन ।
(१९,२४.२ ) यथैनं जरसे नयाज्ज्योक्क्षत्रेऽधि जागरत्॥२॥
(१९,२४.३ ) परीममिन्द्रमायुषे महे श्रोत्राय धत्तन ।
(१९,२४.३ ) यथैनं जरसे नयाज्ज्योक्श्रोत्रेऽधि जागरत्॥३॥
(१९,२४.४ ) परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः ।
(१९,२४.४ ) बृहस्पतिः प्रायछद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥४॥
(१९,२४.५ ) जरां सु गछ परि धत्स्व वासो भवा गृष्टीनामभिशस्तिपा उ ।
(१९,२४.५ ) शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व ॥५॥
(१९,२४.६ ) परीदं वासो अधिथाः स्वस्तयेऽभूर्वापीनामभिशस्तिपा उ ।
(१९,२४.६ ) शतं च जीव शरदः पुरूचीर्वसूनि चारुर्वि भजासि जीवन् ॥६॥
(१९,२४.७ ) योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
(१९,२४.७ ) सखाय इन्द्रमूतये ॥७॥
(१९,२४.८ ) हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्रजया सं विशस्व ।
(१९,२४.८ ) तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः ॥८॥
(१९,२५.१ ) अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य च ।
(१९,२५.१ ) उत्कूलमुद्वहो भवोदुह्य प्रति धावतात्॥१॥
(१९,२६.१ ) अग्नेः प्रजातं परि यद्धिरण्यममृतं दध्रे अधि मर्त्येषु ।
(१९,२६.१ ) य एनद्वेद स इदेनमर्हति जरामृत्युर्भवति यो बिभर्ति ॥१॥
(१९,२६.२ ) यद्धिरण्यं सूर्येण सुवर्णं प्रजावन्तो मनवः पूर्व ईषिरे ।
(१९,२६.२ ) तत्त्वा चन्द्रं वर्चसा सं सृजत्यायुष्मान् भवति यो बिभर्ति ॥२॥
(१९,२६.३ ) आयुषे त्वा वर्चसे त्वौजसे च बलाय च ।
(१९,२६.३ ) यथा हिरण्यतेजसा विभासासि जनामनु ॥३॥
(१९,२६.४ ) यद्वेद राजा वरुणो वेद देवो बृहस्पतिः ।
(१९,२६.४ ) इन्द्रो यद्वृत्रहा वेद तत्त आयुष्यं भुवत्तत्ते वर्चस्यं भुवत्॥४॥
(१९,२७.१ ) गोभिष्ट्वा पात्वृषभो वृषा त्वा पातु वाजिभिः ।
(१९,२७.१ ) वायुष्ट्वा ब्रह्मणा पात्विन्द्रस्त्वा पात्विन्द्रियैः ॥१॥
(१९,२७.२ ) सोमस्त्वा पात्वोषधीभिर्नक्षत्रैः पातु सूर्यः ।
(१९,२७.२ ) माद्भ्यस्त्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु ॥२॥
(१९,२७.३ ) तिस्रो दिवस्तिस्रः पृथिवीस्त्रीण्यन्तरिक्षाणि चतुरः समुद्रान् ।
(१९,२७.३ ) त्रिवृतं स्तोमं त्रिवृत आप आहुस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥३॥
(१९,२७.४ ) त्रीन् नाकांस्त्रीन् समुद्रांस्त्रीन् ब्रध्नांस्त्रीन् वैष्टपान् ।
(१९,२७.४ ) त्रीन् मातरिश्वनस्त्रीन्त्सूर्यान् गोप्तॄन् कल्पयामि ते ॥४॥
(१९,२७.५ ) घृतेन त्वा समुक्षाम्यग्ने आज्येन वर्धयन् ।
(१९,२७.५ ) अग्नेश्चन्द्रस्य सूर्यस्य मा प्राणं मायिनो दभन् ॥५॥
(१९,२७.६ ) मा वः प्राणं मा वोऽपानं मा हरो मायिनो दभन् ।
(१९,२७.६ ) भ्राजन्तो विश्ववेदसो देवा दैव्येन धावत ॥६॥
(१९,२७.७ ) प्राणेनाग्निं सं सृजति वातः प्राणेन संहितः ।
(१९,२७.७ ) प्राणेन विश्वतोमुखं सूर्यं देवा अजनयन् ॥७॥
(१९,२७.८ ) आयुषायुःकृतां जीवायुष्मान् जीव मा मृथाः ।
(१९,२७.८ ) प्राणेनात्मन्वतां जीव मा मृत्योरुदगा वशम् ॥८॥
(१९,२७.९ ) देवानां निहितं निधिं यमिन्द्रोऽन्वविन्दत्पथिभिर्देवयानैः ।
(१९,२७.९ ) आपो हिरण्यं जुगुपुस्त्रिवृद्भिस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥९॥
(१९,२७.१० ) त्रयस्त्रिंशद्देवतास्त्रीणि च वीर्याणि प्रियायमाणा जुगुपुरप्स्वन्तः ।
(१९,२७.१० ) अस्मिंश्चन्द्रे अधि यद्धिरण्यं तेनायं कृणवद्वीर्याणि ॥१०॥
(१९,२७.११ ) ये देवा दिव्येकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥११॥
(१९,२७.१२ ) ये देवा अन्तरिक्ष एकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥१२॥
(१९,२७.१३ ) ये देवा पृथिव्यामेकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥१३॥
(१९,२७.१४ ) असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम् ।
(१९,२७.१४ ) सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥१४॥
(१९,२७.१५ ) दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्वग्नयः ।
(१९,२७.१५ ) इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यछताम् ।
(१९,२७.१५ ) तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥१५॥
(१९,२८.१ ) इमं बध्नामि ते मणिं दीर्घायुत्वाय तेजसे ।
(१९,२८.१ ) दर्भं सपत्नदम्भनं द्विषतस्तपनं हृदः ॥१॥
(१९,२८.२ ) द्विषतस्तापयन् हृदः शत्रूणां तापयन् मनः ।
(१९,२८.२ ) दुर्हार्दः सर्वांस्त्वं दर्भ घर्म इवाभीन्त्संतापयन् ॥२॥
(१९,२८.३ ) घर्म इवाभितपन् दर्भ द्विषतो नितपन् मणे ।
(१९,२८.३ ) हृदः सपत्नानां भिन्द्धीन्द्र इव विरुजं बलम् ॥३॥
(१९,२८.४ ) भिन्द्धि दर्भ सपत्नानां हृदयं द्विषतां मणे ।
(१९,२८.४ ) उद्यन् त्वचमिव भूम्याः शिर एषां वि पातय ॥४॥
(१९,२८.५ ) भिन्द्धि दर्भ सपत्नान् मे भिन्द्धि मे पृतनायतः ।
(१९,२८.५ ) भिन्द्धि मे सर्वान् दुर्हार्दो भिन्द्धि मे द्विषतो मणे ॥५॥
(१९,२८.६ ) छिन्द्धि दर्भ सपत्नान् मे छिन्द्धि मे पृतनायतः ।
(१९,२८.६ ) छिन्द्धि मे सर्वान् दुर्हार्दो छिन्द्धि मे द्विषतो मणे ॥६॥
(१९,२८.७ ) वृश्च दर्भ सपत्नान् मे वृश्च मे पृतनायतः ।
(१९,२८.७ ) वृश्च मे सर्वान् दुर्हार्दो वृश्च मे द्विषतो मणे ॥७॥
(१९,२८.८ ) कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनायतः ।
(१९,२८.८ ) कृन्त मे सर्वान् दुर्हार्दो कृन्त मे द्विषतो मणे ॥८॥
(१९,२८.९ ) पिंश दर्भ सपत्नान् मे पिंश मे पृतनायतः ।
(१९,२८.९ ) पिंश मे सर्वान् दुर्हार्दो पिंश मे द्विषतो मणे ॥९॥
(१९,२८.१० ) विध्य दर्भ सपत्नान् मे विध्य मे पृतनायतः ।
(१९,२८.१० ) विध्य मे सर्वान् दुर्हार्दो विध्य मे द्विषतो मणे ॥१०॥
(१९,२९.१ ) निक्ष दर्भ सपत्नान् मे निक्ष मे पृतनायतः ।
(१९,२९.१ ) निक्ष मे सर्वान् दुर्हार्दो निक्ष मे द्विषतो मणे ॥१॥
(१९,२९.२ ) तृन्द्धि दर्भ सपत्नान् मे तृन्द्धि मे पृतनायतः ।
(१९,२९.२ ) तृन्द्धि मे सर्वान् दुर्हार्दो तृन्द्धि मे द्विषतो मणे ॥२॥
(१९,२९.३ ) रुन्द्धि दर्भ सपत्नान् मे रुन्द्धि मे पृतनायतः ।
(१९,२९.३ ) रुन्द्धि मे सर्वान् दुर्हार्दो रुन्द्धि मे द्विषतो मणे ॥३॥
(१९,२९.४ ) मृण दर्भ सपत्नान् मे मृण मे पृतनायतः ।
(१९,२९.४ ) मृण मे सर्वान् दुर्हार्दो मृण मे द्विषतो मणे ॥४॥
(१९,२९.५ ) मन्थ दर्भ सपत्नान् मे मन्थ मे पृतनायतः ।
(१९,२९.५ ) मन्थ मे सर्वान् दुर्हार्दो मन्थ मे द्विषतो मणे ॥५॥
(१९,२९.६ ) पिण्ड्ढि दर्भ सपत्नान् मे पिण्ड्ढि मे पृतनायतः ।
(१९,२९.६ ) पिण्ड्ढि मे सर्वान् दुर्हार्दो पिण्ड्ढि मे द्विषतो मणे ॥६॥
(१९,२९.७ ) ओष दर्भ सपत्नान् मे ओष मे पृतनायतः ।
(१९,२९.७ ) ओष मे सर्वान् दुर्हार्दो ओष मे द्विषतो मणे ॥७॥
(१९,२९.८ ) दह दर्भ सपत्नान् मे दह मे पृतनायतः ।
(१९,२९.८ ) दह मे सर्वान् दुर्हार्दो दह मे द्विषतो मणे ॥८॥
(१९,२९.९ ) जहि दर्भ सपत्नान् मे जहि मे पृतनायतः ।
(१९,२९.९ ) जहि मे सर्वान् दुर्हार्दो जहि मे द्विषतो मणे ॥९॥
(१९,३०.१ ) यत्ते दर्भ जरामृत्यु शतं वर्मसु वर्म ते ।
(१९,३०.१ ) तेनेमं वर्मिणं कृत्वा सपत्नां जहि वीर्यैः ॥१॥
(१९,३०.२ ) शतं ते दर्भ वर्माणि सहस्रं वीर्याणि ते ।
(१९,३०.२ ) तमस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः ॥२॥
(१९,३०.३ ) त्वामाहुर्देववर्म त्वां दर्भ ब्रह्मणस्पतिम् ।
(१९,३०.३ ) त्वामिन्द्रस्याहुर्वर्म त्वं राष्ट्राणि रक्षसि ॥३॥
(१९,३०.४ ) सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः ।
(१९,३०.४ ) मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते ॥४॥
(१९,३०.५ ) यत्समुद्रो अभ्यक्रन्दत्पर्जन्यो विद्युता सह ।
(१९,३०.५ ) ततो हिरन्ययो बिन्दुस्ततो दर्भो अजायत ॥५॥
(१९,३१.१ ) औदुम्बरेण मणिना पुष्टिकामाय वेधसा ।
(१९,३१.१ ) पशूणां सर्वेषां स्फातिं गोष्ठे मे सविता करत्॥१॥
(१९,३१.२ ) यो नो अग्निर्गार्हपत्यः पशूनामधिपा असत्।
(१९,३१.२ ) औदुम्बरो वृषा मणिः सं मा सृजतु पुष्ट्या ॥२॥
(१९,३१.३ ) करीषिणीं फलवतीं स्वधामिरां च नो गृहे ।
(१९,३१.३ ) औदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे ॥३॥
(१९,३१.४ ) यद्द्विपाच्च चतुष्पाच्च यान्यन्नानि ये रसाः ।
(१९,३१.४ ) गृह्णेऽहं त्वेषां भूमानं बिभ्रदौदुम्बरं मणिम् ॥४॥
(१९,३१.५ ) पुष्टिं पशूनां परि जग्रभाहं चतुष्पदां द्विपदां यच्च धान्यम् ।
(१९,३१.५ ) पयः पशूनां रसमोषधीनां बृहस्पतिः सविता मे नि यछात्॥५॥
(१९,३१.६ ) अहं पशूनामधिपा असानि मयि पुष्टं पुष्टपतिर्दधातु ।
(१९,३१.६ ) मह्यमौदुम्बरो मणिर्द्रविणानि नि यछतु ॥६॥
(१९,३१.७ ) उप मौदुम्बरो मणिः प्रजया च धनेन च ।
(१९,३१.७ ) इन्द्रेण जिन्वितो मणिरा मागन्त्सह वर्चसा ॥७॥
(१९,३१.८ ) देवो मणिः सपत्नहा धनसा धनसातये ।
(१९,३१.८ ) पशोरन्नस्य भूमानं गवां स्फातिं नि यछतु ॥८॥
(१९,३१.९ ) यथाग्रे त्वं वनस्पते पुष्ठ्या सह जज्ञिषे ।
(१९,३१.९ ) एवा धनस्य मे स्फातिमा दधातु सरस्वती ॥९॥
(१९,३१.१० ) आ मे धनं सरस्वती पयस्फातिं च धान्यम् ।
(१९,३१.१० ) सिनीवाल्युपा वहादयं चौदुम्बरो मणिः ॥१०॥
(१९,३१.११ ) त्वं मणीणामधिपा वृषासि त्वयि पुष्टं पुष्टपतिर्जजान ।
(१९,३१.११ ) त्वयीमे वाजा द्रविणानि सर्वौदुम्बरः स त्वमस्मत्सहस्वारादारादरातिममतिं क्षुधं च ॥११॥
(१९,३१.१२ ) ग्रामणीरसि ग्रामणीरुत्थाय अभिषिक्तोऽभि मा सिञ्च वर्चसा ।
(१९,३१.१२ ) तेजोऽसि तेजो मयि धारयाधि रयिरसि रयिं मे धेहि ॥१२॥
(१९,३१.१३ ) पुष्टिरसि पुष्ट्या मा समङ्ग्धि गृहमेधी गृहपतिं मा कृणु ।
(१९,३१.१३ ) औदुम्बरः स त्वमस्मासु धेहि रयिं च नः सर्ववीरं नि यछ रायस्पोषाय प्रति मुञ्चे अहं त्वाम् ॥१३॥
(१९,३१.१४ ) अयमौदुम्बरो मणिर्वीरो वीराय बध्यते ।
(१९,३१.१४ ) स नः सनिं मधुमतीं कृणोतु रयिं च नः सर्ववीरं नि यछात्॥१४॥
(१९,३२.१ ) शतकाण्डो दुश्च्यवनः सहस्रपर्ण उत्तिरः ।
(१९,३२.१ ) दर्भो य उग्र ओषधिस्तं ते बध्नाम्यायुषे ॥१॥
(१९,३२.२ ) नास्य केशान् प्र वपन्ति नोरसि ताडमा घ्नते ।
(१९,३२.२ ) यस्मा अछिन्नपर्णेन दर्भेन शर्म यछति ॥२॥
(१९,३२.३ ) दिवि ते तूलमोषधे पृथिव्यामसि निष्ठितः ।
(१९,३२.३ ) त्वया सहस्रकाण्डेनायुः प्र वर्धयामहे ॥३॥
(१९,३२.४ ) तिस्रो दिवो अत्यतृणत्तिस्र इमाः पृथिवीरुत ।
(१९,३२.४ ) त्वयाहं दुर्हार्दो जिह्वां नि तृणद्मि वचांसि ॥४॥
(१९,३२.५ ) त्वमसि सहमानोऽहमस्मि सहस्वान् ।
(१९,३२.५ ) उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीवहि ॥५॥
(१९,३२.६ ) सहस्व नो अभिमातिं सहस्व पृतनायतः ।
(१९,३२.६ ) सहस्व सर्वान् दुर्हार्दः सुहार्दो मे बहून् कृधि ॥६॥
(१९,३२.७ ) दर्भेण देवजातेन दिवि ष्टम्भेन शश्वदित्।
(१९,३२.७ ) तेनाहं शश्वतो जनामसनं सनवानि च ॥७॥
(१९,३२.८ ) प्रियं मा दर्भ कृणु ब्रह्मराजन्याभ्यां शूद्राय चार्याय च ।
(१९,३२.८ ) यस्मै च कामयामहे सर्वस्मै च विपश्यते ॥८॥
(१९,३२.९ ) यो जायमानः पृथिवीमदृंहद्यो अस्तभ्नादन्तरिक्षं दिवं च ।
(१९,३२.९ ) यं बिभ्रतं ननु पाप्मा विवेद स नोऽयं दर्भो वरुणो दिवा कः ॥९॥
(१९,३२.१० ) सपत्नहा शतकाण्डः सहस्वान् ओषधीनां प्रथमः सं बभूव ।
(१९,३२.१० ) स नोऽयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः ॥१०॥
(१९,३३.१ ) सहस्रार्घः शतकाण्डः पयस्वान् अपामग्निर्वीरुधां राजसूयम् ।
(१९,३३.१ ) स नोऽयं दर्भः परि पातु विश्वतो देवो मणिरायुषा सं सृजाति नः ॥१॥
(१९,३३.२ ) घृतादुल्लुप्तो मधुमान् पयस्वान् भूमिदृंहोऽच्युतश्च्यावयिष्णुः ।
(१९,३३.२ ) नुदन्त्सपत्नान् अधरांश्च कृण्वन् दर्भा रोह महतामिन्द्रियेण ॥२॥
(१९,३३.३ ) त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे ।
(१९,३३.३ ) त्वां पवित्रमृषयोऽभरन्त त्वं पुनीहि दुरितान्यस्मत्॥३॥
(१९,३३.४ ) तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणिः ।
(१९,३३.४ ) ओजो देवानां बलमुग्रमेतत्तं ते बध्नामि जरसे स्वस्तये ॥४॥
(१९,३३.५ ) दर्भेण त्वं कृणवद्वीर्याणि दर्भं बिभ्रदात्मना मा व्यथिष्ठाः ।
(१९,३३.५ ) अतिष्ठाय वर्चसाधान्यान्त्सूर्य इवा भाहि प्रदिशश्चतस्रः ॥५॥
(१९,३४.१ ) जाङ्गिडोऽसि जङ्गिडो रक्षितासि जङ्गिदः ।
(१९,३४.१ ) द्विपाच्चतुष्पादस्माकं सर्वं रक्षतु जङ्गिदः ॥१॥
(१९,३४.२ ) या गृत्स्यस्त्रिपञ्चाशीः शतं कृत्याकृतश्च ये ।
(१९,३४.२ ) सर्वान् विनक्तु तेजसोऽरसां जङ्गिदस्करत्॥२॥
(१९,३४.३ ) अरसं कृत्रिमं नादमरसाः सप्त विस्रसः ।
(१९,३४.३ ) अपेतो जङ्गिडामतिमिषुमस्तेव शातय ॥३॥
(१९,३४.४ ) कृत्यादूषण एवायमथो अरातिदूषणः ।
(१९,३४.४ ) अथो सहस्वाञ्जङ्गिडः प्र न आयुम्षि तारिषत्॥४॥
(१९,३४.५ ) स जङ्गिडस्य महिमा परि णः पातु विश्वतः ।
(१९,३४.५ ) विष्कन्धं येन सासह संस्कन्धमोज ओजसा ॥५॥
(१९,३४.६ ) त्रिष्ट्वा देवा अजनयन् निष्ठितं भूम्यामधि ।
(१९,३४.६ ) तमु त्वाङ्गिरा इति ब्राह्मणाः पूर्व्या विदुः ॥६॥
(१९,३४.७ ) न त्वा पूर्वा ओषधयो न त्वा तरन्ति या नवाः ।
(१९,३४.७ ) विबाध उग्रो जङ्गिडः परिपाणः सुमङ्गलः ॥७॥
(१९,३४.८ ) अथोपदान भगवो जाङ्गिडामितवीर्य ।
(१९,३४.८ ) पुरा त उग्रा ग्रसत उपेन्द्रो वीर्यं ददौ ॥८॥
(१९,३४.९ ) उग्र इत्ते वनस्पत इन्द्र ओज्मानमा दधौ ।
(१९,३४.९ ) अमीवाः सर्वाश्चातयं जहि रक्षांस्योषधे ॥९॥
(१९,३४.१० ) आशरीकं विशरीकं बलासं पृष्ट्यामयम् ।
(१९,३४.१० ) तक्मानं विश्वशारदमरसां जङ्गिडस्करत्॥१०॥
(१९,३५.१ ) इन्द्रस्य नाम गृह्णन्त ऋसयो जङ्गिदं ददुः ।
(१९,३५.१ ) देवा यं चक्रुर्भेषजमग्रे विष्कन्धदूषणम् ॥१॥
(१९,३५.२ ) स नो रक्षतु जङ्गिडो धनपालो धनेव ।
(१९,३५.२ ) देवा यं चक्रुर्ब्राह्मणाः परिपाणमरातिहम् ॥२॥
(१९,३५.३ ) दुर्हार्दः संघोरं चक्षुः पापकृत्वानमागमम् ।
(१९,३५.३ ) तांस्त्वं सहस्रचक्षो प्रतीबोधेन नाशय परिपाणोऽसि जङ्गिडः ॥३॥
(१९,३५.४ ) परि मा दिवः परि मा पृथिव्याः पर्यन्तरिक्षात्परि मा वीरुद्भ्यः ।
(१९,३५.४ ) परि मा भूतात्परि मोत भव्याद्दिशोदिशो जङ्गिडः पात्वस्मान् ॥४॥
(१९,३५.५ ) य ऋष्णवो देवकृता य उतो ववृतेऽन्यः ।
(१९,३५.५ ) सर्वां स्तान् विश्वभेषजोऽरसां जङ्गिडस्करत्॥५॥
(१९,३६.१ ) शतवारो अनीनशद्यक्ष्मान् रक्षांसि तेजसा ।
(१९,३६.१ ) आरोहन् वर्चसा सह मणिर्दुर्णामचातनः ॥१॥
(१९,३६.२ ) शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः ।
(१९,३६.२ ) मध्येन यक्ष्मं बाधते नैनं पाप्माति तत्रति ॥२॥
(१९,३६.३ ) ये यक्ष्मासो अर्भका महान्तो ये च शब्दिनः ।
(१९,३६.३ ) सर्वां दुर्णामहा मणिः शतवारो अनीनशत्॥३॥
(१९,३६.४ ) शतं वीरान् अजनयच्छतं यक्ष्मान् अपावपत्।
(१९,३६.४ ) दुर्णाम्नः सर्वान् हत्वाव रक्षांसि धूनुते ॥४॥
(१९,३६.५ ) हिरण्यशृङ्ग ऋषभः शातवारो अयं मणिः ।
(१९,३६.५ ) दुर्णाम्नः सर्वांस्तृध्वाव रक्षांस्यक्रमीत्॥५॥
(१९,३६.६ ) शतमहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम् ।
(१९,३६.६ ) शतं शश्वन्वतीनां शतवारेण वारये ॥६॥
(१९,३७.१ ) इदं वर्चो अग्निना दत्तमागन् भर्गो यशः सह ओजो वयो बलम् ।
(१९,३७.१ ) त्रयस्त्रिंशद्यानि च वीर्याणि तान्यग्निः प्र ददातु मे ॥१॥
(१९,३७.२ ) वर्च आ धेहि मे तन्वां सह ओजो वयो बलम् ।
(१९,३७.२ ) इन्द्रियाय त्वा कर्मणे वीर्याय प्रति गृह्णामि शतशारदाय ॥२॥
(१९,३७.३ ) ऊर्जे त्वा बलाय त्वौजसे सहसे त्वा ।
(१९,३७.३ ) अभिभूयाय त्वा राष्ट्रभृत्याय पर्यूहामि शतशारदाय ॥३॥
(१९,३७.४ ) ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः ।
(१९,३७.४ ) धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥४॥
(१९,३८.१ ) न तं यक्ष्मा अरुन्धते नैनं शपथो अश्नुते ।
(१९,३८.१ ) यं भेषजस्य गुल्गुलोः सुरभिर्गन्धो अश्नुते ॥१॥
(१९,३८.२ ) विष्वञ्चस्तस्माद्यक्ष्मा मृगा अश्वा इवेरते ।
(१९,३८.२ ) यद्गुल्गुलु सैन्धवं यद्वाप्यसि समुद्रियम् ॥२॥
(१९,३८.३ ) उभयोरग्रभं नामास्मा अरिष्टतातये ॥३॥
(१९,३९.१ ) ऐतु देवस्त्रायमाणः कुष्ठो हिमवतस्परि ।
(१९,३९.१ ) तक्मानं सर्वं नाशय सर्वाश्च यातुधान्यः ॥१॥
(१९,३९.२ ) त्रीणि ते कुष्ठ नामानि नद्यमारो नद्यारिषः ।
(१९,३९.२ ) नद्यायं पुरुषो रिषत्।
(१९,३९.२ ) यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥२॥
(१९,३९.३ ) जीवला नाम ते माता जीवन्तो नाम ते पिता ।
(१९,३९.३ ) नद्यायं पुरुषो रिषत्।
(१९,३९.३ ) यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥३॥
(१९,३९.४ ) उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव ।
(१९,३९.४ ) नद्यायं पुरुषो रिषत्।
(१९,३९.४ ) यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥४॥
(१९,३९.५ ) त्रिः शाम्बुभ्यो अङ्गिरेभ्यस्त्रिरादित्येभ्यस्परि ।
(१९,३९.५ ) त्रिर्जातो विश्वदेवेभ्यः ।
(१९,३९.५ ) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।
(१९,३९.६ ) अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि ।
(१९,३९.६ ) तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।
(१९,३९.६ ) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।
(१९,३९.७ ) हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि ।
(१९,३९.७ ) तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।
(१९,३९.७ ) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।
(१९,३९.८ ) यत्र नावप्रभ्रंशनं यत्र हिमवतः शिरः ।
(१९,३९.८ ) तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।
(१९,३९.८ ) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।
(१९,३९.९ ) यं त्वा वेद पूर्व इक्ष्वाको यं वा त्वा कुष्ठ काम्यः ।
(१९,३९.९ ) यं वा वसो यमात्स्यस्तेनासि विश्वभेषजः ॥९॥
(१९,३९.१० ) शीर्षशोकं तृतीयकं सदंदिर्यश्च हायनः ।
(१९,३९.१० ) तक्मानं विश्वधावीर्याधराञ्चं परा सुव ॥१०॥
(१९,४०.१ ) यन् मे छिद्रं मनसो यच्च वाचः सरस्वती मन्युमन्तं जगाम ।
(१९,४०.१ ) विश्वैस्तद्देवैः सह संविदानः सं दधातु बृहस्पतिः ॥१॥
(१९,४०.२ ) मा न आपो मेधां मा ब्रह्म प्र मथिष्टन ।
(१९,४०.२ ) सुष्यदा यूयं स्यन्दध्वमुपहूतोऽहं सुमेधा वर्चस्वी ॥२॥
(१९,४०.३ ) मा नो मेधां मा नो दीक्षां मा नो हिंसिष्टं यत्तपः ।
(१९,४०.३ ) शिवा नः शं सन्त्वायुषे शिवा भवन्तु मातरः ॥३॥
(१९,४०.४ ) या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः ।
(१९,४०.४ ) तामस्मे रासतामिषम् ॥४॥
(१९,४१.१ ) भद्रमिछन्त ऋषयः स्वर्विदस्तपो दीक्षामुपनिषेदुरग्रे ।
(१९,४१.१ ) ततो राष्ट्रं बलमोजश्च जातं तदस्मै देवा उपसंनमन्तु ॥१॥
(१९,४२.१ ) ब्रह्म होता ब्रह्म यज्ञा ब्रह्मणा स्वरवो मिताः ।
(१९,४२.१ ) अध्वर्युर्ब्रह्मणो जातो ब्रह्मणोऽन्तर्हितं हविः ॥१॥
(१९,४२.२ ) ब्रह्म स्रुचो घृतवतीर्ब्रह्मणा वेदिरुद्धिता ।
(१९,४२.२ ) ब्रह्म यज्ञस्य तत्त्वं च ऋत्विजो ये हविष्कृतः ।
(१९,४२.२ ) शमिताय स्वाहा ॥२॥
(१९,४२.३ ) अंहोमुचे प्र भरे मनीषामा सुत्राव्णे सुमतिमावृणानः ।
(१९,४२.३ ) इममिन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः ॥३॥
(१९,४२.४ ) अंहोमुचं व्र्षभं यज्ञियानां विराजन्तं प्रथममध्वराणम् ।
(१९,४२.४ ) अपां नपातमश्विना हुवे धिय इन्द्रियेण त इन्द्रियं दत्तमोजः ॥४॥
(१९,४३.१ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
(१९,४३.१ ) अग्निर्मा तत्र नयत्वग्निर्मेधा दधातु मे ।
(१९,४३.१ ) अग्नये स्वाहा ॥१॥
(१९,४३.२ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
(१९,४३.२ ) वायुर्मा तत्र नयतु वायुः प्रणान् दधातु मे वायवे स्वाहा ॥२॥
(१९,४३.३ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
(१९,४३.३ ) सूर्यो मा तत्र नयतु चक्षुः सूर्यो दधातु मे ।
(१९,४३.३ ) सूर्याय स्वाहा ॥३॥
(१९,४३.४ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
(१९,४३.४ ) चन्द्रो मा तत्र नयतु मनश्चन्द्रो दधातु मे ।
(१९,४३.४ ) चन्द्राय स्वाहा ॥४॥
(१९,४३.५ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
(१९,४३.५ ) सोमो मा तत्र नयतु पयः सोमो दधातु मे ।
(१९,४३.५ ) सोमाय स्वाहा ॥५॥
(१९,४३.६ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
(१९,४३.६ ) इन्द्रो मा तत्र नयतु बलमिन्द्रो दधातु मे ।
(१९,४३.६ ) इन्द्राय स्वाहा ॥६॥
(१९,४३.७ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
(१९,४३.७ ) आपो मा तत्र नयत्वमृतं मोप तिष्ठतु ।
(१९,४३.७ ) अद्भ्यः स्वाहा ॥७॥
(१९,४३.८ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
(१९,४३.८ ) ब्रह्मा मा तत्र नयतु ब्रह्मा ब्रह्म दधातु मे ।
(१९,४३.८ ) ब्रह्मणे स्वाहा ॥८॥
(१९,४४.१ ) आयुषोऽसि प्रतरणं विप्रं भेषजमुच्यसे ।
(१९,४४.१ ) तदाञ्जन त्वं शंताते शमापो अभयं कृतम् ॥१॥
(१९,४४.२ ) यो हरिमा जायान्योऽङ्गभेदो विषल्पकः ।
(१९,४४.२ ) सर्वं ते यक्ष्ममङ्गेभ्यो बहिर्निर्हन्त्वाञ्जनम् ॥२॥
(१९,४४.३ ) आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम् ।
(१९,४४.३ ) कृणोत्वप्रमायुकं रथजूतिमनागसम् ॥३॥
(१९,४४.४ ) प्राण प्राणं त्रायस्वासो असवे मृड ।
(१९,४४.४ ) निरृते निरृत्या नः पाशेभ्यो मुञ्च ॥४॥
(१९,४४.५ ) सिन्धोर्गर्भोऽसि विद्युतां पुष्पम् ।
(१९,४४.५ ) वातः प्राणः सूर्यश्चक्षुर्दिवस्पयः ॥५॥
(१९,४४.६ ) देवाञ्जन त्रैककुद परि मा पाहि विश्वतः ।
(१९,४४.६ ) न त्वा तरन्त्योषधयो बाह्याः पर्वतीया उत ॥६॥
(१९,४४.७ ) वीदं मध्यमवासृपद्रक्षोहामीवचातनः ।
(१९,४४.७ ) अमीवाः सर्वाश्चातयन् नाशयदभिभा इतः ॥७॥
(१९,४४.८ ) बह्विदं राजन् वरुणानृतमाह पूरुषः ।
(१९,४४.८ ) तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥८॥
(१९,४४.९ ) यदापो अघ्न्या इति वरुणेति यदूचिम ।
(१९,४४.९ ) तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥९॥
(१९,४४.१० ) मित्रश्च त्वा वरुणश्चानुप्रेयतुराञ्जन ।
(१९,४४.१० ) तौ त्वानुगत्य दूरं भोगाय पुनरोहतुः ॥१०॥
(१९,४५.१ ) ऋणादृणमिव सं नय कृत्यां कृत्याकृतो गृहम् ।
(१९,४५.१ ) चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणाञ्जन ॥१॥
(१९,४५.२ ) यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे ।
(१९,४५.२ ) अनामगस्तं च दुर्हार्दः प्रियः प्रति मुञ्चताम् ॥२॥
(१९,४५.३ ) अपामूर्ज ओजसो वावृधानमग्नेर्जातमधि जातवेदसः ।
(१९,४५.३ ) चतुर्वीरं पर्वतीयं यदाञ्जनं दिशः प्रदिशः करदिच्छिवास्ते ॥३॥
(१९,४५.४ ) चतुर्वीरं बध्यत आञ्जनं ते सर्वा दिशो अभयास्ते भवन्तु ।
(१९,४५.४ ) ध्रुवस्तिष्ठासि सवितेव चार्य इमा विशो अभि हरन्तु ते बलिम् ॥४॥
(१९,४५.५ ) आक्ष्वैकं मणिमेकं क्र्णुष्व स्नाह्येकेना पिबैकमेषाम् ।
(१९,४५.५ ) चतुर्वीरं नैरृतेभ्यश्चतुर्भ्यो ग्राह्या बन्धेभ्यः परि पात्वस्मान् ॥५॥
(१९,४५.६ ) अग्निर्माग्निनावतु प्राणायापानायायुषे वर्चस ओजसे ।
(१९,४५.६ ) तेजसे स्वस्तये सुभूतये स्वाहा ॥६॥
(१९,४५.७ ) इन्द्रो मेन्द्रियेणावतु प्राणायापानायायुषे वर्चस ओजसे ।
(१९,४५.७ ) तेजसे स्वस्तये सुभूतये स्वाहा ॥७॥
(१९,४५.८ ) सोमो मा सौम्येनावतु प्राणायापानायायुषे वर्चस ओजसे ।
(१९,४५.८ ) तेजसे स्वस्तये सुभूतये स्वाहा ॥८॥
(१९,४५.९ ) भगो म भगेनावतु प्राणायापानायायुषे वर्चस ओजसे ।
(१९,४५.९ ) तेजसे स्वस्तये सुभूतये स्वाहा ॥९॥
(१९,४५.१० ) मरुतो मा गणैरवन्तु प्राणायापानायुषे वर्चस ओजसे तेजसे ।
(१९,४५.१० ) स्वस्तये सुभूतये स्वाहा ॥१०॥
(१९,४६.१ ) प्रजापतिष्ट्वा बध्नात्प्रथममस्तृतं वीर्याय कम् ।
(१९,४६.१ ) तत्ते बध्नाम्यायुषे वर्चस ओजसे च बलाय चास्तृतस्त्वाभि रक्षतु ॥१॥
(१९,४६.२ ) ऊर्ध्वस्तिष्ठतु रक्षन्न् अप्रमादमस्तृतेमं मा त्वा दभन् पणयो यातुधानाः ।
(१९,४६.२ ) इन्द्र इव दस्यून् अव धूनुष्व पृतन्यतः सर्वां छत्रून् वि षहस्वास्तृतस्त्वाभि रक्षतु ॥२॥
(१९,४६.३ ) शतं च न प्रहरन्तो निघ्नन्तो न तस्तिरे ।
(१९,४६.३ ) तस्मिन्न् इन्द्रः पर्यदत्त चक्षुः प्राणमथो बलमस्तृतस्त्वाभि रक्षतु ॥३॥
(१९,४६.४ ) इन्द्रस्य त्वा वर्मणा परि धापयामो यो देवानामधिराजो बभूव ।
(१९,४६.४ ) पुनस्त्वा देवाः प्र णयन्तु सर्वेऽस्तृतस्त्वाभि रक्षतु ॥४॥
(१९,४६.५ ) अस्मिन् मणावेकशतं वीर्याणि सहस्रं प्राणा अस्मिन्न् अस्तृते ।
(१९,४६.५ ) व्याघ्रः शत्रून् अभि तिष्ठ सर्वान् यस्त्वा पृतन्यादधरः सो अस्त्वस्तृतस्त्वाभि रक्षतु ॥५॥
(१९,४६.६ ) घृतादुल्लुप्तो मधुमान् पयस्वान्त्सहस्रप्राणः शतयोनिर्वयोधाः ।
(१९,४६.६ ) शम्भूश्च मयोभूश्चोर्जस्वांश्च पयस्वांश्चास्तृतस्त्वाभि रक्षतु ॥६॥
(१९,४६.७ ) यथा त्वमुत्तरोऽसो असपत्नः सपत्नहा ।
(१९,४६.७ ) सजातानामसद्वशी तथा त्वा सविता करदस्तृतस्त्वाभि रक्षतु ॥७॥
(१९,४७.१ ) आ रात्रि पार्थिवं रजः पितुरप्रायि धामभिः ।
(१९,४७.१ ) दिवः सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥१॥
(१९,४७.२ ) न यस्याः पारं ददृशे न योयुवद्विश्वमस्यां नि विशते यदेजति ।
(१९,४७.२ ) अरिष्टासस्त उर्वि तमस्वति रात्रि पारमशीमहि भद्रे पारमशीमहि ॥२॥
(१९,४७.३ ) ये ते रात्रि नृचक्षसो द्रष्टारो नवतिर्नव ।
(१९,४७.३ ) अशीतिः सन्त्यष्टा उतो ते सप्त सप्ततिः ॥३॥
(१९,४७.४ ) षष्टिश्च षट्च रेवति पञ्चाशत्पञ्च सुम्नयि ।
(१९,४७.४ ) चत्वारश्चत्वारिंशच्च त्रयस्त्रिंशच्च वाजिनि ॥४॥
(१९,४७.५ ) द्वौ च ते विंशतिश्च ते रात्र्येकादशावमाः ।
(१९,४७.५ ) तेभिर्नो अद्य पायुभिर्नु पाहि दुहितर्दिवः ॥५॥
(१९,४७.६ ) रक्षा माकिर्नो अघशंस ईशत मा नो दुःशंस ईशत ।
(१९,४७.६ ) मा नो अद्य गवां स्तेनो मावीनां वृक ईशत ॥६॥
(१९,४७.७ ) माश्वानां भद्रे तस्करो मा नृणां यातुधान्यः ।
(१९,४७.७ ) परमेभिः पथिभि स्तेनो धावतु तस्करः ।
(१९,४७.७ ) परेण दत्वती रज्जुः परेणाघायुरर्षतु ॥७॥
(१९,४७.८ ) अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु ।
(१९,४७.८ ) हनू वृकस्य जम्भया स्तेनं द्रुपदे जहि ॥८॥
(१९,४७.९ ) त्वयि रात्रि वसामसि स्वपिष्यामसि जागृहि ।
(१९,४७.९ ) गोभ्यो नः शर्म यछाश्वेभ्यः पुरुषेभ्यः ॥९॥
(१९,४८.१ ) अथो यानि च यस्मा ह यानि चान्तः परीणहि ।
(१९,४८.१ ) तानि ते परि दद्मसि ॥१॥
(१९,४८.२ ) रात्रि मातरुषसे नः परि देहि ।
(१९,४८.२ ) उषा नो अह्ने परि ददात्वहस्तुभ्यं विभावरि ॥२॥
(१९,४८.३ ) यत्किं चेदं पतयति यत्किं चेदं सरीसृपम् ।
(१९,४८.३ ) यत्किं च पर्वतायासत्वं तस्मात्त्वं रात्रि पाहि नः ॥३॥
(१९,४८.४ ) सा पश्चात्पाहि सा पुरः सोत्तरादधरादुत ।
(१९,४८.४ ) गोपाय नो विभावरि स्तोतारस्त इह स्मसि ॥४॥
(१९,४८.५ ) ये रात्रिमनुतिष्ठन्ति ये च भूतेषु जाग्रति ।
(१९,४८.५ ) पशून् ये सर्वान् रक्षन्ति ते न आत्मसु जाग्रति ते नः पशुषु जाग्रति ॥५॥
(१९,४८.६ ) वेद वै रात्रि ते नाम घृताची नाम वा असि ।
(१९,४८.६ ) तां त्वां भरद्वाजो वेद सा नो वित्तेऽधि जाग्रति ॥६॥
(१९,४९.१ ) इषिरा योषा युवतिर्दमूना रात्री देवस्य सवितुर्भगस्य ।
(१९,४९.१ ) अश्वक्षभा सुहवा संभृतश्रीरा पप्रौ द्यावापृथिवी महित्वा ॥१॥
(१९,४९.२ ) अति विश्वान्यरुहद्गम्भिरो वर्षिष्ठमरुहन्त श्रविष्ठाः ।
(१९,४९.२ ) उशती रात्र्यनु सा भद्राभि तिष्ठते मित्र इव स्वधाभिः ॥२॥
(१९,४९.३ ) वर्ये वन्दे सुभगे सुजात आजगन् रात्रि सुमना इह स्याम् ।
(१९,४९.३ ) अस्मांस्त्रायस्व नर्याणि जाता अथो यानि गव्यानि पुष्ट्या ॥३॥
(१९,४९.४ ) सिंहस्य रात्र्युशती पींषस्य व्याघ्रस्य द्वीपिनो वर्च आ ददे ।
(१९,४९.४ ) अश्वस्य ब्रध्नं पुरुषस्य मायुं पुरु रूपाणि कृणुषे विभाती ॥४॥
(१९,४९.५ ) शिवां रात्रिमनुसूर्यं च हिमस्य माता सुहवा नो अस्तु ।
(१९,४९.५ ) अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु ॥५॥
(१९,४९.६ ) स्तोमस्य नो विभावरि रात्रि राजेव जोषसे ।
(१९,४९.६ ) असाम सर्ववीरा भवाम सर्ववेदसो व्युछन्तीरनूषसः ॥६॥
(१९,४९.७ ) शम्या ह नाम दधिषे मम दिप्सन्ति ये धना ।
(१९,४९.७ ) रात्रीहि तान् असुतपा य स्तेनो न विद्यते यत्पुनर्न विद्यते ॥७॥
(१९,४९.८ ) भद्रासि रात्रि चमसो न विष्टो विष्वङ्गोरूपं युवतिर्बिभर्षि ।
(१९,४९.८ ) चक्षुष्मती मे उशती वपूम्षि प्रति त्वं दिव्या न क्षाममुक्थाः ॥८॥
(१९,४९.९ ) यो अद्य स्तेन आयत्यघायुर्मर्त्यो रिपुः ।
(१९,४९.९ ) रात्री तस्य प्रतीत्य प्र ग्रीवाः प्र शिरो हनत्॥९॥
(१९,४९.१० ) प्र पादौ न यथायति प्र हस्तौ न यथाशिषत्।
(१९,४९.१० ) यो मलिम्लुरुपायति स संपिष्टो अपायति ।
(१९,४९.१० ) अपायति स्वपायति शुष्के स्थाणावपायति ॥१०॥
(१९,५०.१ ) अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु ।
(१९,५०.१ ) अक्षौ वृकस्य निर्जह्यास्तेन तं द्रुपदे जहि ॥१॥
(१९,५०.२ ) ये ते रात्र्यनड्वाहस्तीक्ष्णशृङ्गाः स्वाशवः ।
(१९,५०.२ ) तेभिर्नो अद्य पारयाति दुर्गाणि विश्वहा ॥२॥
(१९,५०.३ ) रात्रिंरात्रिमरिष्यन्तस्तरेम तन्वा वयम् ।
(१९,५०.३ ) गम्भीरमप्लवा इव न तरेयुररातयः ॥३॥
(१९,५०.४ ) यथा शाम्याकः प्रपतन्न् अपवान् नानुविद्यते ।
(१९,५०.४ ) एवा रात्रि प्र पातय यो अस्मामभ्यघायति ॥४॥
(१९,५०.५ ) अप स्तेनं वासयो गोअजमुत तस्करम् ।
(१९,५०.५ ) अथो यो अर्वतः शिरोऽभिधाय निनीषति ॥५॥
(१९,५०.६ ) यदद्य रात्रि सुभगे विभजन्त्ययो वसु ।
(१९,५०.६ ) यदेतदस्मान् भोजय यथेदन्यान् उपायसि ॥६॥
(१९,५०.७ ) उषसे नः परि देहि सर्वान् रात्र्यनागसः ।
(१९,५०.७ ) उषा नो अह्ने आ भजादहस्तुभ्यं विभावरि ॥७॥
(१९,५१.१ ) अयुतोऽहमयुतो म आत्मायुतं मे चक्षुरयुतं मे श्रोत्रम् ।
(१९,५१.१ ) अयुतो मे प्राणोऽयुतो मेऽपानोऽयुतो मे व्यानोऽयुतोऽहं सर्वः ॥१॥
(१९,५१.२ ) देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूत आ रभे ॥२॥
(१९,५२.१ ) कामस्तदग्रे समवर्तत मनसो रेतः प्रथमं यदासीत्।
(१९,५२.१ ) स काम कामेन बृहता सयोनी रायस्पोषं यजमानाय धेहि ॥१॥
(१९,५२.२ ) त्वं काम सहसासि प्रतिष्ठितो विभुर्विभावा सख आ सखीयते ।
(१९,५२.२ ) त्वमुग्रः पृतनासु ससहिः सह ओजो यजमानाय धेहि ॥२॥
(१९,५२.३ ) दूराच्चकमानाय प्रतिपाणायाक्षये ।
(१९,५२.३ ) आस्मा अशृण्वन्न् आशाः कामेनाजनयन्त्स्वः ॥३॥
(१९,५२.४ ) कामेन मा काम आगन् हृदयाद्धृदयं परि ।
(१९,५२.४ ) यदमीषामदो मनस्तदैतूप मामिह ॥४॥
(१९,५२.५ ) यत्काम कामयमाना इदं कृण्मसि ते हविः ।
(१९,५२.५ ) तन् नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा ॥५॥
(१९,५३.१ ) कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः ।
(१९,५३.१ ) तमा रोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ॥१॥
(१९,५३.२ ) सप्त चक्रान् वहति काल एष सप्तास्य नाभीरमृतं न्वक्षः ।
(१९,५३.२ ) स इमा विश्वा भुवनान्यञ्जत्कालः स ईयते प्रथमो नु देवः ॥२॥
(१९,५३.३ ) पूर्णः कुम्भोऽधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तम् ।
(१९,५३.३ ) स इमा विश्वा भुवनानि प्रत्यङ्कालं तमाहुः परमे व्योमन् ॥३॥
(१९,५३.४ ) स एव सं भुवनान्याभरत्स एव सं भुवनानि पर्यैत्।
(१९,५३.४ ) पिता सन्न् अभवत्पुत्र एषां तस्माद्वै नान्यत्परमस्ति तेजः ॥४॥
(१९,५३.५ ) कालोऽमूं दिवमजनयत्काल इमाः पृथिवीरुत ।
(१९,५३.५ ) काले ह भूतं भव्यं चेषितं ह वि तिष्ठते ॥५॥
(१९,५३.६ ) कालो भूतिमसृजत काले तपति सूर्यः ।
(१९,५३.६ ) काले ह विश्वा भूतानि काले चक्षुर्वि पश्यति ॥६॥
(१९,५३.७ ) काले मनः काले प्राणः काले नाम समाहितम् ।
(१९,५३.७ ) कालेन सर्वा नन्दन्त्यागतेन प्रजा इमाः ॥७॥
(१९,५३.८ ) काले तपः काले ज्येष्ठं काले ब्रह्म समाहितम् ।
(१९,५३.८ ) कालो ह सर्वस्येश्वरो यः पितासीत्प्रजापतेः ॥८॥
(१९,५३.९ ) तेनेषितं तेन जातं तदु तस्मिन् प्रतिष्ठितम् ।
(१९,५३.९ ) कालो ह ब्रह्म भूत्वा बिभर्ति परमेष्ठिनम् ॥९॥
(१९,५३.१० ) कालः प्रजा असृजत कालो अग्रे प्रजापतिम् ।
(१९,५३.१० ) स्वयंभूः कश्यपः कालात्तपः कालादजायत ॥१०॥
(१९,५४.१ ) कालादापः समभवन् कालाद्ब्रह्म तपो दिशः ।
(१९,५४.१ ) कालेनोदेति सूर्यः काले नि विशते पुनः ॥१॥
(१९,५४.२ ) कालेन वातः पवते कालेन पृथिवी मही ।
(१९,५४.२ ) द्यौर्मही काल आहिता ॥२॥
(१९,५४.३ ) कालो ह भूतं भव्यं च पुत्रो अजनयत्पुरा ।
(१९,५४.३ ) कालादृचः समभवन् यजुः कालादजायत ॥३॥
(१९,५४.४ ) कालो यज्ञं समैरयद्देवेभ्यो भागमक्षितम् ।
(१९,५४.४ ) काले गन्धर्वाप्सरसः काले लोकाः प्रतिष्ठिताः ॥४॥
(१९,५४.५ ) कालेऽयमङ्गिरा देवोऽथर्वा चाधि तिष्ठतः ।
(१९,५४.५ ) इमं च लोकं परमं च लोकं पुण्यांश्च लोकान् विधृतीश्च पुण्याः ।
(१९,५४.५ ) सर्वांल्लोकान् अभिजित्य ब्रह्मणा कालः स ईयते परमो नु देवः ॥५॥
(१९,५५.१ ) रात्रिंरात्रिमप्रयातं भरन्तोऽश्वायेव तिष्ठते घासमस्मै ।
(१९,५५.१ ) रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥१॥
(१९,५५.२ ) या ते वसोर्वात इषुः सा त एषा तया नो मृड ।
(१९,५५.२ ) रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥२॥
(१९,५५.३ ) सायंसायं गृहपतिर्नो अग्निः प्रातःप्रातः सौमनसस्य दाता ।
(१९,५५.३ ) वसोर्वसोर्वसुदान एधि वयं त्वेन्धानास्तन्वं पुषेम ॥३॥
(१९,५५.४ ) प्रातःप्रातर्गृहपतिर्नो अग्निः सायंसायं सौमनसस्य दाता ।
(१९,५५.४ ) वसोर्वसोर्वसुदान एधीन्धानास्त्वा शतंहिमा ऋधेम ॥४॥
(१९,५५.५ ) अपश्चा दग्धान्नस्य भूयासम् ।
(१९,५५.५ ) अन्नादायान्नपतये रुद्राय नमो अग्नये ।
(१९,५५.५ ) सभ्यः सभां मे पाहि ये च सभ्याः सभासदः ॥५॥
(१९,५५.६ ) त्वामिन्द्रा पुरुहूत विश्वमायुर्व्यश्नवन् ।
(१९,५५.६ ) अहरहर्बलिमित्ते हरन्तोऽश्वायेव तिष्ठते घासमग्ने ॥६॥
(१९,५६.१ ) यमस्य लोकादध्या बभूविथ प्रमदा मर्त्यान् प्र युनक्षि धीरः ।
(१९,५६.१ ) एकाकिना सरथं यासि विद्वान्त्स्वप्नं मिमानो असुरस्य योनौ ॥१॥
(१९,५६.२ ) बन्धस्त्वाग्रे विश्वचया अपश्यत्पुरा रात्र्या जनितोरेके अह्नि ।
(१९,५६.२ ) ततः स्वप्नेदमध्या बभूविथ भिषग्भ्यो रूपमपगूहमानः ॥२॥
(१९,५६.३ ) बृहद्गावासुरेभ्योऽधि देवान् उपावर्तत महिमानमिछन् ।
(१९,५६.३ ) तस्मै स्वप्नाय दधुराधिपत्यं त्रयस्त्रिंशासः स्वरानशानाः ॥३॥
(१९,५६.४ ) नैतां विदुः पितरो नोत देवा येषां जल्पिश्चरत्यन्तरेदम् ।
(१९,५६.४ ) त्रिते स्वप्नमदधुराप्त्ये नर आदित्यासो वरुणेनानुशिष्टाः ॥४॥
(१९,५६.५ ) यस्य क्रूरमभजन्त दुष्कृतोऽस्वप्नेन सुकृतः पुण्यमायुः ।
(१९,५६.५ ) स्वर्मदसि परमेण बन्धुना तप्यमानस्य मनसोऽधि जज्ञिषे ॥५॥
(१९,५६.६ ) विद्म ते सर्वाः परिजाः पुरस्ताद्विद्म स्वप्न यो अधिपा इहा ते ।
(१९,५६.६ ) यशश्विनो नो यशसेह पाह्याराद्द्विषेभिरप याहि दूरम् ॥६॥
(१९,५७.१ ) यथा कलां यथा शफं यथा र्णं सन्नयन्ति ।
(१९,५७.१ ) एवा दुष्वप्न्यं सर्वमप्रिये सं नयामसि ॥१॥
(१९,५७.२ ) सं राजानो अगुः समृणाम्यगुः सं कुष्ठा अगुः सं कला अगुः ।
(१९,५७.२ ) समस्मासु यद्दुष्वप्न्यं निर्द्विषते दुष्वप्न्यं सुवाम ॥२॥
(१९,५७.३ ) देवानां पत्नीनां गर्भ यमस्य कर यो भद्रः स्वप्न ।
(१९,५७.३ ) स मम यः पापस्तद्द्विषते प्र हिण्मः ।
(१९,५७.३ ) मा तृष्टानामसि कृष्णशकुनेर्मुखम् ॥३॥
(१९,५७.४ ) तं त्वा स्वप्न तथा सं विद्म स त्वं स्वप्नाश्व इव कायमश्व इव नीनाहम् ।
(१९,५७.४ ) अनास्माकं देवपीयुं पियारुं वप यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे ॥४॥
(१९,५७.५ ) अनास्माकस्तद्देवपीयुः पियारुर्निष्कमिव प्रति मुञ्चताम् ।
(१९,५७.५ ) नवारत्नीन् अपमया अस्माकं ततः परि ।
(१९,५७.५ ) दुष्वप्न्यं सर्वं द्विषते निर्दयामसि ॥५॥
(१९,५८.१ ) घृतस्य जूतिः समना सदेवा संवत्सरं हविषा वर्धयन्ती ।
(१९,५८.१ ) श्रोत्रं चक्षुः प्राणोऽछिन्नो नो अस्त्वछिन्ना वयमायुषो वर्चसः ॥१॥
(१९,५८.२ ) उपास्मान् प्राणो ह्वयतामुप प्राणं हवामहे ।
(१९,५८.२ ) वर्चो जग्राह पृथिव्यन्तरिक्षं वर्चः सोमो बृहस्पतिर्विधत्ता ॥२॥
(१९,५८.३ ) वर्चसो द्यावापृथिवी संग्रहणी बभूवथुर्वर्चो गृहीत्वा पृथिवीमनु सं चरेम ।
(१९,५८.३ ) यशसं गावो गोपतिमुप तिष्ठन्त्यायतीर्यशो गृहीत्वा पृथिवीमनु सं चरेम ॥३॥
(१९,५८.४ ) व्रजं कृणुध्वं स हि वो नृपाणो वर्मा सीव्यध्वं बहुला पृथूनि ।
(१९,५८.४ ) पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहत तम् ॥४॥
(१९,५८.५ ) यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि ।
(१९,५८.५ ) इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥५॥
(१९,५८.६ ) ये देवानामृत्विजो ये च यज्ञिया येभ्यो हव्यं क्रियते भागधेयम् ।
(१९,५८.६ ) इमं यज्ञं सह पत्नीभिरेत्य यावन्तो देवास्तविषा मादयन्ताम् ॥६॥
(१९,५९.१ ) त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा ।
(१९,५९.१ ) त्वं यज्ञेष्वीड्यः ॥१॥
(१९,५९.२ ) यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।
(१९,५९.२ ) अग्निष्टद्विश्वादा पृणातु विद्वान्त्सोमस्य यो ब्राह्मणामाविवेश ॥२॥
(१९,५९.३ ) आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोढुम् ।
(१९,५९.३ ) अग्निर्विद्वान्त्स यजात्स इद्धोता सोऽध्वरान्त्स ऋतून् कल्पयाति ॥३॥
(१९,६०.१ ) वाङ्म आसन् नसोः प्राणश्चक्षुरक्ष्णोः श्रोत्रं कर्णयोः ।
(१९,६०.१ ) अपलिताः केशा अशोणा दन्ता बहु बाह्वोर्बलम् ॥१॥
(१९,६०.२ ) ऊर्वोरोजो जङ्घयोर्जवः पादयोः ।
(१९,६०.२ ) प्रतिष्ठा अरिष्टानि मे सर्वात्मानिभृष्टः ॥२॥
(१९,६१.१ ) तनूस्तन्वा मे सहे दतः सर्वमायुरशीय ।
(१९,६१.१ ) स्योनं मे सीद पुरुः पृणस्व पवमानः स्वर्गे ॥१॥
(१९,६२.१ ) प्रियं मा कृणु देवेषु प्रियं राजसु मा कृणु ।
(१९,६२.१ ) प्रियं सर्वस्य पश्यत उत शूद्र उतार्ये ॥१॥
(१९,६३.१ ) उत्तिष्ठ ब्रह्मणस्पते देवान् यज्ञेन बोधय ।
(१९,६३.१ ) आयुः प्राणं प्रजां पशून् कीर्तिं यजमानं च वर्धय ॥१॥
(१९,६४.१ ) अग्ने समिधमाहार्षं बृहते जातवेदसे ।
(१९,६४.१ ) स मे श्रद्धां च मेधां च जातवेदाः प्र यछतु ॥१॥
(१९,६४.२ ) इध्मेन त्वा जातवेदः समिधा वर्धयामसि ।
(१९,६४.२ ) तथा त्वमस्मान् वर्धय प्रजया च धनेन च ॥२॥
(१९,६४.३ ) यदग्ने यानि कानि चिदा ते दारूणि दध्मसि ।
(१९,६४.३ ) सर्वं तदस्तु मे शिवं तज्जुषस्व यविष्ठ्य ॥३॥
(१९,६४.४ ) एतास्ते अग्ने समिधस्त्वमिद्धः समिद्भव ।
(१९,६४.४ ) आयुरस्मासु धेह्यमृतत्वमाचार्याय ॥४॥
(१९,६५.१ ) हरिः सुपर्णो दिवमारुहोऽर्चिषा ये त्वा दिप्सन्ति दिवमुत्पतन्तम् ।
(१९,६५.१ ) अव तां जहि हरसा जातवेदोऽबिभ्यदुग्रोऽर्चिषा दिवमा रोह सूर्य ॥१॥
(१९,६६.१ ) अयोजाला असुरा मायिनोऽयस्मयैः पाशैरङ्किनो ये चरन्ति ।
(१९,६६.१ ) तांस्ते रन्धयामि हरसा जातवेदः सहस्रऋष्टिः सपत्नान् प्रमृणन् पाहि वज्रः ॥१॥
(१९,६७.१ ) पश्येम शरदः शतम् ॥१॥
(१९,६७.२ ) जीवेम शरदः शतम् ॥२॥
(१९,६७.३ ) बुध्येम शरदः शतम् ॥३॥
(१९,६७.४ ) रोहेम शरदः शतम् ॥४॥
(१९,६७.५ ) पूषेम शरदः शतम् ॥५॥
(१९,६७.६ ) भवेम शरदः शतम् ॥६॥
(१९,६७.७ ) भूषेम शरदः शतम् ॥७॥
(१९,६७.८ ) भूयसीः शरदः शतम् ॥८॥
(१९,६८.१ ) अव्यसश्च व्यचसश्च बिलं वि ष्यामि मायया ।
(१९,६८.१ ) ताभ्यामुद्धृत्य वेदमथ कर्माणि कृण्महे ॥१॥
(१९,६९.१ ) जीवा स्थ जीव्यासं सर्वमायुर्जीव्यासम् ॥१॥
(१९,६९.२ ) उपजीवा स्थोप जीव्यासं सर्वमायुर्जीव्यासम् ॥२॥
(१९,६९.३ ) संजीवा स्थ सं जीव्यासं सर्वमायुर्जीव्यासम् ॥३॥
(१९,६९.४ ) जीवला स्थ जीव्यासं सर्वमायुर्जीव्यासम् ॥४॥
(१९,७०.१ ) इन्द्र जीव सूर्य जीव देवा जीवा जीव्यासमहम् ।
(१९,७०.१ ) सर्वमायुर्जीव्यासम् ॥१॥
(१९,७१.१ ) स्तुता मया वरदा वेदमाता प्र चोदयन्तां पावमानी द्विजानाम् ।
(१९,७१.१ ) आयुः प्राणं प्रजां पशुं कीर्तिं द्रविणं ब्रह्मवर्चसम् ।
(१९,७१.१ ) मह्यं दत्त्वा व्रजत ब्रह्मलोकम् ॥१॥
(१९,७२.१ ) यस्मात्कोशादुदभराम वेदं तस्मिन्न् अन्तरव दध्म एनम् ।
(१९,७२.१ ) कृतमिष्टं ब्रह्मणो वीर्येण तेन मा देवास्तपसावतेह ॥१॥
(२०,१.१ ) इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे ।
(२०,१.१ ) स पाहि मध्वो अन्धसः ॥१॥
(२०,१.२ ) मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
(२०,१.२ ) स सुगोपातमो जनः ॥२॥
(२०,१.३ ) उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
(२०,१.३ ) स्तोमैर्विधेमाग्नये ॥३॥
(२०,२.१ ) मरुतः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबन्तु ॥१॥
(२०,२.२ ) अग्निराग्नीध्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥२॥
(२०,२.३ ) इन्द्रो ब्रह्मा ब्राह्मणात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥३॥
(२०,२.४ ) देवो द्रविणोदाः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥४॥
(२०,३.१ ) आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।
(२०,३.१ ) एदं बर्हिः सदो मम ॥१॥
(२०,३.२ ) आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।
(२०,३.२ ) उप ब्रह्माणि नः शृणु ॥२॥
(२०,३.३ ) ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।
(२०,३.३ ) सुतावन्तो हवामहे ॥३॥
(२०,४.१ ) आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप ।
(२०,४.१ ) पिबा सु शिप्रिन्न् अन्धसः ॥१॥
(२०,४.२ ) आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु ।
(२०,४.२ ) गृभाय जिह्वया मधु ॥२॥
(२०,४.३ ) स्वादुष्टे अस्तु संसुदे मधुमान् तन्वे तव ।
(२०,४.३ ) सोमः शमस्तु ते हृदे ॥३॥
(२०,५.१ ) अयमु त्वा विचर्षणे जनीरिवाभि संवृतः ।
(२०,५.१ ) प्र सोम इन्द्र सर्पतु ॥१॥
(२०,५.२ ) तुविग्रीवो वपोदरः सुबाहुरन्धसो सदे ।
(२०,५.२ ) इन्द्रो वृत्राणि जिघ्नते ॥२॥
(२०,५.३ ) इन्द्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा ।
(२०,५.३ ) वृत्राणि वृत्रहं जहि ॥३॥
(२०,५.४ ) दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयछसि ।
(२०,५.४ ) यजमानाय सुन्वते ॥४॥
(२०,५.५ ) अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।
(२०,५.५ ) एहीमस्य द्रवा पिब ॥५॥
(२०,५.६ ) शाचिगो शाचिपूजनायं रणाय ते सुतः ।
(२०,५.६ ) आखण्डल प्र हूयसे ॥६॥
(२०,५.७ ) यस्ते शृङ्गवृषो नपात्प्रणपात्कुण्डपाय्यः ।
(२०,५.७ ) न्यस्मिन् दध्र आ मनः ॥७॥
(२०,६.१ ) इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे ।
(२०,६.१ ) स पाहि मध्वो अन्धसः ॥१॥
(२०,६.२ ) इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।
(२०,६.२ ) पिबा वृषस्व तातृपिम् ॥२॥
(२०,६.३ ) इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर्देवेभिर्।
(२०,६.३ ) तिर स्तवान विश्पते ॥३॥
(२०,६.४ ) इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते ।
(२०,६.४ ) क्षयं चन्द्रास इन्दवः ॥४॥
(२०,६.५ ) दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम् ।
(२०,६.५ ) तव द्युक्षास इन्दवः ॥५॥
(२०,६.६ ) गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे ।
(२०,६.६ ) इन्द्र त्वादातमिद्यशः ॥६॥
(२०,६.७ ) अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता ।
(२०,६.७ ) पीत्वी सोमस्य वावृधे ॥७॥
(२०,६.८ ) अर्वावतो न आ गहि परावतश्च वृत्रहन् ।
(२०,६.८ ) इमा जुषस्व नो गिरः ॥८॥
(२०,६.९ ) यदन्तरा परावतमर्वावतं च हूयसे ।
(२०,६.९ ) इन्द्रेह तत आ गहि ॥९॥
(२०,७.१ ) उद्घेदभि श्रुतामघं वृषभं नर्यापसम् ।
(२०,७.१ ) अस्तारमेषि सूर्य ॥१॥
(२०,७.२ ) नव यो नवतिं पुरो बिभेद बाह्वोजसा ।
(२०,७.२ ) अहिं च वृत्रहावधीत्॥२॥
(२०,७.३ ) स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत्।
(२०,७.३ ) उरुधारेव दोहते ॥३॥
(२०,७.४ ) इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।
(२०,७.४ ) पिबा वृषस्व तातृपिम् ॥४॥
(२०,८.१ ) एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः ।
(२०,८.१ ) आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूंरभि गा इन्द्र तृन्धि ॥१॥
(२०,८.२ ) अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय ।
(२०,८.२ ) उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥२॥
(२०,८.३ ) आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिषिचे पिबध्यै ।
(२०,८.३ ) समु प्रिया आववृत्रन् मदाय प्रदक्षिणिदभि सोमास इन्द्रम् ॥३॥
(२०,९.१ ) तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।
(२०,९.१ ) अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥१॥
(२०,९.२ ) द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् ।
(२०,९.२ ) क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥२॥
(२०,९.३ ) तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये ।
(२०,९.३ ) येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥३॥
(२०,९.४ ) येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः ।
(२०,९.४ ) सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥४॥
(२०,१०.१ ) उदु ते मधुमत्तमा गिर स्तोमास ईरते ।
(२०,१०.१ ) सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१॥
(२०,१०.२ ) कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः ।
(२०,१०.२ ) इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥२॥
(२०,११.१ ) इन्द्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून् ।
(२०,११.१ ) ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे ॥१॥
(२०,११.२ ) मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन् ।
(२०,११.२ ) इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा ॥२॥
(२०,११.३ ) इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः ।
(२०,११.३ ) अहन् व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम् ॥३॥
(२०,११.४ ) इन्द्रः स्वर्षा जनयन्न् अहानि जिगायोशिग्भिः पृतना अभिष्टिः ।
(२०,११.४ ) प्रारोचयन् मनवे केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय ॥४॥
(२०,११.५ ) इन्द्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि ।
(२०,११.५ ) अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम् ॥५॥
(२०,११.६ ) महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि ।
(२०,११.६ ) वृजनेन वृजिनान्त्सं पिपेष मायाभिर्दस्यूंरभिभूत्योजाः ॥६॥
(२०,११.७ ) युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः ।
(२०,११.७ ) विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥७॥
(२०,११.८ ) सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः ।
(२०,११.८ ) ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥८॥
(२०,११.९ ) ससानात्यामुत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् ।
(२०,११.९ ) हिरण्ययमुत भोगं ससान हत्वी दस्यून् प्रार्यं वर्णमावत्॥९॥
(२०,११.१० ) इन्द्र ओषधीरसनोदहानि वनस्पतींरसनोदन्तरिक्षम् ।
(२०,११.१० ) बिभेद बलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम् ॥१०॥
(२०,११.११ ) शुनं हुवेम मघवानमिन्द्रमस्मिन् भरे नृतमं वाजसातौ ।
(२०,११.११ ) शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥११॥
(२०,१२.१ ) उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ ।
(२०,१२.१ ) आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥१॥
(२०,१२.२ ) अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि ।
(२०,१२.२ ) नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥२॥
(२०,१२.३ ) युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः ।
(२०,१२.३ ) वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान् ॥३॥
(२०,१२.४ ) आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस्त इन्द्र ।
(२०,१२.४ ) याहि वायुर्न नियुतो नो अछा त्वं हि धीभिर्दयसे वि वाजान् ॥४॥
(२०,१२.५ ) ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे ।
(२०,१२.५ ) एको देवत्रा दयसे हि मर्तान् अस्मिन् छूर सवने मादयस्व ॥५॥
(२०,१२.६ ) एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः ।
(२०,१२.६ ) स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥६॥
(२०,१२.७ ) ऋजीषी वज्री वृषभस्तुराषाट्छुष्मी राजा वृत्रहा सोमपावा ।
(२०,१२.७ ) युक्त्वा हरिभ्यामुप यासदर्वाङ्माध्यंदिने सवने मत्सदिन्द्रः ॥७॥
(२०,१३.१ ) इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन् यज्ञे मन्दसाना वृषण्वसू ।
(२०,१३.१ ) आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यछतम् ॥१॥
(२०,१३.२ ) आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः ।
(२०,१३.२ ) सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः ॥२॥
(२०,१३.३ ) इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।
(२०,१३.३ ) भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥३॥
(२०,१३.४ ) ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः ।
(२०,१३.४ ) पत्नीवतस्त्रिंशतं त्रींश्च देवान् अनुष्वधमा वह मादयस्व ॥४॥
(२०,१४.१ ) वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।
(२०,१४.१ ) वाजे चित्रं हवामहे ॥१॥
(२०,१४.२ ) उप त्वा कर्मन्न् ऊतये स नो युवोग्रश्चक्राम यो धृषत्।
(२०,१४.२ ) त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥२॥
(२०,१४.३ ) यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे ।
(२०,१४.३ ) सखाय इन्द्रमूतये ॥३॥
(२०,१४.४ ) हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत ।
(२०,१४.४ ) आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥४॥
(२०,१५.१ ) प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे ।
(२०,१५.१ ) अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥१॥
(२०,१५.२ ) अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः ।
(२०,१५.२ ) यत्पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥२॥
(२०,१५.३ ) अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरा पनीयसे ।
(२०,१५.३ ) यस्य धाम श्रवसे नामेन्द्रियं ज्योतिरकारि हरितो नायसे ॥३॥
(२०,१५.४ ) इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो ।
(२०,१५.४ ) नहि त्वदन्यो गिर्वणो गिरः सधत्क्षोणीरिव प्रति नो हर्य तद्वचः ॥४॥
(२०,१५.५ ) भूरि त इन्द्र वीर्यं तव स्मस्यस्य स्तोतुर्मघवन् काममा पृण ।
(२०,१५.५ ) अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे ॥५॥
(२०,१५.६ ) त्वं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन् पर्वशश्चकर्तिथ ।
(२०,१५.६ ) अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ॥६॥
(२०,१६.१ ) उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः ।
(२०,१६.१ ) गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिमभ्यर्का अनावन् ॥१॥
(२०,१६.२ ) सं गोभिरङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय ।
(२०,१६.२ ) जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूंरिवाजौ ॥२॥
(२०,१६.३ ) साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः ।
(२०,१६.३ ) बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः ॥३॥
(२०,१६.४ ) आप्रुषायन् मधुना ऋतस्य योनिमवक्षिपन्न् अर्क उल्कामिव द्योः ।
(२०,१६.४ ) बृहस्पतिरुद्धरन्न् अश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद ॥४॥
(२०,१६.५ ) अप ज्योतिषा तमो अन्तरिक्षदुद्नः शीपालमिव वात आजत्।
(२०,१६.५ ) बृहस्पतिरनुमृश्या वलस्याभ्रमिव वात आ चक्र आ गाः ॥५॥
(२०,१६.६ ) यदा वलस्य पीयतो जसुं भेद्बृहस्पतिरग्नितपोभिरर्कैः ।
(२०,१६.६ ) दद्भिर्न जिह्वा परिविष्टमाददाविर्निधींरकृणोदुस्रियाणाम् ॥६॥
(२०,१६.७ ) बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत्।
(२०,१६.७ ) आण्डेव भित्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत्॥७॥
(२०,१६.८ ) अश्नापिनद्धं मधु पर्यपश्यन् मत्स्यं न दीन उदनि क्षियन्तम् ।
(२०,१६.८ ) निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य ॥८॥
(२०,१६.९ ) सोषामविन्दत्स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि ।
(२०,१६.९ ) बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार ॥९॥
(२०,१६.१० ) हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद्वलो गाः ।
(२०,१६.१० ) अनानुकृत्यमपुनश्चकार यात्सूर्यामासा मिथ उच्चरातः ॥१०॥
(२०,१६.११ ) अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन् ।
(२०,१६.११ ) रात्र्यां तमो अदधुर्ज्योतिरहन् बृहस्पतिर्भिनदद्रिं विदद्गाः ॥११॥
(२०,१६.१२ ) इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति ।
(२०,१६.१२ ) बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात्॥१२॥
(२०,१७.१ ) अछा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत ।
(२०,१७.१ ) परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥१॥
(२०,१७.२ ) न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय ।
(२०,१७.२ ) राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्त्सु सोमेऽवपानमस्तु ते ॥२॥
(२०,१७.३ ) विषूवृदिन्द्रो अमुतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते ।
(२०,१७.३ ) तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥३॥
(२०,१७.४ ) वयो न वृक्षं सुपलाशमासदन्त्सोमास इन्द्रं मन्दिनश्चमूषदः ।
(२०,१७.४ ) प्रैषामनीकं शवसा दविद्युतद्विदत्स्वर्मनवे ज्योतिरार्यम् ॥४॥
(२०,१७.५ ) कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन् मघवा सूर्यं जयत्।
(२०,१७.५ ) न तत्ते अन्यो अनु वीर्यं शकन् न पुराणो मघवन् नोत नूतनः ॥५॥
(२०,१७.६ ) विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा ।
(२०,१७.६ ) यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥६॥
(२०,१७.७ ) आपो न सिन्धुमभि यत्समक्षरन्त्सोमास इन्द्रं कुल्या इव ह्रदम् ।
(२०,१७.७ ) वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना ॥७॥
(२०,१७.८ ) वृषा न क्रुद्धः पतयद्रजःस्वा यो अर्यपत्नीरकृणोदिमा अपः ।
(२०,१७.८ ) स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते ॥८॥
(२०,१७.९ ) उज्जायतां परशु ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत्।
(२०,१७.९ ) वि रोचतामरुषो भानुना शुचिः स्वर्न शुक्रं शुशुचीत सत्पतिः ॥९॥
(२०,१७.१० ) गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
(२०,१७.१० ) वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥१०॥
(२०,१७.११ ) बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।
(२०,१७.११ ) इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यः वरिवः कृणोतु ॥११॥
(२०,१७.१२ ) बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
(२०,१७.१२ ) धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥१२॥
(२०,१८.१ ) वयमु त्वा तदितर्था इन्द्र त्वायन्तः सखायः ।
(२०,१८.१ ) कण्वा उक्थेभिर्जरन्ते ॥१॥
(२०,१८.२ ) न घेमन्यदा पपन वज्रिन्न् अपसो नविष्टौ ।
(२०,१८.२ ) तवेदु स्तोमं चिकेत ॥२॥
(२०,१८.३ ) इछन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।
(२०,१८.३ ) यन्ति प्रमादमतन्द्राः ॥३॥
(२०,१८.४ ) वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन् ।
(२०,१८.४ ) विद्धि त्वस्य नो वसो ॥४॥
(२०,१८.५ ) मा नो निदे च वक्तवेऽर्यो रन्धीरराव्ने ।
(२०,१८.५ ) त्वे अपि क्रतुर्मम ॥५॥
(२०,१८.६ ) त्वं वर्मासि सप्रथः पुरोयोधश्च वृत्रहन् ।
(२०,१८.६ ) त्वया प्रति ब्रुवे युजा ॥६॥
(२०,१९.१ ) वार्त्रहत्याय शवसे पृतनाषाह्याय च ।
(२०,१९.१ ) इन्द्र त्वा वर्तयामसि ॥१॥
(२०,१९.२ ) अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो ।
(२०,१९.२ ) इन्द्र कृण्वन्तु वाघतः ॥२॥
(२०,१९.३ ) नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे ।
(२०,१९.३ ) इन्द्राभिमातिषाह्ये ॥३॥
(२०,१९.४ ) पुरुष्टुतस्य धामभिः शतेन महयामसि ।
(२०,१९.४ ) इन्द्रस्य चर्षणीधृतः ॥४॥
(२०,१९.५ ) इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे ।
(२०,१९.५ ) भरेषु वाजसातये ॥५॥
(२०,१९.६ ) वाजेषु सासहिर्भव त्वामीमहे शतक्रतो ।
(२०,१९.६ ) इन्द्र वृत्राय हन्तवे ॥६॥
(२०,१९.७ ) द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवःसु च ।
(२०,१९.७ ) इन्द्र साक्ष्वाभिमातिषु ॥७॥
(२०,२०.१ ) शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् ।
(२०,२०.१ ) इन्द्र सोमं शतक्रतो ॥१॥
(२०,२०.२ ) इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।
(२०,२०.२ ) इन्द्र तानि त आ वृणे ॥२॥
(२०,२०.३ ) अगन्न् इन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् ।
(२०,२०.३ ) उत्ते शुष्मं तिरामसि ॥३॥
(२०,२०.४ ) अर्वावतो न आ गह्यथो शक्र परावतः ।
(२०,२०.४ ) उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥४॥
(२०,२०.५ ) इन्द्रो अङ्गं महद्भयमभि षदप चुच्यवत्।
(२०,२०.५ ) स हि स्थिरो विचर्षणिः ॥५॥
(२०,२०.६ ) इन्द्रश्च मृलयाति नो न नः पश्चादघं नशत्।
(२०,२०.६ ) भद्रं भवाति नः पुरः ॥६॥
(२०,२०.७ ) इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्।
(२०,२०.७ ) जेता शत्रून् विचर्षणिः ॥७॥
(२०,२१.१ ) न्यू षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः ।
(२०,२१.१ ) नू चिद्धि रत्नं ससतामिवाविदन् न दुष्टुतिर्द्रविणोदेषु शस्यते ॥१॥
(२०,२१.२ ) दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस्पतिः ।
(२०,२१.२ ) शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गृणीमसि ॥२॥
(२०,२१.३ ) शचीव इन्द्र पुरुकृद्द्युमत्तम तवेदिदमभितश्चेकिते वसु ।
(२०,२१.३ ) अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः ॥३॥
(२०,२१.४ ) एभिर्द्युभिर्सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना ।
(२०,२१.४ ) इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसः समिषा रभेमहि ॥४॥
(२०,२१.५ ) समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः ।
(२०,२१.५ ) सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥५॥
(२०,२१.६ ) ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते ।
(२०,२१.६ ) यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥६॥
(२०,२१.७ ) युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा ।
(२०,२१.७ ) नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥७॥
(२०,२१.८ ) त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी ।
(२०,२१.८ ) त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना ॥८॥
(२०,२१.९ ) त्वमेतां जनराज्ञो द्विर्दशाबन्धुना सुश्रवसोपजग्मुषः ।
(२०,२१.९ ) षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक्॥९॥
(२०,२१.१० ) त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम् ।
(२०,२१.१० ) त्व अस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः ॥१०॥
(२०,२१.११ ) य उदृचीन्द्र देवगोपाः सखायस्ते शिवतमा असाम ।
(२०,२१.११ ) त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥११॥
(२०,२२.१ ) अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।
(२०,२२.१ ) तृम्पा व्यश्नुही मदम् ॥१॥
(२०,२२.२ ) मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् ।
(२०,२२.२ ) माकीं ब्रह्मद्विषो वनः ॥२॥
(२०,२२.३ ) इह त्वा गोपरीणसा महे मन्दन्तु राधसे ।
(२०,२२.३ ) सरो गौरो यथा पिब ॥३॥
(२०,२२.४ ) अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।
(२०,२२.४ ) सूनुं सत्यस्य सत्पतिम् ॥४॥
(२०,२२.५ ) आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।
(२०,२२.५ ) यत्राभि संनवामहे ॥५॥
(२०,२२.६ ) इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
(२०,२२.६ ) यत्सीमुपह्वरे विदत्॥६॥
(२०,२३.१ ) आ तू न इन्द्र मद्र्यग्घुवानः सोमपीतये ।
(२०,२३.१ ) हरिभ्यां याह्यद्रिवः ॥१॥
(२०,२३.२ ) सत्तो होता न ऋत्वियस्तिस्तिरे बर्हिरानुषक्।
(२०,२३.२ ) अयुज्रन् प्रातरद्रयः ॥२॥
(२०,२३.३ ) इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद ।
(२०,२३.३ ) वीहि शूर पुरोलाशम् ॥३॥
(२०,२३.४ ) रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् ।
(२०,२३.४ ) उक्थेष्विन्द्र गिर्वणः ॥४॥
(२०,२३.५ ) मतयः सोमपामुरुं रिहन्ति शवसस्पतिम् ।
(२०,२३.५ ) इन्द्रं वत्सं न मातरः ॥५॥
(२०,२३.६ ) स मन्दस्वा ह्यन्धसो राधसे तन्वा महे ।
(२०,२३.६ ) न स्तोतारं निदे करः ॥६॥
(२०,२३.७ ) वयमिन्द्र त्वायवो हविष्मन्तो जरामहे ।
(२०,२३.७ ) उत त्वमस्मयुर्वसो ॥७॥
(२०,२३.८ ) मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ्याहि ।
(२०,२३.८ ) इन्द्र स्वधावो मत्स्वेह ॥८॥
(२०,२३.९ ) अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना ।
(२०,२३.९ ) घृतस्नू बर्हिरासदे ॥९॥
(२०,२४.१ ) उप नः सुतमा गहि सोममिन्द्र गवाशिरम् ।
(२०,२४.१ ) हरिभ्यां यस्ते अस्मयुः ॥१॥
(२०,२४.२ ) तमिन्द्र मदमा गहि बर्हिष्ठां ग्रावभिः सुतम् ।
(२०,२४.२ ) कुविन् न्वस्य तृप्णवः ॥२॥
(२०,२४.३ ) इन्द्रमित्था गिरो ममाछागुरिषिता इतः ।
(२०,२४.३ ) आवृते सोमपीतये ॥३॥
(२०,२४.४ ) इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे ।
(२०,२४.४ ) उक्थेभिः कुविदागमत्॥४॥
(२०,२४.५ ) इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो ।
(२०,२४.५ ) जथरे वाजिनीवसो ॥५॥
(२०,२४.६ ) विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे ।
(२०,२४.६ ) अधा ते सुम्नमीमहे ॥६॥
(२०,२४.७ ) इममिन्द्र गवाशिरं यवाशिरं च नः पिब ।
(२०,२४.७ ) आगत्या वृषभिः सुतम् ॥७॥
(२०,२४.८ ) तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये ।
(२०,२४.८ ) एष रारन्तु ते हृदि ॥८॥
(२०,२४.९ ) त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे ।
(२०,२४.९ ) कुशिकासो अवस्यवः ॥९॥
(२०,२५.१ ) अश्वावति प्रथमो गोषु गछति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः ।
(२०,२५.१ ) तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ॥१॥
(२०,२५.२ ) आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः ।
(२०,२५.२ ) प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥२॥
(२०,२५.३ ) अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः ।
(२०,२५.३ ) असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ॥३॥
(२०,२५.४ ) आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया ।
(२०,२५.४ ) सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥४॥
(२०,२५.५ ) यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपा वेन आजनि ।
(२०,२५.५ ) आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे ॥५॥
(२०,२५.६ ) बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि ।
(२०,२५.६ ) ग्रावा यत्र वदति करुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥६॥
(२०,२५.७ ) प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् ।
(२०,२५.७ ) इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥७॥
(२०,२६.१ ) योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
(२०,२६.१ ) सखाय इन्द्रमूतये ॥१॥
(२०,२६.२ ) आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः ।
(२०,२६.२ ) वाजेभिरुप नो हवम् ॥२॥
(२०,२६.३ ) अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् ।
(२०,२६.३ ) यं ते पूर्वं पिता हुवे ॥३॥
(२०,२६.४ ) युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
(२०,२६.४ ) रोचन्ते रोचना दिवि ॥४॥
(२०,२६.५ ) युञ्जन्ति अस्य काम्या हरी विपक्षसा रथे ।
(२०,२६.५ ) शोणा धृष्णू नृवाहसा ॥५॥
(२०,२६.६ ) केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।
(२०,२६.६ ) समुषद्भिरजायथाः ॥६॥
(२०,२७.१ ) यदिन्द्राहं यथा त्वमीशीय वस्व एक इत्।
(२०,२७.१ ) स्तोता मे गोषखा स्यात्॥१॥
(२०,२७.२ ) शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे ।
(२०,२७.२ ) यदहं गोपतिः स्याम् ॥२॥
(२०,२७.३ ) धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते ।
(२०,२७.३ ) गामश्वं पिप्युषी दुहे ॥३॥
(२०,२७.४ ) न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः ।
(२०,२७.४ ) यद्दित्ससि स्तुतो मघम् ॥४॥
(२०,२७.५ ) यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत्।
(२०,२७.५ ) चक्राण ओपशं दिवि ॥५॥
(२०,२७.६ ) वावृधानस्य ते वयं विश्वा धनानि जिग्युषः ।
(२०,२७.६ ) ऊतिमिन्द्रा वृणीमहे ॥६॥
(२०,२८.१ ) व्यन्तरिक्षमतिरन् मदे सोमस्य रोचना ।
(२०,२८.१ ) इन्द्रो यदभिनद्वलम् ॥१॥
(२०,२८.२ ) उद्गा आजदङ्गिरोभ्य आविष्क्र्ण्वन् गुहा सतीः ।
(२०,२८.२ ) अर्वाञ्चं नुनुदे वलम् ॥२॥
(२०,२८.३ ) इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च ।
(२०,२८.३ ) स्थिराणि न पराणुदे ॥३॥
(२०,२८.४ ) अपामूर्मिर्मदन्न् इव स्तोम इन्द्राजिरायते ।
(२०,२८.४ ) वि ते मदा अराजिषुः ॥४॥
(२०,२९.१ ) त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः ।
(२०,२९.१ ) स्तोतॄणामुत भद्रकृत्॥१॥
(२०,२९.२ ) इन्द्रमित्केशिना हरी सोमपेयाय वक्षतः ।
(२०,२९.२ ) उप यज्ञं सुराधसम् ॥२॥
(२०,२९.३ ) अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः ।
(२०,२९.३ ) विश्वा यदजय स्पृधः ॥३॥
(२०,२९.४ ) मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः ।
(२०,२९.४ ) अव दस्यूंरधूनुथाः ॥४॥
(२०,२९.५ ) असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः ।
(२०,२९.५ ) सोमपा उत्तरो भवन् ॥५॥
(२०,३०.१ ) प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् ।
(२०,३०.१ ) घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥१॥
(२०,३०.२ ) हरिं हि योनिमभि ये समस्वरन् हिन्वन्तो हरी दिव्यं यथा सदः ।
(२०,३०.२ ) आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूशं हरिवन्तमर्चत ॥२॥
(२०,३०.३ ) सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः ।
(२०,३०.३ ) द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥३॥
(२०,३०.४ ) दिवि न केतुरधि धायि हर्यतो विव्यचद्वज्रो हरितो न रंह्या ।
(२०,३०.४ ) तुददहिं हरिशिप्रो य आयसः सहस्रशोका अभवद्धरिम्भरः ॥४॥
(२०,३०.५ ) त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः ।
(२०,३०.५ ) त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम् ॥५॥
(२०,३१.१ ) ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी ।
(२०,३१.१ ) पुरूण्यस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥१॥
(२०,३१.२ ) अरं कामाय हरयो दधमिरे स्थिराय हिन्वन् हरयो हरी तुरा ।
(२०,३१.२ ) अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे ॥२॥
(२०,३१.३ ) हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत ।
(२०,३१.३ ) अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥३॥
(२०,३१.४ ) श्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः ।
(२०,३१.४ ) प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥४॥
(२०,३१.५ ) उत स्म सद्न हर्यतस्य पस्त्योरत्यो न वाजं हरिवामचिक्रदत्।
(२०,३१.५ ) मही चिद्धि धिषणाहर्यदोजसा बृहद्वयो दधिषे हर्यतस्चिदा ॥५॥
(२०,३२.१ ) आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम् ।
(२०,३२.१ ) प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय ॥१॥
(२०,३२.२ ) आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र ।
(२०,३२.२ ) पिबा यथा प्रतिभृतस्य मध्वो हर्यन् यज्ञं सधमादे दशोणिम् ॥२॥
(२०,३२.३ ) अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते ।
(२०,३२.३ ) ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषं जथर आ वृषस्व ॥३॥
(२०,३३.१ ) अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व ।
(२०,३३.१ ) मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्व मदमुक्थवाहः ॥१॥
(२०,३३.२ ) प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् ।
(२०,३३.२ ) इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥२॥
(२०,३३.३ ) ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः ।
(२०,३३.३ ) प्रजावदिन्द्र मंसो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः ॥३॥
(२०,३४.१ ) यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यमूषत्।
(२०,३४.१ ) यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥१॥
(२०,३४.२ ) यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान् प्रकुपितामरम्णात्।
(२०,३४.२ ) यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः ॥२॥
(२०,३४.३ ) यो हत्वाहिमरिणात्सप्त सिन्धून् यो गा उदाजदपधा वलस्य ।
(२०,३४.३ ) यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः ॥३॥
(२०,३४.४ ) येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः ।
(२०,३४.४ ) श्वघ्नीव यो जिगीवां लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ॥४॥
(२०,३४.५ ) यं स्मा पृछन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् ।
(२०,३४.५ ) सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥५॥
(२०,३४.६ ) यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः ।
(२०,३४.६ ) युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥६॥
(२०,३४.७ ) यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः ।
(२०,३४.७ ) यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥७॥
(२०,३४.८ ) यं क्रन्दसी संयती विह्वयेते परेऽवरे उभया अमित्राः ।
(२०,३४.८ ) समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥८॥
(२०,३४.९ ) यस्मान् न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते ।
(२०,३४.९ ) यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इन्द्रः ॥९॥
(२०,३४.१० ) यः शस्वतो मह्येनो दधानान् अमन्यमानां छर्वा जघान ।
(२०,३४.१० ) यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ॥१०॥
(२०,३४.११ ) यः शम्भरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत्।
(२०,३४.११ ) ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥११॥
(२०,३४.१२ ) यः शम्भरं पर्यतरत्कसीभिर्योऽचारुकास्नापिबत्सुतस्य ।
(२०,३४.१२ ) अन्तर्गिरौ यजमानं बहुं जनं यस्मिन्न् आमूर्छत्स जनास इन्द्रः ॥१२॥
(२०,३४.१३ ) यः सप्तरश्मिर्वृषभस्तुविष्मान् अवासृजत्सर्तवे सप्त सिन्धून् ।
(२०,३४.१३ ) यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ॥१३॥
(२०,३४.१४ ) द्यावा चिदस्मै पृथिवी ममेते शुष्माच्चिदस्य पर्वता भयन्ते ।
(२०,३४.१४ ) यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ॥१४॥
(२०,३४.१५ ) यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती ।
(२०,३४.१५ ) यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥१५॥
(२०,३४.१६ ) जातो व्यख्यत्पित्रोरुपस्थे भुवो न वेद जनितुः परस्य ।
(२०,३४.१६ ) स्तविष्यमाणो नो यो अस्मद्व्रता देवानां स जनास इन्द्रः ॥१६॥
(२०,३४.१७ ) यः सोमकामो हर्यश्वः सूरिर्यस्माद्रेजन्ते भुवनानि विश्वा ।
(२०,३४.१७ ) यो जघान शम्बरं यश्च शुष्णं य एकवीरः स जनास इन्द्रः ॥१७॥
(२०,३४.१८ ) यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः ।
(२०,३४.१८ ) वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥१८॥
(२०,३५.१ ) अस्मा इदु प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय ।
(२०,३५.१ ) ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा ॥१॥
(२०,३५.२ ) अस्मा इदु प्रय इव प्र यंसि भराम्यान्गूषं बाधे सुवृक्ति ।
(२०,३५.२ ) इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥२॥
(२०,३५.३ ) अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन ।
(२०,३५.३ ) मंहिष्ठमछोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥३॥
(२०,३५.४ ) अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय ।
(२०,३५.४ ) गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय ॥४॥
(२०,३५.५ ) अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे ।
(२०,३५.५ ) वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥५॥
(२०,३५.६ ) अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय ।
(२०,३५.६ ) वृत्रस्य चिद्विदद्येन मर्म तुजन्न् ईशानस्तुजता कियेधाः ॥६॥
(२०,३५.७ ) अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवां चार्वन्ना ।
(२०,३५.७ ) मुषायद्विष्णुः पचतं सहीयान् विध्यद्वराहं तिरो अद्रिमस्ता ॥७॥
(२०,३५.८ ) अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः ।
(२०,३५.८ ) परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥८॥
(२०,३५.९ ) अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात्।
(२०,३५.९ ) स्वरालिन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय ॥९॥
(२०,३५.१० ) अस्येदेव शवसा शुशन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः ।
(२०,३५.१० ) गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः ॥१०॥
(२०,३५.११ ) अस्येदु त्वेषसा रन्त सिन्धवः परि यद्वज्रेण सीमयछत्।
(२०,३५.११ ) ईशानकृद्दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः कः ॥११॥
(२०,३५.१२ ) अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः ।
(२०,३५.१२ ) गोर्न पर्व वि रदा तिरश्चेष्यन्न् अर्णांस्यपां चरध्यै ॥१२॥
(२०,३५.१३ ) अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः ।
(२०,३५.१३ ) युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून् ॥१३॥
(२०,३५.१४ ) अस्येदु भिया गिरयश्च दृल्हा द्यावा च भूमा जनुषस्तुजेते ।
(२०,३५.१४ ) उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः ॥१४॥
(२०,३५.१५ ) अस्मा इदु त्यदनु दाय्येषामेको यद्वव्ने भूरेरीशानः ।
(२०,३५.१५ ) प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः ॥१५॥
(२०,३५.१६ ) एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् ।
(२०,३५.१६ ) ऐषु विश्वपेशसं धियं धाः प्रातर्मक्षू धियावसुर्जगम्यात्॥१६॥
(२०,३६.१ ) य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः ।
(२०,३६.१ ) यः पत्यते वृषभो वृष्ण्यावान्त्सत्यः सत्वा पुरुमायः सहस्वान् ॥१॥
(२०,३६.२ ) तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः ।
(२०,३६.२ ) नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम् ॥२॥
(२०,३६.३ ) तमीमहे इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः ।
(२०,३६.३ ) यो अष्कृधोयुरजरः स्वर्वान् तमा भर हरिवो मादयध्यै ॥३॥
(२०,३६.४ ) तन् नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र ।
(२०,३६.४ ) कस्ते भागः किं वयो दुध्र खिदुः पुरुहूत पुरूवसोऽसुरघ्नः ॥४॥
(२०,३६.५ ) तं पृछन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः ।
(२०,३६.५ ) तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमछ ॥५॥
(२०,३६.६ ) अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन ।
(२०,३६.६ ) अच्युता चिद्वीलिता स्वोजो रुजो वि दृल्हा धृषता विरप्शिन् ॥६॥
(२०,३६.७ ) तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत्परितंसयध्यै ।
(२०,३६.७ ) स नो वक्षदनिमानः सुवह्नेन्द्रो विश्वान्यति दुर्गहाणि ॥७॥
(२०,३६.८ ) आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा ।
(२०,३६.८ ) तपा वृषन् विश्वतः शोचिषा तान् ब्रह्मद्विषे शोचय क्षामपश्च ॥८॥
(२०,३६.९ ) भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक्।
(२०,३६.९ ) धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥९॥
(२०,३६.१० ) आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम् ।
(२०,३६.१० ) यया दासान्यार्याणि वृत्रा करो वज्रिन्त्सुतुका नाहुषाणि ॥१०॥
(२०,३६.११ ) स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो ।
(२०,३६.११ ) न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक्॥११॥
(२०,३७.१ ) यस्तिग्मशृङ्गो वृषभो न भीमः एकः कृष्टीश्च्यवयति प्र विश्वाः ।
(२०,३७.१ ) यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥१॥
(२०,३७.२ ) त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये ।
(२०,३७.२ ) दासं यच्शुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥२॥
(२०,३७.३ ) त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम् ।
(२०,३७.३ ) प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥३॥
(२०,३७.४ ) त्वं नृभिर्नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि ।
(२०,३७.४ ) त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥४॥
(२०,३७.५ ) तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः ।
(२०,३७.५ ) निवेशने शततमाविवेषीरहं च वृत्रं नमुचिमुताहन् ॥५॥
(२०,३७.६ ) सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे ।
(२०,३७.६ ) वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥६॥
(२०,३७.७ ) मा ते अस्यां सहसावन् परिष्टावघाय भूम हरिवः परादौ ।
(२०,३७.७ ) त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥७॥
(२०,३७.८ ) प्रियास इत्ते मघवन्न् अभिष्टौ नरो मदेम शरणे सखायः ।
(२०,३७.८ ) नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् ॥८॥
(२०,३७.९ ) सद्यश्चिन् नु ते मघवन्न् अभिष्टौ नरः शंसन्त्युक्थशास उक्था ।
(२०,३७.९ ) ये ते हवेभिर्वि पणींरदाशन्न् अस्मान् वृणीष्व युज्याय तस्मै ॥९॥
(२०,३७.१० ) एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि ।
(२०,३७.१० ) तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणाम् ॥१०॥
(२०,३७.११ ) नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस्तन्वा वावृधस्व ।
(२०,३७.११ ) उप नो वाजान् मिमीह्युप स्तीन् युयं पात स्वस्तिभिः सदा नः ॥११॥
(२०,३८.१ ) आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।
(२०,३८.१ ) एदं बर्हिः सदो मम ॥१॥
(२०,३८.२ ) आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।
(२०,३८.२ ) उप ब्रह्माणि नः शृणु ॥२॥
(२०,३८.३ ) ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।
(२०,३८.३ ) सुतावन्तो हवामहे ॥३॥
(२०,३८.४ ) इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
(२०,३८.४ ) इन्द्रं वाणीरनूषत ॥४॥
(२०,३८.५ ) इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।
(२०,३८.५ ) इन्द्रो वज्री हिरण्ययः ॥५॥
(२०,३८.६ ) इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
(२०,३८.६ ) वि गोभिरद्रिमैरयत्॥६॥
(२०,३९.१ ) इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
(२०,३९.१ ) अस्माकमस्तु केवलः ॥१॥
(२०,३९.२ ) व्यन्तरिक्षमतिरन् मदे सोमस्य रोचना ।
(२०,३९.२ ) इन्द्रो यदभिनद्वलम् ॥२॥
(२०,३९.३ ) उद्गा आजदङ्गिरोभ्य आविष्कृण्वन् गुहा सतीः ।
(२०,३९.३ ) अर्वाञ्चं नुनुदे वलम् ॥३॥
(२०,३९.४ ) इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च ।
(२०,३९.४ ) स्थिराणि न पराणुदे ॥४॥
(२०,३९.५ ) अपामूर्मिर्मदन्न् इव स्तोम इन्द्राजिरायते ।
(२०,३९.५ ) वि ते मदा अराजिषुः ॥५॥
(२०,४०.१ ) इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।
(२०,४०.१ ) मन्दू समानवर्चसा ॥१॥
(२०,४०.२ ) अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।
(२०,४०.२ ) गणैरिन्द्रस्य काम्यैः ॥२॥
(२०,४०.३ ) आदह स्वधामनु पुनर्गर्भत्वमेरिरे ।
(२०,४०.३ ) दधाना नाम यज्ञियम् ॥३॥
(२०,४१.१ ) इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।
(२०,४१.१ ) जघान नवतीर्नव ॥१॥
(२०,४१.२ ) इछन् अश्वस्य यच्छिरः पर्वतेष्वपश्रितम् ।
(२०,४१.२ ) तद्विदच्छर्यणावति ॥२॥
(२०,४१.३ ) अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् ।
(२०,४१.३ ) इत्था चन्द्रमसो गृहे ॥३॥
(२०,४२.१ ) वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम् ।
(२०,४२.१ ) इन्द्रात्परि तन्वं ममे ॥१॥
(२०,४२.२ ) अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम् ।
(२०,४२.२ ) इन्द्र यद्दस्युहाभवः ॥२॥
(२०,४२.३ ) उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे अवेपयः ।
(२०,४२.३ ) सोममिन्द्र चमू सुतम् ॥३॥
(२०,४३.१ ) भिन्धि विश्वा अप द्विषः बाधो जही मृधः ।
(२०,४३.१ ) वसु स्पार्हं तदा भर ॥१॥
(२०,४३.२ ) यद्वीलाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् ।
(२०,४३.२ ) वसु स्पार्हं तदा भर ॥२॥
(२०,४३.३ ) यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति ।
(२०,४३.३ ) वसु स्पार्हं तदा भर ॥३॥
(२०,४४.१ ) प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः ।
(२०,४४.१ ) नरं नृषाहं मंहिष्ठम् ॥१॥
(२०,४४.२ ) यस्मिन्न् उक्थानि रण्यन्ति विश्वानि च श्रवस्य ।
(२०,४४.२ ) अपामवो न समुद्रे ॥२॥
(२०,४४.३ ) तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् ।
(२०,४४.३ ) महो वाजिनं सनिभ्यः ॥३॥
(२०,४५.१ ) अयमु ते समतसि कपोत इव गर्भधिम् ।
(२०,४५.१ ) वचस्तच्चिन् न ओहसे ॥१॥
(२०,४५.२ ) स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते ।
(२०,४५.२ ) विभूतिरस्तु सूनृता ॥२॥
(२०,४५.३ ) ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन् वाजे शतक्रतो ।
(२०,४५.३ ) समन्येषु ब्रवावहै ॥३॥
(२०,४६.१ ) प्रणेतारं वस्यो अछा कर्तारं ज्योतिः समत्सु ।
(२०,४६.१ ) सासह्वांसं युधामित्रान् ॥१॥
(२०,४६.२ ) स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः ।
(२०,४६.२ ) इन्द्रो विश्वा अति द्विषः ॥२॥
(२०,४६.३ ) स त्वं न इन्द्र वाजोभिर्दशस्या च गातुया च ।
(२०,४६.३ ) अछा च नः सुम्नं नेषि ॥३॥
(२०,४७.१ ) तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
(२०,४७.१ ) स वृषा वृषभो भुवत्॥१॥
(२०,४७.२ ) इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।
(२०,४७.२ ) द्युम्नी श्लोकी स सोम्यः ॥२॥
(२०,४७.३ ) गिरा वज्रो न संभृतः सबलो अनपच्युतः ।
(२०,४७.३ ) ववक्ष ऋष्वो अस्तृतः ॥३॥
(२०,४७.४ ) इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
(२०,४७.४ ) इन्द्रं वाणीरनूषत ॥४॥
(२०,४७.५ ) इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।
(२०,४७.५ ) इन्द्रो वज्री हिरण्ययः ॥५॥
(२०,४७.६ ) इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
(२०,४७.६ ) वि गोभिरद्रिमैरयत्॥६॥
(२०,४७.७ ) आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।
(२०,४७.७ ) एदं बर्हिः सदो मम ॥७॥
(२०,४७.८ ) आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।
(२०,४७.८ ) उप ब्रह्माणि नः शृणु ॥८॥
(२०,४७.९ ) ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।
(२०,४७.९ ) सुतावन्तो हवामहे ॥९॥
(२०,४७.१० ) युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
(२०,४७.१० ) रोचन्ते रोचना दिवि ॥१०॥
(२०,४७.११ ) युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
(२०,४७.११ ) शोणा धृष्णू नृवाहसा ॥११॥
(२०,४७.१२ ) केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।
(२०,४७.१२ ) समुषद्भिरजायथाः ॥१२॥
(२०,४७.१३ ) उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
(२०,४७.१३ ) दृशे विश्वाय सूर्यम् ॥१३॥
(२०,४७.१४ ) अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।
(२०,४७.१४ ) सूराय विश्वचक्षसे ॥१४॥
(२०,४७.१५ ) अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु ।
(२०,४७.१५ ) भ्राजन्तो अग्नयो यथा ॥१५॥
(२०,४७.१६ ) तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।
(२०,४७.१६ ) विश्वमा भासि रोचन ॥१६॥
(२०,४७.१७ ) प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः ।
(२०,४७.१७ ) प्रत्यङ्विश्वं स्वर्दृशे ॥१७॥
(२०,४७.१८ ) येना पावक चक्षसा भुरण्यन्तं जनामनु ।
(२०,४७.१८ ) त्वं वरुण पश्यसि ॥१८॥
(२०,४७.१९ ) वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः ।
(२०,४७.१९ ) पश्यं जन्मानि सूर्य ॥१९॥
(२०,४७.२० ) सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
(२०,४७.२० ) शोचिष्केशं विचक्षणम् ॥२०॥
(२०,४७.२१ ) अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।
(२०,४७.२१ ) ताभिर्याति स्वयुक्तिभिः ॥२१॥
(२०,४८.१ ) अभि त्वा वर्चसा गिरः सिञ्चन्त्या चरण्युवः ।
(२०,४८.१ ) अभि वत्सं न धेनवः ॥१॥
(२०,४८.२ ) ता अर्षन्ति शुभ्रियः पृञ्चतीर्वर्चसा पयः ।
(२०,४८.२ ) जातं जनिर्यथा हृदा ॥२॥
(२०,४८.३ ) वज्रापवसाध्यः कीर्तिर्म्रियमाणमावहन् ।
(२०,४८.३ ) मह्यमायुर्घृतं पयः ॥३॥
(२०,४८.४ ) आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः ।
(२०,४८.४ ) पितरं च प्रयन्त्स्वः ॥४॥
(२०,४८.५ ) अन्तश्चरति रोचना अस्य प्राणादपानतः ।
(२०,४८.५ ) व्यख्यन् महिषः स्वः ॥५॥
(२०,४८.६ ) त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्।
(२०,४८.६ ) प्रति वस्तोरहर्द्युभिः ॥६॥
(२०,४९.१ ) यच्छक्रा वाचमारुहन्न् अन्तरिक्षं सिषासथः ।
(२०,४९.१ ) सं देवा अमदन् वृषा ॥१॥
(२०,४९.२ ) शक्रो वाचमधृष्टायोरुवाचो अधृष्णुहि ।
(२०,४९.२ ) मंहिष्ठ आ मदर्दिवि ॥२॥
(२०,४९.३ ) शक्रो वाचमधृष्णुहि धामधर्मन् वि राजति ।
(२०,४९.३ ) विमदन् बर्हिरासरन् ॥३॥
(२०,४९.४ ) तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।
(२०,४९.४ ) अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥४॥
(२०,४९.५ ) द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् ।
(२०,४९.५ ) क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥५॥
(२०,४९.६ ) तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये ।
(२०,४९.६ ) येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥६॥
(२०,४९.७ ) येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः ।
(२०,४९.७ ) सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥७॥
(२०,५०.१ ) कन् नव्यो अतसीनां तुरो गृणीत मर्त्यः ।
(२०,५०.१ ) नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः ॥१॥
(२०,५०.२ ) कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते ।
(२०,५०.२ ) कदा हवं मघवन्न् इन्द्र सुन्वतः कदु स्तुवत आ गमः ॥२॥
(२०,५१.१ ) अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।
(२०,५१.१ ) यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥१॥
(२०,५१.२ ) शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।
(२०,५१.२ ) गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥२॥
(२०,५१.३ ) प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये ।
(२०,५१.३ ) यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥३॥
(२०,५१.४ ) शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः ।
(२०,५१.४ ) गिरिर्न भुज्मा मघत्सु पिन्वते यदीं सुता अमन्दिषुः ॥४॥
(२०,५२.१ ) वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
(२०,५२.१ ) पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥१॥
(२०,५२.२ ) स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
(२०,५२.२ ) कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥२॥
(२०,५२.३ ) कण्वेभिर्धृष्णवा धृसद्वाजं दर्षि सहस्रिणम् ।
(२०,५२.३ ) पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तमीमहे ॥३॥
(२०,५३.१ ) क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।
(२०,५३.१ ) अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥१॥
(२०,५३.२ ) दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
(२०,५३.२ ) नकिष्ट्वा नि यमदा सुते गमो महाश्चरस्योजसा ॥२॥
(२०,५३.३ ) य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः ।
(२०,५३.३ ) यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत्॥३॥
(२०,५४.१ ) विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे ।
(२०,५४.१ ) क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् ॥१॥
(२०,५४.२ ) समीं रेभासो अस्वरन्न् इन्द्रं सोमस्य पीतये ।
(२०,५४.२ ) स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः ॥२॥
(२०,५४.३ ) नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा ।
(२०,५४.३ ) सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥३॥
(२०,५५.१ ) तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि ।
(२०,५५.१ ) मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री ॥१॥
(२०,५५.२ ) या इन्द्र भुज आभरः स्वर्वामसुरेभ्यः ।
(२०,५५.२ ) स्तोतारमिन् मघवन्न् अस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥२॥
(२०,५५.३ ) यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम् ।
(२०,५५.३ ) यजमाने सुन्वति दक्षिणावति तस्मिन् तं धेहि मा पणौ ॥३॥
(२०,५६.१ ) इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
(२०,५६.१ ) तमिन् महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु प्र नोऽविषत्॥१॥
(२०,५६.२ ) असि हि वीर सेन्योऽसि भूरि पराददिः ।
(२०,५६.२ ) असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥२॥
(२०,५६.३ ) यदुदीरत आजयो धृष्णवे धीयते धना ।
(२०,५६.३ ) युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मामिन्द्र वसौ दधः ॥३॥
(२०,५६.४ ) मदेमदे हि नो ददिर्यूथा गवामृजुक्रतुः ।
(२०,५६.४ ) सं गृभाय पुरु शतोभयाहस्त्या वसु शिशीहि राय आ भर ॥४॥
(२०,५६.५ ) मादयस्व सुते सचा शवसे शूर राधसे ।
(२०,५६.५ ) विद्मा हि त्वा पुरूवसुमुप कामान्त्ससृज्महेऽथा नोऽविता भव ॥५॥
(२०,५६.६ ) एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम् ।
(२०,५६.६ ) अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥६॥
(२०,५७.१ ) सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
(२०,५७.१ ) जुहूमसि द्यविद्यवि ॥१॥
(२०,५७.२ ) उप नः सवना गहि सोमस्य सोमपाः पिब ।
(२०,५७.२ ) गोदा इद्रेवतो मदः ॥२॥
(२०,५७.३ ) अथा ते अन्तमानां विद्याम सुमतीनाम् ।
(२०,५७.३ ) मा नो अति ख्य आ गहि ॥३॥
(२०,५७.४ ) शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् ।
(२०,५७.४ ) इन्द्र सोमं शतक्रतो ॥४॥
(२०,५७.५ ) इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।
(२०,५७.५ ) इन्द्र तानि त आ वृणे ॥५॥
(२०,५७.६ ) अगन्न् इन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् ।
(२०,५७.६ ) उत्ते शुष्मं तिरामसि ॥६॥
(२०,५७.७ ) अर्वावतो न आ गह्यथो शक्र परावतः ।
(२०,५७.७ ) उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥७॥
(२०,५७.८ ) इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत्।
(२०,५७.८ ) स हि स्थिरो विचर्षनिः ॥८॥
(२०,५७.९ ) इन्द्रश्च मृलयाति नो न नः पश्चादघं नशत्।
(२०,५७.९ ) भद्रं भवाति नः पुरः ॥९॥
(२०,५७.१० ) इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्।
(२०,५७.१० ) जेता शत्रून् विचर्षणिः ॥१०॥
(२०,५७.११ ) क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।
(२०,५७.११ ) अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥११॥
(२०,५७.१२ ) दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
(२०,५७.१२ ) नकिष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा ॥१२॥
(२०,५७.१३ ) य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः ।
(२०,५७.१३ ) यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत्॥१३॥
(२०,५७.१४ ) वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
(२०,५७.१४ ) पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥१४॥
(२०,५७.१५ ) स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
(२०,५७.१५ ) कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥१५॥
(२०,५७.१६ ) कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् ।
(२०,५७.१६ ) पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तमीमहे ॥१६॥
(२०,५८.१ ) श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
(२०,५८.१ ) वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥१॥
(२०,५८.२ ) अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
(२०,५८.२ ) सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥२॥
(२०,५८.३ ) बण्महामसि सूर्य बडादित्य महामसि ।
(२०,५८.३ ) महस्ते सतो महिमा पनस्यतेऽद्धा देव महामसि ॥३॥
(२०,५८.४ ) बट्सूर्य श्रवसा महामसि सत्रा देव महामसि ।
(२०,५८.४ ) मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥४॥
(२०,५९.१ ) उदु त्ये मधु मत्तमा गिर स्तोमास ईरते ।
(२०,५९.१ ) सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१॥
(२०,५९.२ ) कण्वा इव भृगवः सूर्य इव विश्वमिद्धीतमानशुः ।
(२०,५९.२ ) इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥२॥
(२०,५९.३ ) उदिन् न्वस्य रिच्यतेऽंशो धनं न जिग्युसः ।
(२०,५९.३ ) य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥३॥
(२०,५९.४ ) मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा ।
(२०,५९.४ ) पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत्॥४॥
(२०,६०.१ ) एवा ह्यसि वीरयुरेवा शूर उत स्थिरः ।
(२०,६०.१ ) एवा ते राध्यं मनः ॥१॥
(२०,६०.२ ) एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः ।
(२०,६०.२ ) अघा चिदिन्द्र मे सचा ॥२॥
(२०,६०.३ ) मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते ।
(२०,६०.३ ) मत्स्वा सुतस्य गोमतः ॥३॥
(२०,६०.४ ) एवा ह्यस्य सूनृता विरप्शी गोमती मही ।
(२०,६०.४ ) पक्वा शाखा न दाशुषे ॥४॥
(२०,६०.५ ) एवा हि ते विभूतय ऊतय इन्द्र मावते ।
(२०,६०.५ ) सद्यश्चित्सन्ति दाशुषे ॥५॥
(२०,६०.६ ) एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या ।
(२०,६०.६ ) इन्द्राय सोमपीतये ॥६॥
(२०,६१.१ ) तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् ।
(२०,६१.१ ) उ लोककृत्नुमद्रिवो हरिश्रियम् ॥१॥
(२०,६१.२ ) येन ज्योतीम्ष्यायवे मनवे च विवेदिथ ।
(२०,६१.२ ) मन्दानो अस्य बर्हिषो वि राजसि ॥२॥
(२०,६१.३ ) तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा ।
(२०,६१.३ ) वृषपत्नीरपो जया दिवेदिवे ॥३॥
(२०,६१.४ ) तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् ।
(२०,६१.४ ) इन्द्रं गीर्भिस्तविषमा विवासत ॥४॥
(२०,६१.५ ) यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी ।
(२०,६१.५ ) गिरींरज्रामपः स्वर्वृषत्वना ॥५॥
(२०,६१.६ ) स राजसि पुरुष्टुतमेको वृत्राणि जिघ्नसे ।
(२०,६१.६ ) इन्द्र जैत्रा श्रवस्य च यन्तवे ॥६॥
(२०,६२.१ ) वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।
(२०,६२.१ ) वाजे चित्रं हवामहे ॥१॥
(२०,६२.२ ) उप त्वा कर्मन्न् ऊतये स नो युवोग्रश्चक्राम यो धृषत्।
(२०,६२.२ ) त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥२॥
(२०,६२.३ ) यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे ।
(२०,६२.३ ) सखाय इन्द्रमूतये ॥३॥
(२०,६२.४ ) हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत ।
(२०,६२.४ ) आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥४॥
(२०,६२.५ ) इन्द्राय साम गायत विप्राय बृहते बृहत्।
(२०,६२.५ ) धर्मकृते विपश्चिते पनस्यवे ॥५॥
(२०,६२.६ ) त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः ।
(२०,६२.६ ) विश्वकर्मा विश्वदेवो महामसि ॥६॥
(२०,६२.७ ) विभ्राजं ज्योतिषा स्वरगछो रोचनं दिवः ।
(२०,६२.७ ) देवास्त इन्द्र सख्याय येमिरे ॥७॥
(२०,६२.८ ) तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् ।
(२०,६२.८ ) इन्द्रं गीर्भिस्तविषमा विवासत ॥८॥
(२०,६२.९ ) यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी ।
(२०,६२.९ ) गिरींरज्रामपः स्वर्वृषत्वना ॥९॥
(२०,६२.१० ) स राजसि पुरुष्टुतमेको वृत्राणि जिघ्नसे ।
(२०,६२.१० ) इन्द्र जैत्र श्रवस्य च यन्तवे ॥१०॥
(२०,६३.१ ) इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ।
(२०,६३.१ ) यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥१॥
(२०,६३.२ ) आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् ।
(२०,६३.२ ) हत्वाय देवा असुरान् यदायन् देवा देवत्वमभिरक्षमाणाः ॥२॥
(२०,६३.३ ) प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ।
(२०,६३.३ ) अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥३॥
(२०,६३.४ ) य एक इद्विदयते वसु मर्ताय दाशुषे ।
(२०,६३.४ ) ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥४॥
(२०,६३.५ ) कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत्।
(२०,६३.५ ) कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥५॥
(२०,६३.६ ) यश्चिद्धि त्वा बहुभ्य आ सुतावामाविवासति ।
(२०,६३.६ ) उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥६॥
(२०,६३.७ ) य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।
(२०,६३.७ ) येना हंसि न्यत्त्रिणं तमीमहे ॥७॥
(२०,६३.८ ) येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम् ।
(२०,६३.८ ) येना समुद्रमाविथा तमीमहे ॥८॥
(२०,६३.९ ) येन सिन्धुं महीरपो रथामिव प्रचोदयः ।
(२०,६३.९ ) पन्थामृतस्य यातवे तमीमहे ॥९॥
(२०,६४.१ ) एन्द्र नो गधि प्रियः सत्राजिदगोह्यः ।
(२०,६४.१ ) गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥१॥
(२०,६४.२ ) अभि हि सत्य सोमपा उभे बभूथ रोदसी ।
(२०,६४.२ ) इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥२॥
(२०,६४.३ ) त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि ।
(२०,६४.३ ) हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥३॥
(२०,६४.४ ) एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः ।
(२०,६४.४ ) एवा हि वीर स्तवते सदावृधः ॥४॥
(२०,६४.५ ) इन्द्र स्थातर्हरीणां नकिष्ते पूर्व्यस्तुतिम् ।
(२०,६४.५ ) उदानंश शवसा न भन्दना ॥५॥
(२०,६४.६ ) तं वो वाजानां पतिमहूमहि श्रवस्यवः ।
(२०,६४.६ ) अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥६॥
(२०,६५.१ ) एतो न्विन्द्रं स्तवाम सखाय स्तोम्यं नरम् ।
(२०,६५.१ ) कुष्टीर्यो विश्वा अभ्यस्त्येक इत्॥१॥
(२०,६५.२ ) अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः ।
(२०,६५.२ ) घृतात्स्वादीयो मधुनश्च वोचत ॥२॥
(२०,६५.३ ) यस्यामितानि वीर्या न राधः पर्येतवे ।
(२०,६५.३ ) ज्योतिर्न विश्वमभ्यस्ति दक्षिणा ॥३॥
(२०,६६.१ ) स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम् ।
(२०,६६.१ ) अर्यो गयं मंहमानं वि दाशुषे ॥१॥
(२०,६६.२ ) एवा नूनमुप स्तुहि वैयश्व दशमं नवम् ।
(२०,६६.२ ) सुविद्वांसं चर्कृत्यं चरणीनाम् ॥२॥
(२०,६६.३ ) वेत्था हि निरृतीनां वज्रहस्त परिवृजम् ।
(२०,६६.३ ) अहरहः शुन्ध्युः परिपदामिव ॥३॥
(२०,६७.१ ) वनोति हि सुन्वन् क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः ।
(२०,६७.१ ) सुन्वान इत्सिषासति सहस्रा वाज्यवृतः ।
(२०,६७.१ ) सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम् ॥१॥
(२०,६७.२ ) मो षु वो अस्मदभि तानि पौंस्या सना भूवन् द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः ।
(२०,६७.२ ) यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम् ।
(२०,६७.२ ) अस्मासु तन् मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम् ॥२॥
(२०,६७.३ ) अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् ।
(२०,६७.३ ) य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।
(२०,६७.३ ) घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥३॥
(२०,६७.४ ) यज्ञैः संमिश्लाः पृषतीभिरृष्टिभिर्यामं छुभ्रासो अञ्जिषु प्रिया उत ।
(२०,६७.४ ) आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ॥४॥
(२०,६७.५ ) आ वक्षि देवामिह विप्र यक्षि चोशन् होतर्नि षदा योनिषु त्रिषु ।
(२०,६७.५ ) प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृस्णुहि ॥५॥
(२०,६७.६ ) एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः ।
(२०,६७.६ ) तुभ्यं सुतो मघवन् तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥६॥
(२०,६७.७ ) यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते ।
(२०,६७.७ ) अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥७॥
(२०,६८.१ ) सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
(२०,६८.१ ) जुहूमसि द्यविद्यवि ॥१॥
(२०,६८.२ ) उप नः सवना गहि सोमस्य सोमपाः पिब ।
(२०,६८.२ ) गोदा इद्रेवतो मदः ॥२॥
(२०,६८.३ ) अथा ते अन्तमानां विद्याम सुमतीनाम् ।
(२०,६८.३ ) मा नो अति ख्य आ गहि ॥३॥
(२०,६८.४ ) परेहि विग्रमस्तृतमिन्द्रं पृछा विपश्चितम् ।
(२०,६८.४ ) यस्ते सखिभ्य आ वरम् ॥४॥
(२०,६८.५ ) उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत ।
(२०,६८.५ ) दधाना इन्द्र इद्दुवः ॥५॥
(२०,६८.६ ) उत नः सुभगामरिर्वोचेयुर्दस्म कृष्टयः ।
(२०,६८.६ ) स्यामेदिन्द्रस्य शर्मणि ॥६॥
(२०,६८.७ ) एमाशुमाशवे भर यज्ञश्रियं नृमादनम् ।
(२०,६८.७ ) पतयन् मन्दयत्सखम् ॥७॥
(२०,६८.८ ) अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः ।
(२०,६८.८ ) प्रावो वाजेषु वाजिनम् ॥८॥
(२०,६८.९ ) तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो ।
(२०,६८.९ ) धनानामिन्द्र सातये ॥९॥
(२०,६८.१० ) यो रायोऽवनिर्महान्त्सुपारः सुन्वतः सखा ।
(२०,६८.१० ) तस्मा इन्द्राय गायत ॥१०॥
(२०,६८.११ ) आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।
(२०,६८.११ ) सखाय स्तोमवाहसः ॥११॥
(२०,६८.१२ ) पुरूतमं पुरूणामीशानं वार्याणाम् ।
(२०,६८.१२ ) इन्द्रं सोमे सचा सुते ॥१२॥
(२०,६९.१ ) स घा नो योग आ भुवत्स राये स पुरंध्याम् ।
(२०,६९.१ ) गमद्वाजेभिरा स नः ॥१॥
(२०,६९.२ ) यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ।
(२०,६९.२ ) तस्मा इन्द्राय गायत ॥२॥
(२०,६९.३ ) सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।
(२०,६९.३ ) सोमासो दध्याशिरः ॥३॥
(२०,६९.४ ) त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ।
(२०,६९.४ ) इन्द्र ज्यैष्ठ्याय सुक्रतो ॥४॥
(२०,६९.५ ) आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः ।
(२०,६९.५ ) शं ते सन्तु प्रचेतसे ॥५॥
(२०,६९.६ ) त्वां स्तोमा अवीवृधन् त्वामुक्था शतक्रतो ।
(२०,६९.६ ) त्वां वर्धन्तु नो गिरः ॥६॥
(२०,६९.७ ) अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् ।
(२०,६९.७ ) यस्मिन् विश्वानि पौंस्या ॥७॥
(२०,६९.८ ) मा नो मर्ता अभि द्रुहन् तनूनामिन्द्र गिर्वणः ।
(२०,६९.८ ) ईशानो यवया वधम् ॥८॥
(२०,६९.९ ) युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
(२०,६९.९ ) रोचन्ते रोचना दिवि ॥९॥
(२०,६९.१० ) युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
(२०,६९.१० ) शोणा धृष्णू नृवाहसा ॥१०॥
(२०,६९.११ ) केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।
(२०,६९.११ ) समुषद्भिरजायथाः ॥११॥
(२०,६९.१२ ) आदह स्वधामनु पुनर्गर्भत्वमेरिरे ।
(२०,६९.१२ ) दधाना नाम यज्ञियम् ॥१२॥
(२०,७०.१ ) वीलु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः ।
(२०,७०.१ ) अविन्द उस्रिया अनु ॥१॥
(२०,७०.२ ) देवयन्तो यथा मतिमछा विदद्वसुं गिरः ।
(२०,७०.२ ) महामनूषत श्रुतम् ॥२॥
(२०,७०.३ ) इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।
(२०,७०.३ ) मन्दू समानवर्चसा ॥३॥
(२०,७०.४ ) अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।
(२०,७०.४ ) गणैरिन्द्रस्य काम्यैः ॥४॥
(२०,७०.५ ) अतः परिज्मन्न् आ गहि दिवो वा रोचनादधि ।
(२०,७०.५ ) समस्मिन्न् ऋञ्जते गिरः ॥५॥
(२०,७०.६ ) इतो वा सातिमीमहे दिवो वा पार्थिवादधि ।
(२०,७०.६ ) इन्द्रं महो वा रजसः ॥६॥
(२०,७०.७ ) इन्द्रमिद्गथिनो बृहदिन्द्रमर्केभिरर्किणः ।
(२०,७०.७ ) इन्द्रं वाणीरनूषत ॥७॥
(२०,७०.८ ) इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।
(२०,७०.८ ) इन्द्रो वज्री हिरण्ययः ॥८॥
(२०,७०.९ ) इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
(२०,७०.९ ) वि गोभिरिन्द्रमैरयत्॥९॥
(२०,७०.१० ) इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।
(२०,७०.१० ) उग्र उग्राभिरूतिभिः ॥१०॥
(२०,७०.११ ) इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।
(२०,७०.११ ) युजं वृत्रेषु वज्रिणम् ॥११॥
(२०,७०.१२ ) स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि ।
(२०,७०.१२ ) अस्मभ्यमप्रतिष्कुतः ॥१२॥
(२०,७०.१३ ) तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ।
(२०,७०.१३ ) न विन्धे अस्य सुष्टुतिम् ॥१३॥
(२०,७०.१४ ) वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ।
(२०,७०.१४ ) ईशानो अप्रतिष्कुतः ॥१४॥
(२०,७०.१५ ) य एकश्चर्षणीनां वसूनामिरज्यति ।
(२०,७०.१५ ) इन्द्रः पञ्च क्षितीनाम् ॥१५॥
(२०,७०.१६ ) इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
(२०,७०.१६ ) अस्माकमस्तु केवलः ॥१६॥
(२०,७०.१७ ) एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।
(२०,७०.१७ ) वर्षिष्ठमूतये भर ॥१७॥
(२०,७०.१८ ) नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै ।
(२०,७०.१८ ) त्वोतासो न्यर्वता ॥१८॥
(२०,७०.१९ ) इन्द्र त्वोतासो आ वयं वज्रं घना ददीमहि ।
(२०,७०.१९ ) जयेम सं युधि स्पृधः ॥१९॥
(२०,७०.२० ) वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् ।
(२०,७०.२० ) सासह्याम पृतन्यतः ॥२०॥
(२०,७१.१ ) महामिन्द्रः परश्च नु महित्वमस्तु वज्रिणे ।
(२०,७१.१ ) द्यौर्न प्रथिना शवः ॥१॥
(२०,७१.२ ) समोहे वा य आशत नरस्तोकस्य सनितौ ।
(२०,७१.२ ) विप्रासो वा धियायवः ॥२॥
(२०,७१.३ ) यः कुक्षिः सोमपातमः समुद्र इव पिन्वते ।
(२०,७१.३ ) उर्वीरापो न काकुदः ॥३॥
(२०,७१.४ ) एवा ह्यस्य सूनृता विरप्शी गोमती मही ।
(२०,७१.४ ) पक्वा शाखा न दाशुषे ॥४॥
(२०,७१.५ ) एवा हि ते विभूतय ऊतय इन्द्र मावते ।
(२०,७१.५ ) सद्यश्चित्सन्ति दाशुषे ॥५॥
(२०,७१.६ ) एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या ।
(२०,७१.६ ) इन्द्राय सोमपीतये ॥६॥
(२०,७१.७ ) इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
(२०,७१.७ ) महामभिष्टिरोजसा ॥७॥
(२०,७१.८ ) एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ।
(२०,७१.८ ) चक्रिं विश्वानि चक्रये ॥८॥
(२०,७१.९ ) मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे ।
(२०,७१.९ ) सचैषु सवनेष्वा ॥९॥
(२०,७१.१० ) असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत ।
(२०,७१.१० ) अजोषा वृषभं पतिम् ॥१०॥
(२०,७१.११ ) सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ।
(२०,७१.११ ) असदित्ते विभु प्रभु ॥११॥
(२०,७१.१२ ) अस्मान्त्सु तत्र चोदयेन्द्र राये रभस्वतः ।
(२०,७१.१२ ) तुविद्युम्न यशस्वतः ॥१२॥
(२०,७१.१३ ) सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत्।
(२०,७१.१३ ) विश्वायुर्धेह्यक्षितम् ॥१३॥
(२०,७१.१४ ) अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् ।
(२०,७१.१४ ) इन्द्र ता रथिनीरिषः ॥१४॥
(२०,७१.१५ ) वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् ।
(२०,७१.१५ ) होम गन्तारमूतये ॥१५॥
(२०,७१.१६ ) सुतेसुते न्योकसे बृहद्बृहत एदरिः ।
(२०,७१.१६ ) इन्द्राय शूषमर्चति ॥१६॥
(२०,७२.१ ) विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक्।
(२०,७२.१ ) तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि ।
(२०,७२.१ ) इन्द्रं न यज्ञैश्चतयन्त आयव स्तोमेभिरिन्द्रमायवः ॥१॥
(२०,७२.२ ) वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः ।
(२०,७२.२ ) यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि ।
(२०,७२.२ ) आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥२॥
(२०,७२.३ ) उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः ।
(२०,७२.३ ) यदिन्द्र हन्तवे मृघो वृषा वज्रिं चिकेतसि ।
(२०,७२.३ ) आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥३॥
(२०,७३.१ ) तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि ।
(२०,७३.१ ) त्वं नृभिर्हव्यो विश्वधासि ॥१॥
(२०,७३.२ ) नू चिन् नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र ।
(२०,७३.२ ) न वीर्यमिन्द्र ते न राधः ॥२॥
(२०,७३.३ ) प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् ।
(२०,७३.३ ) विशः पूर्वीः प्र चरा चर्षणिप्राः ॥३॥
(२०,७३.४ ) यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः ।
(२०,७३.४ ) आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः ॥४॥
(२०,७३.५ ) सो चिन् नु वृष्टिर्यूथ्या स्वा सचामिन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते ।
(२०,७३.५ ) अव वेति सुक्षयं सुते मधूदिद्धूणोति वातो यथा वनम् ॥५॥
(२०,७३.६ ) यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान ।
(२०,७३.६ ) तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥६॥
(२०,७४.१ ) यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि ।
(२०,७४.१ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥१॥
(२०,७४.२ ) शिप्रिन् वाजानां पते शचीवस्तव दंसना ।
(२०,७४.२ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥२॥
(२०,७४.३ ) नि ष्वापया मिथूदृशा सस्तामबुध्यमाने ।
(२०,७४.३ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥३॥
(२०,७४.४ ) ससन्तु त्या अरातयो बोधन्तु शूर रातयः ।
(२०,७४.४ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥४॥
(२०,७४.५ ) समिन्द्र गर्दभं मृण नुवन्तं पपयामुया ।
(२०,७४.५ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥५॥
(२०,७४.६ ) पताति कुण्डृणाच्या दूरं वातो वनादधि ।
(२०,७४.६ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥६॥
(२०,७४.७ ) सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम् ।
(२०,७४.७ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥७॥
(२०,७५.१ ) वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः ।
(२०,७५.१ ) यद्गव्यन्त द्वा जना स्वर्यन्ता समूहसि ।
(२०,७५.१ ) आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥१॥
(२०,७५.२ ) विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः ।
(२०,७५.२ ) शासस्तमिन्द्र मर्त्यमयजुं शवसस्पते ।
(२०,७५.२ ) महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥२॥
(२०,७५.३ ) आदित्ते अस्य वीर्यस्य चर्किरन् मदेषु वृषन्न् उशिजो यदाविथ सखीयतो यदाविथ ।
(२०,७५.३ ) चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे ।
(२०,७५.३ ) ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥३॥
(२०,७६.१ ) वने न वा यो न्यधायि चाक्रं छुचिर्वां स्तोमो भुरणावजीगः ।
(२०,७६.१ ) यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्वो नृतमः क्षपावान् ॥१॥
(२०,७६.२ ) प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् ।
(२०,७६.२ ) अनु त्रिशोकः शतमावहन् नॄन् कुत्सेन रथो यो असत्ससवान् ॥२॥
(२०,७६.३ ) कस्ते मद इन्द्र रन्त्यो भूद्दुरो गिरो अभ्युग्रो वि धाव ।
(२०,७६.३ ) कद्वाहो अर्वागुप मा मनीषा आ त्वा शक्यामुपमं राधो अन्नैः ॥३॥
(२०,७६.४ ) कदु द्युम्नमिन्द्र त्वावतो नॄन् कया धिया करसे कन् न आगन् ।
(२०,७६.४ ) मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन् मनीषाः ॥४॥
(२०,७६.५ ) प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् ।
(२०,७६.५ ) गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नैः ॥५॥
(२०,७६.६ ) मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन ।
(२०,७६.६ ) वराय ते घृतवन्तः सुतासः स्वाद्नन् भवन्तु पीतये मधूनि ॥६॥
(२०,७६.७ ) आ मध्वो अस्मा असिचन्न् अमत्रमिन्द्राय पूर्णं स हि सत्यराधाः ।
(२०,७६.७ ) स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च ॥७॥
(२०,७६.८ ) व्यानळ् इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः ।
(२०,७६.८ ) आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे ॥८॥
(२०,७७.१ ) आ सत्यो यातु मघवामृजीषी द्रवन्त्वस्य हरय उप नः ।
(२०,७७.१ ) तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः ॥१॥
(२०,७७.२ ) अव स्य शूराध्वनो नान्तेऽस्मिन् नो अद्य सवने मन्दध्यै ।
(२०,७७.२ ) शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म ॥२॥
(२०,७७.३ ) कविर्न निण्यं विदथानि साधन् वृषा यत्सेकं विपिपानो अर्चात्।
(२०,७७.३ ) दिव इत्था जीजनत्सप्त कारून् अह्ना चिच्चक्रुर्वयुना गृणन्तः ॥३॥
(२०,७७.४ ) स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः ।
(२०,७७.४ ) अन्धा तमांसि दुधिता विचक्षे नृभ्यश्चकार नृतमो अभिष्टौ ॥४॥
(२०,७७.५ ) ववक्ष इन्द्रो अमितमृजिष्युभे आ पप्रौ रोदसी महित्वा ।
(२०,७७.५ ) अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव ॥५॥
(२०,७७.६ ) विश्वानि शक्रो नर्याणि विद्वान् अपो रिरेच सखिभिर्निकामैः ।
(२०,७७.६ ) अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमन्तमुशिजो वि वव्रुः ॥६॥
(२०,७७.७ ) अपो वृत्रं वव्रिवांसं पराहन् प्रावत्ते वज्रं पृथिवी सचेताः ।
(२०,७७.७ ) प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवं छवसा शूर धृष्णो ॥७॥
(२०,७७.८ ) अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते ।
(२०,७७.८ ) स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्न् अङ्गिरोभिर्गृणानः ॥८॥
(२०,७८.१ ) तद्वो गाय सुते सचा पुरुहूताय सत्वने ।
(२०,७८.१ ) शं यद्गवे न शाकिने ॥१॥
(२०,७८.२ ) न घा वसुर्नि यमते दानं वाजस्य गोमतः ।
(२०,७८.२ ) यत्सीमुप श्रवद्गिरः ॥२॥
(२०,७८.३ ) कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत्।
(२०,७८.३ ) शचीभिरप नो वरत्॥३॥
(२०,७९.१ ) इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
(२०,७९.१ ) शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥१॥
(२०,७९.२ ) मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः ।
(२०,७९.२ ) त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥२॥
(२०,८०.१ ) इन्द्र ज्येष्ठं न आ भरमोजिष्ठं पपुरि श्रवः ।
(२०,८०.१ ) येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥१॥
(२०,८०.२ ) त्वामुग्रमवसे चर्षणीसहं राजन् देवेषु हूमहे ।
(२०,८०.२ ) विश्वा सु नो विथुरा पिब्दना वसोऽमित्रान् सुषहान् कृधि ॥२॥
(२०,८१.१ ) यद्द्याव इन्द्र ते शतं शतं भूमिरुत स्युः ।
(२०,८१.१ ) न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥१॥
(२०,८१.२ ) आ पप्राथ महिना कृष्ण्या वृषन् विश्वा शविष्ठ शवसा ।
(२०,८१.२ ) अस्मामव मघवन् गोमति व्रजे वज्रिं चित्राभिरूतिभिः ॥२॥
(२०,८२.१ ) यदिन्द्र यावतस्त्वमेतावदहमीशीय ।
(२०,८२.१ ) स्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीय ॥१॥
(२०,८२.२ ) शिक्षेयमिन् महयते दिवेदिवे राय आ कुहचिद्विदे ।
(२०,८२.२ ) नहि त्वदन्यन् मघवन् न आप्यं वस्यो अस्ति पिता चन ॥२॥
(२०,८३.१ ) इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत्।
(२०,८३.१ ) छर्दिर्यछ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥१॥
(२०,८३.२ ) ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धृष्णुया ।
(२०,८३.२ ) अघ स्मा नो मघवन्न् इन्द्र गिर्वणस्तनूपा अन्तमो भव ॥२॥
(२०,८४.१ ) इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ।
(२०,८४.१ ) अण्वीभिस्तना पूतासः ॥१॥
(२०,८४.२ ) इन्द्रा याहि धियेषितो विप्रजुतः सुतावतः ।
(२०,८४.२ ) उप ब्रह्माणि वाघतः ॥२॥
(२०,८४.३ ) इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ।
(२०,८४.३ ) सुते दधिष्व नश्चनः ॥३॥
(२०,८५.१ ) मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।
(२०,८५.१ ) इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥१॥
(२०,८५.२ ) अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् ।
(२०,८५.२ ) विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम् ॥२॥
(२०,८५.३ ) यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये ।
(२०,८५.३ ) अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥३॥
(२०,८५.४ ) वि तर्तूर्यन्ते मघवन् विपश्चितोऽर्यो विपो जनानाम् ।
(२०,८५.४ ) उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥४॥
(२०,८६.१ ) ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू ।
(२०,८६.१ ) स्थिरं रथं सुखमिन्द्राधितिष्ठन् प्रजानन् विद्वामुप याहि सोमम् ॥१॥
(२०,८७.१ ) अध्वर्यवोऽरुणं दुग्धमंशुं जुहोतन वृषभाय क्षितीनाम् ।
(२०,८७.१ ) गौराद्वेदीयामवपानमिन्द्रो विश्वाहेद्याति सुतसोममिछन् ॥१॥
(२०,८७.२ ) यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि ।
(२०,८७.२ ) उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान् ॥२॥
(२०,८७.३ ) जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानमुवाच ।
(२०,८७.३ ) एन्द्र पप्राथोर्वन्तरिक्षं युधा देवेभ्यो वरिवश्चकर्थ ॥३॥
(२०,८७.४ ) यद्योधया महतो मन्यमानान् साक्षाम तान् बाहुभिः शाशदानान् ।
(२०,८७.४ ) यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम ॥४॥
(२०,८७.५ ) प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार ।
(२०,८७.५ ) यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य ॥५॥
(२०,८७.६ ) तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षसा सूर्यस्य ।
(२०,८७.६ ) गवामसि गोपतिरेक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥६॥
(२०,८७.७ ) बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
(२०,८७.७ ) धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥७॥
(२०,८८.१ ) यस्तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस्त्रिषधस्थो रवेण ।
(२०,८८.१ ) तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥१॥
(२०,८८.२ ) धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस्ततस्रे ।
(२०,८८.२ ) पृषन्तं सृप्रमदब्धमूर्वं बृहस्पते रक्षतादस्य योनिम् ॥२॥
(२०,८८.३ ) बृहस्पते या परमा परावदत आ ते ऋतस्पृशो नि षेदुः ।
(२०,८८.३ ) तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्यभितो विरप्शम् ॥३॥
(२०,८८.४ ) बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् ।
(२०,८८.४ ) सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि ॥४॥
(२०,८८.५ ) स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेन ।
(२०,८८.५ ) बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत्॥५॥
(२०,८८.६ ) एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः ।
(२०,८८.६ ) बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥६॥
(२०,८९.१ ) अस्तेव सु प्रतरं लायमस्यन् भूषन्न् इव प्र भरा स्तोममस्मै ।
(२०,८९.१ ) वाचा विप्रास्तरत वाचमर्यो नि रामय जरितः सोम इन्द्रम् ॥१॥
(२०,८९.२ ) दोहेन गामुप शिक्षा सखायं प्र बोधय जरितर्जारमिन्द्रम् ।
(२०,८९.२ ) कोशं न पूर्णं वसुना न्यृष्टमा च्यावय मघदेयाय शूरम् ॥२॥
(२०,८९.३ ) किमङ्ग त्वा मघवन् भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि ।
(२०,८९.३ ) अप्नस्वती मम धीरस्तु शक्र वसुविदं भगमिन्द्रा भरा नः ॥३॥
(२०,८९.४ ) त्वां जना ममसत्येष्विन्द्र संतस्थाना वि ह्वयन्ते समीके ।
(२०,८९.४ ) अत्रा युजं कृणुते यो हविष्मान् नासुन्वता सख्यं वष्टि शूरः ॥४॥
(२०,८९.५ ) धनं न स्पन्द्रं बहुलं यो अस्मै तीव्रान्त्सोमामासुनोति प्रयस्वान् ।
(२०,८९.५ ) तस्मै शत्रून्त्सुतुकान् प्रातरह्नो नि स्वष्ट्रान् युवति हन्ति वृत्रम् ॥५॥
(२०,८९.६ ) यस्मिन् वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे ।
(२०,८९.६ ) आराच्चित्सन् भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम् ॥६॥
(२०,८९.७ ) आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन ।
(२०,८९.७ ) अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥७॥
(२०,८९.८ ) प्र यमन्तर्वृषसवासो अज्मन् तीव्राः सोमा बहुलान्तास इन्द्रम् ।
(२०,८९.८ ) नाह दामानं मघवा नि यंसन् नि सुन्वते वहति भूरि वामम् ॥८॥
(२०,८९.९ ) उत प्रहामतिदीवा जयति कृतमिव श्वघ्नी वि चिनोति काले ।
(२०,८९.९ ) यो देवकामो न धनं रुणद्धि समित्तं रायः सृजति स्वधाभिः ॥९॥
(२०,८९.१० ) गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे ।
(२०,८९.१० ) वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम ॥१०॥
(२०,८९.११ ) बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः ।
(२०,८९.११ ) इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु ॥११॥
(२०,९०.१ ) यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान् ।
(२०,९०.१ ) द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति ॥१॥
(२०,९०.२ ) जनाय चिद्य ईवते उ लोकं बृहस्पतिर्देवहूतौ चकार ।
(२०,९०.२ ) घ्नन् वृत्राणि वि पुरो दर्दरीति जयं छत्रूंरमित्रान् पृत्सु साहन् ॥२॥
(२०,९०.३ ) बृहस्पतिः समजयद्वसूनि महो व्रजान् गोमते देव एषः ।
(२०,९०.३ ) अपः सिषासन्त्स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः ॥३॥
(२०,९१.१ ) इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत्।
(२०,९१.१ ) तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य उक्थमिन्द्राय शंसन् ॥१॥
(२०,९१.२ ) ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः ।
(२०,९१.२ ) विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥२॥
(२०,९१.३ ) हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन् ।
(२०,९१.३ ) बृहस्पतिरभिकनिक्रदद्गा उत प्रास्तौदुच्च विद्वामगायत्॥३॥
(२०,९१.४ ) अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ ।
(२०,९१.४ ) बृहस्पतिस्तमसि ज्योतिरिछन् उदुस्रा आकर्वि हि तिस्र आवः ॥४॥
(२०,९१.५ ) विभिद्या पुरं शयथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत्।
(२०,९१.५ ) बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्न् इव द्यौः ॥५॥
(२०,९१.६ ) इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण ।
(२०,९१.६ ) स्वेदाञ्जिभिराशिरमिछमानोऽरोदयत्पणिमा गा अमुष्णात्॥६॥
(२०,९१.७ ) स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं वि धनसैरदर्दः ।
(२०,९१.७ ) ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट्॥७॥
(२०,९१.८ ) ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः ।
(२०,९१.८ ) बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजत स्वयुग्भिः ॥८॥
(२०,९१.९ ) तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे ।
(२०,९१.९ ) बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥९॥
(२०,९१.१० ) यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म ।
(२०,९१.१० ) बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासा ॥१०॥
(२०,९१.११ ) सत्यमाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः ।
(२०,९१.११ ) पश्चा मृधो अप भवन्तु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे ॥११॥
(२०,९१.१२ ) इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य ।
(२०,९१.१२ ) अहन्न् अहिमरिणात्सप्त सिन्धून् देवैर्द्यावापृथिवी प्रावतं नः ॥१२॥
(२०,९२.१ ) अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।
(२०,९२.१ ) सूतुं सत्यस्य सत्पतिम् ॥१॥
(२०,९२.२ ) आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।
(२०,९२.२ ) यत्राभि संनवामहे ॥२॥
(२०,९२.३ ) इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
(२०,९२.३ ) यत्सीमुपह्वरे विदत्॥३॥
(२०,९२.४ ) उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि ।
(२०,९२.४ ) मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥४॥
(२०,९२.५ ) अर्चत प्रार्चत प्रियमेधासो अर्चत ।
(२०,९२.५ ) अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत ॥५॥
(२०,९२.६ ) अव स्वराति गर्गरो गोधा परि सनिष्वणत्।
(२०,९२.६ ) पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ॥६॥
(२०,९२.७ ) आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः ।
(२०,९२.७ ) अपस्फुरं गृभायत सोममिन्द्राय पातवे ॥७॥
(२०,९२.८ ) अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत ।
(२०,९२.८ ) वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव ॥८॥
(२०,९२.९ ) सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।
(२०,९२.९ ) अनुक्षरन्ति काकुदं सूर्यं सुषिरामिव ॥९॥
(२०,९२.१० ) यो व्यतींरफाणयत्सुयुक्तामुप दाशुषे ।
(२०,९२.१० ) तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत ॥१०॥
(२०,९२.११ ) अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः ।
(२०,९२.११ ) भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥११॥
(२०,९२.१२ ) अर्भको न कुमारकोऽधि तिष्ठन्न् अवं रथम् ।
(२०,९२.१२ ) स पक्षन् महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥१२॥
(२०,९२.१३ ) आ तू सुशिप्र दंपते रथं तिष्ठा हिरण्ययम् ।
(२०,९२.१३ ) अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम् ॥१३॥
(२०,९२.१४ ) तं घेमित्था नमस्विन उप स्वराजमासते ।
(२०,९२.१४ ) अर्थं चिदस्य सुधितं यदेतवे आवर्तयन्ति दावने ॥१४॥
(२०,९२.१५ ) अनु प्रत्नस्यौकसः प्रियमेधास एषाम् ।
(२०,९२.१५ ) पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥१५॥
(२०,९२.१६ ) यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।
(२०,९२.१६ ) विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥१६॥
(२०,९२.१७ ) इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि ।
(२०,९२.१७ ) हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥१७॥
(२०,९२.१८ ) नकिष्टं कर्मणा नशद्यश्चकार सदावृधम् ।
(२०,९२.१८ ) इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम् ॥१८॥
(२०,९२.१९ ) अषाल्हमुग्रं पृतनासु सासहिं यस्मिन् महीरुरुज्रयः ।
(२०,९२.१९ ) सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः ॥१९॥
(२०,९२.२० ) यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः ।
(२०,९२.२० ) न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥२०॥
(२०,९२.२१ ) आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा ।
(२०,९२.२१ ) अस्मामव मघवन् गोमति व्रजे वज्रिं चित्राभिरूतिभिः ॥२१॥
(२०,९३.१ ) उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः ।
(२०,९३.१ ) अव ब्रह्मद्विषो जहि ॥१॥
(२०,९३.२ ) पदा पणींरराधसो नि बाधस्व महामसि ।
(२०,९३.२ ) नहि त्वा कश्चन प्रति ॥२॥
(२०,९३.३ ) त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् ।
(२०,९३.३ ) त्वं राजा जनानाम् ॥३॥
(२०,९३.४ ) ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते ।
(२०,९३.४ ) भेजानासः सुवीर्यम् ॥४॥
(२०,९३.५ ) त्वमिन्द्र बलादधि सहसो जात ओजसः ।
(२०,९३.५ ) त्वं वृषन् वृषेदसि ॥५॥
(२०,९३.६ ) त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः ।
(२०,९३.६ ) उद्द्यामस्तभ्ना ओजसा ॥६॥
(२०,९३.७ ) त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः ।
(२०,९३.७ ) वज्रं शिशान ओजसा ॥७॥
(२०,९३.८ ) त्वमिन्द्राभिभुरसि विश्वा जातान्योजसा ।
(२०,९३.८ ) स विश्वा भुव आभवः ॥८॥
(२०,९४.१ ) आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान् ।
(२०,९४.१ ) प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन ॥१॥
(२०,९४.२ ) सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ ।
(२०,९४.२ ) शीभं राजन् सुपथा याह्यर्वाङ्वर्धाम ते पपुसो वृष्ण्यानि ॥२॥
(२०,९४.३ ) एन्द्रवाहो नृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम् ।
(२०,९४.३ ) प्रत्वक्षसं वृषभं सत्यशुष्ममेमस्मत्रा सधमादो वहन्तु ॥३॥
(२०,९४.४ ) एवा पतिं द्रोणसाचं सचेतसमूर्ज स्कम्भं धरुण आ वृषायसे ।
(२०,९४.४ ) ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे ॥४॥
(२०,९४.५ ) गमन्न् अस्मे वसून्या हि शंसिषं स्वाशिषं भरमा याहि सोमिनः ।
(२०,९४.५ ) त्वमीशिषे सास्मिन्न् आ सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा ॥५॥
(२०,९४.६ ) पृथक्प्रायन् प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा ।
(२०,९४.६ ) न ये शेकुर्यज्ञियां नावमारुहमिर्मैव ते न्यविशन्त केपयः ॥६॥
(२०,९४.७ ) एवैवापागपरे सन्तु दूध्योऽश्वा येषां दुर्युग आयुयुज्रे ।
(२०,९४.७ ) इत्था ये प्रागुपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥७॥
(२०,९४.८ ) गिरींरज्रान् रेजमानामधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत्।
(२०,९४.८ ) समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥८॥
(२०,९४.९ ) इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवं छफारुजः ।
(२०,९४.९ ) अस्मिन्त्सु ते सवने अस्त्वोक्त्यं सुत इष्टौ मघवन् बोध्याभगः ॥९॥
(२०,९४.१० ) गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
(२०,९४.१० ) वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥१०॥
(२०,९४.११ ) बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः ।
(२०,९४.११ ) इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥११॥
(२०,९५.१ ) त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत्।
(२०,९५.१ ) स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥१॥
(२०,९५.२ ) प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।
(२०,९५.२ ) अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥२॥
(२०,९५.३ ) त्वं सिन्धूंरवासृजोऽधराचो अहन्न् अहिम् ।
(२०,९५.३ ) अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥३॥
(२०,९५.४ ) वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।
(२०,९५.४ ) अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु ।
(२०,९५.४ ) नभन्तामन्यकेषां ज्यका अधि धन्वसु ॥४॥
(२०,९६.१ ) तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च ।
(२०,९६.१ ) इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन् तुभ्यमिमे सुतासः ॥१॥
(२०,९६.२ ) तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः श्वात्र्या आ ह्वयन्ति ।
(२०,९६.२ ) इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वामिह पाहि सोमम् ॥२॥
(२०,९६.३ ) य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति ।
(२०,९६.३ ) न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति ॥३॥
(२०,९६.४ ) अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान् न सुनोति सोमम् ।
(२०,९६.४ ) निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः ॥४॥
(२०,९६.५ ) अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ ।
(२०,९६.५ ) आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम ॥५॥
(२०,९६.६ ) मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्।
(२०,९६.६ ) ग्राहिर्जग्राह यद्येतद्तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥६॥
(२०,९६.७ ) यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव ।
(२०,९६.७ ) तमा हरामि निरृतेरुपस्थादस्पार्शमेनं शतशारदाय ॥७॥
(२०,९६.८ ) सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम् ।
(२०,९६.८ ) इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् ॥८॥
(२०,९६.९ ) शतं जीव शरदो वर्धमानः शतं हेमन्तान् छतमु वसन्तान् ।
(२०,९६.९ ) शतं त इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥९॥
(२०,९६.१० ) आहार्षमविदं त्वा पुनरागाः पुनर्णवः ।
(२०,९६.१० ) सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥१०॥
(२०,९६.११ ) ब्रह्मणाग्निः सम्विदानो रक्षोहा बाधतामितः ।
(२०,९६.११ ) अमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥११॥
(२०,९६.१२ ) यस्ते गर्भममीवा दुर्णामा योनिमाशये ।
(२०,९६.१२ ) अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत्॥१२॥
(२०,९६.१३ ) यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् ।
(२०,९६.१३ ) जातं यस्ते जिघांसति तमितो नाशयामसि ॥१३॥
(२०,९६.१४ ) यस्त ऊरू विहरत्यन्तरा दम्पती शये ।
(२०,९६.१४ ) योनिं यो अन्तरारेल्हि तमितो नाशयामसि ॥१४॥
(२०,९६.१५ ) यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते ।
(२०,९६.१५ ) प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥१५॥
(२०,९६.१६ ) यस्त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते ।
(२०,९६.१६ ) प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥१६॥
(२०,९६.१७ ) अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।
(२०,९६.१७ ) यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥१७॥
(२०,९६.१८ ) ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात्।
(२०,९६.१८ ) यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥१८॥
(२०,९६.१९ ) हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम् ।
(२०,९६.१९ ) यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥१९॥
(२०,९६.२० ) आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि ।
(२०,९६.२० ) यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते ॥२०॥
(२०,९६.२१ ) ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।
(२०,९६.२१ ) यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भांससो वि वृहामि ते ॥२१॥
(२०,९६.२२[]अ) मेहनाद्वनंकरणाल्लोमभ्यस्ते नखेभ्यः ।
(२०,९६.२२[]च्) यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥२२॥
(२०,९६.[]२२ ) अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः ।
(२०,९६.[]२२ ) यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥२२॥
(२०,९६.२३ ) अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि ।
(२०,९६.२३ ) यक्षं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥२३॥
(२०,९६.२४ ) अपेहि मनसस्पतेऽप काम परश्चर ।
(२०,९६.२४ ) परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः ॥२४॥
(२०,९७.१ ) वयमेनमिदा ह्योपीपेमेह वज्रिणम् ।
(२०,९७.१ ) तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते ॥१॥
(२०,९७.२ ) वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति ।
(२०,९७.२ ) सेमं नः स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥२॥
(२०,९७.३ ) कदु न्वस्याकृतमिन्द्रस्यास्ति पौंस्यम् ।
(२०,९७.३ ) केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥३॥
(२०,९८.१ ) त्वामिद्धि हवामहे साता वाजस्य कारवः ।
(२०,९८.१ ) त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥१॥
(२०,९८.२ ) स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः ।
(२०,९८.२ ) गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥२॥
(२०,९९.१ ) अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।
(२०,९९.१ ) समीचीनास ऋभवः समस्वरन् रुद्रा गृणन्त पूर्व्यम् ॥१॥
(२०,९९.२ ) अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि ।
(२०,९९.२ ) अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥२॥
(२०,१००.१ ) अधा हीन्द्र गिर्वण उप त्वा कामान् महः ससृज्महे ।
(२०,१००.१ ) उदेव यन्त उदभिः ॥१॥
(२०,१००.२ ) वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि ।
(२०,१००.२ ) वावृध्वांसं चिदद्रिवो दिवेदिवे ॥२॥
(२०,१००.३ ) युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे ।
(२०,१००.३ ) इन्द्रवाहा वचोयुजा ॥३॥
(२०,१०१.१ ) अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।
(२०,१०१.१ ) अस्य यज्ञस्य सुक्रतुम् ॥१॥
(२०,१०१.२ ) अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् ।
(२०,१०१.२ ) हव्यवाहं पुरुप्रियम् ॥२॥
(२०,१०१.३ ) अग्ने देवामिहा वह जज्ञानो वृक्तबर्हिषे ।
(२०,१०१.३ ) असि होता न ईड्यः ॥३॥
(२०,१०२.१ ) ईलेन्यो नमस्यस्तिरस्तमांसि दर्शतः ।
(२०,१०२.१ ) समग्निरिध्यते वृषा ॥१॥
(२०,१०२.२ ) वृषो अग्निः समिध्यतेऽश्वो न देववाहनः ।
(२०,१०२.२ ) तं हविष्मन्तः ईलते ॥२॥
(२०,१०२.३ ) वृषणं त्वा वयं वृषन् वृषणः समिधीमहि ।
(२०,१०२.३ ) अग्ने दीद्यतं बृहत्॥३॥
(२०,१०३.१ ) अग्निमीलिष्वावसे गाथाभिः शीरशोचिषम् ।
(२०,१०३.१ ) अग्निं राये पुरुमील्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः ॥१॥
(२०,१०३.२ ) अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।
(२०,१०३.२ ) आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥२॥
(२०,१०३.३ ) अछ हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ।
(२०,१०३.३ ) ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥३॥
(२०,१०४.१ ) इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
(२०,१०४.१ ) पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥१॥
(२०,१०४.२ ) अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।
(२०,१०४.२ ) सत्यः सो अस्य महिमा गृने शवो यज्ञेषु विप्रराज्ये ॥२॥
(२०,१०४.३ ) आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु ।
(२०,१०४.३ ) उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥३॥
(२०,१०४.४ ) त्वं दाता प्रथमो राघसामस्यसि सत्य ईशानकृत्।
(२०,१०४.४ ) तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥४॥
(२०,१०५.१ ) त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः ।
(२०,१०५.१ ) अशस्तिहा जनिता विश्वतूरसि त्वं तूर्य तरुष्यतः ॥१॥
(२०,१०५.२ ) अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा ।
(२०,१०५.२ ) विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥२॥
(२०,१०५.३ ) इत ऊती वो अजरं प्रहेतारमप्रहितम् ।
(२०,१०५.३ ) आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्यावृधम् ॥३॥
(२०,१०५.४ ) यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।
(२०,१०५.४ ) विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥४॥
(२०,१०५.५ ) इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि ।
(२०,१०५.५ ) हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥५॥
(२०,१०६.१ ) तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम् ।
(२०,१०६.१ ) वज्रं शिशाति धिषणा वरेण्यम् ॥१॥
(२०,१०६.२ ) तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः ।
(२०,१०६.२ ) त्वामापः पर्वतासश्च हिन्विरे ॥२॥
(२०,१०६.३ ) त्वां विष्णुर्बृहन् क्षयो मित्रो गृणाति वरुणः ।
(२०,१०६.३ ) त्वां शर्धो मदत्यनु मारुतम् ॥३॥
(२०,१०७.१ ) समस्य मन्यवे विशो विश्वा नमन्त कुष्टयः ।
(२०,१०७.१ ) समुद्रायेव सिन्धवः ॥१॥
(२०,१०७.२ ) ओजस्तदस्य तित्विष उभे यत्समवर्तयत्।
(२०,१०७.२ ) इन्द्रश्चर्मेव रोदसी ॥२॥
(२०,१०७.३ ) वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा ।
(२०,१०७.३ ) शिरो बिभेद्वृष्णिना ॥३॥
(२०,१०७.४ ) तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः ।
(२०,१०७.४ ) सद्यो जज्ञानो नि रिणाति शत्रून् अनु यदेनं मदन्ति विश्व ऊमाः ॥४॥
(२०,१०७.५ ) वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।
(२०,१०७.५ ) अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥५॥
(२०,१०७.६ ) त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः ।
(२०,१०७.६ ) स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥६॥
(२०,१०७.७ ) यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः ।
(२०,१०७.७ ) ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥७॥
(२०,१०७.८ ) त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।
(२०,१०७.८ ) चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥८॥
(२०,१०७.९ ) नि तद्दधिषेऽवरे परे च यस्मिन्न् आविथावसा दुरोणे ।
(२०,१०७.९ ) आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि ॥९॥
(२०,१०७.१० ) स्तुष्व वर्ष्मन् पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम् ।
(२०,१०७.१० ) आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥१०॥
(२०,१०७.११ ) इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्नियः स्वर्षाः ।
(२०,१०७.११ ) महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥११॥
(२०,१०७.१२ ) एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव ।
(२०,१०७.१२ ) स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥१२॥
(२०,१०७.१३ ) चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् ।
(२०,१०७.१३ ) दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥१३॥
(२०,१०७.१४ ) चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
(२०,१०७.१४ ) आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥१४॥
(२०,१०७.१५ ) सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात्।
(२०,१०७.१५ ) यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥१५॥
(२०,१०८.१ ) त्वं न इन्द्रा भरमोजो नृम्णं शतक्रतो विचर्षणे ।
(२०,१०८.१ ) आ वीरं पृतनाषहम् ॥१॥
(२०,१०८.२ ) त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।
(२०,१०८.२ ) अधा ते सुम्नमीमहे ॥२॥
(२०,१०८.३ ) त्वां शुष्मिन् पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो ।
(२०,१०८.३ ) स नो रास्व सुवीर्यम् ॥३॥
(२०,१०९.१ ) स्वादोरित्था विषुवतो मध्वः पिबन्ति गौर्यः ।
(२०,१०९.१ ) या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥१॥
(२०,१०९.२ ) ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।
(२०,१०९.२ ) प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥२॥
(२०,१०९.३ ) ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।
(२०,१०९.३ ) व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥३॥
(२०,११०.१ ) इन्द्राय मदूने सुतं परि ष्टोभन्तु नो गिरः ।
(२०,११०.१ ) अर्कमर्चन्तु कारवः ॥१॥
(२०,११०.२ ) यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त संसदः ।
(२०,११०.२ ) इन्द्रं सुते हवामहे ॥२॥
(२०,११०.३ ) त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।
(२०,११०.३ ) तमिद्वर्धन्तु नो गिरः ॥३॥
(२०,१११.१ ) यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये ।
(२०,१११.१ ) यद्वा मरुत्सु मन्दसे समिन्दुभिः ॥१॥
(२०,१११.२ ) यद्वा शक्र परावति समुद्रे अधि मन्दसे ।
(२०,१११.२ ) अस्माकमित्सुते रणा समिन्दुभिः ॥२॥
(२०,१११.३ ) यद्वासि सुन्वतो वृधो यजमानस्य सत्पते ।
(२०,१११.३ ) उक्थे वा यस्य रण्यसि समिन्दुभिः ॥३॥
(२०,११२.१ ) यदद्य कच्च वृत्रहन्न् उदगा अभि सूर्य ।
(२०,११२.१ ) सर्वं तदिन्द्र ते वशे ॥१॥
(२०,११२.२ ) यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे ।
(२०,११२.२ ) उतो तत्सत्यमित्तव ॥२॥
(२०,११२.३ ) ये सोमासः परावति ये अर्वावति सुन्विरे ।
(२०,११२.३ ) सर्वांस्तामिन्द्र गछसि ॥३॥
(२०,११३.१ ) उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।
(२०,११३.१ ) सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत्॥१॥
(२०,११३.२ ) तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः ।
(२०,११३.२ ) उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥२॥
(२०,११४.१ ) अभ्रातृव्योऽना त्वमनापिरिन्द्र जनुषा सनादसि ।
(२०,११४.१ ) युधेदापित्वमिछसे ॥१॥
(२०,११४.२ ) नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः ।
(२०,११४.२ ) यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे ॥२॥
(२०,११५.१ ) अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ ।
(२०,११५.१ ) अहं सूर्य इवाजनि ॥१॥
(२०,११५.२ ) अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत्।
(२०,११५.२ ) येनेन्द्रः शुष्ममिद्दधे ॥२॥
(२०,११५.३ ) ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः ।
(२०,११५.३ ) ममेद्वर्धस्व सुष्टुतः ॥३॥
(२०,११६.१ ) मा भूम निष्ट्या इवेन्द्र त्वदरणा इव ।
(२०,११६.१ ) वनानि नि प्रजहितान्यद्रिवो दुरोषासो अमन्महि ॥१॥
(२०,११६.२ ) अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन् ।
(२०,११६.२ ) सुकृत्सु ते महता शूर राधसानु स्तोमं मुदीमहि ॥२॥
(२०,११७.१ ) पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।
(२०,११७.१ ) सोतुर्बाहुभ्यां सुयतो नार्वा ॥१॥
(२०,११७.२ ) यस्ते मदो युजस्चारुरस्ति येन वृत्राणि हर्यश्व हंसि ।
(२०,११७.२ ) स त्वामिन्द्र प्रभूवसो ममत्तु ॥२॥
(२०,११७.३ ) बोधा सु मे मघवन् वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् ।
(२०,११७.३ ) इमा ब्रह्म सधमादे जुषस्व ॥३॥
(२०,११८.१ ) शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः ।
(२०,११८.१ ) भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥१॥
(२०,११८.२ ) पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।
(२०,११८.२ ) नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥२॥
(२०,११८.३ ) इन्द्रमिद्देवतातये इन्द्रं प्रयत्यध्वरे ।
(२०,११८.३ ) इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥३॥
(२०,११८.४ ) इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत्।
(२०,११८.४ ) इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥४॥
(२०,११९.१ ) अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत ।
(२०,११९.१ ) पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेघा असृक्षत ॥१॥
(२०,११९.२ ) तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः ।
(२०,११९.२ ) अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥२॥
(२०,१२०.१ ) यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।
(२०,१२०.१ ) सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥१॥
(२०,१२०.२ ) यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा ।
(२०,१२०.२ ) कण्वासस्त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यछन्त्या गहि ॥२॥
(२०,१२१.१ ) अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।
(२०,१२१.१ ) ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥१॥
(२०,१२१.२ ) न त्वावामन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
(२०,१२१.२ ) अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥२॥
(२०,१२२.१ ) रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।
(२०,१२२.१ ) क्षुमन्तो याभिर्मदेम ॥१॥
(२०,१२२.२ ) आ घ त्वावान् त्मनाप्त स्तोतृभ्यो धृष्णवियानः ।
(२०,१२२.२ ) ऋणोरक्षं न चक्रयोः ॥२॥
(२०,१२२.३ ) आ यद्दुवः शतक्रतवा कामं जरितॄणाम् ।
(२०,१२२.३ ) ऋणोरक्षं न शचीभिः ॥३॥
(२०,१२३.१ ) तत्सूर्यस्य देवत्वं तन् महित्वं मध्या कर्तोर्विततं सं जभार ।
(२०,१२३.१ ) यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥१॥
(२०,१२३.२ ) तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे ।
(२०,१२३.२ ) अनन्तमन्यद्रुशदस्य प्राजः कृष्णमन्यद्धरितः सं भरन्ति ॥२॥
(२०,१२४.१ ) कया नश्चित्र आ भुवदूती सदावृधः सखा ।
(२०,१२४.१ ) कया शचिष्ठया वृता ॥१॥
(२०,१२४.२ ) कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः ।
(२०,१२४.२ ) दृल्हा चिदारुजे वसु ॥२॥
(२०,१२४.३ ) अभी षु नः सखीनामविता जरितॄणाम् ।
(२०,१२४.३ ) शतं भवास्यूतिभिः ॥३॥
(२०,१२४.४ ) इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ।
(२०,१२४.४ ) यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥४॥
(२०,१२४.५ ) आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् ।
(२०,१२४.५ ) हत्वाय देवा असुरान् यदायन् देवा देवत्वमभिरक्षमाणाः ॥५॥
(२०,१२४.६ ) प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ।
(२०,१२४.६ ) अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥६॥
(२०,१२५.१ ) अपेन्द्र प्राचो मघवन्न् अमित्रान् अपापाचो अभिभूते नुदस्व ।
(२०,१२५.१ ) अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम ॥१॥
(२०,१२५.२ ) कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय ।
(२०,१२५.२ ) इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥२॥
(२०,१२५.३ ) नहि स्थूर्यृतुथा यातमस्ति नोत श्रवो विविदे संगमेषु ।
(२०,१२५.३ ) गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥३॥
(२०,१२५.४ ) युवं सुराममश्विना नमुचावासुरे सचा ।
(२०,१२५.४ ) विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥४॥
(२०,१२५.५ ) पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः ।
(२०,१२५.५ ) यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक्॥५॥
(२०,१२५.६ ) इन्द्रः सुत्रामा स्ववामवोभिः सुमृडीको भवतु विश्ववेदाः ।
(२०,१२५.६ ) बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥६॥
(२०,१२५.७ ) स सुत्रामा स्ववामिन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु ।
(२०,१२५.७ ) तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥७॥
(२०,१२६.१ ) वि हि सोतोरसृक्षत नेन्द्रं देवममंसत ।
(२०,१२६.१ ) यत्रामदद्वृषाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्र उत्तरः ॥१॥
(२०,१२६.२ ) परा हीन्द्र धावसि वृषाकपेरति व्यथिः ।
(२०,१२६.२ ) नो अह प्र विन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः ॥२॥
(२०,१२६.३ ) किमयं त्वां वृषाकपिश्चकार हरितो मृगः ।
(२०,१२६.३ ) यस्मा इरस्यसीदु न्वर्यो वा पुष्टिमद्वसु विश्वस्मादिन्द्र उत्तरः ॥३॥
(२०,१२६.४ ) यमिमं त्वं वृषाकपिं प्रियमिन्द्राभिरक्षसि ।
(२०,१२६.४ ) श्वा न्वस्य जम्भिषदपि कर्णे वराहयुर्विश्वस्मादिन्द्र उत्तरः ॥४॥
(२०,१२६.५ ) प्रिया तष्टानि मे कपिर्व्यक्ता व्यदूदुषत्।
(२०,१२६.५ ) शिरो न्वस्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिन्द्र उत्तरः ॥५॥
(२०,१२६.६ ) न मत्स्त्री सुभसत्तरा न सुयाशुतरा भुवत्।
(२०,१२६.६ ) न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्र उत्तरः ॥६॥
(२०,१२६.७ ) उवे अम्ब सुलाभिके यथेवाङ्गं भविष्यति ।
(२०,१२६.७ ) भसन् मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्मादिन्द्र उत्तरः ॥७॥
(२०,१२६.८ ) किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने ।
(२०,१२६.८ ) किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपिं विश्वस्मादिन्द्र उत्तरः ॥८॥
(२०,१२६.९ ) अवीरामिव मामयं शरारुरभि मन्यते ।
(२०,१२६.९ ) उताहमस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः ॥९॥
(२०,१२६.१० ) संहोत्रं स्म पुरा नारी समनं वाव गछति ।
(२०,१२६.१० ) वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः ॥१०॥
(२०,१२६.११ ) इन्द्राणीमासु नारिषु सुभगामहमश्रवम् ।
(२०,१२६.११ ) नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ॥११॥
(२०,१२६.१२ ) नाहमिन्द्राणि रारण सख्युर्वृषाकपेरृते ।
(२०,१२६.१२ ) यस्येदमप्यं हविः प्रियं देवेषु गछति विश्वस्मादिन्द्र उत्तरः ॥१२॥
(२०,१२६.१३ ) वृसाकपायि रेवति सुपुत्र आदु सुस्नुषे ।
(२०,१२६.१३ ) घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः ॥१३॥
(२०,१२६.१४ ) उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंसतिम् ।
(२०,१२६.१४ ) उताहमद्मि पीव इदुभा कुक्षी पृणन्ति मे विश्वस्मादिन्द्र उत्तरः ॥१४॥
(२०,१२६.१५ ) वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत्।
(२०,१२६.१५ ) मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः ॥१५॥
(२०,१२६.१६ ) न सेशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्।
(२०,१२६.१६ ) सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः ॥१६॥
(२०,१२६.१७ ) न सेशे यस्य रोमशं निषेदुषो विजृम्भते ।
(२०,१२६.१७ ) सेदीशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्विश्वस्मादिन्द्र उत्तरः ॥१७॥
(२०,१२६.१८ ) अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत्।
(२०,१२६.१८ ) असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ॥१८॥
(२०,१२६.१९ ) अयमेमि विचाकशद्विचिन्वन् दासमार्यम् ।
(२०,१२६.१९ ) पिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः ॥१९॥
(२०,१२६.२० ) धन्व च यत्कृन्तत्रं च कति स्वित्ता वि योजना ।
(२०,१२६.२० ) नेदीयसो वृषाकपेऽस्तमेहि गृहामुप विश्वस्मादिन्द्र उत्तरः ॥२०॥
(२०,१२६.२१ ) पुनरेहि वृषाकपे सुविता कल्पयावहै ।
(२०,१२६.२१ ) य एष स्वप्ननंशनोऽस्तमेषि पथा पुनर्विश्वस्मादिन्द्र उत्तरः ॥२१॥
(२०,१२६.२२ ) यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन ।
(२०,१२६.२२ ) क्व स्य पुल्वघो मृगः कमगं जनयोपनो विश्वस्मादिन्द्र उत्तरः ॥२२॥
(२०,१२६.२३ ) पर्शुर्ह नाम मानवी साकं ससूव विंशतिम् ।
(२०,१२६.२३ ) भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः ॥२३॥
(२०,१२७.१ ) इदं जना उप श्रुत नराशंस स्तविष्यते ।
(२०,१२७.१ ) षष्टिं सहस्रा नवतिं च कौरम आ रुशमेषु दद्महे ॥१॥
(२०,१२७.२ ) उष्ट्रा यस्य प्रवाहणो वधूमन्तो द्विर्दश ।
(२०,१२७.२ ) वर्ष्मा रथस्य नि जिहीडते दिव ईषमाणा उपस्पृशः ॥२॥
(२०,१२७.३ ) एष इषाय मामहे शतं निष्कान् दश स्रजः ।
(२०,१२७.३ ) त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ॥३॥
(२०,१२७.४ ) वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः ।
(२०,१२७.४ ) नष्टे जिह्वा चर्चरीति क्षुरो न भुरिजोरिव ॥४॥
(२०,१२७.५ ) प्र रेभासो मनीषा वृषा गाव इवेरते ।
(२०,१२७.५ ) अमोतपुत्रका एषाममोत गा इवासते ॥५॥
(२०,१२७.६ ) प्र रेभ धीं भरस्व गोविदं वसुविदम् ।
(२०,१२७.६ ) देवत्रेमां वाचं स्रीणीहीषुर्नावीरस्तारम् ॥६॥
(२०,१२७.७ ) राज्ञो विश्वजनीनस्य यो देवोमर्त्यामति ।
(२०,१२७.७ ) वैश्वानरस्य सुष्टुतिमा सुनोता परिक्षितः ॥७॥
(२०,१२७.८ ) परिछिन्नः क्षेममकरोत्तम आसनमाचरन् ।
(२०,१२७.८ ) कुलायन् कृण्वन् कौरव्यः पतिर्वदति जायया ॥८॥
(२०,१२७.९ ) कतरत्त आ हराणि दधि मन्थां परि श्रुतम् ।
(२०,१२७.९ ) जायाः पतिं वि पृछति राष्ट्रे राज्ञः परिक्षितः ॥९॥
(२०,१२७.१० ) अभीवस्वः प्र जिहीते यवः पक्वः पथो बिलम् ।
(२०,१२७.१० ) जनः स भद्रमेधति राष्ट्रे राज्ञः परिक्षितः ॥१०॥
(२०,१२७.११ ) इन्द्रः कारुमबूबुधदुत्तिष्ठ वि चरा जनम् ।
(२०,१२७.११ ) ममेदुग्रस्य चर्कृधि सर्व इत्ते पृणादरिः ॥११॥
(२०,१२७.१२ ) इह गावः प्र जायध्वमिहाश्वा इह पूरुषाः ।
(२०,१२७.१२ ) इहो सहस्रदक्षिणोपि पूषा नि षीदति ॥१२॥
(२०,१२७.१३ ) नेमा इन्द्र गावो रिषन् मो आसां गोप रीरिषत्।
(२०,१२७.१३ ) मासाममित्रयुर्जन इन्द्र मा स्तेन ईशत ॥१३॥
(२०,१२७.१४ ) उप नो न रमसि सूक्तेन वचसा वयं भद्रेण वचसा वयम् ।
(२०,१२७.१४ ) वनादधिध्वनो गिरो न रिष्येम कदा चन ॥१४॥
(२०,१२८.१ ) यः सभेयो विदथ्यः सुत्वा यज्वाथ पूरुषः ।
(२०,१२८.१ ) सूर्यं चामू रिशादसस्तद्देवाः प्रागकल्पयन् ॥१॥
(२०,१२८.२ ) यो जाम्या अप्रथयस्तद्यत्सखायं दुधूर्षति ।
(२०,१२८.२ ) ज्येष्ठो यदप्रचेतास्तदाहुरधरागिति ॥२॥
(२०,१२८.३ ) यद्भद्रस्य पुरुषस्य पुत्रो भवति दाधृषिः ।
(२०,१२८.३ ) तद्विप्रो अब्रवीदु तद्गन्धर्वः काम्यं वचः ॥३॥
(२०,१२८.४ ) यश्च पणि रघुजिष्ठ्यो यश्च देवामदाशुरिः ।
(२०,१२८.४ ) धीराणां शश्वतामहं तदपागिति शुश्रुम ॥४॥
(२०,१२८.५ ) ये च देवा अयजन्ताथो ये च पराददिः ।
(२०,१२८.५ ) सूर्यो दिवमिव गत्वाय मघवा नो वि रप्शते ॥५॥
(२०,१२८.६ ) योऽनाक्ताक्षो अनभ्यक्तो अमणिवो अहिरण्यवः ।
(२०,१२८.६ ) अब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥६॥
(२०,१२८.७ ) य आक्ताक्षः सुभ्यक्तः सुमणिः सुहिरण्यवः ।
(२०,१२८.७ ) सुब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥७॥
(२०,१२८.८ ) अप्रपाणा च वेशन्ता रेवामप्रतिदिश्ययः ।
(२०,१२८.८ ) अयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥८॥
(२०,१२८.९ ) सुप्रपाणा च वेशन्ता रेवान्त्सुप्रतिदिश्ययः ।
(२०,१२८.९ ) सुयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥९॥
(२०,१२८.१० ) परिवृक्ता च महिषी स्वस्त्या च युधिं गमः ।
(२०,१२८.१० ) अनाशुरश्चायामी तोता कल्पेषु संमिता ॥१०॥
(२०,१२८.११ ) वावाता च महिषी स्वस्त्या च युधिं गमः ।
(२०,१२८.११ ) श्वाशुरश्चायामी तोता कल्पेषु संमिता ॥११॥
(२०,१२८.१२ ) यदिन्द्रादो दाशराज्ञे मानुषं वि गाहथाः ।
(२०,१२८.१२ ) विरूपः सर्वस्मा आसीत्सह यक्षाय कल्पते ॥१२॥
(२०,१२८.१३ ) त्वं वृषाक्षुं मघवन्न् अम्रं मर्याकरो रविः ।
(२०,१२८.१३ ) त्वं रौहिणं व्यास्यो वि वृत्रस्याभिनच्छिरः ॥१३॥
(२०,१२८.१४ ) यः पर्वतान् व्यदधाद्यो अपो व्यगाहथाः ।
(२०,१२८.१४ ) इन्द्रो यो वृत्रहान्महं तस्मादिन्द्र नमोऽस्तु ते ॥१४॥
(२०,१२८.१५ ) पृष्ठं धावन्तं हर्योरौच्चैः श्रवसमब्रुवन् ।
(२०,१२८.१५ ) स्वस्त्यश्व जैत्रायेन्द्रमा वह सुस्रजम् ॥१५॥
(२०,१२८.१६ ) ये त्वा श्वेता अजैश्रवसो हार्यो युञ्जन्ति दक्षिणम् ।
(२०,१२८.१६ ) पूर्वा नमस्य देवानां बिभ्रदिन्द्र महीयते ॥१६॥
(२०,१२९.१ ) एता अश्वा आ प्लवन्ते ॥१॥
(२०,१२९.२ ) प्रतीपं प्राति सुत्वनम् ॥२॥
(२०,१२९.३ ) तासामेका हरिक्निका ॥३॥
(२०,१२९.४ ) हरिक्निके किमिछासि ॥४॥
(२०,१२९.५ ) साधुं पुत्रं हिरण्ययम् ॥५॥
(२०,१२९.६ ) क्वाहतं परास्यः ॥६॥
(२०,१२९.७ ) यत्रामूस्तिस्रः शिंशपाः ॥७॥
(२०,१२९.८ ) परि त्रयः ॥८॥
(२०,१२९.९ ) पृदाकवः ॥९॥
(२०,१२९.१० ) शृङ्गं धमन्त आसते ॥१०॥
(२०,१२९.११ ) अयन्महा ते अर्वाहः ॥११॥
(२०,१२९.१२ ) स इछकं सघाघते ॥१२॥
(२०,१२९.१३ ) सघाघते गोमीद्या गोगतीरिति ॥१३॥
(२०,१२९.१४ ) पुमां कुस्ते निमिछसि ॥१४॥
(२०,१२९.१५ ) पल्प बद्ध वयो इति ॥१५॥
(२०,१२९.१६ ) बद्ध वो अघा इति ॥१६॥
(२०,१२९.१७ ) अजागार केविका ॥१७॥
(२०,१२९.१८ ) अश्वस्य वारो गोशपद्यके ॥१८॥
(२०,१२९.१९ ) श्येनीपती सा ॥१९॥
(२०,१२९.२० ) अनामयोपजिह्विका ॥२०॥
(२०,१३०.१ ) को अर्य बहुलिमा इषूनि ॥१॥
(२०,१३०.२ ) को असिद्याः पयः ॥२॥
(२०,१३०.३ ) को अर्जुन्याः पयः ॥३॥
(२०,१३०.४ ) कः कार्ष्ण्याः पयः ॥४॥
(२०,१३०.५ ) एतं पृछ कुहं पृछ ॥५॥
(२०,१३०.६ ) कुहाकं पक्वकं पृछ ॥६॥
(२०,१३०.७ ) यवानो यतिष्वभिः कुभिः ॥७॥
(२०,१३०.८ ) अकुप्यन्तः कुपायकुः ॥८॥
(२०,१३०.९ ) आमणको मणत्सकः ॥९॥
(२०,१३०.१० ) देव त्वप्रतिसूर्य ॥१०॥
(२०,१३०.११ ) एनश्चिपङ्क्तिका हविः ॥११॥
(२०,१३०.१२ ) प्रदुद्रुदो मघाप्रति ॥१२॥
(२०,१३०.१३ ) शृङ्ग उत्पन्न ॥१३॥
(२०,१३०.१४ ) मा त्वाभि सखा नो विदन् ॥१४॥
(२०,१३०.१५ ) वशायाः पुत्रमा यन्ति ॥१५॥
(२०,१३०.१६ ) इरावेदुमयं दत ॥१६॥
(२०,१३०.१७ ) अथो इयन्नियन्न् इति ॥१७॥
(२०,१३०.१८ ) अथो इयन्निति ॥१८॥
(२०,१३०.१९ ) अथो श्वा अस्थिरो भवन् ॥१९॥
(२०,१३०.२० ) उयं यकांशलोकका ॥२०॥
(२०,१३१.१ ) आमिनोनिति भद्यते ॥१॥
(२०,१३१.२ ) तस्य अनु निभञ्जनम् ॥२॥
(२०,१३१.३ ) वरुणो याति वस्वभिः ॥३॥
(२०,१३१.४ ) शतं वा भारती शवः ॥४॥
(२०,१३१.५ ) शतमाश्वा हिरण्ययाः ।
(२०,१३१.५ ) शतं रथ्या हिरण्ययाः ।
(२०,१३१.५ ) शतं कुथा हिरण्ययाः ।
(२०,१३१.६ ) अहुल कुश वर्त्तक ॥६॥
(२०,१३१.७ ) शफेन इव ओहते ॥७॥
(२०,१३१.८ ) आय वनेनती जनी ॥८॥
(२०,१३१.९ ) वनिष्ठा नाव गृह्यन्ति ॥९॥
(२०,१३१.१० ) इदं मह्यं मदूरिति ॥१०॥
(२०,१३१.११ ) ते वृक्षाः सह तिष्ठति ॥११॥
(२०,१३१.१२ ) पाक बलिः ॥१२॥
(२०,१३१.१३ ) शक बलिः ॥१३॥
(२०,१३१.१४ ) अश्वत्थ खदिरो धवः ॥१४॥
(२०,१३१.१५ ) अरदुपरम ॥१५॥
(२०,१३१.१६ ) शयो हत इव ॥१६॥
(२०,१३१.१७ ) व्याप पूरुषः ॥१७॥
(२०,१३१.१८ ) अदूहमित्यां पूषकम् ॥१८॥
(२०,१३१.१९ ) अत्यर्धर्च परस्वतः ॥१९॥
(२०,१३१.२० ) दौव हस्तिनो दृती ॥२०॥
(२०,१३२.१ ) आदलाबुकमेककम् ॥१॥
(२०,१३२.२ ) अलाबुकं निखातकम् ॥२॥
(२०,१३२.३ ) कर्करिको निखातकः ॥३॥
(२०,१३२.४ ) तद्वात उन्मथायति ॥४॥
(२०,१३२.५ ) कुलायं कृणवादिति ॥५॥
(२०,१३२.६ ) उग्रं वनिषदाततम् ॥६॥
(२०,१३२.७ ) न वनिषदनाततम् ॥७॥
(२०,१३२.८ ) क एषां कर्करी लिखत्॥८॥
(२०,१३२.९ ) क एषां दुन्दुभिं हनत्॥९॥
(२०,१३२.१० ) यदीयं हनत्कथं हनत्॥१०॥
(२०,१३२.११ ) देवी हनत्कुहनत्॥११॥
(२०,१३२.१२ ) पर्यागारं पुनःपुनः ॥१२॥
(२०,१३२.१३ ) त्रीण्युष्ट्रस्य नामानि ॥१३॥
(२०,१३२.१४ ) हिरण्य इत्येके अब्रवीत्॥१४॥
(२०,१३२.१५ ) द्वौ वा ये शिशवः ॥१५॥
(२०,१३२.१६ ) नीलशिखण्डवाहनः ॥१६॥
(२०,१३३.१ ) विततौ किरणौ द्वौ तावा पिनष्टि पूरुषः ।
(२०,१३३.१ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥१॥
(२०,१३३.२ ) मातुष्टे किरणौ द्वौ निवृत्तः पुरुषानृते ।
(२०,१३३.२ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥२॥
(२०,१३३.३ ) निगृह्य कर्णकौ द्वौ निरायछसि मध्यमे ।
(२०,१३३.३ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥३॥
(२०,१३३.४ ) उत्तानायै शयानायै तिष्ठन्ती वाव गूहसि ।
(२०,१३३.४ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥४॥
(२०,१३३.५ ) श्लक्ष्णायां श्लक्ष्णिकायां श्लक्ष्णमेवाव गूहसि ।
(२०,१३३.५ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥५॥
(२०,१३३.६ ) अवश्लक्ष्णमिव भ्रंशदन्तर्लोममति ह्रदे ।
(२०,१३३.६ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥६॥
(२०,१३४.१ ) इहेत्थ प्रागपागुदगधरागरालागुदभर्त्सथ ॥१॥
(२०,१३४.२ ) इहेत्थ प्रागपागुदगधराग्वत्साः पुरुषन्त आसते ॥२॥
(२०,१३४.३ ) इहेत्थ प्रागपागुदगधराक्स्थालीपाको वि लीयते ॥३॥
(२०,१३४.४ ) इहेत्थ प्रागपागुदगधराक्स वै पृथु लीयते ॥४॥
(२०,१३४.५ ) इहेत्थ प्रागपागुदगधरागास्ते लाहणि लीशाथी ॥५॥
(२०,१३४.६ ) इहेत्थ प्रागपागुदगधरागक्ष्लिली पुछिलीयते ॥६॥
(२०,१३५.१ ) भुगित्यभिगतः शलित्यपक्रान्तः फलित्यभिष्ठितः ।
(२०,१३५.१ ) दुन्दुभिमाहननाभ्यां जरितरोथामो दैव ॥१॥
(२०,१३५.२ ) कोशबिले रजनि ग्रन्थेर्धानमुपानहि पादम् ।
(२०,१३५.२ ) उत्तमां जनिमां जन्यानुत्तमां जनीन् वर्त्मन्यात्॥२॥
(२०,१३५.३ ) अलाबूनि पृषातकान्यश्वत्थपलाशम् ।
(२०,१३५.३ ) पिपीलिकावतश्वसो विद्युत्स्वापर्णशफो गोशफो जरितरोथामो दैव ॥३॥
(२०,१३५.४ ) वीमे देवा अक्रंसताध्वर्यो क्षिप्रं प्रचर ।
(२०,१३५.४ ) सुसत्यमिद्गवामस्यसि प्रखुदसि ॥४॥
(२०,१३५.५ ) पत्नी यदृश्यते पत्नी यक्ष्यमाणा जरितरोथामो दैव ।
(२०,१३५.५ ) होता विष्टीमेन जरितरोथामो दैव ॥५॥
(२०,१३५.६ ) आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन् ।
(२०,१३५.६ ) तां ह जरितः प्रत्यायंस्तामु ह जरितः प्रत्यायन् ॥६॥
(२०,१३५.७ ) तां ह जरितर्नः प्रत्यगृभ्णंस्तामु ह जरितर्नः प्रत्यगृभ्णः ।
(२०,१३५.७ ) अहानेतरसं न वि चेतनानि यज्ञान् एतरसं न पुरोगवामः ॥७॥
(२०,१३५.८ ) उत श्वेत आशुपत्वा उतो पद्याभिर्यविष्ठः ।
(२०,१३५.८ ) उतेमाशु मानं पिपर्ति ॥८॥
(२०,१३५.९ ) आदित्या रुद्रा वसवस्त्वेनु त इदं राधः प्रति गृभ्णीह्यङ्गिरः ।
(२०,१३५.९ ) इदं राधो विभु प्रभु इदं राधो बृहत्पृथु ॥९॥
(२०,१३५.१० ) देवा ददत्वासुरं तद्वो अस्तु सुचेतनम् ।
(२०,१३५.१० ) युष्मामस्तु दिवेदिवे प्रत्येव गृभायत्॥१०॥
(२०,१३५.११ ) त्वमिन्द्र शर्मरिणा हव्यं पारावतेभ्यः ।
(२०,१३५.११ ) विप्राय स्तुवते वसुवनिं दुरश्रवसे वह ॥११॥
(२०,१३५.१२ ) त्वमिन्द्र कपोताय छिन्नपक्षाय वञ्चते ।
(२०,१३५.१२ ) श्यामाकं पक्वं पीलु च वारस्मा अकृणोर्बहुः ॥१२॥
(२०,१३५.१३ ) अरंगरो वावदीति त्रेधा बद्धो वरत्रया ।
(२०,१३५.१३ ) इरामह प्रशंसत्यनिरामप सेधति ॥१३॥
(२०,१३६.१ ) यदस्या अंहुभेद्याः कृधु स्थूलमुपातसत्।
(२०,१३६.१ ) मुष्काविदस्या एजतो गोशफे शकुलाविव ॥१॥
(२०,१३६.२ ) यदा स्थूलेन पससाणौ मुष्का उपावधीत्।
(२०,१३६.२ ) विष्वञ्चा वस्या वर्धतः सिकतास्वेव गर्दभौ ॥२॥
(२०,१३६.३ ) यदल्पिकास्वल्पिका कर्कधूकेवषद्यते ।
(२०,१३६.३ ) वासन्तिकमिव तेजनं यन्त्यवाताय वित्पति ॥३॥
(२०,१३६.४ ) यद्देवासो ललामगुं प्रविष्टीमिनमाविषुः ।
(२०,१३६.४ ) सकुला देदिश्यते नारी सत्यस्याक्षिभुवो यथा ॥४॥
(२०,१३६.५ ) महानग्न्यतृप्नद्वि मोक्रददस्थानासरन् ।
(२०,१३६.५ ) शक्तिकानना स्वचमशकं सक्तु पद्यम ॥५॥
(२०,१३६.६ ) महानग्न्युलूखलमतिक्रामन्त्यब्रवीत्।
(२०,१३६.६ ) यथा तव वनस्पते निरघ्नन्ति तथैवेति ॥६॥
(२०,१३६.७ ) महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः ।
(२०,१३६.७ ) यथैव ते वनस्पते पिप्पति तथैवेति ॥७॥
(२०,१३६.८ ) महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः ।
(२०,१३६.८ ) यथा वयो विदाह्य स्वर्गे नमवदह्यते ॥८॥
(२०,१३६.९ ) महानग्न्युप ब्रूते स्वसावेशितं पसः ।
(२०,१३६.९ ) इत्थं फलस्य वृक्षस्य शूर्पे शूर्पं भजेमहि ॥९॥
(२०,१३६.१० ) महानग्नी कृकवाकं शम्यया परि धावति ।
(२०,१३६.१० ) अयं न विद्म यो मृगः शीर्ष्णा हरति धाणिकाम् ॥१०॥
(२०,१३६.११ ) महानग्नी महानग्नं धावन्तमनु धावति ।
(२०,१३६.११ ) इमास्तदस्य गा रक्ष यभ मामद्ध्यौदनम् ॥११॥
(२०,१३६.१२ ) सुदेवस्त्वा महानग्नीर्बबाधते महतः साधु खोदनम् ।
(२०,१३६.१२ ) कुसं पीवरो नवत्॥१२॥
(२०,१३६.१३ ) वशा दग्धामिमाङ्गुरिं प्रसृजतोग्रतं परे ।
(२०,१३६.१३ ) महान् वै भद्रो यभ मामद्ध्यौदनम् ॥१३॥
(२०,१३६.१४ ) विदेवस्त्वा महानग्नीर्विबाधते महतः साधु खोदनम् ।
(२०,१३६.१४ ) कुमारिका पिङ्गलिका कार्द भस्मा कु धावति ॥१४॥
(२०,१३६.१५ ) महान् वै भद्रो बिल्वो महान् भद्र उदुम्बरः ।
(२०,१३६.१५ ) महामभिक्त बाधते महतः साधु खोदनम् ॥१५॥
(२०,१३६.१६ ) यः कुमारी पिङ्गलिका वसन्तं पीवरी लभेत्।
(२०,१३६.१६ ) तैलकुण्डमिमाङ्गुष्ठं रोदन्तं शुदमुद्धरेत्॥१६॥
(२०,१३७.१ ) यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः ।
(२०,१३७.१ ) हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥१॥
(२०,१३७.२ ) कपृन् नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये ।
(२०,१३७.२ ) निष्टिग्र्यः पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥२॥
(२०,१३७.३ ) दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।
(२०,१३७.३ ) सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत्॥३॥
(२०,१३७.४ ) सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः ।
(२०,१३७.४ ) पवित्रवन्तो अक्षरन् देवान् गछन्तु वो मदाः ॥४॥
(२०,१३७.५ ) इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् ।
(२०,१३७.५ ) वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा ॥५॥
(२०,१३७.६ ) सहस्रधारः पवते समुद्रो वाचमीङ्खयः ।
(२०,१३७.६ ) सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥६॥
(२०,१३७.७ ) अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः ।
(२०,१३७.७ ) आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥७॥
(२०,१३७.८ ) द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः ।
(२०,१३७.८ ) नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥८॥
(२०,१३७.९ ) अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।
(२०,१३७.९ ) विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥९॥
(२०,१३७.१० ) त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र ।
(२०,१३७.१० ) गूल्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥१०॥
(२०,१३७.११ ) त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन् धृषितो जघन्थ ।
(२०,१३७.११ ) त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥११॥
(२०,१३७.१२ ) तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
(२०,१३७.१२ ) स वृषा वृषभो भुवत्॥१२॥
(२०,१३७.१३ ) इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।
(२०,१३७.१३ ) द्युम्नी श्लोकी स सोम्यः ॥१३॥
(२०,१३७.१४ ) गिरा वज्रो न संभृतः सबलो अनपच्युतः ।
(२०,१३७.१४ ) ववक्ष ऋष्वो अस्तृतः ॥१४॥
(२०,१३८.१ ) महामिन्द्रो य ओजसा पर्जन्यो वृष्टिमामिव ।
(२०,१३८.१ ) स्तोमैर्वत्सस्य वावृधे ॥१॥
(२०,१३८.२ ) प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।
(२०,१३८.२ ) विप्रा ऋतस्य वाहसा ॥२॥
(२०,१३८.३ ) कण्वाः इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् ।
(२०,१३८.३ ) जामि ब्रुवत आयुधम् ॥३॥
(२०,१३९.१ ) आ नूनमश्विना युवं वत्सस्य गन्तमवसे ।
(२०,१३९.१ ) प्रास्मै यछतमवृकं पृथु छर्दिर्युयुतं या अरातयः ॥१॥
(२०,१३९.२ ) यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषामनु ।
(२०,१३९.२ ) नृम्नं तद्धत्तमश्विना ॥२॥
(२०,१३९.३ ) ये वां दंसांस्यश्विना विप्रासः परिमामृशुः ।
(२०,१३९.३ ) एवेत्काण्वस्य बोधतम् ॥३॥
(२०,१३९.४ ) अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते ।
(२०,१३९.४ ) अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः ॥४॥
(२०,१३९.५ ) यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम् ।
(२०,१३९.५ ) तेन माविष्टमश्विना ॥५॥
(२०,१४०.१ ) यन् नासत्या भुरण्यथो यद्वा देव भिषज्यथः ।
(२०,१४०.१ ) अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गछथः ॥१॥
(२०,१४०.२ ) आ नूनमश्विनोरृषि स्तोमं चिकेत वामया ।
(२०,१४०.२ ) आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥२॥
(२०,१४०.३ ) आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना ।
(२०,१४०.३ ) आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥३॥
(२०,१४०.४ ) यदद्य वां नासत्योक्थैराचुच्युवीमहि ।
(२०,१४०.४ ) यद्वा वाणीभिरश्विनेवेत्कण्वस्य बोधतम् ॥४॥
(२०,१४०.५ ) यद्वां कक्षीवामुत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव ।
(२०,१४०.५ ) पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥५॥
(२०,१४१.१ ) यातं छर्दिष्पा उत परस्पा भूतं जगत्पा उत नस्तनूपा ।
(२०,१४१.१ ) वर्तिस्तोकाय तनयाय यातम् ॥१॥
(२०,१४१.२ ) यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा ।
(२०,१४१.२ ) यदादित्येभिरृभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥२॥
(२०,१४१.३ ) यदद्याश्विनावहं हुवेय वाजसातये ।
(२०,१४१.३ ) यत्पृत्सु तुर्वणे सनस्तच्छ्रेष्ठमश्विनोरवः ॥३॥
(२०,१४१.४ ) आ नूनं यातमश्विनेमा हव्यानि वां हिता ।
(२०,१४१.४ ) इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥४॥
(२०,१४१.५ ) यन् नासत्या पराके अर्वाके अस्ति भेषजम् ।
(२०,१४१.५ ) तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यछतम् ॥५॥
(२०,१४२.१ ) अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः ।
(२०,१४२.१ ) व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः ॥१॥
(२०,१४२.२ ) प्र बोधयोषो अश्विना प्र देवि सूनृते महि ।
(२०,१४२.२ ) प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत्॥२॥
(२०,१४२.३ ) यदुषो यासि भानुना सं सूर्येण रोचसे ।
(२०,१४२.३ ) आ हायमश्विनो रथो वर्तिर्याति नृपाय्यम् ॥३॥
(२०,१४२.४ ) यदापीतासो अंशवो गावो न दुह्र ऊधभिः ।
(२०,१४२.४ ) यद्वा वाणीरनुषत प्र देवयन्तो अश्विना ॥४॥
(२०,१४२.५ ) प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे ।
(२०,१४२.५ ) प्र दक्षाय प्रचेतसा ॥५॥
(२०,१४२.६ ) यन् नूनं धीभिरश्विना पितुर्योना निषीदथः ।
(२०,१४२.६ ) यद्वा सुम्नेभिरुक्थ्या ॥६॥
(२०,१४३.१ ) तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना संगतिं गोः ।
(२०,१४३.१ ) यः सूर्यां वहति वन्धुरायुर्गिर्वाहसं पुरुतमं वसूयुम् ॥१॥
(२०,१४३.२ ) युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः ।
(२०,१४३.२ ) युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥२॥
(२०,१४३.३ ) को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः ।
(२०,१४३.३ ) ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत्॥३॥
(२०,१४३.४ ) हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् ।
(२०,१४३.४ ) पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥४॥
(२०,१४३.५ ) आ नो यातं दिवो अछ पृथिव्या हिरण्ययेन सुवृता रथेन ।
(२०,१४३.५ ) मा वामन्ये नि यमन् देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् ॥५॥
(२०,१४३.६ ) नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथामुभयेष्वस्मे ।
(२०,१४३.६ ) नरो यद्वामश्विना स्तोममावन्त्सधस्तुतिमाजमील्हासो अग्मन् ॥६॥
(२०,१४३.७ ) इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना ।
(२०,१४३.७ ) उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक्॥७॥
(२०,१४३.८ ) मधुमतीरोषधीर्द्याव आपो मधुमन् नो भवत्वन्तरिक्षम् ।
(२०,१४३.८ ) क्षेत्रस्य पतिर्मधुमान् नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥८॥
(२०,१४३.९ ) पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः ।
(२०,१४३.९ ) सहस्रं शंसा उत ये गविष्टौ सर्वामित्तामुप याता पिबध्यै ॥९॥